मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण (Line-by-Line Transcription) दिया गया है:
खं. ६ अ. २२ पान ६३
गमिष्यामि न संदेहः क्षेत्रं काशीसमाश्रितम् ॥३४॥ एवं विचार्य भूपालो मयूरं त्यज्य देवपाः । काशीं जगाम मार्गे स
ममार रोगसंयुक्तः ॥३५॥ पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् । धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥३६॥
मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् । गणेशैकाक्षरं मंत्रं ददौ तारकनामकम् ॥३७॥ शौनक उवाच । कथां विचित्रां
वदसि सूत त्वं हर्षदायिनीम् । तत्र संशयकं छिंधि वदिष्यामि त्वदग्रतः ॥३८॥ रामनामभवं मंत्रमवदत्तारकं परम् ।
पुराणं कुत्रचित् देवं शिवपंचाक्षरं पुनः ॥३९॥ कुत्राँकारं च कुत्रापि शक्तिसूर्यात्मकं परम् । गणेशैकाक्षरं कुत्र निश्चयो
नैव जायते ॥४०॥ अतः संशयनाशार्थं वद सर्वज्ञसत्तम । त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥४१॥ सूत उवाच ।
बिंबरूपं महद्ब्रह्म स एव चतुराननः । गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥४२॥ तस्य पालकभावेन विष्णुः सर्व-
प्रवर्तकः । अकाराक्षरसंस्थश्च मंत्रराजे महामुने ॥४३॥ तयोः संहारकर्ता त्वनुस्वारः शंकरः स्मृतः । वरदानाद् गणेशस्य
मंत्रे जानीहि निश्चितम् ॥४४॥ तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ । सानुनासिकरूपेण मंत्रे सोऽपि प्रतिष्ठितः ॥४५॥
चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता । सर्वत्र संस्थिता विप्र मंत्रे दृश्यस्वभावतः ॥४६॥ एभिः सृष्टं जगत्सर्व-
मोंकाराकृतिलक्षणम् । तत्र क्रीडंति तेनैव मंत्र ओंकारसंयुतः ॥४७॥ एतेषामर्थभावेन गणेशश्च प्रकीर्तितः । स एव
देवता प्रोक्ता वेदेषु वेदवादिभिः ॥४८॥ गणेशमंत्रगाः सर्वे देवेशाः शंकरादयः । जगन्नानाविधं ब्रह्म तथा तत्र स्थितं
मतम् ॥४९॥ यथा देवाश्च विप्रेश कलया गणपस्य वै । गणेशाकाररूपास्ते तथा मंत्राः प्रकीर्तिताः ॥५०॥ अन्यच्च शृणु
भावेन काश्यां नानाविधा जनाः । तिष्ठंति विविधान् देवान् भजंते भक्तिसंयुताः ॥५१॥ तेषु स्वधर्मनिष्ठा ये काशीवासं
यथाविधि । कुर्वंति तारकं तेभ्यो ददाति शंकरः स्वयम् ॥५२॥ तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् । तारकं
कथयामास शंकरः करुणानिधिः ॥५३॥ सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् । वैष्णवं विष्णुभक्तेभ्यस्तारकं
ह्यवदच्छिवः ॥५४॥ स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः । कर्मांगदेवप्रीत्यर्थमोंकारं तेभ्य आदिशत् ॥५५॥ गाणेशा ये
स्थितास्तेभ्यः पूर्णतारकरूपकम् । गणेशैकाक्षरं मंत्रं ददाति हर्षसंयुक्तः ॥५६॥ ते सर्वे तारकं प्राप्य कैलासे शिव-
सन्निभाः । अतिष्ठन् योगमास्थाय मंत्रध्यानपरायणाः ॥५७॥ साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मंत्रगं परम् । तत्र तल्लीन-
भावेन योगिनो बभ्रुमुस्ततः ॥५८॥ महालये महेशस्य शरीरे लीनतां ययुः । पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥५९॥
पान ६४
मंत्रं मंत्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः । खस्वेष्टब्रह्मगा अंते भवंस्ते मुनिसत्तम ॥६०॥ ये पापकारिणः काश्यां
वसंति यदि ते मृताः । तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥६१॥ भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः ।
लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥६२॥ शौनक उवाच । वदंति वै पुराणेषु मुनयो ब्रह्मवादिनः । क्षेत्रेषु नानाभावेषु
मृता मुक्तिमवाप्नुयुः ॥६३॥ तीर्थानि स्नानमात्रेण मुक्तिदानि वदंति च । व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥६४॥
सकामानि च कर्माणि कथितानि मुनीश्वरैः । नानाविधानि वै तेषु संस्मृतानि फलानि च ॥६५॥ तेषां कर्तार एवं ये
फलानि प्राप्नुवंति ते । इहैव किंचित् केचित्तु परत्र द्विजसत्तम ॥६६॥ केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः ।
किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥६७॥ काश्यां मुक्तिं विशेषेण प्राप्नुवंति नरादयः । तत्रैव मरणे सूत कथं ते
जन्मिनोऽभवन् ॥६८॥ सूत उवाच । शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः । सर्वेषां विविधानां तु शिष्याणां नात्र
