न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
by आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री)
About this granth
Nyayabindu (न्यायबिन्दु), "A Drop of Logic", is a concise treatise on epistemology by the seventh-century Buddhist master Dharmakirti. Building on Dignaga, Dharmakirti became the most influential figure in Buddhist logic, and the Nyayabindu is the most approachable statement of his system. Dharmottara's Sanskrit commentary on it is the classic companion text.
The work has three chapters: perception and its kinds; inference for oneself and the three marks of a valid reason; and inference for others, with the fallacies of reason. It has long served as a primer in Indian epistemology and Buddhist pramana theory.
This edition is no. 22 of the Kashi Sanskrit Series, the first title in its Buddhist Nyaya section. Acharya Chandrashekhar Shastri, a teacher at Banaras Hindu University, edited the text with Dharmottara's commentary, a Hindi translation, an introduction and notes on difficult passages. It was published by the Chowkhamba Sanskrit Series Office, Banaras; the first edition appeared in 1924 and this second edition in 1954 (Samvat 2011). It runs to about 176 pages.
त्त्या व्याप्तो न शोषमात्रम् । ततो यन्मरणहेतुस्तत्तरुष्वसिद्धम् । यत्तु
सिद्धं शोषात्मकं तद्धेतुः । दिगम्बरस्तु साध्येन व्याप्तमव्याप्तं वा मरण-
मविविच्य मरणमात्रं हेतुमाह । तदस्य वादिनो हेतुभूतं मरणं न ज्ञातम् ।
अज्ञानात्सिद्धं शोषरूपम् । शोषरूपस्य मरणस्य तरुषु दर्शनात् । प्रति-
वादिनस्तु ज्ञातमतोऽसिद्धम् । यदा तु वादिनोऽपि ज्ञातं तदा वादिनोप्य-
सिद्धं स्यादिति न्यायः ।
अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनि-
त्यं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् ।
अचेतनाः सुखादय इति । सुखमादिर्येषां दुःखादीनां ते सुखा-
दयः । तेषामचैतन्ये साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा लिङ्गमुपन्यस्तम् ।
य उत्पत्तिमन्तोऽनित्या वा ते न चेतना यथा रूपादयः । तथा चोत्प-
त्तिमन्तोऽनित्या वा सुखादयस्तस्मादचेतनाः । चैतन्यं तु पुरुषस्य स्वं
रूपम् । अत्र चोत्पत्तिमत्त्वमनित्यत्वं वा पर्यायेण हेतुर्न युगपत् । तच्च
द्वयमपि सांख्यस्य वादिनो न सिद्धम् । परार्थो हि हेतूपन्यासः । तेन यः
परस्य सिद्धः स हेतुर्वक्तव्यः । परस्य चासत उत्पाद उत्पत्तिमत्त्वम् । सतश्च
निरन्वयो विनाशोऽनित्यत्वं सिद्धम् । तादृशं च द्वयमपि सांख्यस्यासि-
द्धम् । इहाप्यनित्यत्वोत्पत्तिमत्त्वसाधनाज्ञानाद्वादिनोऽसिद्धम् । यदि
त्वनित्यत्वोत्पत्तिमत्त्वयोः प्रमाणं वादिनो ज्ञातं स्यात् । वादिनोपि सिद्धं
स्यात् । ततः प्रमाणापरिज्ञानादिदं वादिनोऽसिद्धम् ।
सन्दिग्धासिद्धं दर्शयितुमाह—
तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः ।
स्वयमिति । हेतोरात्मनः संदेहेऽसिद्धः । तदाश्रयणस्य चेति ।
तस्य हेतोराश्रयणमाश्रीयतेऽस्मिन्हेतुरित्याश्रयणं हेतोर्व्यतिरिक्त आश्रयभूतः
साध्यधर्मी कथ्यते । तत्र हि हेतुर्वर्तमानो गमकत्वेनाश्रीयते । तस्याश्रय-
णस्य संदेहे संदिग्धः ।
१ सत्त्या, क० मुद्रितपुस्तके च 'सत्ताया'। २ ततः क० तत्र। ३ हेतुभूतं, क०
