प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
by कृष्णमिश्र यति
About this granth
Prabodhachandrodaya (प्रबोधचन्द्रोदयम्), 'The Rise of the Moon of Awakening', is an allegorical Sanskrit play by Krishnamishra, generally dated to the eleventh century and the reign of the Chandela king Kirtivarman. Its characters are not people but qualities and ideas: Discrimination, Delusion, Desire, Anger, Hypocrisy, Peace, Compassion, Faith and the Upanishad personified. When Discrimination is united with the Upanishad, Awakening is born, and the play turns Advaita Vedanta's account of liberation into drama.
Over six acts the play moves from the rise of Delusion's forces, through satirical scenes of hypocrisy and of rival sects, to the search for Faith, the marshalling of Discrimination's army, the defeat of Delusion and the triumph of dispassion.
This is the 1955 edition from the Chowkhamba Vidya Bhawan, Banaras, with a commentary called Prakasha. In his introduction the commentator mentions two earlier commentaries, by Nandillagopa and by Ramadasa Dikshita, and an English translation, and explains that he wrote his own for the ordinary reader.
१२४ प्रबोधचन्द्रोदयम्
मलब्ध्वा जानीमः स्पृहयति सुधायै सुरगणः ॥ २१ ॥
क्षपणकः—अरे भिक्षो, मा सर्वं पिब। कापालिकीवदनोच्छिष्टां मदिरां
मदर्थमपि धारय । (अले भिक्खुअ, मा सव्वं पिय। कावालिणीवअणोच्छिट्ठं
मइरं मदत्थंचि धालेसु )
( भिक्षुः क्षपणकाय चषकमपनयति )
क्षपणकः—( पीत्वा ) अहो सुराया मधुरत्वम्, अहो स्वादः, अहो
सुरभित्वम् । चिरं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकापालिकः— प्रिये, अमूल्यक्रीतं दासद्वयं लब्धम् । तन्नृत्यावस्तावत् ।
( उभौ नृत्यतः )
**क्षपणकः—**अरे भिक्षुक, एष कापालिकोऽथवाचार्यः कापालिक्या
सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सार्धमावामपि नृत्यावः । ( अहो
भिक्खुअ, एसो कावालिओ अहवा आवालिओ कानालिनीए सद्धं सोहणं णच्चेदि ।
ता एदाए सद्धं अम्हेवि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२६ प्रबोधचन्द्रोदयम्
वश्याकर्षविमोहनप्रशमनप्रक्षोभणोच्चाटन-
प्रायाः प्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥२२॥
क्षपणकः—अरे कापालिक, (विमृश्य) अथवा आचार्य, आचार्यराज,
कुलाचार्य। (अले कापालिअ, अहवा आचालिअ, आचालिअराअ, कुलाचालिअ)
भिक्षुः—(विहस्य) अयमनभ्यासातिशयपीतया मदिराया दूरमुन्मनी-
कृतस्तपस्वी। तत्क्रियतामस्य मदापनयनम्।
यन्ते। वश्यम् वशीकरणम्, आकर्ष-आकर्षणम्, मोहनं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२७
कापालिकः-एवं भवतु । ( इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति )
क्षपणकः-( स्वस्थीभूय ) आचार्य, इदं पृच्छामि । यादृशी युष्माकं
सुराया आहरणसिद्धिः किं तादृशी सिद्धिः स्त्रीषु पुरुषेष्वप्यस्ति । ( आचा-
लिय्य, एव्वं पुच्छिस्सम् । जादिसी तुम्हाणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२८ प्रबोधचन्द्रोदयम्
उभौ—यथा ज्ञातमायुष्मता। एवमेतत्।
क्षपणकः—तर्हि राजकार्यं किमपि मन्त्रितव्यम्। (ता लाअकज्जं किवि
मन्तिदव्वम्)
कापालिकः—कि तत्।
क्षपणकः—सत्त्वस्य सुता श्रद्धा महाराजस्याज्ञयाह्रियतामिति ।
(सत्तस्स सुदा सद्धा महालाअस्स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२६
नास्ति जले नास्ति स्थले, नास्ति गिरिगह्वरेषु नास्ति पाताले ।