संशयः ॥६९॥ शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा । अधमा अधमेषु चाधमा मुनींद्रसत्तम ॥७०॥ विषया-
सक्तचित्ता ये पापकर्मपरायणाः । दुःखयुक्ता यदाऽत्यंतं तदर्थं कर्मसेविनः ॥७१॥ अधमाधमरूपाश्च कथितास्ते महर्षिभिः ।
स्वल्पं फलं प्राप्नुवंतीह परत्र सुनिश्चितम् ॥७२॥ यदि कर्मफलं स्वल्पं ददाति कथितं सदा । तेषां तत्र रुचिर्नैवोत्पद्यते
मूर्खभावतः ॥७३॥ तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि । फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥७४॥ परेषां
लज्जया ये तु भयाद्वा कर्म कारिणः । अधमास्ते समाख्याताः प्राप्नुवंत्यधिकं फलम् ॥७५॥ सकामा ये स्वधर्मस्थाः कर्म
कुर्वंति नित्यशः । मध्यमास्ते फलं सर्वं भुंजंति कालमानतः ॥७६॥ निष्कामाः कर्मकर्तार उत्तमास्ते फलं मुने । अक्षयं
कल्पपर्यंतं भुंजंत्यत्र न संशयः ॥७७॥ तत्रैव युगमानं ते कथयामि समासतः । कृते कर्म कृतं सद्यः फलदं जायते
मुने ॥७८॥ त्रेतायां च कृतं कर्म्मान्यकर्माबाधभावतः । कालेन फलसंयुक्तं भवति प्राणिनां किल ॥७९॥ द्वापरे परलोके
वाऽन्यकर्माबाधभावतः । इह ते वापि भुंजंति धर्महीनप्रभावतः ॥८०॥ कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः ।
संभोक्ष्यंति कृतं कर्म कालमानप्रभावतः ॥८१॥ आसुरेणैव भावेन नराः सत्तादिवर्जिताः । अतो जानीहि रुच्यर्थं फलं
चित्रं भवत्यहो ॥८२॥ यथाविधि कृतं कर्म तदा फलप्रदं भवेत् । अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥८३॥ कृते
कर्म कृतं येन सकृत्तस्य फलं लभेत् । त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥८४॥ फलं ददाति त्रिगुणं द्वापरे कर्म
खं. ६ अ. २२ पान ६५
निश्चितम् । कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥८५॥ सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः । अथवा
युगधर्मेण चतुर्गुणं फलं लभेत् ॥८६॥ अन्यत् काश्यादि माहात्म्यसंभवं विपरीतगम् । मन्यसे तत्र वक्ष्यामि शृणु संशय-
नाशनम् ॥८७॥ आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै । इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥८८॥ यथा
देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः । ब्रह्मणो दिवसांते ते मृत्युयुक्ता भवंत्युत ॥८९॥ नराणां तत्र जन्मानि संख्या-
हीनानि शौनक । भवंति तेन देवाश्चामराः संकीर्तिता बुधैः ॥९०॥ तथापि पंच देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः । विघ्नयुक्ता
अनीशास्ते भवंति पश्य मानद ॥९१॥ महालये मरिष्यंति त्रिगुणैः संयुताः किल । पंच देवा न संदेहो ब्रह्माद्याः शास्त्र-
मार्गतः ॥९२॥ तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी । मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥९३॥ इंद्रादीनां
विनाशे ते समर्था मृत्युहीनकाः । तेषां जन्ममृती जंतुर्न पश्यति कदाचन ॥९४॥ ईश्वरत्वमतः शास्त्रे कथितं रुचि-
कारणात् । जन्ममृत्युविहीनाऽपि मुक्तिः संकथिता बुधैः ॥९५॥ वेदशास्त्रपुराणेषु स्वानंदो लयवर्जितः । सदा ब्रह्ममय-
त्वाद्धै तत्र मुक्तिर्विशिष्यते ॥९६॥ स्वानंदेनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् । पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥९७॥
अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसंमतैः । वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥९८॥ मृतः षट्सु नरस्तासु
काश्यां धर्मयुतो भवेत् । मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥९९॥ पुनर्जन्मनि योगी स भवत्यत्र न संशयः । स्वेष्टं
ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥१००॥ योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः । मरणे संस्मरेद्योगं स मयूरे भवि-
ष्यति ॥१॥ यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् । मरिष्यति न संदेहो महापापयुतोऽपि चेत् ॥२॥ अथवा क्षेत्र-
माहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् । यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥३॥ मयूरस्थाय वा यात्रामेव कृत्वा
नरोत्तमः । यत्र कुत्र मृतः सोऽन्ते संस्मरेत् स तथा भवेत् ॥४॥ अथवा संगयोगेन गणेशे रुचिमालभेत् । नरो मयूरक्षेत्रे
स मरणं प्राप्नुयात् परम् ॥५॥ शिवविष्ण्वादिलोकेषु संस्थितस्तत्र संगतः । गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥६॥
अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः । क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥७॥ योगिनः शांतिरूपाश्च चित्तं
त्यक्त्वा गणेश्वरे । लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥८॥ योगिनां मरणे विप्र यादृशं स्मरणं भवेत् । तादृशीं
न गतिं सोऽपि लभते ब्रह्मणि रतः ॥९॥ तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते । अंते मतिर्यथा विप्र गतिः सर्वत्र
पठ्यते ॥११०॥ इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमम् । कथानकं महीपस्य यथा मुद्गलभाषितम् ॥११॥ भृशुंड्युवाच ।
मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः । काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥१२॥ तेन गणेश्वरस्यैव ददौ
मंत्रं महेश्वरः । सस्त्रीकः शिवरूपः कैलासे दासं चकार सः ॥१३॥ महालये शिवे लीनः पुनः सृष्टौ मयूरके । ब्राह्मणः
स बभूवाऽपि सस्त्रीको भक्तिसंयुक्तः ॥१४॥ तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह । ब्रह्मभूतः स जीवन् वै मरणे तत्र
का कथा ॥१५॥ एवं संस्कारयोगेन मयूरे निवसंति ते । यत्र कुत्र स्थिताश्चैवै गमिष्यंति मयूरकम् ॥१६॥ क्षेत्रसंन्यासिनां
देवा वदामि मार्गमुत्तमम् । आदौ द्वारयुतां यात्रां कुर्यात् संन्यासकारणात् ॥१७॥ पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्द्रियम-
संयुतः । न गच्छेत् क्षेत्रबाह्यं संन्यासभंगभयाकुलः ॥१८॥ नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः । कुर्यात्तेन गणेशेन
तुल्यः सर्वत्र संमतः ॥१९॥ देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् । अंत्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥२०॥
क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरंतरम् । यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥२१॥ अत्राऽहं कथयिष्यामि
चेतिहासं पुरातनम् । क्षेत्रसंन्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥२२॥ जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः ।
बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥२३॥ स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ । यात्रां कृत्वा
विधानेन स्थितो द्वारादिचिह्निताम् ॥२४॥ ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः । क्षेत्रसंन्यासिकं कृत्वा मयूरे संस्थितः
पुरा ॥२५॥ तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् । राक्षसं पपतुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥२६॥ दृढाऽऽग्रहं सोऽपि
कृत्वा सोमदत्तो महामुनिः । मयूरे संस्थितो देवा मयूरेशपरायणः ॥२७॥ राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः ।
ताडयामासुरत्यंतं कर्मखंडनकारणात् ॥२८॥ मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः । मद्यमांसादिकं गृह्य छलतो
राक्षसैर्बहु ॥२९॥ तथापि धैर्यमालंब्य स्मृत्वा विघ्नेश्वरं द्विजः । मयूरेशं समभ्यर्च्य संस्थितो भयसंकुलः ॥३०॥ ततस्तं
राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् । तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥३१॥ उपोषणपरः पूजां मानसीं स चकार
ह । अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥३२॥ ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् । चकार राक्षसेशं
स संविग्नं विघ्नदायकः ॥३३॥ समायाता शूर्पनखा तं जगाद खरं वचः । छिन्ननासिकरूपं स्ववृत्तांतं तु न्यवेदयत् ॥३४॥
तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह । रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥३५॥ ततः क्षेत्रनिवासस्था
खं. ६ अ. २३
पान ६७
आययुस्ते महेश्वराः। बंधाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥३६॥ एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः। तथापि
क्षेत्रसंन्यागं न चकार कदाचन ॥३७॥ ततो गणेश्वरो देवो ययौ भक्त्या नियंत्रितः। स्तुतः संपूजितस्तेन तमीप्सित-
वरं ददौ ॥३८॥ स ययाचे गणेशानं तव सान्निध्यगं कुरु। तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥३९॥ तथेति
तं चकारासौ मयूरेशो महामुनिम्। स बभूव महेशाना योगप्रिय इति श्रुतः ॥४०॥ एवं नानाविधास्तत्र क्षेत्रसंन्यास-
