Skip to content
SarvaKosh
Back to the archive

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

by कृष्णमिश्र यति

Report a copyright issue

DevanagariHindipublished274 pages

About this granth

Prabodhachandrodaya (प्रबोधचन्द्रोदयम्), 'The Rise of the Moon of Awakening', is an allegorical Sanskrit play by Krishnamishra, generally dated to the eleventh century and the reign of the Chandela king Kirtivarman. Its characters are not people but qualities and ideas: Discrimination, Delusion, Desire, Anger, Hypocrisy, Peace, Compassion, Faith and the Upanishad personified. When Discrimination is united with the Upanishad, Awakening is born, and the play turns Advaita Vedanta's account of liberation into drama.

Over six acts the play moves from the rise of Delusion's forces, through satirical scenes of hypocrisy and of rival sects, to the search for Faith, the marshalling of Discrimination's army, the defeat of Delusion and the triumph of dispassion.

This is the 1955 edition from the Chowkhamba Vidya Bhawan, Banaras, with a commentary called Prakasha. In his introduction the commentator mentions two earlier commentaries, by Nandillagopa and by Ramadasa Dikshita, and an English translation, and explains that he wrote his own for the ordinary reader.

Page 202
Page 202 scan

१८४ प्रबोधचन्द्रोदयम्
स्वति, गच्छापत्यव्यसनखिन्नस्य मनसः प्रबोधनाय । यथा च तस्य
वैराग्योत्पत्तिर्भवति तथा यतस्वे'ति । तद्भवतु । तत्संनिधिमेवोपसर्पामि ।
( उपसृत्य ) वत्स, किमेवमतिविक्लवोऽसि, ननु विदितपूर्व्वं भवता भावा-
नामनित्यता, अवीतानि च त्वयैतिहासिकान्युपाख्यानानि । तथाहि—
भूत्वा कल्पशतायुषोऽम्बुजभवः सेन्द्राश्च देवासुरा
मन्वाद्या मुनयो मही जलधयो नष्टाः परं कोटयः ।
मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः
अत्र मनसः प्रबोधनाय विष्णुभक्त्या प्रेषितायाः सरस्वत्यास्तथा भवत्वित्युक्त्या
स्वशक्तिप्रकटनप्रतीतेर्व्यवसायाख्यं विमर्शसन्धेरङ्गमुक्तम्-तल्लक्षणं यथा-‘व्यवसायः
स्वशक्त्युक्तिः' इति ।
अतिविक्लवः-अतिखिन्नः । विदितपूर्वा-पूर्वत एव ज्ञाता । भावानाम्-सांसा-
रिकसकलपदार्थानाम्, अनित्यता-विनश्वरता । अधीतानि-पठितानि । ऐतिहा-
सिकानि-महाभारतादीतिहासप्रसिद्धानि, आख्यानानि-कथाः । ऐतिहासिककथाः
पठितवतो युक्त्या चास्य संसारस्य विनाशशीलतां ज्ञातवतस्तवातिवैकलव्यं नोप-
पद्यते, तच्चेदं क्षुद्र हृदयेवैकल्यमिति भावः । संसारस्यानित्यतायां युक्तिश्चानुमान-
मेव-‘सर्वे भावा विनाशिनः उत्पत्तिमत्त्वात्’ । न च चातुर्मासफलस्याक्षय्यत्वश्रुतेर
सिद्धो हेतुरिति वाच्यम् , तस्याः श्रुतेरर्थवादपरत्वे नित्यत्वासाधकत्वात् ॥
भूत्वेति० अम्बुज भवः ब्रह्मा, सेन्द्राः इन्द्रेणसहिताः देवासुराः देवा दानवाश्च ,
मन्वाद्याः मनुप्रभृतयः मुनयः ऋषयः, कोटयः तावत्सङ्ख्यका जलधयः समुद्रादयः,
मही एषा पृथ्वी च एते सर्वे कल्पशतायुषः ( कल्पो युगचतुष्टयम् शतपदमसङ्ख्या-
ततापरकम् ) अपरिमितियुगचतुष्टयपरिमितजीवनकालाः भूत्वाऽपि परम् अत्यर्थं
नष्टाः विनाशं गताः, ( येषां कल्पशतमायुस्तथाभूता ब्रह्माणो दैत्या दानवाः महर्षयः
ससागराचेय धरा यदि नष्टा ) तदा सिन्धोः सागरस्य फेनसमै फेनतुल्ये क्षिप्रविना-
शिनि पञ्चात्मके क्षित्यादिपञ्चकनिर्मिते वपुषि काये पञ्चताम् मृत्युम् गते, अहो
आश्चर्यम् , लोकस्य संसारस्य शोकावहः खेदप्रदः कोऽयं महान् मोहः चित्तवैकलव्य-
दुःखित मनको प्रबोधित करो। जिससे उसे वैराग्य उत्पन्न हो वैसा प्रयत्नकरौ। अतः
उसीके पास चलें। (समीप जाकर) बेटा, इस तरह उदास क्यों हो ? तुमतो पदार्थोंकी
अनित्यताको पहलेसेही जानते हो। तुमने ऐतिहासिक उपाख्यान भी पढ़ा है। देखो —
सौ कल्पोंकी आयु प्राप्त करके भी कड़ोरो-ब्रह्मा, इन्द्र आदि देवगण, मनु आदि मुनि
गण, यह पृथ्वी और समुद्र नष्ट हो गये, फिर लोगोंको सिन्धुके फेनके सदृश पञ्चतत्त्वा -

