प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
by कृष्णमिश्र यति
About this granth
Prabodhachandrodaya (प्रबोधचन्द्रोदयम्), 'The Rise of the Moon of Awakening', is an allegorical Sanskrit play by Krishnamishra, generally dated to the eleventh century and the reign of the Chandela king Kirtivarman. Its characters are not people but qualities and ideas: Discrimination, Delusion, Desire, Anger, Hypocrisy, Peace, Compassion, Faith and the Upanishad personified. When Discrimination is united with the Upanishad, Awakening is born, and the play turns Advaita Vedanta's account of liberation into drama.
Over six acts the play moves from the rise of Delusion's forces, through satirical scenes of hypocrisy and of rival sects, to the search for Faith, the marshalling of Discrimination's army, the defeat of Delusion and the triumph of dispassion.
This is the 1955 edition from the Chowkhamba Vidya Bhawan, Banaras, with a commentary called Prakasha. In his introduction the commentator mentions two earlier commentaries, by Nandillagopa and by Ramadasa Dikshita, and an English translation, and explains that he wrote his own for the ordinary reader.
षष्ठोऽङ्कः २२५
यस्माद्विश्वमित्यादि पठितम् ।
पुरुषः—ततस्ततः ।
उपनिषत्—ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभिहितम् ।
अस्त्येवास्माकमस्याः लोकान्तरफलोपभोगयोग्यपुरुषोपनयनेनोपयोगः ।
तत्क्रियतामेषा कर्मोपयुक्ता । तत्र तेषामन्तेवासिनां मध्ये केनाप्यन्तेवासि-
नैतदनुमोदितमेव । अपरेण तु प्रसिद्धप्रतिष्ठेन मीमांसाहृदयाधिदैवतेन
कुमारिलस्वामिनैवं प्रोक्तम् देवि, नेयं कर्मोपयुक्तं पुरुषमुपनयति, किंतु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६. षष्ठ अङ्क: उपनिषद् समागम, प्रबोधचन्द्रोदय एवं जीवन्मुक्ति
२२६ प्रबोधचन्द्रोदयम्
एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी-
रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने ।
एकः कर्मसु शिष्यते तनुभृतां शास्तैव देवोऽपरो
निःसङ्गः पुरुषः क्रियासु स कथं कर्तेति संभाव्यते ॥ १६ ॥
राजा—(सहर्षम्) साधु कुमारिलस्वामिन्, साधुप्रज्ञोऽस्यायुष्मन्,
द्वौ तौ सुपर्णौ सयुजौ सखायौ
समानवृक्षं परिषस्वजाते ।
असौ-अकर्त्ताऽभोक्ता च । कर्मसु-यागादिषु ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २२७
एकस्तयोः पिप्पलमत्ति पक्व-
मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥
पुरुषः—ततस्ततः।
उपनिषत्—ततोऽहं मीमांसामभिमन्त्र्य प्रस्थिता।
पुरुषः—ततस्ततः।
उपनिषत्—ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अव-
लोकिताः।
काचिद्वित्वविशेषकल्पनपरा न्यायैः परा तन्वती
वादं सच्छलजातिनिग्रहमयैर्जल्पं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२२८ प्रबोधचन्द्रोदयम्
अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां
तत्त्वानां गणनापरा महदहंकारादिसर्गक्रमैः ॥ २१ ॥
पुरुषः—ततस्ततः ।
उपनिषत्—तथैवाहं ताः समुपस्थिताः । ताभिश्चानुयुक्तया मया तदेव
यो विशेषः तस्य कल्पने सक्ता, यद्वा द्वित्वस्य प्रागुक्तस्य विशेषस्य 'अन्त्यो नित्य-
द्रव्यवृत्तिः' इति लक्षितस्य पदार्थभेद एव कल्पने निरूपणे परा लग्ना, परा गौतमी
न्यायविद्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २२६
कर्मोदाहृतम् । यस्माद्विश्वमित्यादि । ततस्ताभिः सप्रकाशोपहास-