माश्रिताः। सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥४१॥ इति सर्वं समाख्यातं संक्षेपेण मया परम्। श्रवणात्
पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥४२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः। मयूरे तीर्थमुख्यं किं वद योगींद्रनायक। तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥१॥
भृशुंड्युवाच। क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः। गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥२॥ यथा पंचविधं सर्वं
भासते विविधार्थतः। चतुर्विधं जगत् संस्थं पंचमं ब्रह्म उच्यते ॥३॥ गंगा च यमुनादेवी सरस्वती महानदी। त्रिगुणरूप-
संयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥४॥ तुरीया सर्वतीर्थाख्या ब्रह्मकमंडलूद्भवा। तासां संयोगभावे तु पंचमं ब्रह्म उच्यते
॥५॥ तदेव तीर्थरूपेण प्रकटं संबभूव ह। गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥६॥ भूस्वानंदमयं क्षेत्रं गणेशेन
प्रकाशितम्। मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥७॥ ततोऽंकुशेन पृथ्वीं स भेदयामास मायया। तीर्थं ब्रह्ममयं
तत्र सेवार्थं तु समाययौ ॥८॥ ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः। अक्षयं जलसंयुक्तं कुंडं तत्र बभूव ह ॥९॥
नाम तस्य चकाराऽसौ गणेशकुंडमादरात्। तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥१०॥ जलस्पर्शादिसंभूतं पुण्यं
वक्तुं न शक्यते। साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥११॥ स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमंडलूद्भवा। तुरीया
सर्वतीर्थानां ज्ञातव्यं शास्त्रसंमतम् ॥१२॥ भागीरथी तृतीया च स्नानेन स्वर्गदायिनी। स्वर्णदी सा समाख्याता विशेषेण
महेश्वराः ॥१३॥ ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी। त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥१४॥ यमुना च
[Header]
खं. ६ अ. २३ | पान ६८
ततः ख्याता स्थूलरूपा महानदी। सप्तभिर्दिवसैः साक्षाज्जंतूनां स्वर्गदा मता ॥१५॥ अन्या नानाविधास्ताभ्यः कथनं नैव
शक्यते। अतः संक्षेपतः प्रोक्तं माहात्म्यं पंचसंभवम् ॥१६॥ अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः। गुर्जरे पापकमी तु
राजा भद्रोऽभवत् पुरा ॥१७॥ स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः। यथेच्छं वर्तयामास नानापापपरायणः ॥१८॥
एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः। एकांते बुभुजे तां स हाहाकाररवाकुलाम् ॥१९॥ इत्यादिविविधान्येव चकार
देवसत्तमाः। पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्त्तते ॥२०॥ मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम्। बद्ध्वा संताड्य
तत्रैकं चित्रं पूर्ण बभूव ह ॥२१॥ गच्छता तेन संदृष्टं विमानं सूर्यसन्निभम्। गणेशकुंडतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥२२॥
तस्यांगवायुना स्पृष्टो भद्रः पापपरः परः। पापहीनो बभूवाऽपि जगाम यममंदिरम् ॥२३॥ यमेन नरयोन्यां स संक्षिप्तो
वैश्ययोनिजः। बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥२४॥ स्वर्गात् पतनकाले स सस्मार कुंडमुत्तमम्। तेन संस्कार-
योगेन मयूरेशं समाययौ ॥२५॥ दृष्ट्वा गणेशकुंडं स जातिस्मरो बभूव ह। ततः क्षेत्रं समाश्रित्य कुंडपूजापरोऽभवत् ॥२६॥
ममार कुंडसान्निध्ये ब्रह्मभूतो बभूव ह। एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥२७॥ देवेशा ऊचुः। गणेशकुंडद्रष्टा स
कथं जातो महामते। किं जातियो वद स्वामिन्नाश्चर्यं भासते परम् ॥२८॥ भृशंड्युवाच। चांडालः कोऽपि पापात्मा नित्यं
पापपरोऽभवत्। कंचिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥२९॥ स आगतो मयूरेशं कथयामास मानवान्। जघान
द्रव्यलोभी च चांडालो मानवान् सदा ॥३०॥ समाययौ मे सांनिध्यमधुनाऽत्र विशेषतः। मारणाय न संदेहस्तच्छ्रुत्वा स
पपाल ह ॥३१॥ लोका यात्रारताः सर्वे नैव मत्ताडने रताः। पलता तेन कुंडं तु दृष्टं गाणेश्वरं महत् ॥३२॥ क्षेत्रं त्यक्त्वा
गतं दूरे ममार विषयप्रियम्। भोगबुद्धियुतं दुष्टं निन्युरिंद्रपुरेऽमराः ॥३३॥ गणेशकुंडजेनैव दर्शनेन न संशयः। पापानि
विलयं यांति मुक्तिर्मुक्तिस्ततो भवेत् ॥३४॥ अन्यच्छृणुत देवेशाश्चरितं कुंडसंभवम्। वैश्यः कश्चित् समायातो द्रव्यलोभी
