रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 652 of 735
Read in context| सप्तदशः सर्गः | ५९३ |
|---|
अन्वयः—अश्वमेधाय जिगीषोः अस्य विचेष्टितं यद्यपि पराभिसंधानपर ( तथापि ) तत् धर्म्यं एव बभूव ।
परेति । अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजय रूपं यद्यपि पराभिसंधान-परं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः । बभूव । ‘मन्त्रप्रभावोत्साहशक्तिभिः परान्सन्दध्यात्’ इति कौटिल्यः ।
भाषार्थ—अश्वमेध यज्ञ करने के लिए वे दिग्विजय करने निकले तब इनका काम यद्यपि शत्रुओं को जिस-तिस प्रकार हराना ही था पर उस समय भी उन्होंने धर्म से ही काम लिया कूटनीति, या छल से नहीं ॥ ७६ ॥
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ ७७ ॥
अन्वयः—शास्त्रनिर्दिष्टवर्त्मना प्रभावेण उद्यन् सः वृषा देवानां देव इव राज्ञां राजा बभूव ।
एवमिति । एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्ड-जेन तेजसा । ‘स प्रभावः प्रतापश्च तत्तेजः कोशदण्डजम्’ इत्यमरः । उद्यन्नुद्युञ्जानः सः वृषा वासवो देवानां देवो देवदेव इव राज्ञां राजा राजराजो बभूव ।
भाषार्थ—इस प्रकार शास्त्रों के अनुसार चलने से अतिथि का प्रभाव बढ़ गया और जैसे इन्द्र देवों के देव हैं वैसे ही अतिथि भी राजाओं के राजा हो गये ॥७७॥
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ ७८ ॥
अन्वयः—तं साधर्म्ययोगतः लोकपालानां पञ्चमं ऊचुः महतां भूतानां षष्ठं ( ऊचुः ) कुलभूभृतां अष्टमं ( ऊचुः ) ।
पञ्चममिति । तम् राजानमिति शेषः । साधर्म्ययोगतो यथाक्रमं लोकसंरक्षण-परोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चम-मूचुः । महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनामष्टममूचुः ।
भाषार्थ—इन्द्र आदि चारों लोकपालों के समान पराक्रम होने के कारण लोग उन्हें पाचवाँ लोकपाल कहने लगे । पृथिव्यादि पाँचों तत्त्वों के समान महान् होने के कारण लोग उन्हें छठा तत्त्व कहते थे और हिमालय आदि सात कुल पर्वतों के समान विशाल होने के कारण वे आठवें कुलपर्वत कहलाते थे ॥७८॥
३८ र० सम्पू०