मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
खं. ६ अ. २३
पान ६७
आययुस्ते महेश्वराः। बंधाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥३६॥ एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः। तथापि
क्षेत्रसंन्यागं न चकार कदाचन ॥३७॥ ततो गणेश्वरो देवो ययौ भक्त्या नियंत्रितः। स्तुतः संपूजितस्तेन तमीप्सित-
वरं ददौ ॥३८॥ स ययाचे गणेशानं तव सान्निध्यगं कुरु। तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥३९॥ तथेति
तं चकारासौ मयूरेशो महामुनिम्। स बभूव महेशाना योगप्रिय इति श्रुतः ॥४०॥ एवं नानाविधास्तत्र क्षेत्रसंन्यास-
माश्रिताः। सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥४१॥ इति सर्वं समाख्यातं संक्षेपेण मया परम्। श्रवणात्
पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥४२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः। मयूरे तीर्थमुख्यं किं वद योगींद्रनायक। तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥१॥
भृशुंड्युवाच। क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः। गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥२॥ यथा पंचविधं सर्वं
भासते विविधार्थतः। चतुर्विधं जगत् संस्थं पंचमं ब्रह्म उच्यते ॥३॥ गंगा च यमुनादेवी सरस्वती महानदी। त्रिगुणरूप-
संयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥४॥ तुरीया सर्वतीर्थाख्या ब्रह्मकमंडलूद्भवा। तासां संयोगभावे तु पंचमं ब्रह्म उच्यते
॥५॥ तदेव तीर्थरूपेण प्रकटं संबभूव ह। गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥६॥ भूस्वानंदमयं क्षेत्रं गणेशेन
प्रकाशितम्। मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥७॥ ततोऽंकुशेन पृथ्वीं स भेदयामास मायया। तीर्थं ब्रह्ममयं
तत्र सेवार्थं तु समाययौ ॥८॥ ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः। अक्षयं जलसंयुक्तं कुंडं तत्र बभूव ह ॥९॥
नाम तस्य चकाराऽसौ गणेशकुंडमादरात्। तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥१०॥ जलस्पर्शादिसंभूतं पुण्यं
वक्तुं न शक्यते। साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥११॥ स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमंडलूद्भवा। तुरीया
सर्वतीर्थानां ज्ञातव्यं शास्त्रसंमतम् ॥१२॥ भागीरथी तृतीया च स्नानेन स्वर्गदायिनी। स्वर्णदी सा समाख्याता विशेषेण
महेश्वराः ॥१३॥ ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी। त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥१४॥ यमुना च
[Header]
खं. ६ अ. २३ | पान ६८
ततः ख्याता स्थूलरूपा महानदी। सप्तभिर्दिवसैः साक्षाज्जंतूनां स्वर्गदा मता ॥१५॥ अन्या नानाविधास्ताभ्यः कथनं नैव
शक्यते। अतः संक्षेपतः प्रोक्तं माहात्म्यं पंचसंभवम् ॥१६॥ अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः। गुर्जरे पापकमी तु
राजा भद्रोऽभवत् पुरा ॥१७॥ स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः। यथेच्छं वर्तयामास नानापापपरायणः ॥१८॥
एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः। एकांते बुभुजे तां स हाहाकाररवाकुलाम् ॥१९॥ इत्यादिविविधान्येव चकार
देवसत्तमाः। पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्त्तते ॥२०॥ मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम्। बद्ध्वा संताड्य
तत्रैकं चित्रं पूर्ण बभूव ह ॥२१॥ गच्छता तेन संदृष्टं विमानं सूर्यसन्निभम्। गणेशकुंडतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥२२॥
तस्यांगवायुना स्पृष्टो भद्रः पापपरः परः। पापहीनो बभूवाऽपि जगाम यममंदिरम् ॥२३॥ यमेन नरयोन्यां स संक्षिप्तो
वैश्ययोनिजः। बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥२४॥ स्वर्गात् पतनकाले स सस्मार कुंडमुत्तमम्। तेन संस्कार-
योगेन मयूरेशं समाययौ ॥२५॥ दृष्ट्वा गणेशकुंडं स जातिस्मरो बभूव ह। ततः क्षेत्रं समाश्रित्य कुंडपूजापरोऽभवत् ॥२६॥
ममार कुंडसान्निध्ये ब्रह्मभूतो बभूव ह। एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥२७॥ देवेशा ऊचुः। गणेशकुंडद्रष्टा स
कथं जातो महामते। किं जातियो वद स्वामिन्नाश्चर्यं भासते परम् ॥२८॥ भृशंड्युवाच। चांडालः कोऽपि पापात्मा नित्यं
पापपरोऽभवत्। कंचिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥२९॥ स आगतो मयूरेशं कथयामास मानवान्। जघान
द्रव्यलोभी च चांडालो मानवान् सदा ॥३०॥ समाययौ मे सांनिध्यमधुनाऽत्र विशेषतः। मारणाय न संदेहस्तच्छ्रुत्वा स
पपाल ह ॥३१॥ लोका यात्रारताः सर्वे नैव मत्ताडने रताः। पलता तेन कुंडं तु दृष्टं गाणेश्वरं महत् ॥३२॥ क्षेत्रं त्यक्त्वा
गतं दूरे ममार विषयप्रियम्। भोगबुद्धियुतं दुष्टं निन्युरिंद्रपुरेऽमराः ॥३३॥ गणेशकुंडजेनैव दर्शनेन न संशयः। पापानि
विलयं यांति मुक्तिर्मुक्तिस्ततो भवेत् ॥३४॥ अन्यच्छृणुत देवेशाश्चरितं कुंडसंभवम्। वैश्यः कश्चित् समायातो द्रव्यलोभी
मयूरके ॥३५॥ प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरंजसा। स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥३६॥
तत्र यात्रापरा लोका अवदंस्ते परस्परम्। गणेशकुंडमाहात्म्यं सोऽपि शुश्राव मंदधीः ॥३७॥ विचारमकरोचित्ते दर्शनेनात्र
