न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
by आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री)
About this granth
Nyayabindu (न्यायबिन्दु), "A Drop of Logic", is a concise treatise on epistemology by the seventh-century Buddhist master Dharmakirti. Building on Dignaga, Dharmakirti became the most influential figure in Buddhist logic, and the Nyayabindu is the most approachable statement of his system. Dharmottara's Sanskrit commentary on it is the classic companion text.
The work has three chapters: perception and its kinds; inference for oneself and the three marks of a valid reason; and inference for others, with the fallacies of reason. It has long served as a primer in Indian epistemology and Buddhist pramana theory.
This edition is no. 22 of the Kashi Sanskrit Series, the first title in its Buddhist Nyaya section. Acharya Chandrashekhar Shastri, a teacher at Banaras Hindu University, edited the text with Dharmottara's commentary, a Hindi translation, an introduction and notes on difficult passages. It was published by the Chowkhamba Sanskrit Series Office, Banaras; the first edition appeared in 1924 and this second edition in 1954 (Samvat 2011). It runs to about 176 pages.
नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थान्नोत्पद्यते । ततः प्रतिभास-
नियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यत इति । अर्थसंनिधिनिरपेक्षत्वात् ।
बालोऽपि हिं यावद्दृश्यमानं स्तनं स एवायमिति पूर्वदृष्टत्वेन न प्रत्यव-
मृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकी-
कुर्वद्विज्ञानमसन्निहितविषयम् । पूर्वदृष्टस्यासन्निहितत्वात् । असन्निहित-
विषयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२ न्यायबिन्दुः
तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं
ज्ञानं प्रत्यक्षम् ।
तिमिरमक्ष्णोर्विप्लवः¹। इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रम-
णमलातादेः । मन्दं हि³ भ्रम्यमाणे⁴ऽलातादौ न चक्रभ्रान्तिरुत्पद्यते ।
तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् ।
नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमपरिच्छेदः १३
मानसप्रत्यक्षे १ परैर्यो २ दोष उद्भावितस्तं ३ निराकर्त्तुं मानसप्रत्यक्ष-
लक्षणमाह—
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समन-
न्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।
स्व आत्मीयो विषय इन्द्रियज्ञानस्य ४ तस्यानन्तरः ५ । न विद्यतेऽन्तर-
मस्येत्यनन्तरः । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे
प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४ न्यायबिन्दुः
एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति
प्रमाणम् । एवं जातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षण-
माख्यातमस्येति ।
स्वसंवेदनमाख्यातुमाह—
सर्वचित्तचैत्तानामात्मसंवेदनम् ।
चित्तमर्थमात्रग्राहि । चैत्ता विशेषावस्थाग्राहिणः सुखादयः¹ । सर्वे
च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंवि-
दिताः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in¹र्यसत्यानि । भूतार्थस्य भावना पुनः पुनश्चेतसि विनिवेशनम्² । भावनायाः³
प्रकर्षो भाव्यमानार्थाभासस्य⁴ ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य पर्यन्तो
यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्णं तावत्त-
स्य प्रकर्षगतिः⁵ । सम्पूर्णं तु यदा तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णा-
वस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्ताद्यज्जातं
भाव्यमानस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६ : न्यायबिन्दुः
यदसाधारणं तत्प्रत्यक्षग्राह्यम् । द्विविधो हि प्रमाणस्य¹ विषयो ग्राह्यश्च यर्द्दा-
कारमुत्पद्यते । प्रापणीयश्च यमध्यवस्यति² । अन्यो हि ग्राह्यो³ऽन्योऽध्यव-
सेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षबलोत्प-
न्नेन निश्चयेन संतान एव । संतान⁵ एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य
प्रापयितुमशक्यत्वात्⁶ । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽनर्थाध्यवसायेन⁷
प्रवृत्तेरनर्थग्राहि ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमपरिच्छेदः १७
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् । तथा हि विकल्पविषयोपि
वहिर्दृश्यात्मक एवावसीयत इत्याह—
तदेव परमार्थसत् ।
परमार्थोऽकृत्रिममनारोपितं रूपम् । तेनास्तीति परमार्थसत् । य
एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमा-
र्थसन्स एव । स एवं च प्रत्यक्षविषयो यतस्तस्मात्तदेव स्वलक्षणम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८ न्यायबिन्दुः
मित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततस्तत्^१सामान्य-
लक्षणम् ।
तच्चानुमानस्य ग्राह्यं दर्शयितुमाह—
सोऽनुमानस्य विषयः ।
सोऽनुमानस्य विषयो ग्राह्यरूपः । सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः ।