सा विष्णुभक्त्या सहिता, वसति हृदये महात्मनाम् ॥ २४ ॥
(णत्थि जले णत्थि थले, णत्थि गिलिगव्व्हलेसु णत्थि पाआले ।
सा विण्णुभत्तिसहिदा, वसदि हिअए महम्माणम् ॥)
करुणा— (सानन्दम्) सखि, दिष्ट्या वर्धसे विष्णुभक्त्या देव्याः
पार्श्ववर्तिनी श्रद्धेति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३० प्रबोधचन्द्रोदयम्
मूलं देवी सिद्धये विष्णुभक्ति-
स्तां च श्रद्धानुव्रता सत्त्वकन्या ।
कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे-
त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥
तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं
विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । ( इति निष्क्रान्ताः सर्वे )
शान्तिः—आवामप्येवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः
( ततः प्रविशति मैत्री )
मैत्री—श्रुतं मया मुदितायाः सकाशाद्यथा महाभैरवीसङ्ग्रसनसंभ्र-
माद्भगवत्या विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तदुत्कण्ठितेन
हृदयेन प्रियसखीं श्रद्धां कदा प्रेक्षिष्ये । ( सुदं मए मुदिताए सकासादो जहा
महाभैरवीसङ्गसणसम्भमादो भअवदीए विण्हुभत्तीए परित्तादा पिअसही सद्धेत्ति ।
ता उक्कण्ठिदेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३२ प्रबोधचन्द्रोदयम्
दंष्ट्राचन्द्रकलाङ्कुरान्तरललज्जिह्वां महाभैरवीं
पश्यन्त्या इव मे मनः कदलिकावेवाद्याप्यहो वेपते ॥ १ ॥
मैत्री—( स्वगतम् ) अये, एषा मे प्रियसखी श्रद्धा भयसमुद्भ्रान्त-
हृदयाकलितकम्पतरलैरङ्गैः किमपि मन्त्रयन्ती संमुखागतामपि मां न
लक्षयति । तस्मादालपिष्यामि तावत् । ( प्रकाशम् ) प्रियसखि श्रद्धे,
किमिति त्वमुत्कलितहृदया मामपि न विलोकयसि । ( अए, एसा मे पिअ-
सही सद्धा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १३३
श्रद्धा—( विलोक्य सोच्छ्वासम् ) अये, मे प्रियसखी मैत्री।
कालरात्रिकरालास्यदन्तान्तर्गतया मया।
दृष्टासि सखि सैव त्वं पुनरत्रैव जन्मनि ॥ २ ॥
तदेहि गाढ परिष्वजस्व माम्।
मैत्री—( तथा कृत्वा ) सखि, तदा विष्णुभक्तिनिर्भर्त्सितप्रभावाया
महाभैरव्याः कस्मात्तेऽद्यापि वेपन्तेऽङ्गानि। (सहि, तधा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३४ प्रबोधचन्द्रोदयम्
मैत्री—(सत्रासम्) अहो, हताशा घोरदर्शना। अथ तयागतया किं
कृतम्। (अहो, हदासा घोलदंसणा। अध ताए आगदाए किं किदम्)
श्रद्धा—
श्येनावपातमवपत्य पदद्वये मा-
मादाक धर्ममपरेण करेण घोरा।
वेगेन सा गगनमुत्पतिता नखाग्र-
कोटिस्फुरत्पिशितपिण्डयुगेव गृध्री ॥ ३ ॥
मैत्री—हा धिक् हा धिक्। (हद्धी
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १३५
भ्रूभङ्गभीमपरिपारटलदृष्टिपात-
मुद्गाढकोपकुटिलं च तथा व्यलोकि ।
सा वज्रपातहतशैलशिलेव भूमौ
व्याभुग्नजर्जरशिरोऽस्थि यथा पपात ॥ ४ ॥
मैत्री—दिष्ट्या मया दृष्टा क्रुद्धशार्दूलमुखाद्विभ्रष्टा मृगीव क्षेमेण
संजीविता प्रियसखी । (दिट्ठिआ मए दिट्ठा कुद्धसद्दूलमुहादो विब्भट्ठा मिईव
क्खेमेण संजीविदा पिअसही)
श्रद्धा—ततो देव्या समुपजाताभिनिवेशमुक्तमेवमस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३६ प्रबोधचन्द्रोदयम्
आदिष्टा चाहं देव्या । यथा गच्छ श्रद्धे, ब्रूहि विवेकम् । कामक्रोधादीनां
निर्जयायोद्योगः क्रियताम् । ततो वैराग्यं प्रादुर्भाविष्यति । अहं च यथा-
समयं प्राणायामाद्यनुप्राणनेन युष्मत्सैन्यमनुग्रहीष्यामि । ऋतंभरादयश्च
देव्यः शान्त्यादिकौशलेनोपनिषद्देव्या संगतस्य भगवतः प्रबोधोदयमनु-
विधास्यन्तीति । तदहमिदानीं विवेकसंनिधि प्रस्थिता । त्वं पुनः किमा-