मयूरके ॥३५॥ प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरंजसा। स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥३६॥
तत्र यात्रापरा लोका अवदंस्ते परस्परम्। गणेशकुंडमाहात्म्यं सोऽपि शुश्राव मंदधीः ॥३७॥ विचारमकरोचित्ते दर्शनेनात्र
लभ्यते। मुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥३८॥ अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः। तदा दर्शनमेवं
मे कुंडस्यात्र भविष्यति ॥३९॥ इति विचार्य खाद्यानि गृह्य कुंडगतोऽभवत्। दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो
खं. ६ अ. २३ पान ६९
॥४०॥ पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥४१॥ ततो विमानमारुह्य
शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुंडदर्शनात् ॥४२॥ अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ
मेघमणीसंज्ञौ मालवे संबभूवतुः ॥४३॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं
प्रजगाम ह ॥४४॥ तेन नीतौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २४ पान ७०
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । एकदा गणनांथस्य दर्शनार्थं समाययौ । ब्रह्मा स्नात्वा महाकुंडे स्नोतुं स्तोत्रं समारभत् ॥१॥
ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुंडं गणनातिगं च । अनंततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥२॥
अभेदभेदादिविहीनरूपं चतुष्पदं पंचममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥३॥ भवतप्रसूतं
च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. ६ अ. २४ पान ७१
विप्रेश तद्वदस्व सुखप्रदम् ॥२३॥ भृशुंड्युवाच । ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः । दृष्ट्वा कामं स्वयं तत्र
विव्हलोऽभूत् पितामहः ॥२४॥ दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः । तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥२५॥
हाहाकाररवा देवी सस्मार गणनायकम् । ततः शांतमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥२६॥ मुक्त्वा तां गर्हयामास
स्वात्मानं काममोहितम् । ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥२७॥ मां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतीर्थं त्वं तदा मे संस्थितं भव। कमंडलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥४९॥ भृशुंड्युवाच। तथेति तमथोक्त्वा
तत्तीर्थं तस्य कमंडलौ। जानीत वरदानेन संस्थितं देवनायकाः ॥५०॥ तत्र स्थितं गणेशस्य ध्यानं चक्रे निरंतरम्।
सर्वतीर्थ हितार्थाय तस्य सेवार्थमादरात् ॥५१॥ उवाच विघ्नराजं संचिंत्य तीर्थं परं हृदि। दृश्यभावं समासाद्य न ते
पादार्चनं कृतम् ॥५२॥ वरदानप्रभावेण ब्रह्मणः सदने प्रभो। स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥५३॥ पवित्रं
तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्च्चयेत् । यशः स विपुलं प्राप्यांऽते परं मोक्षमाप्नुयात् ॥७४॥ यस्यास्तीरे च तीर्थानि
देवास्तिष्ठंत्यनेकशः । उभयत्र महेशान मया वक्तुं न शक्यते ॥७५॥ कमंडलुद्भवायास्तु दर्शनेनाघनाशनम् । प्रभवेत्
सर्वजंतूनां निश्चितं चेहजन्मजम् ॥७६॥ संचितं जलबिंदोश्च स्पर्शेनैव विनश्यति । पापं ह्यनेकजन्मस्थं नॄणां सर्व-
देहिनाम् ॥७७॥ जलपानेन तस्यास्तु शक्रलोकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २५ पान ७४
नमस्ते। अनंततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥११॥ वारांपतिस्थाय सरोवराय वापीस्थकूपाय नमो
नमस्ते। यद्यज्जलं भानुघनस्थरूपं तन्नस्थकायैव नमो नमस्ते ॥१२॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं
परेश। कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व संदर्शय ते स्वरूपम् ॥१३॥ भृशुंड्युवाच। एवं संस्तुवतां तेषां पुरस्तेजोमयं
जलम्। प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥१४॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा। वरं वृणुत
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ पृष्ठ का मूल पाठ दिया गया है:
शीर्षक (Header):
खं. ६ अ. २५ | पान ७५
मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥३६॥ अन्यच्च शृणुत प्राज्ञाश्चरितं
पुण्यदं परम् । द्विजो गौतमवंशोऽभूत् स्वधर्माचारसंयुक्तः ॥३७॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु
प्रयत्नेनाभवत् कर्मसु तत्परः ॥३८॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण दहशुः पापगौरवात्
॥३९॥ ततोऽतिखेदसंयुक्तो जगाम
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥६२॥ कमंडलूद्भवातीरे पपात धावनाकुलः। तत्र तस्या जलस्पर्शो बभूवे
चास्य दर्शनम् ॥६३॥ दर्शनेनेहजं पापं गतं सर्वं लयं किल। अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥६४॥ ततः परं
कृतं पापं यातनादं मतं यमाः। तथापि नैव योग्योऽयं यातनायां विशेषतः ॥६५॥ ब्रह्मकमंडलोर्यस्य दर्शनादिकमंजसा।
भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥६६॥ काइमीरे स बभूवापि ब्राह्मणो वेदपारगः। एवं नाना जनास्तस्यां
पापहीना बभूविरे ॥६७॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २५ पान ७७
卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐
काले राज्ञा ज्ञातं दुरात्मनः । कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥८८॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः ।
पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥८९॥ ततोऽयं दंडकारण्य पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं
ग्राममुत्तमम् ॥९०॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥९१॥ अनु तं
विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २६ | पान ७८
यस्यास्तीरे मृतो जंतुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥१४॥ एवं सर्वत्र देवेशा
ब्रह्मकमंडलुद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥१५॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा
देवादीनां त्रिषु कमंडलुः ॥१६॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अंते कोटिश्च सर्वत्र तीरे कोट्यर्थ-
मंजसा ॥१७॥ संक्षेपेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २६ पान ७९
वरदानप्रभावेण भीमासुरं जघान सः ॥१६॥ भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् । तत्र स्नानेनैव सद्यस्तावन्मान-
युतं बभौ ॥१७॥ कदाचिदुष्णकाले तज्जलहीनं बभूव ह । तीर्थं तत्रागतो भीमः पांडुपुत्रः प्रतापवान् ॥१८॥ गदा
प्रहारेण तेन खातं तीर्थमनुत्तमम् । जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥१९॥ बलात्मकं तेन तत्रैश्वर्यं प्राप्तं
महाद्भुतम् । धृतराष्ट्रसुतान्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. ६ अ. २७ | पान ८०
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् । वामे सिद्धेः समाख्यातं तीर्थं स्नानेन
सिद्धिदम् ॥१॥ दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् । लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥२॥ बुद्धेर्लाभस्यतीर्थं
तु समीपे लाभदं परम् । लाभस्य संनिधाने तु मयूरस्य प्रकीर्तितम् ॥३॥ स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् ।
लक्ष्यस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥४॥ अहंभावहरं प्रोक्तं नराणां देवसत्तमाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २७
पान ८१
संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् । तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥२७॥ ततः पुष्करतीर्थं च स्नानातः
पापनाशकम् । ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥२८॥ चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् ।
तीर्थानि पापसंघानां दाहकानि स्थितान्यपि ॥२९॥ तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः । एतेषु स्नानमात्रेण स
लभेद्वैष्णवं पदम् ॥३०॥ भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् । ततः क्रतोः समाख्यातं तीर्थं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २७ पान ८२
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥५२॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति
महेश्वराः ॥५३॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥५४॥
विष्णुकांच्चास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐंद्र्याः प्रकीर्तितम् ॥५५॥ वैष्णव्याश्च ततस्तीर्थं
माहेश्वर्यास्ततः परम् । ब्राह्मास्तीर्थं ततो रक्तदंतायाश्च प्रकीर्तितम् ॥५६॥ ततो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in