सामान्यलक्षणम् । अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपा-
ख्यानग्रन्थ आवर्तनीयः^२ स्यात् । ततो लाघवार्थं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं
प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते ।
तत्कथं सारूप्यप्रमाणमित्याह—
तद्वशादर्थप्रतीतिसिद्धेरिति ।
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरव-
बोधस्तस्याः सिद्धिः । तत्सिद्धेः¹ कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं
विज्ञानं सारूप्यवशात्सिध्यति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२० न्यायबिन्दुः
अकृते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् ।
तथा च प्रमाणफलमर्थाधिगमरूपत्वं१मनिष्पन्नम् । अतः साधकतमाभा-
वात्प्रमाणमेव न स्याज्ज्ञानम् । जनितेन त्वध्यवसायेन सारूप्यवशान्नील-
बोधरूपे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअथ द्वितीयपरिच्छेदः।
एवं प्रत्यक्षंव्याख्यायानुमानं व्याख्यातुमाह¹—
अनुमानं द्विधा।
द्विप्रकारकम् । अथानुमानलक्षणे वक्तव्ये किमस्मात्प्रकारभेदः
कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं स्वार्थानुमानं तु ज्ञानात्मकम्।
तयोरत्यन्तभेदा²न्नैकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं³ लक्षणमाख्यातुं⁴
प्रकारभेदः कथ्यते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवेदितव्या । यथा हि नीलरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्था-
प्यते । तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् । नीलबोधरूपं तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीय परिच्छेद: स्वार्थानुमान प्रमाण एवं त्रिरूप-हेतु लक्षण
द्वितीयपरिच्छेदः २३
नैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमिति कुर्या-१
च्छावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन संदिग्धासिद्धः सर्वो निरस्तः ।
सपक्ष एव सत्त्वम् ।
सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् ।
इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः । स२ हि नास्ति सपक्षे । एवकारेण
साधारणानैकान्तिकः । अनित्यः शब्दः प्रमेयत्वात्३ । स५ हि न सपक्ष
एव वर्तते किं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४ न्यायविन्दुः
ननु च सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव ।
तत्किमर्थं पुनरुभयोरुपादानं कृतम् । तदुच्यते । अन्वयो व्यतिरेको वा
नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् ।
अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् । सपक्षे योऽस्ति विपक्षे च
नास्ति स हेतुरिति । तथा च सति स श्यामस्तत्पुत्रत्वादृश्यमानपुत्रवदिति
तत्पुत्रत्वं हेतुः स्यात् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसावसिद्धत्वाद्धर्मश्च पराश्रितत्वात्साध्यधर्मः । न च विशेषः साध्यः ।
अपि तु सामान्यम् । अत इह सामान्यं साध्यमुक्तम् । साध्यधर्मश्चासौ
सामान्यं चेति साध्यधर्मसामान्येन समानः पक्षेण सपक्ष इत्यर्थः ।
कोऽसपक्ष इत्याह—
न सपक्षोऽसपक्षः ।
न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअनुपलब्धिमुदाहर्तुमाह—
तत्रानुपलब्धिर्यथा न प्रदेशविशेषे कचिद्धट
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ।
यथेत्यादि । यथेत्युपदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्यापि ।
न त्वियमेवेत्यर्थः । प्रदेश एकदेशः । विशिष्यत इति विशेषः प्रतिपत्तृ-
प्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह क्वचिदिति । प्रतिपत्तृप्रत्यक्षे
क्वचिदेव प्रदेश इति धर्मी । न घट इति साध्यम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयपरिच्छेदः २७
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह—
उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं
स्वभावविशेषश्च ।
उपलब्धिलक्षणप्राप्तिरुपलब्धिलक्षणप्राप्तत्वं घटस्य । उपलम्भप्रत्यया-
न्तरसाकल्यमिति । ज्ञानस्य घटोऽपि जनकः । अन्ये च चक्षुरादयः ।
घटाद्दृश्यादन्ये हेतवः प्रत्ययान्तराणि । तेषां साकल्यं संनिधिः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह—
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ।
स्वभावो हेतुरिति सम्बन्धः । १कीदृशो हेतुः साध्यस्यैव स्वभाव
इत्याह । स्वस्यात्मनः सत्ता सैव केवला स्वसत्तामात्रम् । तस्मिन् सति
भवितुं शीलं यस्येति । यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति न
तु हेतुसत्ताया व्यतिरिक्तं कञ्चिद्धेतुमपेक्षते स२
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयपरिच्छेदः २६
ननु त्रिरूपत्वादेकमेव लिङ्गमयुक्तम्१। अथ प्रकारभेदाद्भेदः। एवं
सति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३० न्यायबिन्दुः
यत्र स्वभावेन न प्रतिबद्धस्तस्य तदप्रतिबद्धस्य तदव्यभिचारनियमाभावस्त-
स्याप्रतिबद्धविषयस्याव्यभिचारस्तद्व्यभिचारस्तस्य नियमस्तदव्यभिचारनि-
यमस्तस्याभावात् । अयमर्थः । न हि यो यत्र स्वभावेन न प्रतिबद्धः स
तमप्रतिबद्धविषयमवश्यमेव न व्यभिचरतीति नास्ति तयोरव्यभिचार-
नियमः । अविनाभावनियमः । अव्यभिचारनियमाच्च गम्यगमकभावः ।
नहि योग्यतया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in