Page 203
Page 203 scan

पञ्चमोऽङ्कः १८५
सिन्धोः फेनसमे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १४ ॥
तद्भावय भावानामनित्यताम् । नित्यमनित्यवस्तुदर्शिनो न पश्यति
शोकावेगम् । यतः—
एकमेव सदा ब्रह्म सत्यमन्यद्विकल्पितम् ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ १५ ॥
मुदयते प्रादुरास्ते । कल्पशतायुषां तेषां तेषां पदार्थानामपि जाते नाशे यदि लोकः
क्षित्यादिपञ्चकसमुदायात्मनो वपुषो विघटनरूपपञ्चताप्राप्त्या दारुणं शोकमनुभवति
महदाश्चर्यमिदमिति तात्पर्यम् । पृथिवीजलतेजोव्योमवायवः पञ्चतत्त्वानि, तेषामेव
पञ्चीकारेणास्य सचराचरस्य जगतो जन्म, तद्विघटनेन चापाय इति सिद्धान्तमनु-
रुध्यायं श्लोकः । पञ्चीकरणप्रकारो यथा 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः
स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते' । इति पञ्चात्मकस्य पञ्चताप्राप्तिस्तु क्लृप्तैव
न तत्र कोऽपि हेतुराश्चर्यस्याथापि लोकानां व्यवहार आश्चर्यमुद्भावयतीति पर-
मार्थः। ‘कल्पो युगचतुष्टयम्’ ‘धानाब्जयोनिर्द्रुहिणः' इत्युभयत्राभिधानप्रकाशः ।
शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥
तत्-संसारस्य विनाशित्वात् । भावानाम्-सर्वेषां पदार्थानाम् । अनित्यताम्-
विनाशिभावम् । भावय-विचारेण निर्धारय ।
नित्यम्-अहरहः । अनित्यवस्तुदर्शनः संसारस्थितानित्यवस्तुद्रष्टा । शोका-
वेगम्-दुःखातिशयम् । अहरहर्जगतोऽनित्यस्य क्षयं वीक्षमाणो जातस्य ध्रुवमृत्यु-
कताप्रत्ययेन स्ववन्धावपि व्यसनग्रस्ते नानुभवति विषादमिति भावः ।
एकमेवेति० सदा सर्वदा त्रिकालाबाध्यभावेन एकमेव सजातीयद्वितीयशून्यम्
ब्रह्म सत्यम् परमार्थसत् , अन्यत् ततो भिन्नम् कल्पितम् शुक्तिकायां रजतमिव
अध्यस्तम् । हि तस्मात् एकत्वमनुपश्यतः जगतो ब्रह्माभेदं भावयतः को मोहः
कीदृशं मूढबुद्धित्वम् , तत्र तस्यां स्थितौ कः शोकः कीदृशः खेदः ? ब्रह्मैवैकं परमार्थ-
सत्यं तदन्यत्सर्वं कल्पितमिति वस्तुतत्त्वं विभावयतो जनस्य मोहशोकौ नोदेतुमर्हत-
स्तद्भावयन् भुवनत्रय नाशस्वभावकतां जहिहीदं स्वीयधैर्यमिति भावः ॥ १५ ॥
त्मक शरीरके पञ्चत्व प्राप्त कर लेने पर शोकावह मोह क्यों हुआ करता है ॥ १४ ॥
इसलिये पदार्थों की अनित्यताकी भावना किया करो । जिसे वस्तुओंकी अनित्यता
दीखने लगती है उसे शोकका आवेग नहीं सताता है ।
एक ब्रह्म ही सत्य है और सभी कल्पित अतः अनित्य हैं, तो फिर जिसे ब्रह्मात्मैक्य
ज्ञान हो जायगा वह क्यो शोक या मोह करेगा ! ॥ १५ ॥

