पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
by कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री)
Page 91 of 109
Read in context६८ पञ्चमाध्यायः
अथ लतावेष्टितकमालिङ्गनं वर्णयति=
ऊर्ध्वं भुजाभ्यां मग्लाङ्गयष्टी-
क्षोणीरुहं वल्लिरिवाऽधिरुह्य ।
नारी प्रियं चुम्बति निस्तरङ्गा
भवेल्लतावेष्टितमङ्गकं तत् ॥ ३१ ॥
अथ जाघनमालिङ्गनं वर्णयति=
श्रोणीतटे बाहुयुगेन कान्त-
मापीड्य मुक्ताम्बरकेशभाग ।
वक्त्रामृतं स्वादयति प्रहृष्टा
तज्ज्ञैः स्फुटं जाघनमॆतदेव ॥ ३२ ॥
अथ विद्धकाख्यमालिङ्गनं लक्षयति=
स्थितोपविष्टं पुरुषं पुरन्ध्री
सम्मीलिताक्षं स्वकराग्रबन्धात् ।
आविध्यति प्रेमलतत्कुचाभ्या-
मालिङ्गनं विद्धकमंतदाहुः ॥ ३३ ॥
अथ ऊरुपगूढमालिङ्गनं लक्षयति—
कान्तो मनोज व्यथिताङ्गयष्ट्यां-
आपीडयेदुरुयुगं युवत्या ।
ऊरूपघातेन कविप्रवीरै-
रूरूपगूढं तदिदं प्रदिष्टम् ॥ ३४ ॥
(१) “विद्धार्कमालिङ्गनमेतदाहुः ” इत्यन्वयदलवाक्यमिदं पाठान्तरमसमाधानं,
। तथा व्याख्याताभिप्रायस्य पूर्वमनन्वयदोषानुपलभ्यमानत्वात् इति ग्रन्थोक्त विद्धकलक्ष-
णासादृश्यात् समग्रवपुर्मन्त्रणपाठावरोधाच्च । रतिरहस्यस्य विद्धकलक्षणसादृश्यं यथा—
“दृढ श्लक्ष्णालिङ्गन वनिता चेत्तिष्ठतोपविष्टं पुरुषं स्तनाभ्याम् ।
• निपीड्येदं प्रियं तां गाढं गृहा