Skip to content
SarvaKosh
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

Page 509 of 735

Read in context
Page 509

४५० रघुवंशमहाकाव्ये

ऋतु के उन बादलों के समान जान पड़ती हैं जिनके बीच-बीच में नीला आकाश झांक रहा हो। कहीं भस्म लगाये हुए शिवजी के उस शरीर के समान दिखाई दे रही हैं जिस पर काले-काले सर्प लिपटे हों। इस प्रकार यमुना की लहरों से मिली गंगाजी सुन्दर लग रही हैं ॥ ५४, ५५, ५६, ५७ ॥

समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात्।
तत्त्वावबोधेन विनाऽपि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ ५८ ॥

**अन्वयः—**अत्र समुद्रपत्ल्योः सन्निपाते अभिषेकात् पूतात्मनां तत्त्वावबोधेन विना अपि तनुत्यजां भूयः शरीरबन्धः नास्ति ।

समुद्रेति। अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते सङ्गमेऽभिषेकात्स्नानात्पूतात्मनां शुद्धात्मनां तत्त्वावबोधेन तत्वज्ञानेन विनाऽपि तनुत्यजां प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल। अन्यत्र ज्ञानादेव मुक्तिः, अत्र तु स्नानादेव मुक्तिरित्यर्थः ।

**भाषार्थ—**यहाँ गंगा यमुना दोनों नदियों के संगम में जो स्नानकर पवित्र हो जाते हैं, वे तत्त्वज्ञानी न होने पर भी संसार बन्धनों से छूट जाते हैं। फिर शरीर धारण नहीं करते ॥ ५८ ॥

पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि ! कामाः फलितास्तवेति ॥ ५९ ॥

**अन्वयः—**निषादाधिपतेः तत् पुरम् इदं यस्मिन् मया मौलिमणिं विहाय जटासु बद्धासु सुमन्त्रः 'हे कैकेयि ! तव कामाः फलिता' इति अरुदत् ।

पुरमिति। निषादाधिपतेर्गुहस्य तत्पुरमिदम्, यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः 'हे कैकेयि ! तव कामा मनोरथाः फलितः सफलाः जाताः' इत्यरुदत् । 'रुदिर् अश्रुविमोचने' इति धातोलुँङ् ।

**भाषार्थ—**यह आगे निषादराज गुह का शृङ्गवेरपुर नामक नगर है जहाँ मैंने अपना मुकुटमणि उतार कर जटा बांधी थी और जिसे देखकर सुमन्त्र यह कहकर रोने लगे थे कि हे कैकेयी ! तेरी इच्छा सफल हो गई ॥ ५९ ॥

पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ ६० ॥

**अन्वयः—**पुण्यजनाङ्गनानां पयोधरैः निर्विष्टहेमाम्बुजरेणुः ब्राह्मं सरः यस्याः बुद्धेः अव्यक्तम् कारणम् आप्तवाचः उदाहरन्ति ।

पयोधरैरिति । पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपमुक्तो