Page 204
Page 204 scan

१८६ प्रबोधचन्द्रोदयम्
मनः— भगवति, शोकावेगदूषिते मनसि विवेक एवमनवकाशं लभते ।
सरस्वती— वत्स, स्नेहदोष एषः । प्रसिद्ध एवायमर्थः स्नेहः सर्वा-
नर्थप्रभव इति । तथाहि—
उष्यन्ते विषवल्लिवीजविषमाः क्लेशाः प्रियाख्या नरै-
स्तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः ।
येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनै-
र्देहं दोप्तशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ १६ ॥
'भगवति' इदं सरस्वतीसंबोधनम् । शोकावेगदूषिते–शोकसन्तप्ते । विवेकः–
विचारः । अतिशयितशोकावेगयुते मम मनसि किं नित्यं किमनित्यमिति विचार
एव नास्पदं लभतेऽतो न शक्नोमि विचारलभ्यं धैर्यं समालम्बितुमिति भावः ।
स्नेहदोषः–प्रेम्णोऽपराधः । त्वमात्मजनेषु बहुस्निह्यस्य त एवेदं तवाधैर्यमिति
भावः । सर्वानर्थप्रभवः–सर्वेषां वधबन्धाद्यनर्थानां जन्मभूमिः ।
उष्यन्त इति० विषवल्लिवीजविषमाः विषलतावीजवन्मारकत्या भयङ्कराः
क्लेशाः दुःखानि प्रियाख्याः पुत्रमित्रकलत्रादिनामभाजः प्रियाख्याः नरैः मनुष्यैः
उष्यन्ते वपनकर्मा क्रियन्ते, नराणां यत्पुत्रादिषु प्रिय इति ज्ञानं तत्तेषां विषवल्लि-
बीजवपनकल्पमिति, यतस्तेनैवास्य महतोऽनर्थप्ररोहस्य प्रभव इति । विषवल्लिबी-
जत्वोक्त्या तीव्रदाहप्रदत्वं ध्वनितम् । तेभ्यः नरैरुप्तेभ्यः प्रियत्वाभिमानरूपविषवल्लि-
बीजेभ्यः न चिरात् अतिशीघ्रम् स्नेहमयाः प्रेमरूपाः वज्राग्निगर्भाङ्कुराः वैद्युताग्निज्वा-
लातुल्यसन्तापप्रदाः प्ररोहाः भवन्ति जायन्ते, किमपि बीजगुसमङ्कुरं जनयति, तदिदं
प्रियत्वाभिमानबीजमुप्तं सदतिसन्तापकारणं ममत्वमुत्पादयति, कार्यकारणयोः ।
समानधर्मत्वस्वाभाव्याद् विषवल्लिबीजानां वज्राग्निगर्भाङ्कुरजनकत्वं न्यायप्राप्त-
मित्यर्थः । तेभ्यः स्नेहमयाङ्कुरेभ्यः अमी त्वयाऽनुभूयमानाविलक्षणाः शनैः धीर-
भावेन कुकूलहुतभुग्दाहम् तुषाग्निवत् देहम् स्वाश्रितजनशरीरम् दहन्तः सन्ताप-
मन— भगवति, शोकावेगसे दूषित हृदयमें विवेकको जगह नही मिलती है ।
सरस्वती— बेटा यह तो स्नेहका दोष है, यह बात तो प्रसिद्ध ही है कि स्नेह सभी
अनथोंका मूल है । क्योंकि—
मनुष्य पुत्रदार आदि विषवल्लीकी तरह भयानक बीज बोते है उससे शीघ्र ही स्नेह
रूप वज्राग्निगर्भ अङ्कुर पैदा होता है, जिन स्नेह अङ्कुरोंसे ज्वालायुक्त सहस्र शिखर
वाले शोक रूप वृक्ष पैदा होते हैं जिनसे देह उस तरह कष्ट पाती है जैसे भूसेकी आगमे
जल रही हो ॥ १६ ॥

