Skip to content
SarvaKosh
Back to the archive

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

by कृष्णमिश्र यति

Report a copyright issue

DevanagariHindipublished274 pages

About this granth

Prabodhachandrodaya (प्रबोधचन्द्रोदयम्), 'The Rise of the Moon of Awakening', is an allegorical Sanskrit play by Krishnamishra, generally dated to the eleventh century and the reign of the Chandela king Kirtivarman. Its characters are not people but qualities and ideas: Discrimination, Delusion, Desire, Anger, Hypocrisy, Peace, Compassion, Faith and the Upanishad personified. When Discrimination is united with the Upanishad, Awakening is born, and the play turns Advaita Vedanta's account of liberation into drama.

Over six acts the play moves from the rise of Delusion's forces, through satirical scenes of hypocrisy and of rival sects, to the search for Faith, the marshalling of Discrimination's army, the defeat of Delusion and the triumph of dispassion.

This is the 1955 edition from the Chowkhamba Vidya Bhawan, Banaras, with a commentary called Prakasha. In his introduction the commentator mentions two earlier commentaries, by Nandillagopa and by Ramadasa Dikshita, and an English translation, and explains that he wrote his own for the ordinary reader.

Page 170
Page 170 scan

१४२ प्रबोधचन्द्रोदयम्
क्षमा—देव, क्रोधस्य विजयादेव हिंसापारुष्यमानमात्सर्यादयोऽपि
विजिता एव भविष्यन्ति ।
राजा—तत्प्रतिष्ठतां भवति विजयाय ।
क्षमा—यदाज्ञापयति देवः ।
( इति निष्क्रान्ता )
राजा—( प्रतीहारीं प्रति ) वेदवति, आहूयतां लोभस्य जेता संतोषः ।
प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि )
(

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 171
Page 171 scan

चतुर्थोऽङ्कः १५३
सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ १९ ॥
( आकाशे ) अरे मूर्ख, लुब्ध, दुरुच्छेदः खल्वयं भवतो व्यामोहः ।
तथाहि—
समारम्भा भग्नाः कति कति न वारांस्तव पशो
पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले ।
तथापि प्रत्याशा विरमति न ते मूढ शतधा
विदीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ २० ॥
वासस्य च चिन्तायां निवृत्तायामपि ) कृपणाः दयनीया इमे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 172
Page 172 scan

१५४ प्रबोधचन्द्रोदयम्
इदं च ते लोभान्धस्य चेष्टितं चेतसि चमत्कारमातनोति । यतः—
लभ्यं लब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो
लब्धं चापरमित्यनारतमहो लब्धं धनं ध्यायसि ।
नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बला-
त्सर्वग्रासमियं ग्रसिष्यति महालोभान्धकारावृतम् ॥२१॥
अपि च—
धनं तावल्लब्धं कथमपि तवाप्यस्य नियते
व्यये वा नाशे वा तव सति वियोगोऽस्त्युभयथा ।
अनुत्पादः श्रेयान्किमु कथत

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 173
Page 173 scan

चतुर्थोऽङ्कः १५५
विनाशो लब्धस्य व्यथयतितरां न त्वनुदयः ॥ २२ ॥
किञ्च—
मृत्युर्नृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी
त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद्ग्रस्यते ।
धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः
संतोषामृतसागराम्भसि मनाङ्मग्नः सुखं जीवति ॥ २३ ॥
प्रतीहारी—एष स्वामी । तदुपसर्पतु महाभागः । (एसो सामी । ता
उवसप्पदु महाभाओ )
( तथा कृत्वा )

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 174
Page 174 scan

१५६ प्रबोधचन्द्रोदयम्

राजा—इहोपविश्यताम् । ( इति स्वसंनिधावुपवेशयति )
संतोप:—( सविनयमुपविश्य ) एष प्रेष्यजनः । आज्ञाप्यतां देवेन ।
राजा—विदितप्रभाव एव भवान् । तदलमात्र विलम्बेन । लोभं जेतुं
वाराणसीं प्रतिष्ठीयताम् ।
संतोषः—यदाज्ञापयति देवः । सोऽहम्—
नानामुखं विजयिनं जगतां त्रयाणां
देवद्विजातिवधबन्धनलब्धवृत्तिम् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 175
Page 175 scan

चतुर्थोऽङ्कः १५७
( ततः प्रविशति विनीतवेषः पुरुषः )
पुरुषः—देव, संभृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्त्ति-
कावेदितः प्रस्थानसमयः ।
राजा—यद्येवं सेनाप्रस्थानायादिश्यन्तां सेनापतयः ।
पुरुषः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः )
( नेपथ्ये )
भोः भोः सैनिकाः,
सज्जन्तां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 176
Page 176 scan

