रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 406 of 735
Read in contextदशमः सर्गः ३४७
कुमारा इति । कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातृणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे । कुमारवृद्धया पितामहान्तमानन्दमवापेत्यर्थः । कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ।
भावार्थ—इन पुत्रों के उत्पन्न होने से पहले राजा दशरथ के हृदय में बड़ा आनन्द उत्पन्न हुआ । उस प्रथम उत्पन्न पिता के आनन्द के साथ जातकर्मादि संस्कारों से संस्कृत तथा धाई के दूध पीने वाले कुमार भी बढ़ने लगे ॥ ७८ ॥
स्वाभाविकं विनीतत्वं विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ ७९ ॥
अन्वयः—तेषां स्वाभाविकं विनीतत्वं विनयकर्मणा हविर्भुजां सहजं तेजः हविषा इव मुमूर्च्छ ।
स्वाभाविकमिति । तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव । मुमूर्च्छ ववृधे । निःसर्गसंस्काराभ्यां विनीता इत्यर्थः ।
भाषार्थ—जिस प्रकार घी आदि पड़ने से अग्नि का स्वाभाविक तेज बढ़ जाता है, उसी प्रकार राम आदि का स्वाभाविक विनय आदि उत्तमशिक्षा से और भी अधिक बढ़ गया ॥ ७९ ॥
परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥
अन्वयः—परस्पराविरुद्धाः ते तद् अनघं रघोः कुलम् ऋतवः देवारण्यम् इव अलम् उद्द्योतयामासुः ।
परस्परेति । परस्पराविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमाराः तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव । सहजविरोधानामप्यूतूनां सहावस्थानसंभावनार्थं देवविशेषणम् । अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ।
भाषार्थ—जिस प्रकार सर्वदा सब प्रकार के पुष्पों की सम्पत्ति से परस्पर अविरोधी ऋतुओं ने नन्दन वन की शोभा बढ़ाई, उसी प्रकार परस्पर प्रेम से उन चारों राजकुमारों ने रघुकुल की शोभा बढ़ाई ॥ ८० ॥
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