Page 205
Page 205 scan

पञ्चमोऽङ्कः १८७
मनः—देवि, यद्यप्येवं तथापि न शक्नोमि शोकानलदग्धः प्राणा-
न्धारयितुम् । संपन्नं यदन्तकाले त्वं तावद्दृष्टासि ।
सरस्वती—इदं च परमकृत्यं यदात्महत्याव्यवसाय इति । अपि च,
अमीषामपकारिणामर्थे कोऽयमत्य्यावेशो भवतः । पश्य तावत्—
क्वचिदुपकृतिः कर्तामीभिः कृता क्रियतेऽथवा
तव न च भवन्त्येते पुंसां सुखाय परिग्रहाः ।
यन्तः दीप्तशिखाससहस्रशिखिराः प्रज्वलितानकेशिखाभृताः शोकद्रुमाः शोकरूपाः
पादपाः रोहन्ति प्रादुरासते । बीजादङ्कुरस्य ततश्च वृक्षस्योत्पत्तिस्तत्र प्रियत्वाभिमान
बीजैः स्नेहाङ्कुरोत्पत्तौ ततः शोकाख्यवृक्षस्य जन्म भवति, यः शोकवृक्षस्तृषाग्निवद्देहं
दहति, ज्वालाप्रदाः दुःखस्मृतिरूपाः शिखास्तासां सहस्रमेव शिखरदेशस्तैर्युक्तश्चा-
सौ शोकतस्रुर्भवति, कुत्रापि वृक्षे शिखरदेशो वर्ण्यतेऽत्र दुःखान्तरस्मृतय एव तत्स्था-
नीया इति बोध्यम् । तदेव प्रियत्वाभिमानस्य बीजभावः, स्नेहस्याङ्कुरत्व, तजस्य
शोकस्य वृक्षत्वमित्यायातम् । 'कुकूलहुतभुग्दाहम्' इत्यत्र 'उपमाने कर्मणि च'
इति णमुल् । 'कुकूलं शङ्कुभिः पूर्णे श्वभ्रे नातु तुषानले' इति कोषः । पूर्वोक्ताविप
रीतं वृत्तम् ॥ १६ ॥
यद्यप्येवम्—यद्यपि त्वदुक्तं सत्य युक्तियुक्तञ्च । शोकानलदग्धः-खेदज्वालापरीततः
प्राणान् धारयितुम्-जीवनं रक्षितुम् । सम्पन्नम्-कृतंकृत्यस् । इदं मम कृत्यानां
पूर्णत्वं यदवसानसमये भवत्यादर्शनं जातमिति भावः ।
परम्-अतिमहत् । अकृत्यम्-अकर्त्तव्यम् । आत्महत्याव्यवसायः-आत्मवधचेष्टा ।
अमीषाम्-कामादीनाम् । अपकारिणाम्-अपकारकरणानाम् । अस्यावेशः अस्यौत्सुक्यम् ।
क्वचिदुपपतिरिति० अमीभिः क्वचित् कुत्रापि पुंसाम् उपकृतिः उपकारः कर्त्ता
करिष्यते कृता विहिता, अथवा क्रियते, इमे कालत्रयेऽपि पुमांस नोपकुर्वन्तीत्यर्थः,
(अतः) एते परिग्रहाः पुत्रकलत्रादयः तव सुखाय प्रीतये न भवन्ति, एषामसुख-
जनकता स्वभाववत्ता नासीभिरुपकारं कामयेथा इति तात्पर्यम् । (किञ्चामी परि-
ग्रहाः) विरहे वियोगे मर्मच्छेदं हृदयस्यात्यन्तिकीं व्यथां दधति उत्पादयन्ति, तदपि
मन—यद्यपि बात ऐसी ही है फिर भी शोकानलदग्ध मै प्राण धारण नहीं कर
सकता । यह ठीक रहा कि अन्त समयमें तुमसे भेंट हो गई ।
सरस्वती—आत्महत्या करना तो अत्यन्त घृणित कार्य है । और इन अपकारियोके
सम्बन्धमे तुमको इतना आवेश ही क्यो हो रहा है ? देखो—
तुम्हारा क्या इनसे कभी उपकार हुआ, हो रहा है, या होने वाला है, यह पुत्र दार