हेतुज्ञात्तत्वं (अशुद्धः)। ४ परार्थो हि, ख० परार्थादि। ५ प्रमाणं, ख० प्रमाण्यं।
६ स्यात्, ख० स्यात्तदा।
७० न्यायबिन्दुः
स्वात्मना संदिग्धमानमुदाहर्तुमाह—
यथा वाष्पा१दिभावेन संदिह्यमानो भूतसंघातोऽ-
ग्निसिद्धावुपदिश्यमानः संदिग्धसिद्धः।
यथेति। बाष्प आदिर्यस्य स बाष्पादिस्तद्भावेन बाष्पादित्वेन
संदिह्यमानो भूतसंघात इति। भूतानां पृथिव्यादीनां संघातः समूहः।
अग्निसिद्धावग्निसिद्ध्यर्थमुपादीयमानोऽसिद्धः। एतदुक्तं भवति। यदा
धूमोऽपि बाष्पादित्वेन संदिग्धो भवति। तदासिद्धो गर्मे²करूपानिश्चयाद्धू-
मतया निश्चितो वह्निजन्यत्वादमकः। यदा तु संदिग्धस्तदा न गमक
इति। असिद्धताख्यो दोषः।
आश्रयणासिद्धमुदाहरति—
यथेह निकुञ्जे मयूरः केकायितादिति ।
यथेति। इह निकुञ्ज इति धर्मी। पर्वतोपरिभागेन तिर्यङ्निर्गतेन
प्रच्छादितो भूभागो निकुञ्जः। मयूर इति साध्यम्। केकायितादिति
हेतुः। केकायितं मयूरध्वनिः।
कथमाश्रयणासिद्ध इत्याह—
तदापातदेशविभ्रमे ।
तदापातं³ इति। तस्य केकायितस्यापात आगमनं तस्य देशः स
उच्यते। यस्माद्देशादागच्छति केकायितम्। तस्य विभ्रमे व्यामोहे सत्य-
यमाश्रयणासिद्धः। निरन्तरेषु बहुषु निकुञ्जेषु सत्सु यदा केकायितापा४त-
विभ्रमः किमस्मान्निकुञ्जातकेकायितमागतमाहोस्विदस्मा५दिति तदाश्रयणा-
सिद्ध इति।
धर्मिणो सिद्धावप्यसिद्धत्वमुदाहरति—
धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति साध्ये
सर्वत्रोपलभमानगुणत्वम् ।
यथेति। सर्वस्मिन् गतः स्थितः सर्वगतो व्यापीति यावत्। व्यापित्व
१ क० वाष्पादियमाना। २ क० गक। ३ क० तद्घात। ४ केकायितापा-
तविभ्रमः, ख० केकायितापातनिकुंजे विभ्रमः। ५ अस्मात्, ख० अन्यस्मात्।
तृतीयपरिच्छेदः ७१
आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्य-
मानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न
गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रिय-
श्चात्मा । ततश्च यदि व्यापी न भवेत्कथं दक्षिणापथ उपलब्धाः सुखादयो
मध्यदेश उपलभ्येरन् । तस्मात्सर्वगत आत्मा । तदिह बौद्धस्यात्मैव न
सिद्धः किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् । तस्येत्यसिद्धौ हेत्वा-
भासः । पूर्वमाश्रयगसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्वसिद्धो
धर्म्युक्त इत्यनयोर्विशेषस्तदेवमेकस्य रूपस्य धर्मिबद्धस्यासिद्धावसिद्धो
हेत्वाभासः ।
तथैकस्य रूपस्यासपक्षेऽसत्त्वस्य१सिद्धावनैकान्तिको
हेत्वाभासः ।
तथा परस्यैकस्य रूपस्यासपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वा-
भासः । एकोऽन्त एकान्तो निश्चयः । स प्रयोजनमस्येत्यैकान्तिकः ।
नैकान्तिकोऽनैकान्तिकः । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि
तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतुरनैकान्तिक उक्तः ।
तमुदाहरति—
यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वा-
दिको धर्मः सपक्षविपक्षयोः । सर्वत्रैकदेशे वा वर्तमान-
स्तथास्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ।
यथेत्यादिना । अनित्यत्वमादिर्यस्य सोऽनित्यत्वादिको धर्मः ।
आदिशब्दात्प्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं२ च परिगृ-
ह्यते प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदिशब्दादनित्यत्वं पुनरनि-
त्यत्वममूर्तत्वं च गृह्यते३ । शब्दस्य धर्मिणोऽनित्यत्वादिके धर्मे साध्ये प्रमे-
यत्वादिको धर्मोऽनैकान्तिकः । चतुर्णामपि विपक्षेऽसत्त्वमसिद्धम् । तथाहि ।
