रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 573 of 735
Read in context५१४ रघुवंशमहाकाव्ये
**भाषार्थ—**राम ने उन आभूषणों को लेकर अपनी उन भुजाओं में बाँध लिया जो सीता के बन चले जाने के कारण उनके कण्ठ में पड़ने से वञ्चित हो गये थे। राम के अयोध्या आने के पहले ही वह ब्राह्मण का वह पुत्र जी उठा ॥ ५६ ॥
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥ ५७ ॥
**अन्वयः—**पुत्रसमागतः द्विजः वैवश्वतात् अपि त्रातुः तस्य पूर्वोदितां निन्दां स्तुत्या निवर्तयामास ।
तस्येति । पुत्रसमागतः पुत्रेण संगतो द्विजो वैवस्वतादन्तकादपि त्रातू रक्ष कस्य । 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ।
**भाषार्थ—**पुत्र के जी उठने पर उस ब्राह्मण ने राम की बड़ी स्तुति की और पहले जो निन्दा की थी उसे अपनी स्तुति से उसने धो डाला, क्योंकि राम ने उसके पुत्र को यमराज के हाथों से छुड़ाया था ॥ ५७ ॥
तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ ५८ ॥
**अन्वयः—**अध्वराय मुक्ताश्वं तं रक्षःकपिनरेश्वराः मेघाः अम्भोभिः सस्यं इव उपायनैः अभ्यवर्षन् ।
तमिति । अध्वरायाश्वमेघाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्वराः सुग्रीव-विभीषणादयो राजानश्च मेघा अम्भोभिः सस्यमिव उपायनैरभ्यवर्षन् ।
**भाषार्थ—**कुछ दिनों के बाद राम ने अश्वमेध यज्ञ के लिए घोड़ा छोड़ा, जिस प्रकार बादल धान के खेत पर पानी बरसाते हैं उसी प्रकार सुग्रीव-विभीषण आदि ने आकर राम के आगे भेंट के धन की वर्षा कर दी ॥ ५८ ॥
दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ ५९ ॥
**अन्वयः—**निमन्त्रिता महर्षयः च भौमानि धिष्ण्यानि एव न ज्योतिर्मयानि अपि हित्वा दिग्भ्यः एनम् अभिजग्मुः ।
दिग्भ्य इति । निमन्त्रिता आहूता महर्षयश्च भूम्याः सम्बन्धीनि भौमानि धिष्ण्यानि स्थानान्येव न । 'धिष्ण्यं स्थाने गृहे भेऽग्नौ' इत्यमरः । किन्तु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ।
**भाषार्थ—**राम ने यज्ञ के लिए तीनों लोकों के ऋषियों को निमन्त्रित