Page 206
Page 206 scan

१८८ प्रबोधचन्द्रोदयम्
दधति विरहे मर्मच्छेदं तदर्थमपार्थकं
तदपि विपुलायासाः सीदन्त्यहो बत जन्तवः ॥ १७ ॥
अपि च,
तीर्णाः पूर्णाः कति न सरितो लङ्घिताः के न शैला
नाक्रान्ता वा कति वनभुवः क्रूरसंचारघोराः ।
पापैरेतैः किमिव दुरितं कारितो नासि कष्टं
यद्द्दष्टास्त धनमदमपीम्लानवक्रा दुरीशाः ॥ १८ ॥
एवं सर्वतोऽनभिप्रेतत्वेऽपि तदर्थम् परिग्रहाणां कृते अपार्थकम् व्यर्थम् विपुलायासाः
कृतमहाप्रयत्नाः जन्तवः प्राणिनः सीदन्ति कष्टमालम्बन्ते, अहो बत आश्चर्यमिद्
मिति। इमे परिग्रहाः पुंसां नोपकुर्वन्ति नोपकृतवन्तः न चोपकरिष्यन्तीति निश्चयेन
तवापि नैवोपकरिष्यन्ति, पुस एवोपकारो मनसोऽपि तथा मन्यते स्वतन्त्रस्य
तस्योपकर्त्तव्यत्वायोगात् , तदेवं दशायां पुत्रकलत्रादयः परिग्रहास्तव सुखाय भवि-
ष्यन्तीति मा भावि भवता। न केवलममी नोपकारकाः किन्तु विरहे व्यथका अपि,
तथापि महता प्रयासेनैवां कृते जन्तवः क्लेशमाश्रयन्तीत्याश्चर्यजनकमित्यर्थः ।
हरिणीवृत्तम् , ‘नसमरसलागः षड्वेदैर्हयैर्हरिणी मता’ इति तलक्षणम् ॥ १७ ॥
तीर्णा इति० पूर्णाः संभृतसलिलाः कति कियत्यः सरितः न तीर्णाः तरणकर्मतां
गमिताः ? बहवः सरितस्तीर्णा इति काक्का प्रत्ययः । एवमेव परत्राऽपि । के वा शैलाः
पर्वताः न लङ्घिताः, सर्वेऽपि लङ्घिता इत्यर्थः। क्रूरसञ्चारघोराः हिंस्रजन्तुयुताः
कति वा वनभुवः काननभूमयः न आक्रान्ताः पादचारेण भ्रान्ताः पापैः नीचकार्य-
परैः एतैः परिग्रहैः किमिव दुरितम् पापम् न कारितः कर्त्तुं बाधितः असि ? सर्वमपि
दुरितमाचरितुमिमे त्वां बाधितवन्त इत्यर्थः, यत् यस्मात् कष्टम् समनोव्यथम्
धनमदमषीम्लानवक्त्राः ऐश्वर्याभिमानश्यामकालिकामुखाः तं दुरीशाः प्रसिद्धाः
कुप्रभयो दृष्टाः। एतेषां परिग्रहाणामनुरोधेन धनिनामभिमानश्यामलित्तानि मुखानि
आदि पुरुषोंके सुखार्थ नही हुआ करते है। फिर उनके विरहमे व्यर्थ ही मर्मान्तक कष्ट
करके अथक परिश्रम उठाकर लोग सीदित होते रहते है ॥ १७॥
और — इन धनमदसे म्लानमुख दुष्ट धनिकों के पास जाना पड़ा इन पुत्रदार आदिकोंके
लिये, उसमे कौन सा कष्ट नही हुआ ? भरी हुई नदियाँ कितनी नही पार करनी पड़ीं,
पर्वत नही लांघने पड़े, या क्रूर हिसक प्राणियोंके सञ्चारसे भयङ्कर जंगलों से न गुजरना
पड़ा ? ॥ १८ ॥

Page 207
Page 207 scan

पञ्चमोऽङ्कः १८६
मनः—देवि, एवमेतत्। तथापि—
लालितानां स्वजातानां हृदि संचरतां चिरम्।
प्राणानामिव विच्छेदो मर्मच्छेदादरुंतुदः ॥ १६ ॥
सरस्वती—वत्स, ममतावासनानिबन्धनोऽयं व्यामोहः।
उक्तं च—
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे।
न तादृङ्ममतानून्ये कलविङ्केऽथ मूषके ॥ २० ॥
द्रष्टुं यत्त्वं बाधितत्वमयासीस्तत्तव सरित्तरणपर्वतलङ्घनघोरजन्तुशताघृतकाननलङ्घन-
सदृशं कथमभूदिति वाक्ययोः परस्पर विम्बप्रतिविम्बभावो बोध्यः, यथा नैषधीये-
'तीर्णः किमर्णो निधिरैव नैष दुरन्तिनेऽभूदिह यत्प्रवेशः' इति ॥ १८ ॥
एवमेतत्-त्वदुक्तं नासत्यमित्यर्थः।
लालितानामिति० स्वजातानाम् आत्मजानाम् हृदि वक्षोदेशे चित्ते च चिरम् बहु-
कालपर्यन्तम् सञ्चरताम् लुण्ठताम् लालितानाम् चटूक्तिभिः प्रमोदितानाम् (एषां
कामादीनाम्) विच्छेदः वियोगः प्राणानाम् विच्छेदाद् (विशिष्य) अरुन्तुद-
मर्मव्यथकः। प्राणा अपि स्वस्माज्जायन्ते हृदि वसन्ति चेमेऽपि कामादयो मनसो
जाता मनसा चिरं लालिता हृदयेऽवस्थापिताश्चेत्येषां वियोगस्य मर्मव्यथकत्वाति-
शयो बोध्यः ॥ १९ ॥
ममतावासनानिबन्धनः—ममत्वाभिमानजन्मा व्यामोहः खेदः।
मार्जारभक्षित इति० गृहकुक्कुटे स्वगृहपोषितकुक्कुटे मार्जारभक्षिते विडालेन
प्साते यादृशं दुःखंः खेदः भवति तादृशं दुःखं ममताशून्ये मदीयताऽबुद्धिविषये
कलविङ्के चटके मूषके वा मार्जारभक्षिते न भवति दुःखमतो ममतैव दुःखजननी न
पदार्थमहत्तेति भावः ॥ २० ॥
मन—देवि, आपका कथन ठीक है, तथापि—
जिन्हें पैदा किया, दुलार किया, हृदयमें स्थान दिया, उनका वियोग प्राणों के वियोग
की तरह कष्टप्रद होता है ॥ १९ ॥
सरस्वती—वत्स, ममतावासनासे ही ऐसा मोह होरहा है, कहा है—
विलाड़ घरके गौरैयाको खा जाय तो दुःख होता है, परन्तु वही विलाड़ यदि चटक
या चूहेको चटकर जाता है तो दुःख नही होता है, इससे स्पष्ट है कि ममता ही दुःखका
निदान है ॥ २० ॥