अनित्यः शब्दः प्रमेयत्वादाकाशवद्धटवदिति प्रमेयत्वं सपक्षविपक्षव्यापि ।
१ मुद्रितपुस्तकस्य 'सत्त्वस्य' इति पाठोऽशुद्धः प्रतीयते । २ पदमिदं ख० पुस्तके
नोपलभ्यते । ३ गृह्यते, ख० गृह्णन्ते ।
७२ : न्यायबिन्दुः
अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वाद्विद्युदाकाशवद्¹घटवच्चेत्यनित्यत्वं स-
पक्षैकदेशवृत्ति विद्युदादावस्ति नाकाशादौ । विपक्षाव्यापि प्रयत्नानन्तरीयके
सर्वत्र भावात् । अनित्यत्वादप्रयत्नानन्तरीयकः शब्दो घटवद्विद्युदाकाश-
वच्चेत्यनित्यत्वं विपक्षैकदेशशब्दवृत्ति विद्युदादावस्ति नाकाशादौ । सप-
क्षाव्यापि सर्वत्र प्रयत्नानन्तरीयके भावात् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयपरिच्छेदः ७३
एवं प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहे
हेतुत्वात् ।
एवंप्रकारस्यैवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्याह ।
अदृश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् ।
असर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७४ न्यायबिन्दुः
हीति¹। यस्माद् द्विविध एव विरोधो नान्यः। तस्मान्न वक्तृत्वसर्वज्ञत्व-
योर्विरोधः।
कः पुनरसौ द्विविधो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयपरिच्छेदः ७५
ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनक-
स्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रम् निवर्तते । जन्यजनक-
भावाच्च संतानयोर्विरोधो न क्षणयोः । यद्यपि च न संतानो नाम वस्तु
तथापि संतानिनो वस्तुभूताः । ततोऽयं परमार्थः न क्षणयोर्विरोधः ।
अपि तु बहूनां क्षणानाम् । यतः सत्सु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्परपरिहारस्थितलक्षणता तया। इह यस्मिन्परिच्छिद्यमाने यद्व्यवच्छिद्यते
तत्परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम्। नीले च
परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते तद्व्यवच्छेदे नीलापरिच्छेद-
प्रसङ्गात्। तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ। नीलात्तु
यदन्यरूपं तन्नीलाभावाव्यभिचारि। नीलस्य दृश्यस्य पीतादावुपलभ्यमाने
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानं^१-
विरोधः । तस्माल्लिङ्गव्यापारौ भिन्नविषयौ च । ततो नानयोरन्योन्यान्त-
र्भाव इति ।
स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञतयोर्न संभवति ।
स चायं द्विविधोऽपि^२ विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न
संभवति न ह्यविकलकारणस्य सर्वज्ञत्वस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीय परिच्छेद: परार्थानुमान प्रमाण, हेत्वाभास एवं न्यायबिन्दु उपसंहार
७८ न्यायबिन्दुः
सहचारिणि निवृत्ते निवर्तते वचनमित्याशङ्क्याह—
अर्थान्तरस्य वा कारणस्य निवृत्तौ न वचनादेर्नि-
वृत्तिरिति संदिग्धव्यतिरेकोऽनैकान्तिको वचनादिः ।
अर्थान्तरस्य वा कारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य
वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्चेति । इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअनयोरिति । सपक्षे नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव
निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ।
कस्मात्पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह —
एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ।
