प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
by कृष्णमिश्र यति
About this granth
Prabodhachandrodaya (प्रबोधचन्द्रोदयम्), 'The Rise of the Moon of Awakening', is an allegorical Sanskrit play by Krishnamishra, generally dated to the eleventh century and the reign of the Chandela king Kirtivarman. Its characters are not people but qualities and ideas: Discrimination, Delusion, Desire, Anger, Hypocrisy, Peace, Compassion, Faith and the Upanishad personified. When Discrimination is united with the Upanishad, Awakening is born, and the play turns Advaita Vedanta's account of liberation into drama.
Over six acts the play moves from the rise of Delusion's forces, through satirical scenes of hypocrisy and of rival sects, to the search for Faith, the marshalling of Discrimination's army, the defeat of Delusion and the triumph of dispassion.
This is the 1955 edition from the Chowkhamba Vidya Bhawan, Banaras, with a commentary called Prakasha. In his introduction the commentator mentions two earlier commentaries, by Nandillagopa and by Ramadasa Dikshita, and an English translation, and explains that he wrote his own for the ordinary reader.
तृतीयोऽङ्कः १११
तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति-
रमणीयं पश्यामः ।
शान्तिः—सखि, अन्यतो गच्छावः ।
करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः )
शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु ।
अत्रापि तावदनुसरावः ।
( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः )
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११२ प्रबोधचन्द्रोदयम्
पश्यामि योगाञ्जनशुद्धचक्षुषा
जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥
क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि
पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ-
शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि ।
ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे
धम्मो,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः ११३
भिक्षुः—( कर्णौ पिधाय ) बुद्ध बुद्ध, अहो दारुणा धर्मचर्या ।
क्षपणकः—अर्हन् अर्हन् , अहो घोरपापकारिणा केनापि विप्रलब्धो
वराकः । (अलिहन्त अलिहन्त, अहो घोलपावकारिणा केणावि विप्पलद्धो वलाओ)
कापालिकः—( सक्रोधम् ) आः पाप पाखण्डापसद, मुण्डितमुण्ड-
चूडाकेश, केशलुञ्चक, अरे, विप्रलम्भकः किल चतुर्दशभुवनोत्पत्तिस्थि-
तिप्रलयप्रवर्त्तको वेदान्तप्रसिद्धसिद्धान्तविभवो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११४ प्रबोधचन्द्रोदयम्
हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे
वियति वहतां नक्षत्राणां रुणध्मि गतीरपि ।
सनगनगरीमम्भःपूर्णां विधाय महीमिमां
कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥ १४ ॥
क्षपणकः—अरे कापालिक, अत एव भणामि केनापीन्द्रजालिना
मायां दर्शयित्वा विप्रलब्धोऽसीति । (अले कावालिअ, अदो जेव्व भणामि
केणावि इन्दजालिणा माअं दंसीअ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः ११५
एतत्करालकरवालनिकृत्तकण्ठ-
नालोच्छलद्बहुलफेनिलबुद्बुदौघैः ।
सार्धं डमड्डमरुडांकृतिकूतभूत-
वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ १५ ॥
( इति खड्गमुद्यच्छति )
क्षपणकः—( सभयम् ) महाभाग, अहिंसा परमो धर्मोऽस्ति । ( महा-
भाअ, अहिंसापलमो धम्मो त्थि ) ( भिक्षोरङ्कं प्रविशति )
: भिक्षुः—( कापालिकं वारयन्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११६ प्रबोधचन्द्रोदयम्
कापालिकः- ( खड्गं प्रतिसंहरति )
क्षपणकः- ( समाश्वस्य ) महाभागो यदि संहृतघोररोषावेशः संवृत्त-
स्ततोऽहं किमपि प्रष्टुमिच्छामि । (महाभाओ जदि संहलिदघोललोसावेसो
संवृत्तो तदो अहं किंपि पुच्छिदुमिच्छेमि )
कापालिकः-पृच्छ ।
क्षपणकः-श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः ११७
पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो
मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥
भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति ।
क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी
सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि ।
सलीलो सलागी मुक्केति विरुद्धम् )
कापालिकः—(
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११६ प्रबोधचन्द्रोदयम्
करुणा—सखि, पश्य पश्य रजसः सुता श्रद्धा । या एषा—
विस्पष्टनीलोत्पललोललोचना
नरास्थिमालाकृतचारुभूषणा ।
नितम्बपीनस्तनभारमन्थरा
विभाति पूर्णेन्दुमुखी विलासिनी ॥ १७ ॥
( सहि, पेक्ख पेक्ख रजससुदा सद्धा । जा एसा—
विप्पुट्ठणीलुप्पललोललोअणा
नरत्थिमालाकिदचालुभूषणा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः ११६
भिक्षुः—(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकं ) अहो, सुखस्पर्शा
कापालिकी । तथाहि—
रण्डाः पीनपयोधराः कति मया चण्डानुरागाद्भुज-
द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिङ्गिताः ।
बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि कापालिकी
पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥
श्रद्धया गृहीते भिक्षौ तस्य हृदये कापालिकोक्तिषु विश्वासः समुत्पत्स्यते, ततश्च
तस्याप्याचारः परिवर्त्तनं यास्यति, तदर्थमेव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२० प्रबोधचन्द्रोदयम्
अहो पुण्यं कापालिकचरितमहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं
धर्मः । भो महाभाग, सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः
स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं शिष्योऽहम् । प्रवेशय मां पार-
मेश्वरीं दीक्षाम् ।
क्षपणकः—अरे भिक्षो, कापालिकीस्पर्शदूषितस्त्वम् । तद्दूरमपसर ।
( अले भिक्खुअ, कावालिणीपलसदूसिदं तुमम् । ता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२१
अयि पीनघनस्तनशोभने परित्रस्तकुरङ्गविलोचने ।
यदि रमसे कापालिकीभावैः श्रावकाः किं करिष्यन्तोति ॥ १६ ॥
अहो कापालिकदर्शनमेवैकं सौख्यमोक्षसाधनम् । भो कापालिक,
अहं तव सांप्रतं दासः संवृत्तः। मामपि महाभैरवानुशासने दीक्षय ।
( अहो अरिहन्त, अहो अरिहन्त, कापालिनीए पलससुहं । सुन्दलि, देहि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२२ प्रबोधचन्द्रोदयम्
( उभौ तथा कुरुतः )
( कापालिको भाजनं समादाय ध्यानं नाटयति )
श्रद्धा—भगवन्, सुरया पूरितं भाजनम् । (भअव्वं, सुलाए पूलितं भाअणम्)
कापालिकः—( पीत्वा शेषं भिक्षुक्षपणकयोरर्पयति )
इदं पवित्रममृतं पीयतां भवभेषजम् ।
पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ २० ॥
( उभौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२३
कापालिकः- (विमृश्य जनान्तिकम्) किं विमृशसि श्रद्धे, पशुत्व-
मनयोर्नाद्याप्यपनीयते । तेनास्मद्रदनसंसर्गदोषादपवित्रां सुरामेतौ मन्येते ।
तद्भवती स्ववक्त्रासवपूतां कृत्वाऽनयोरुपनयतु । यतस्तैर्थिका अपि वदन्ति
'स्त्रीमुखं तु सदा शुचि' इति ।
श्रद्धा—यदगवानाज्ञापयति । (जं भअवं आणवेदि) (पानपात्रं गृहीत्वा
पीतशेषमुपनयति)
भिक्षुः—महाप्रसादः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२४ प्रबोधचन्द्रोदयम्
मलब्ध्वा जानीमः स्पृहयति सुधायै सुरगणः ॥ २१ ॥
क्षपणकः—अरे भिक्षो, मा सर्वं पिब। कापालिकीवदनोच्छिष्टां मदिरां
मदर्थमपि धारय । (अले भिक्खुअ, मा सव्वं पिय। कावालिणीवअणोच्छिट्ठं
मइरं मदत्थंचि धालेसु )
( भिक्षुः क्षपणकाय चषकमपनयति )
क्षपणकः—( पीत्वा ) अहो सुराया मधुरत्वम्, अहो स्वादः, अहो
सुरभित्वम् । चिरं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकापालिकः— प्रिये, अमूल्यक्रीतं दासद्वयं लब्धम् । तन्नृत्यावस्तावत् ।
( उभौ नृत्यतः )
**क्षपणकः—**अरे भिक्षुक, एष कापालिकोऽथवाचार्यः कापालिक्या
सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सार्धमावामपि नृत्यावः । ( अहो
भिक्खुअ, एसो कावालिओ अहवा आवालिओ कानालिनीए सद्धं सोहणं णच्चेदि ।
ता एदाए सद्धं अम्हेवि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२६ प्रबोधचन्द्रोदयम्
वश्याकर्षविमोहनप्रशमनप्रक्षोभणोच्चाटन-
प्रायाः प्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥२२॥
क्षपणकः—अरे कापालिक, (विमृश्य) अथवा आचार्य, आचार्यराज,
कुलाचार्य। (अले कापालिअ, अहवा आचालिअ, आचालिअराअ, कुलाचालिअ)
भिक्षुः—(विहस्य) अयमनभ्यासातिशयपीतया मदिराया दूरमुन्मनी-
कृतस्तपस्वी। तत्क्रियतामस्य मदापनयनम्।
यन्ते। वश्यम् वशीकरणम्, आकर्ष-आकर्षणम्, मोहनं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२७
कापालिकः-एवं भवतु । ( इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति )
क्षपणकः-( स्वस्थीभूय ) आचार्य, इदं पृच्छामि । यादृशी युष्माकं
सुराया आहरणसिद्धिः किं तादृशी सिद्धिः स्त्रीषु पुरुषेष्वप्यस्ति । ( आचा-
लिय्य, एव्वं पुच्छिस्सम् । जादिसी तुम्हाणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२८ प्रबोधचन्द्रोदयम्
उभौ—यथा ज्ञातमायुष्मता। एवमेतत्।
क्षपणकः—तर्हि राजकार्यं किमपि मन्त्रितव्यम्। (ता लाअकज्जं किवि
मन्तिदव्वम्)
कापालिकः—कि तत्।
क्षपणकः—सत्त्वस्य सुता श्रद्धा महाराजस्याज्ञयाह्रियतामिति ।
(सत्तस्स सुदा सद्धा महालाअस्स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयोऽङ्कः १२६
नास्ति जले नास्ति स्थले, नास्ति गिरिगह्वरेषु नास्ति पाताले ।
सा विष्णुभक्त्या सहिता, वसति हृदये महात्मनाम् ॥ २४ ॥
(णत्थि जले णत्थि थले, णत्थि गिलिगव्व्हलेसु णत्थि पाआले ।
सा विण्णुभत्तिसहिदा, वसदि हिअए महम्माणम् ॥)
करुणा— (सानन्दम्) सखि, दिष्ट्या वर्धसे विष्णुभक्त्या देव्याः
पार्श्ववर्तिनी श्रद्धेति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३० प्रबोधचन्द्रोदयम्
मूलं देवी सिद्धये विष्णुभक्ति-
स्तां च श्रद्धानुव्रता सत्त्वकन्या ।
कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे-
त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥
तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं
विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । ( इति निष्क्रान्ताः सर्वे )
शान्तिः—आवामप्येवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in