Page 208
Page 208 scan

१६० प्रबोधचन्द्रोदयम्
तत्सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः । पश्य—
प्रादुर्भवन्ति वपुषः कति वा न कीटा
यान्यत्नतः खलु तनोरपसारयन्ति ।
मोहः स एष जगतो यदपत्यसंज्ञां
तेषां विधाय परिशोषयति स्वदेहम् ॥ २१ ॥
मनः—देवि, भवत्वेवम् । तथापि दुरुच्छेदस्तु ममत्वग्रन्थिः । (विचि-
न्त्य । सोच्छ्वासम् ) सर्वथा त्रातोऽस्मि भवत्या । (इति पादयोः पतति)
सरस्वती—वत्स, उपदेशसहिष्णु ते हृदयं जातम् । अत एतदपर-
मुच्यते—
सर्वानर्थबीजस्य-सर्वविधानर्थकारिणः । ममत्वस्य-ममेदमित्यध्यासस्य । उच्छे
दे-नाशे ।
प्रादुर्भवन्तीति० वपुषः शरीरात् कति कियन्तः कीटाः क्षुद्रप्राणिनः यूकालिक्षादयः
न वा प्रादुर्भवन्ति उत्पद्यन्ते, तान् तनोः प्रभूतानपि कीटान् (जनाः) यत्नतः
प्रयासेन तनोः शरीरात् अपसारयन्ति दूरीकुर्वन्ति । स एष जगतः संसारस्य मोहः
अविवेकः यत् तेषाम् तनुजातानाम् पुत्रादीनां कीटैः समानमपि अपत्यसंज्ञाम् पुत्रा-
दिपदवाच्यताम् विधाय स्वदेहम् आत्मकायम् शोषयति क्लमयति । शरीरजातत्वेन
समतायां सम्यक् प्रतीतायामपि कीटानां यत्नतः शरीरादपसारणं कुर्वन्त एव
पामरा. सुतादीनां विषये यदात्मानं ग्लपयन्ति तत्तेषां मोहस्यविस्फूर्जितमेव, न
विवेकपूर्वकं कार्यमिति भावः । वसन्ततिलकं वृत्तम् ॥ २१ ॥
दुरुच्छेदः-दुरप्यासः । ममत्वग्रन्थिः-ममताबन्धनम् । त्रातः-रक्षितः ।
उपदेशसहिष्णु-उपदेशश्रवणार्हम् ।
अतः सभी अनर्थों की जड ममताके उच्छेदका ही प्रयत्न करना चाहिये । देखो:—
देहसे कितने कीट उत्पन्न होते रहते हैं जिन्हें हम कोशिश करके शरीरसे दूर करते
रहते हैं, (फिर देहसे उत्पन्न पुत्र आदिके विषयमें) यह मोह होता है कि इन्हें अपत्य
संज्ञा प्रदान कर इनके लिये देहको सुखाया करता हैं ॥ २१ ॥
मन—देवि, ऐसा ही रहे, फिर भी ममताकी गांठ छूटती नहीं है । (सोचकर,
उच्छ्वास लेकर) तुमने सर्वथा बचा लिया । (चरणोंपर गिरता है)
सरस्वती—वत्स, अब तुम्हारा हृदय उपदेशके योग्य होगया । अतः इतना और