एतौ च साध्यस्य नित्यत्वस्य विपर्ययमनित्यत्वं साधयतः साध्य-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८० न्यायबिन्दुः
ब्रुवाणः सांख्यः । कुत एतदिति पर्य्यनुयुक्तो बौद्धेनेदमात्मनः सिद्धये प्रमाण-
माह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु
हेतुविपर्ययव्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च
युगपत्क्रमेण वा भवति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयपरिच्छेदः ८१
ननूक्तमात्रमेव साध्यं तेनाविशेष इति । द्वयो रूपयोरसिद्धौ विरुद्ध
उक्तः । अनयोर्द्वयोर्मध्य एकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः । कीदृ-
शोऽसावित्याह—
यथा वीतरागः कश्चित्सर्वज्ञो वा वक्तृत्वादिति ।
व्यतिरेकोऽत्रासिद्धः । संदिग्धोऽन्वयः ।
यथेति । विगतो रागो यस्य स वीतराग इत्येकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८२ न्यायबिन्दुः
धर्मो धर्मिणमवियुक्तं द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयादतो न संश-
यहेतुः स्यात् । द्वयोर्धर्मयोरनियतं भावं दर्शयन्संशयहेतुर्द्वयोस्त्वनियतमपि
भावं दर्शयितुमशक्तोऽप्रतिपत्तिहेतुर्नियतं भावं दर्शयन्हेतुर्विरुद्धो वा स्यात्त-
स्माद्येकाभ्यां सर्वं वस्तु संगृह्यते तयोः संशयहेतुर्यदि तयोरेकत्रापि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयपरिच्छेदः ८३
तदाह—
सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धिः ।
सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि
प्राणादेर्धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चितत्वात् । तदेवमसाधारणस्य धर्म-
स्यानैकान्तिकत्वे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inननु च प्रतिवादिनो न किञ्चित्सात्मकमस्ति । ततोऽस्य हेतोर्न
सात्मकेऽन्वयो न व्यतिरेक इत्यन्वयव्यतिरेकयोरभावनिश्चयः । सात्मके
न तु सद्भावसंशय इत्याह—
नापि सात्मकान्निरात्मकाच्च तस्यान्वयव्यतिरेकयोर-
भावनिश्चयः ।
नापि सात्मकाद्वस्तुनस्तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः ।
नापि च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतृतीयपरिच्छेदः ८५
व्यतिरेकयोरभावनिश्चयः । एकवस्तुन्येकवस्तुनो युगपद्भावाभावविरोधात् ।
तयोरभावनिश्चयायोगात् । न च प्रतिवाद्यनुरोधात्सात्मकानात्मके वस्तुनी
सदसती किं तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inहेत्वाभासो युज्यते स तस्यासिद्धेः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य
येन येन योगो यथायोगमिति ।
विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह
कस्मान्नोक्तः ।
ननु चाचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । हेत्वन्तरसा-
धितस्य विरुद्धं यत्तन्न व्यभिचरति स विरुद्धाव्यभिचारी । यदि वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।
Wait, is "तदर्थविचारेषु" spelt with 'र्थ'?
Yes: "तदर्थविचारेषु".
यस्माद्वस्तुबलप्रवृत्तेऽनुमाने न संभवति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inनहीति । न हेतुषु कल्पनया हेतुत्वव्यवस्थापि तु वस्तुस्थित्या ।
ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य संभवो नास्ति ।
अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता वस्तुस्थितिव्यवस्था
येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा
स्थिता न कल्पनायातस्तेषु न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in