मुक्तम्—आः वाचाले, परमाणुभ्यो विश्वमुत्पद्यते । निमित्तकारणमीश्वरः ।
अन्यया तु सक्रोधमुक्तम्—आः पापे, कथमीश्वरमेव विकारिणं कृत्वा
विनाशधर्मिणमुपपादयसि । ननु रे प्रधानाद्विश्वोत्पत्तिः ।
राजा—अहो दुर्मतयस्तर्कविद्या एतदपि न जानन्ति । सर्वं प्रमेय-
जातं घटादिवत्कार्यमिति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३० प्रबोधचन्द्रोदयम्
शुक्तौ रूप्यमिव स्रजीव भुजगः स्वात्मावबोधे हरा-
वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ॥ २२ ॥
विकारशङ्का तु मुग्धवधूविकल्पविलसितमिव । तथाहि—
शान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं
विश्वोत्पत्तौ व्रजति विकृतिं निष्कलं निर्मलं च ।
शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां
प्रादुर्भावे भवति नभसः कीदृशो वा विकारः ॥ २३ ॥
यि च, स्वप्नः प्रसिद्धः,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २३१
पुरुषः—साधु साधु, प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः ।
( उपनिषदं प्रति ) ततस्ततः ।
उपनिषत्—ततस्ताभिः सर्वाभिरेव क्रुद्धाभिरुक्तम्—अहो, विश्व-
विलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः
ससंरम्भं मां निग्रहीतुं प्रधाविताः सर्वाः ।
पुरुषः—( सत्रासम् ) ततस्ततः ।
उपनिषत्—ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्यं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३२ प्रबोधचन्द्रोदयम्
इत्याद्यवस्था मम संजाता ।
पुरुषः-ततस्ततः ।
उपनिषत्-ततो देवायतनान्निर्गत्य गदापाणिभिः पुरुषैरतिनिर्दयं
ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः ।
राजा-(सहर्षम् ) न खलु भवतीमतिक्रामतो भगवान् विश्वसाक्षी
क्षमते ।
पुरुषः-ततस्ततः ।
उपनिषत्-
छिन्ना मुक्तावलिरपहृतं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २३३
तत्र वत्सया गीतया मां तत्रागतामालोक्य ससंभ्रमं मातर्मातरिति
परिरभ्योपवेशितास्मि । विदितवृत्तान्तया तया चोक्तम् । अम्ब, नात्र
खेदयितव्यं मनः। ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुरसत्त्वाः प्रचरि-
ष्यन्ति तेषामीश्वर एव शास्ता । उक्तं च तेन भगवता तानधिकृत्य ।
तथा च गीतायाम्—'तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्य-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३४ प्रबोधचन्द्रोदयम्
उपनिषत्—एवमेतत् । तथाहि—
असौ त्वदन्यो न सनातनः पुमान्
भवान्न देवात्पुरुषोत्तमात्परः ।
स एष भिन्नस्त्वदनादिमायया
द्विधेव विम्बं सलिले विवस्वतः ॥ २५ ॥
पुरुषः—(विवेकं प्रति) भगवन्, उक्तमप्यर्थं भगवत्या न सम्यगव-
धारयामि ।
अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः ।
मम ब्रवीति देव्येयं सत्यानन्दचिदात्मताम् ॥ २६ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २३५
विवेकः—पदार्थानवज्ञानाद्वाक्यार्थो नावगम्यते । आर्येणोक्तं तत्स-
त्यमेव ।
पुरुष.—तदवबोधाय भगवानुपायमाज्ञापयतु ।
विवेकः—अयमुच्यते—
एषोऽस्मीति विविच्य नेतिपदतश्चित्तेन सार्धं कृते
तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः ।
श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं तदात्मप्रभं
शान्तं ज्योतिरनन्तमन्तरुदितानन्दः समुद्योतते ॥ २७ ॥
लक्ष्यत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३६ प्रबोधचन्द्रोदयम्
पुरुषः—( सानन्दम् ) श्रुतमर्थं परिभावयति ।
( ततः प्रविशति निदिध्यासनम् )
निदिध्यासनम्—आदिष्टोऽस्मि भगवत्या विष्णुभक्त्या । यथा निगूढ-
मस्मदभिप्रायमुपनिषद्विवेकेन सह बोधयितव्या । त्वया च पुरुषे वस्त-