Page 209
Page 209 scan

पञ्चमोऽङ्कः १६१

वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचा संतप्यन्ते भृशमुदरताडं जडधियः ।
असारे संसारे विरसपरिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वञ्शमसुखम् ॥ २२ ॥
( ततः प्रविशति वैराग्यम् )
वैराग्यम्—( विचिन्त्य )
अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत-
त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः ।
वशमिति० पितरि जनके तनये पुत्रे सुहृदि मित्रे वा मृत्योः मरणस्य वशं प्राप्ते
मृते सति जडधियः मन्दमतयः उदरताडम् उरस्ताडम् शुचा तद्वियोगजशोकेन
सन्तप्यन्ते पीड्यन्ते । तु पुनः विदुषाम् संसारतत्त्वं ज्ञातवताम् विरसपरिणामे
अवसानदुरन्ते असारे निस्तत्त्वे संसारे शमसुखं वितन्वन् शान्तिसमुत्थमानन्दं
वितरन् वियोगः पुत्रादिभिर्विच्छेदः वैराग्यं द्रढयति दृढीकरोति । येरेव कारणैर्मन्दम
तयः सन्तप्यन्ते तैरेव ज्ञानिनस्ते वैराग्यं द्रढयन्तं शान्तिसहचरमानन्दं लभन्ते
इत्याशयः । 'उदरताडम्' इत्यत्र 'परिक्लिश्यमाने चे'ति णमुल् ॥ २२ ॥
अस्राक्षीदिति० यदि प्रजानां पति ब्रह्मा एतत् दृश्यमानं वपुः लोकानां शरीरम्
नवस्य नूतनस्य नीलनीरजस्य इन्दीवरस्य दल छदस्तस्योपान्तोऽग्रभागस्तद्वत्
सूक्ष्मा अस्थूला आयता दीर्घा च या त्वक् चर्म तन्मात्रेण केवलं तादृश्या त्वचा
अन्तरितामिषम् आवृत्तमांसम् न अस्राक्षीत् न निर्मितवान् विधाता यदि मांस-
पिण्डरूपं वपुरिदं कमलपत्रसूक्ष्मेण दीर्घेण च चर्मणा नावृतं विधाय केवलं मांसमय
मेवाकारिष्यदित्यर्थः, (तदा) प्रत्यग्रं नवं क्षरत् स्रवत् यत् अस्रं शोणितं तेन क्लिन्नम्
आमगन्धि यत् पिशितं मांसं तस्य ग्रासस्य कवलस्य ग्रहं ग्रहणं गृध्नतः कामयमा-
कहती हूं—जब पिता, पुत्र या मित्र की मृत्यु हो जाती है तब जड़बुद्धि लोग छाती पीट
कर शोकसे सन्तप्त हुआ करते है, परन्तु जो संसारका असारत्व या परिणति विरसत्व
जानते है उनके लिये वियोग शमसुख प्रदान करनेवाला तथा वैराग्य दृढ़ करनेवाला हुआ
करता है ॥ २२ ॥
( वैराग्यका प्रवेश ।
वैराग्य—(सोचकर) ब्रह्मा नवीन नीलकमल पत्र के समान अतिसूक्ष्म कोमल त्वचा से
मांसमय इस शरीरको यदि आवृत्त नही करते तो सद्यः प्रवहमान रुधिर तथा मांसके

Page 210
Page 210 scan

१६२ प्रबोधचन्द्रोदयम्
प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृध्नतो
गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २३ ॥
अपि च—
श्रियो दोलालोला विषयजरसाः प्रान्तविरसा
विपद्गेहं देहं महदपि धनं भूरि निधनम् ।
बृहच्छोको लोकः सततभवलानर्थबहुला
तथाप्यस्मिन्घोरे पथि वत रता नात्मनि रताः ॥ २४ ॥
सरस्वती—वत्स, एतद्वैराग्यं त्वामुपस्थितम् । तदेतत्संभावय ।
नान् तनौ शरीरे निपततः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

५. पञ्चम अङ्क: मोह-विनाश एवं वैराग्य-विजय

Page 211
Page 211 scan

पञ्चमोऽङ्कः १६३
मनः—क्वासि पुत्रक ! ?
वैराग्यम्—( उपसृत्य ) अहं भो अभिवादये ।
मनः—वत्स, जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम् ।
वैराग्यम्—( तथा करोति )
मनः—वत्स, त्वद्दर्शनात्प्रशान्तो मे शोकावेशः ।
वैराग्यम्—तात, कोऽत्र शोकावेशः । यतः—
पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रश्यतां
मेघानामिव पुष्करे जलनिधौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 212
Page 212 scan

१६४ प्रबोधचन्द्रोदयम्
संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा
सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ २५ ॥
मनः- (सानन्दम्) देवि, एवमेतत् यदाह वत्सः । तथाहि तावदव-
धारयतु भवती ।
निरन्तराभ्यासदृढीकृतस्य
सस्नेहसूत्रग्रथितस्य जन्तोः ।
जानासि किञ्चिद्भगवत्युपायं
ममत्वपाशस्य यतो विमोक्षः ॥ २६ ॥
सरस्वती-वत्स,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 213
Page 213 scan