लभ्यते। मुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥३८॥ अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः। तदा दर्शनमेवं
मे कुंडस्यात्र भविष्यति ॥३९॥ इति विचार्य खाद्यानि गृह्य कुंडगतोऽभवत्। दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो
खं. ६ अ. २३ पान ६९
॥४०॥ पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥४१॥ ततो विमानमारुह्य
शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुंडदर्शनात् ॥४२॥ अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ
मेघमणीसंज्ञौ मालवे संबभूवतुः ॥४३॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं
प्रजगाम ह ॥४४॥ तेन नीतौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २४ पान ७०
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । एकदा गणनांथस्य दर्शनार्थं समाययौ । ब्रह्मा स्नात्वा महाकुंडे स्नोतुं स्तोत्रं समारभत् ॥१॥
ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुंडं गणनातिगं च । अनंततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥२॥
अभेदभेदादिविहीनरूपं चतुष्पदं पंचममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥३॥ भवतप्रसूतं
च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. ६ अ. २४ पान ७१
विप्रेश तद्वदस्व सुखप्रदम् ॥२३॥ भृशुंड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र
विव्हलोऽभूत् पितामहः ॥२४॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥२५॥
हाहाकाररवा देवी सस्मार गणनायकम् । ततः शांतमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥२६॥ मुक्त्वा तां गर्हयामास
स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥२७॥ मां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतीर्थं त्वं तदा मे संस्थितं भव। कमंडलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥४९॥ भृशुंड्युवाच। तथेति तमथोक्त्वा
तत्तीर्थं तस्य कमंडलौ। जानीत वरदानेन संस्थितं देवनायकाः ॥५०॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरंतरम्।
सर्वतीर्थ हितार्थाय तस्य सेवार्थमादरात् ॥५१॥ उवाच विघ्नराजं संचिंत्य तीर्थं परं हृदि। दृश्यभावं समासाद्य न ते
पादार्चनं कृतम् ॥५२॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो। स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥५३॥ पवित्रं
तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्च्चयेत् । यशः स विपुलं प्राप्यांऽते परं मोक्षमाप्नुयात् ॥७४॥ यस्यास्तीरे च तीर्थानि
देवास्तिष्ठंत्यनेकशः । उभयत्र महेशान मया वक्तुं न शक्यते ॥७५॥ कमंडलुद्भवायास्तु दर्शनेनाघनाशनम् । प्रभवेत्
सर्वजंतूनां निश्चितं चेहजन्मजम् ॥७६॥ संचितं जलबिंदोश्च स्पर्शेनैव विनश्यति । पापं ह्यनेकजन्मस्थं नॄणां सर्व-
देहिनाम् ॥७७॥ जलपानेन तस्यास्तु शक्रलोकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २५ पान ७४
नमस्ते। अनंततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥११॥ वारांपतिस्थाय सरोवराय वापीस्थकूपाय नमो
नमस्ते। यद्यज्जलं भानुघनस्थरूपं तन्नस्थकायैव नमो नमस्ते ॥१२॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं
परेश। कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व संदर्शय ते स्वरूपम् ॥१३॥ भृशुंड्युवाच। एवं संस्तुवतां तेषां पुरस्तेजोमयं
जलम्। प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥१४॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा। वरं वृणुत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ पृष्ठ का मूल पाठ दिया गया है:
शीर्षक (Header):
खं. ६ अ. २५ | पान ७५
मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥३६॥ अन्यच्च शृणुत प्राज्ञाश्चरितं
पुण्यदं परम् । द्विजो गौतमवंशोऽभूत् स्वधर्माचारसंयुक्तः ॥३७॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु
प्रयत्नेनाभवत् कर्मसु तत्परः ॥३८॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण दहशुः पापगौरवात्
॥३९॥ ततोऽतिखेदसंयुक्तो जगाम
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥६२॥ कमंडलूद्भवातीरे पपात धावनाकुलः। तत्र तस्या जलस्पर्शो बभूवे
चास्य दर्शनम् ॥६३॥ दर्शनेनेहजं पापं गतं सर्वं लयं किल। अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥६४॥ ततः परं
कृतं पापं यातनादं मतं यमाः। तथापि नैव योग्योऽयं यातनायां विशेषतः ॥६५॥ ब्रह्मकमंडलोर्यस्य दर्शनादिकमंजसा।
भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥६६॥ काइमीरे स बभूवापि ब्राह्मणो वेदपारगः। एवं नाना जनास्तस्यां
पापहीना बभूविरे ॥६७॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २५ पान ७७
卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐
काले राज्ञा ज्ञातं दुरात्मनः । कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥८८॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः ।
पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥८९॥ ततोऽयं दंडकारण्य पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं
ग्राममुत्तमम् ॥९०॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥९१॥ अनु तं
विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २६ | पान ७८