१५८ प्रबोधचन्द्रोदयम्
पादाताः संचरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः ॥२५॥
राजा—भवतु । कृतमङ्गलाः प्रतिष्ठामहे । ( पारिपार्श्वकं प्रति ) सारथि-
रादिश्यतां साङ्ग्रामिकं रथं सज्जीकृत्यानयेति ।
पारिपार्श्वकः—यदाज्ञापयति देवः । ( इति निष्क्रान्तः )
( ततः प्रविशति यथोक्तं रथमादाय सारथिः )
सारथिः—जीव, सज्जीकृतोऽयं रथः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 177
Page 177 scan

चतुर्थोऽङ्कः १५६
निर्मथ्यमानजलधिध्वनिघोरहेष-
मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥
इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नाम
नगरी ।
अमी धारायन्त्रस्खलितजलझङ्कारमुखरा
विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः ।
विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस-
त्तडिल्लेखालक्ष्मीं वितरति पताकावलिरियम् ॥ २७ ॥
विषयीकृताः प्रबन्धेन अविच्छेदेन धावन्तः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 178
Page 178 scan

१६० प्रबोधचन्द्रोदयम्
एताश्च प्रतिमुकुलं लग्नमधुपावलीरणितमुखरा जृम्भारम्भभरविगलन्म-
करन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमानघनच्छदच्छाया-
तरवो नगरपर्यन्तोद्यानभूमयः । यत्रैते मरुतोऽपि गृहीतपाशुपतव्रता धूलि-
मुद्घूलयन्तस्तापसा इव लक्ष्यन्ते । तथाहि—
तोयाद्राः सुरसरितः सिताः परागै-
रचन्तश्च्युतकुसुमैरिवेन्दुमौलिम् ।
विलसन्ती शोभमाना या तडित् विद्युल्लता तस्या लेखा रेखा तस्या लक्ष्मीं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 179
Page 179 scan

चतुर्थोऽङ्कः १६१
प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो
नृत्यन्ति प्रचललताभुजैः समीराः ॥ २८ ॥
राजा— ( सानन्दमालोक्य )
सैषान्तर्दधती तमोविघटनादानन्दमात्मप्रभं
चेतः कर्षति चन्द्रचूडवसतिर्विद्येव मुक्तेः पदम् ।
भूमेः कण्ठविलम्बिनीव कुटिला मुक्तावलिर्जाह्नवी
यत्रैवं हसतीव फेनपटलैर्वक्रां कलामैन्दवीम् ॥ २६ ॥
गद्यखण्डेन, सम्प्रति तदेव विशद्यते, तोयार्द्राः जलकणवाहिनः, एतेन शैत्यं सिद्धम् ,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 180
Page 180 scan

१६२ प्रबोधचन्द्रोदयम्
सूतः—( परिक्रम्य ) आयुष्मन्, पश्य पश्य । तदिदं सुरसरित्परिसरा-
लङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् ।
राजा—( सहर्षम् ) अरे,
एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते ।
अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३० ॥
सूतः—आयुष्मन्, पश्य पश्य । एते तावत्कामक्रोधलोभादयोऽस्म-
दर्शनमात्रादितो देशाद्दूरमतिक्रामन्ति ।
वाराणस्यां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 181
Page 181 scan

चतुर्थोऽङ्कः १६३
राजा—एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः ।
( रथादवतीर्य प्रविश्यावलोक्य च ) जय जय भगवन्, अमरचयचक्रचूडा-
मणिश्रेणिनीराजितोपान्तपादद्वयाम्भोज, राजन्नखद्योतखद्योतकिर्मीरितस्व-
र्णपीठस्फुरद्वैतविभ्रान्तिसंतानसंतप्तवन्दारुसंसारनिद्रापहारैकदक्ष, क्ष्मा-
मण्डलोद्धारसंभारसंघट्टदंष्ट्राग्रकोटिस्फुरच्छैलचक्र, क्रमाक्रान्तलोकत्रय,
प्रबलभुजबलोद्धृतगोवर्धनच्छत्रनिवारिताखण्डलोयोजिताकाण्डचण्डा-
अमरचयचक्रम्-देवसमूहः, तस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 182
Page 182 scan

१६४ प्रबोधचन्द्रोदयम्
म्बुवाहातिवर्षत्रसद्गोकुलत्राणविस्मापिताशेषविश्व, प्रभो, विबुधरिपुवधूवर्ग-
सीमन्तसिन्दूरसन्ध्यामयूखच्छटोन्मार्जनोद्दामधामाधिप, त्रस्तदैत्येन्द्रव-
क्षस्तटीपाटनाकुण्ठभास्वन्नखश्रेणिपाणिद्वयस्रस्तविस्तारिरक्तार्णवामग्नलोक-
त्रय, त्रिभुवनरिपुकैटभोद्दण्डकण्ठास्थिकूटस्फुटोन्मार्जितोद्दामचक्रस्फुरज्ज्यो-
स्पष्टा । प्रबलेन भुजबलेन बाहुपराक्रमेण उद्धृतः उत्थापितो यः गोवर्द्धनस्तदाख्यो
गिरिः स एव छत्रम् ( वर्षनिवारकत्वेन छत्रत्वारोपः ) तेन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 183
Page 183 scan