न कति पितरो दाराः पुत्राः पितृव्यपितामहा
महति वितते संसारेऽस्मिन् गतास्तव कोटयः ।
तदिह सुहृदां विद्युत्पातोज्जवलान् क्षणसंगमान्
सपदि हृदये भूयो भूयो निवेश्य सुखी भव ॥ २७ ॥
मनः- भगवति, तव प्रसादादपास्त एव व्यामोहः । किन्तु—
भगवति तव मुखशशधरगलितैर्विमलोपदेशपीयूषैः ।
क्षालितमपि मे हृदयं मलिनं शोकोर्मिभिः क्रियते ॥ २८ ॥
दस्य-ममत्वविघटनस्य प्रथमः-आद्यः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 214
Page 214 scan

१६६ प्रबोधचन्द्रोदयम्
तदस्यार्द्रस्य शोकप्रहारस्य भेषजमाज्ञापयतु भगवती ।
सरस्वती—वत्स, नूनमुपदिष्टमेवात्र मुनिभिः ।
अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २६ ॥
मनः—एवमेव भगवत्येतद्दुर्निवारं तु चेतः । यतः—
अप्येतद्वारितं चिन्तासन्तानैरभिभूयते ।
मुहुर्वातहतैर्बिम्बमभ्रच्छेदैरिवैन्दवम् ॥ ३० ॥
खेदतरङ्गैः मलिनं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 215
Page 215 scan

पञ्चमोऽङ्कः १५७
सरस्वती—वत्स, श्रूयताम्। चित्तस्यायं विकारः। ततः कस्मिंश्चि-
च्छान्ते विषये चित्तं निवेश्यताम्।
मनः—तत्प्रसीदतु भगवती। कोऽसौ शान्तो विषयः।
सरस्वती—वत्स, गुह्यमेतत्, तथाप्यार्तानामुपदेशे न दोषः।
नित्यं स्मरञ्जलदनीलमुदारहार-
केयूरकुण्डलकिरीटधरं हरिं वा।
ग्रीष्मे सुशीतमिव वा हृदमस्तशोकं
ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम् ॥ ३१ ॥
मानमपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 216
Page 216 scan

१६८ प्रबोधचन्द्रोदयम्
मनः—एवमेतत् । संप्रति हि—
नार्यस्ता नचयौवना मधुकरव्याहारिणस्ते द्रुमाः
प्रोन्मीलन्नवमल्लिकासुरभयो मन्दास्त एवानिलाः ।
अद्योदात्तविवेकमार्जिततमःस्तोमव्यलीकान्पुन-
स्तानेतान्मृगतृष्णिकार्णवपयःप्रायान्मनः पश्यति ॥ ३२ ॥
सरस्वती—वत्स, यद्यप्येवं तथापि गृहिणा मुहूर्तंमप्यनाश्रमधर्मिणा
न भवितव्यम् । तदद्यप्रभृति निवृत्तिरेव ते सधर्मचारिणी ।
ऽतिस्थूलमेव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 217
Page 217 scan

पञ्चमोऽङ्कः १६६
मनः- ( सलज्जम् ) यदादिशति देवी ।
सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामनुचरन्तु । यमनियमा-
दयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनु-
भवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव
प्रसादाय प्रहितास्ताः सप्रसादमनुमानय ।
मनः-यदादिशति देवी । मूर्ध्नि निवेशिताः सर्वा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 218
Page 218 scan

स्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः—
त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति-
ष्वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः ।
तूष्णीमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तौ-
र्भात्यादर्शे प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥३३॥
मनसि विषयोपरक्ते बन्धस्तस्य तदुपरागापगमे च मोक्ष इति सिद्धान्तमनुसृत्यैवा-
न्रत्यो ग्रन्थो बोध्यः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 219
Page 219 scan

पञ्चमोऽङ्कः २०१
तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः ।
मनः—यदाज्ञापयति देवी ।
( इति निष्क्रान्ताः सर्वे )
इति प्रबोधचन्द्रोदये

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 220
Page 220 scan

षष्ठोऽङ्कः
( ततः प्रविशति शान्तिः )
शान्तिः—आदिष्टास्मि महाराजविवेकेन । यथा वत्से, विदितमेव
भवत्या किल !
अस्तं गतेषु तनयेषु विलीनमोहे
वैराग्यभाजि मनसि प्रशमं प्रपन्ने ।
क्लेशेषु पञ्चसु गतेषु समं समीहां
तत्त्वावबोधमभितः पुरुषस्तनोति ॥ १ ॥
तद्भवति त्वरिततरं देवीमुपनिषदमनुनीय मत्सकाशमानयत्विति ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 221
Page 221 scan

षष्ठोऽङ्कः २०३
( ततः प्रविशति श्रद्धा )
श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे
पीयूषेणेव लोचने पूर्णे ।
असतां निग्रहो यत्र सन्तः पूज्या यमादयः ।
आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥
शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता ।
श्रद्धा—( अये, अद्येत्यादि पठति )
शान्तिः—अथ मनसि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in