व्यमिति । ( विलोक्य ) एषा देवी विवेकपुरुषाभ्यां नातिदूरे वर्तते । याव-
दुपसर्पामि ( उपसृत्य उपनिषदं प्रति जनान्तिकम् ) देव्या विष्णुभक्त्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २३७
उपनिषत्—यदादिशति देवी । ( इति विवेकमादाय निष्क्रान्ता )
( निदिध्यासनं पुरुषो विशति )
पुरुषः—( ध्यानं नाटयति )
( नेपथ्ये आश्चर्यमाश्चर्यम् )
उद्दामद्युतिदामभिस्तडिदिव प्रद्योतयन्ती दिशः
प्रत्यग्रस्फुटदुत्कटास्थि मनसो निर्भिद्य वक्षःस्थलम् ।
कन्येयं सहसा समं परिकरैर्मोहं ग्रसन्ती भज-
त्यन्तर्धानमुपैति चैकपुरुषं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३८ प्रबोधचन्द्रोदयम्
प्रबोधोदयः-
किं वाप्तं किमपोहितं किमुदितं किं वा समुत्सारितं
स्यूतं किं नु विलायितं नु किमिदं किञ्चिन्न वा किञ्चन ।
यस्मिन्नभ्युदिते वितर्कपदवीं नैवं समारोहति
त्रैलोक्यं सहजप्रकाशदलितं सोऽहं प्रबोधोदयः ॥ २६ ॥
( परिक्रम्य ) एष पुरुषः । यावदुपसर्पामि । ( उपसृत्य ) भगवन् , प्रबोध-
चन्द्रोदयोऽहमभिवादये ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषष्ठोऽङ्कः २३६
मोहान्धकारमवधूय विकल्पनिद्रा-
मुन्मथ्य कोऽप्यजनि बोधतुषाररश्मिः ।
श्रद्धाविवेकमतिशान्तिमयादिकेन
विश्वात्मकः स्फुरति विष्णुरहं स एषः ॥ ३० ॥
र्वथा कृतकृत्योऽस्मि भगवत्या विष्णुभक्तेः प्रसादात् । सोऽह-
म्—
सङ्गं न केनचिदुपैत्य किमप्यपृच्छन्
गच्छन्नतर्कितफलं विदिशं दिशं वा ।
शान्तो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४० प्रबोधचन्द्रोदयम्
(ततः प्रविशति विष्णुभक्तिः)
विष्णुभक्तिः—(सहर्षमुपसृत्य) चिरेण खल्वस्माकं संपन्नाः सर्वे
मनोरथाः। येन प्रशान्तारातिं भवन्तमवलोकयामि।
पुरुषः—देव्या विष्णुभक्तेः प्रसादात्किं नाम दुष्करम्। (इति
पादयोः पतति)
विष्णुभक्तिः—(पुरुषमुत्थापयति) उत्तिष्ठ वत्स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्तां
राजानः क्ष्मा गलितविविधोपप्लवाः पालयन्तु ।
हृत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महान्तः
संसारान्धिं विषयममतातङ्कपङ्कं तरन्तु ॥ ३३ ॥
( इति निष्क्रान्ताः सर्वे )
इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके
जीवन्मुक्तिर्नाम
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४२ प्रबोधचन्द्रोदयम्
क्षीणीचन्द्रखबाहुसम्मितशरच्छाशातिथौ फाल्गुने
चन्द्रे पुष्यति देवपूज्यदिवसे श्रीशारदानुग्रहात् ।
रांचीस्थायिनि राज्यसंस्कृतमहाविद्यालये पूर्णता-
मानीतेयमुमामहेश्वरपदाम्भोजेषु विश्राम्यतु ॥ २ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inनोट्स
( विशेष विवरण )
१ शान्तरसप्रयोगाभिनयेन
इसका अर्थ यह हुआ कि शान्तरसप्रधान नाटकके अभिनयसे । यहाँ विचार करना है
कि शान्तरसवाला नाटक या रूपकसामान्य तो रीतिशास्त्रविरुद्ध है फिर नाटकको यहाँ
शान्तरस यह विशेषण क्यों दिया ? ‘एक एव भवेदङ्गी शृङ्गारो वीर एव वा’ इस वचनके
अनुसार नाटकादिमें तदितररसप्राधान्य अयुक्त है, अत एव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४४ प्रबोधचन्द्रोदयम्
३ आत्मतनयां प्रजानाथोऽयासीत्
ब्रह्मा ने अपनी कन्या शतरूपा के साथ मैथुन का प्रयास किया। ब्रह्मवैवर्त्त में
यह कथा आई है, दण्डी कविने भी दशकुमारमे इस कथाका उल्लेख किया है, पुष्पदन्त-
कृत महिम्नः स्तोत्रमें भी इसकी चर्चा है—‘प्रजानाथं नाथ, प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा’
४ अधीराक्ष्याः
यहाँ पर यद्यपि अधीराक्षी पद विशेषणमात्र वाचक
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in