चतुर्थोऽङ्कः १६५
तिरुल्लासितोद्दामदोर्दण्डखण्डेन्दुचूडप्रिय, प्रौढदोर्दण्डविभ्रान्तमन्थाचल-
क्षुब्धदुग्धाम्बुधिप्रोत्थितश्रीभुजवल्लीसंश्लेषसंक्रान्तपीनस्तनाभोगपत्रावली-
लाञ्छितोरस्थल, स्थूलमुक्ताफलोदारहारप्रभामण्डलस्फुरत्कण्ठ, वैकुण्ठ,
भक्तस्य लोकस्य संसारमोहच्छिदं देहि बोधोदयं देव तुभ्यं नमः।
(निर्गमनं नाटयित्वा विलोक्य च)

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 184
Page 184 scan

पञ्चमोऽङ्कः
( ततः प्रविशति श्रद्धा )
श्रद्धाः—( विचिन्त्य ) प्रसिद्धः खल्वयं पन्थाः । यतः—
निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः ।
वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ १ ॥
( सास्रम् ) अहो दुर्वारो दारुणः सोदर्यव्यसनजन्मा शोकानलः, यो
विवेकजलधरशतैरपि न मन्दीक्रियते । तथाहि—
प्रसिद्धः-ख्यातः । पन्थाः-मार्गः ।
निर्दहतीति०

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 185
Page 185 scan

पञ्चमोऽङ्कः १६७
ध्रुवं ध्वंसो भावी जलनिधिमहीशैलसरिता-
मतो मृत्योः शीर्यत्तृणलघुषु का जन्तुषु कथा ।
तथाप्युच्चैर्बन्धुव्यसनजनितः कोऽपि विषमो
विवेकप्रोन्माथी दहति हृदयं शोकदहनः ॥ २ ॥
येन तथा कुलप्रकृतिष्वपि, भ्रातृषु कामक्रोधादिषु कथाशेषतांगतेषु ।
निकृन्ततीव मर्माणि देहं शोषयतीव मे ।
दहतीवान्तरात्मानं क्रूरः शोकाग्निरुच्छिखः ॥ ३ ॥
ध्रुवमिति० जलनिधयः सागराः, मही पृथिवी, शैलाः पर्वताः,

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 186
Page 186 scan

१६८ प्रबोधचन्द्रोदयम्
( विचिन्त्य ) आदिष्टास्मि देव्या विष्णुभक्त्या । वत्से श्रद्धे, अहमत्र
हिंसाप्रायसमरदर्शनपराङ्मुखी । तेन वाराणसीमुत्सृज्य शालिग्रामाभि-
धाने भगवतः क्षेत्रे कंचित्कालमतिपालयामि । त्वं तु यथावृत्तमागत्य मे
निवेदयिष्यसीति । तदहं देव्याः सकाशं गत्वा सर्वमेतत्समरवृत्तान्तमा-
वेदयामि । ( परिक्रम्यावलोक्य च ) एतच्चक्रतीर्थम् । यत्रासौ

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 187
Page 187 scan

पञ्चमोऽङ्कः १६६
विष्णुभक्तिः—वत्से, एतस्मिन् वीरवरक्षये महति संप्राये जाते न
जाने बलवता महामोहेनाभियुक्तस्य वत्सस्यविवेकस्य कीदृशो वृत्तान्त इति
दुःस्थितमिव मे हृदयम् ।
शान्तिः—किमत्र विचिन्त्यते । ननु भगवती देवानुग्रहा तन्नियत-
मेव राज्ञो विवेकस्य विजय इति जानामि ।
विष्णुभक्तिः—वत्से,
यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते ।
कामं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 188
Page 188 scan

१७० प्रबोधचन्द्रोदयम्
विष्णुभक्तिः—श्रद्धे, स्वागतम् ।
श्रद्धा—देव्याः प्रसादेन ।
शान्तिः—अम्ब, प्रणमामि ।
श्रद्धा—पुत्रि, मां परिष्वजस्व ।
शान्तिः—( तथा करोति )
श्रद्धा—वत्से, देव्या विष्णुभक्तेः प्रसादान्मुनिजनचेतःपदं प्राप्नुहि ।
विष्णुभक्तिः—अथ तत्र किं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 189
Page 189 scan

पञ्चमोऽङ्कः १७१
लद्विपुलरजःपटलान्तरितकिरणमालिनि प्रबलतरकर्णतालास्फालनोच्छल-
त्समदकरिकुम्भसिन्दूरसन्ध्यायमानदशदिशि प्रलयजलधरध्वानभीषणे
तेषास्माकं संनद्धे सैन्यसागरे महाराजमहामोहस्य महाराजेन नैयायिक-
दर्शनं दौत्येन प्रहितम् । गत्वा च तेनोक्तो महामोहः ।
विष्णोरायतान्यपास्य सरितां कूलान्यरण्यस्थलीः
पुण्याः पुण्यकृतां मनांसि च भवान्म्लेच्छान्व्रजेत्सानुगः ।
भास्वति-सूर्ये । विजयघोषणया-जयशब्देन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in