चरन्ती दिवसानतिवाहयसि ।
मैत्री—वयमपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १३७
ध्यायन्निमां सुखिनि दुःखिनि चानुकम्पां
पुण्यक्रियेषु मुदितां कुमताबुपेक्षाम् ।
एवं प्रसादमुपयाति हि रागलोभ-
द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥ ५ ॥
तदेवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान्नयामः ।
कुत्रेदानिं प्रियसखी महाराजमालोकयति ।
श्रद्धा—देव्या एतदेवमुक्तम् । अस्ति राढाभिधानो जनपदः । तत्र
चतस्रो भगिन्यः-मैत्रीकरुणामुदितोपेक्षाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३८ प्रबोधचन्द्रोदयम्
भागीरथीपरिसरालंकारभूते चक्रतीर्थे मीमांसानुगतया मत्या कथंचिद्धा-
र्यमाणप्राणो व्याकुलेनान्तरात्मना विवेक उपनिषद्देव्याः संगमार्थं तप-
स्तपस्यतीति ।
मैत्री—तद्गच्छतु प्रियसखी । अहमपि स्वकं नियोगमनुतिष्ठामि ।
( ता गच्छदु पियसही । अहंवि स्सकं णिओअं अणुचिट्ठामि )
श्रद्धा—एवं भवतु । (
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १३६
शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली-
निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिव-
त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥
अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च
तत्त्वावबोधादेव निवृत्तिः । यतः—
शान्त इति० मूढः अविवेकी जनः शान्ते अविद्याविक्षेपरहिते अनन्तमहिम्नि
इयत्तापरिच्छेदरहिते महिमरूपे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४० प्रबोधचन्द्रोदयम्
अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय ।
विश्वेश्वराराधनबीजजातात्तत्त्वावबोधादपरोऽभ्युपायः ॥ ७ ॥
‘प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥’
इति तत्त्वविदो व्याहरन्ति । तथा तु देव्या विष्णुभक्त्या संदिष्टं
‘उद्योगः कामादिविजयविषये क्रियताम्’ इति । अहमपि भवदर्थे गृहीत-
पक्षेति । तत्र कामस्तावत्प्रथमो वीरो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १४१
तमेव तावद्विजयार्थमादिशामि। वेदवति, आहूयतां वस्तुविचारः।
प्रतीहारी—यद्देव आज्ञापयति। (जं देवो आणवेदि) (इति निष्क्रम्य
वस्तुविचारेण सह प्रविशति)
वस्तुविचारः—अहो निर्विचारसौन्दर्याभिमानवर्धिष्णुना कामहतकेन
वञ्चितं जगत्। अथवा दुरात्मना महामोहेनैव। तथाहि—
कान्तेत्युत्पललोचनेति विपुलश्रोणिभरेत्युन्नम-
त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१५२ प्रबोधचन्द्रोदयम्
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिपुत्तिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ८ ॥
अपि च यथावस्तु विचारयताममन्दमतीनामपि पिशितपङ्कावनद्धा-
स्थिपञ्जरमयी स्वभावदुर्गन्धिर्बीभत्सवेषा नारीति नास्ति विरतिः । तदत्र
विस्पष्ट एवेतरगुणाध्यासः । तथाहि—
मुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो
रागः कुङ्कुमसंभवः सुरभयः पौष्पा विचित्राः स्रजः ।
करोतु तत्रानुरागं नासौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्थोऽङ्कः १४३
वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहौ कल्पितं
बाह्यान्तःपरिपश्यतां तु निरयो नारीति नाम्ना कृतः ॥ ६ ॥
( आकाशे ) आः पाप कामचण्डाल, किमनालम्बनमेवं भवता व्याकु-
लीक्रीयते जनः । तथा ह्ययमेवमभिमन्यते—
बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते
नीलेन्दीवरलोचना पृथुकुचोत्पीडं समाश्लिष्यति ।
अरे मूढ,
मयाः खनखनायमानमौक्तिकमयः हैमाः स्वर्णकृताः तुलाकोटयः नूपुराणि,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in