यस्यास्तीरे मृतो जंतुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥१४॥ एवं सर्वत्र देवेशा
ब्रह्मकमंडलुद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥१५॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा
देवादीनां त्रिषु कमंडलुः ॥१६॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अंते कोटिश्च सर्वत्र तीरे कोट्यर्थ-
मंजसा ॥१७॥ संक्षेपेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २६ पान ७९
वरदानप्रभावेण भीमासुरं जघान सः ॥१६॥ भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् । तत्र स्नानेनैव सद्यस्तावन्मान-
युतं बभौ ॥१७॥ कदाचिदुष्णकाले तज्जलहीनं बभूव ह । तीर्थं तत्रागतो भीमः पांडुपुत्रः प्रतापवान् ॥१८॥ गदा
प्रहारेण तेन खातं तीर्थमनुत्तमम् । जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥१९॥ बलात्मकं तेन तत्रैश्वर्यं प्राप्तं
महाद्भुतम् । धृतराष्ट्रसुतान्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. ६ अ. २७ | पान ८०
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् । वामे सिद्धेः समाख्यातं तीर्थं स्नानेन
सिद्धिदम् ॥१॥ दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् । लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥२॥ बुद्धेर्लाभस्यतीर्थं
तु समीपे लाभदं परम् । लाभस्य संनिधाने तु मयूरस्य प्रकीर्तितम् ॥३॥ स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् ।
लक्ष्यस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥४॥ अहंभावहरं प्रोक्तं नराणां देवसत्तमाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २७
पान ८१
संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् । तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥२७॥ ततः पुष्करतीर्थं च स्नानातः
पापनाशकम् । ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥२८॥ चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् ।
तीर्थानि पापसंघानां दाहकानि स्थितान्यपि ॥२९॥ तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः । एतेषु स्नानमात्रेण स
लभेद्वैष्णवं पदम् ॥३०॥ भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् । ततः क्रतोः समाख्यातं तीर्थं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २७ पान ८२
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥५२॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति
महेश्वराः ॥५३॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥५४॥
विष्णुकांच्चास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐंद्र्याः प्रकीर्तितम् ॥५५॥ वैष्णव्याश्च ततस्तीर्थं
माहेश्वर्यास्ततः परम् । ब्राह्मास्तीर्थं ततो रक्तदंतायाश्च प्रकीर्तितम् ॥५६॥ ततो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २७ पान ८३
च योगसिद्धिप्रदायकम् ॥७८॥ ओंकारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् । विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥७९॥ ततो
धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् । नागानां शेषादीनां ततस्तीर्थशतानि च ॥८०॥ ततो गवां महातीर्थं सनकादेस्ततः
परम् । चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥८१॥ महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् । दक्षादीनां च तीर्थानि ततो
मातृगणाः स्मृताः ॥८२॥ तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ८४
कुत्रचित् । स्वस्वस्थानं समाश्रित्य सेवंते द्विरदाननम् ॥३॥ गणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः । संस्थितास्ते तु गच्छंति
मयूरे दर्शनार्थिनः ॥४॥ एतत् संक्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् । श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥१०५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते ब्रह्मकमंडलुस्यतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥
॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदंडधारकः ॥१८॥ अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् । मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥१९॥ द्राविडे
वैश्यजातिस्था बभूवुः पापकारकाः । विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरंतरम् ॥२०॥ शंभुश्च सोमकः कुब्जः कंबलश्चैव
मित्रकाः । चत्वारो मद्यमांसादिवभक्षुर्नित्यमादरात् ॥२१॥ परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः । न चक्रुः पुण्यलेशं
ते न स्वधर्मादिकं कदा ॥२२॥ तत्रैव नगरे कश्चिद्वैश्यः श्यामलसंज्ञितः । द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥२३॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. ६ अ. २९ पान ८६
[Border]
चात्मन् ॥४४॥ अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व । गणेशक्षेत्रं त्वदधीनगं तु गणेशसंस्थं कुरु ते नमो वै
॥४५॥ इदं स्तोत्रं महेशाना नग्नभैरवकस्य च । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥४६॥ धनधान्यादिकं सर्वं
भुक्तिमुक्तिसमन्वितम् । लभेदनेन देवेशास्तुविधवं नग्नभैरवम् ॥४७॥ मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् ।
स्तोत्रेण स्तुवतां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in