मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
by महाकवि विशाखदत्त
Page 196 of 488
Read in context- द्वितीयोऽङ्कः १०१
प्रसाद गुण है और उपजाति छन्द है। यह छन्द इन्द्रवज्रा और उपेन्द्रवज्रा-इन दोनों छन्दों के मिश्रण से बनता है। इन दोनों छन्दों के लक्षण इस प्रकार हैं- 'स्यादिन्द्रवज्रा यदि तौ जगौ गः'। 'उपेन्द्रवज्रा जतजास्ततो गौ' ॥२॥
तदेवमनयोर्बुद्धिशालिनोः सुसचिवयोर्विरोधे संशयितेव नन्दकुल-लक्ष्मीः । कुतः—
विरुद्धयोर्भृशमिह मन्त्रिमुख्ययो-
र्महावने वनगजयोरिवान्तरे ।
अनिश्चयाद्गजवशयेव भीतया
गतागतैर्ध्रुवमिव खिद्यते श्रिया ॥३॥
अन्वयः—इह महावने वनगज्योः इव भृशं विरुद्धयोः मन्त्रिमुख्ययोः अन्तरे अनिश्चयात् भीतया गजवशया इव श्रिया गतागतैः ध्रुवं खिद्यते इव ॥३॥
व्याख्या—इह—अस्मिन् मगधराज्ये, महावने—महारण्ये, वनगज्योः इव—वन्यहस्तिनोः इव, भृशम्—अत्यर्थम्, विरुद्धयोः—प्रारब्धविरोधयोः, मन्त्रिमुख्ययोः—प्रधानामात्ययोः चाणक्यराक्षसयोः, अन्तरे—मध्ये, अनिश्चयात्—अस्थिरत्वात्, भीतया—त्रस्तया, गजवशया इव—करिण्या इव, श्रिया—राजलक्ष्म्या, गतागतैः—गमनागमनैः, ध्रुवं—निश्चितं, खिद्यते इव, क्लिश्यते इव ॥३॥
हिन्दी अनुवाद—तो इस प्रकार इन दोनों बुद्धिमान् सुमन्त्रियों के विरोध होने पर नन्दवंश की लक्ष्मी मानों सन्देह में पड़ गई है। क्योंकि—
यहाँ बड़े वन में दो जंगली हाथियों के समान अत्यधिक विरोधी दो प्रधान मन्त्रियों के बीच में (जय-पराजय मे) अनिश्चय के कारण डरी हुई हथिनी की तरह लक्ष्मी जाने-आने से निश्चित ही दुःख उठा रही है ॥३॥
टिप्पणी—बुद्धिशालिनोः—बुद्धिमतोः । बुद्ध्या शालेते शोभेते इति बुद्धि√शाल् + णिनि साधुकारिणि कर्तरि = बुद्धिशालिनौ, तयोः । संशयिता—सन्देहमापन्ना । संशयः जातः अस्याः इति संशय + इतच् तारकादित्वात् । महावने—महच्च तत् वनम् महावनम् कर्मधारय स०, 'आन्महतः'—इत्यात्वम्, तस्मिन् । भृशम्—अत्यंत । 'अतिवेलभृशात्यर्थम्' इत्यमरः । मन्त्रिमुख्ययोः—मन्त्रिणां मुख्यौ वा मन्त्रिषु मुख्यौ, तयोः । अनिश्चयात्—निस् वा निर्√चि + अच् भावे = निश्चयः । न निश्चयः अनिश्चयः नञ्तत्, तस्मात् । गजवशया—हथिनी ।