Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 673
Page 673 scan

भोगमभजन् मृतः कैलासगोऽभवत् ॥२५॥ पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः । नित्यं गणेश्वरं देवमभजद्भक्ति-
संयुक्तः ॥२६॥ अंते स्वानंदगो भूत्वा क्षेत्रे मरणतः स्वयम् । ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥२७॥ एवं नाना
जना देवा अर्थयुक्ता बभूविरे । तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥२८॥ अधुना पश्चिमद्वारसंभूतं कथयाम्यहम् ।
चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥२९॥ भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 674
Page 674 scan

खं. ६ अ. १४ पान ३३

गणेशानमभजन्नित्यमादरात् । अंते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥५०॥ ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः ।
मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥५१॥ एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः । तेषां मया चरित्रं यत्तद्वक्तुं
न प्रशक्यते ॥५२॥ अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् । कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥५३॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

खंड/अध्याय: खं. ६ अ. १५ (गणेश पुराण / मयूरेश माहात्म्य)

Page 675
Page 675 scan

यहाँ प्रस्तुत पृष्ठ का मूल संस्कृत पाठ (पंक्ति-दर-पंक्ति) एवं उसका संपूर्ण श्लोकानुसार अर्थ/कथा-सार दिया गया है:


शीर्षक एवं पृष्ठ संख्या:

  • खंड/अध्याय: खं. ६ अ. १५ (गणेश पुराण / मयूरेश माहात्म्य)
  • पृष्ठ: पान ३४

मूल पाठ (पंक्ति-दर-पंक्ति):

॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । देवालयस्य द्वाराणि चत्वारि कथितानि च । तेषां चरित्रकं देवाः कथयामि सुसेविनाम्
॥१॥ बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः । नाम्ना शंभुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥२॥ स सायाह्ने जगामैव
किंचित् कार्यार्थमादरात् । ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥३॥ दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह ।
ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥४॥ तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः । समाययुस्तं संगृह्य स्वगृहं प्रययुः
खलम् ॥५॥ ततः पिशाचतुल्यः स विचचार महीतलम् । तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥६॥ तथाऽपि तं महाप्रेता
मुमुचुर्न कदाचन । तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥७॥ तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः । सुहृदस्तैन
संयुक्ता महत् क्षेत्रं समाययुः ॥८॥ मयूरेशं समभ्यर्च्य शंभुं गृह्य सुहृज्जनाः । जग्मुस्ते भैरवं देवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 676
Page 676 scan

खं. ६ अ. १५ | पान ३५


चित्तः सन् ज्ञात्वा विषभवां व्यथाम् । स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥२७॥ उद्देशेन गणेशस्य महद्विषं महेश्वराः ।
स्तंभितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥२८॥ तावद्विषेण भूपालः पीडितोऽतितरां किल । देहचेष्टाविहीनः स
बभूवे देवसन्निधौ ॥२९॥ प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि । देवालयस्य द्वारस्थां दक्षिणे नीलकंठजाम् ॥३०॥
नीलकंठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके । राजा वंद्य महेशानं विषहीनो बभूव ह

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 677
Page 677 scan

ख. ६ अ. १९ पान ३६
द्विजः सचश्व देवपाः । रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥५३॥ ततः स्वगृहमागत्य गणेशमभजद् द्विजः ।
कृत्तिवासः समायुक्तमंते कैलासगोऽभवत् ॥५४॥ पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः । क्षेत्रसंन्यासभावेनाऽभजत्तं
नित्यमादरात् ॥५५॥ अंते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह । एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥५६॥ नाना
जना महेशानः पश्चिमद्वारकारिणः । रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥५७॥ अतः परं प्रवक्ष्यामि देवागारस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 678
Page 678 scan

शीर्षक (Header):
खं. ६ अ. १५ | पान ३७


पपालैव सुखभोक्ता महाबलः ॥७९॥ चकार नगरं गत्वा स ततो राज्यमुत्तमम् । भीमेशसंयुक्तं नित्यमभजद्गणनायकम्
॥८०॥ अंते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् । पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥८१॥ गाणेशानेन मार्गेणाभजत्तं
गणनायकम् । अंते स्वानंदगः सोऽपि तल्लीनः प्रबभूव ह ॥८२॥ एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 679
Page 679 scan

॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । गर्भालस्य यात्राया माहात्म्यं कथयाम्यहम् । शृणुध्वं भाग्यसंयुक्ता देवेशास्तत्
समासतः ॥१॥ मूर्खः कोऽपि पुरा विप्रो वंगदेशे बभूव ह । विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥२॥ तं दृष्ट्वा
पितरौ तस्य काश्यपौ दुःखसंयुक्तौ । कश्यपं जग्मतुस्तेन श्रुतो वृत्तांत उल्बणः ॥३॥ गर्भांगारस्य माहात्म्यं कथयामास
कश्यपः । पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥४॥ पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ । यात्रां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 680
Page 680 scan

खं. ६ अ. १६ पान ३९

गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गतः । अभजच्चांतकाले स तद्देहे लीनतां ययौ ॥२६॥ नानाविधा जना एवं ययुः सिद्धिं
सुरेश्वराः । तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥२७॥ अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् । माहात्म्यं
यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥२८॥ विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह । सुदासः सर्वशास्त्रज्ञः क्षत्रियो
पीडितो भृशम् ॥२९॥ वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह । तत्राऽऽजगाम

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 681
Page 681 scan

यहाँ पृष्ठ की सामग्री का अक्षरशः लिप्यंतरण (लाइन नंबर सहित), अन्वय, विस्तृत सरल हिन्दी अनुवाद एवं कथानुवाद प्रस्तुत है:


मूल पाठ (चित्रानुसार पंक्तियाँ):

खं. ६ अ. १६ $\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad$ पान ४०

वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषय-
प्रियः ॥५२॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषय-
युक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न
शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं
वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान्
सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो
भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह ।
पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं
न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥
आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण
प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् ।
तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो
यथाऽन्ये ब्राह्मणास्तथा ॥६६॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥
प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत
आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु
जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं
विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 682
Page 682 scan

शीर्षक (Header):
खं. ६ अ. १७ | पान ४१


॥ श्रीगणेशाय नमः ॥ शिवाद्या ऊचुः । एतादृशा महाभागाः कथं कैलासमाययुः । अंजसा सेव्य योगींद्र गणेशं वद
कारणम् ॥१॥ भृशुंड्युवाच । सकामा गणराजस्य भक्ता ये देवसत्तमाः । अंतरे विषयेष्वेते संसक्ताः संभवंति च ॥२॥ न
तेषां गणराजस्य स्वानंदे गतिरुच्यते । निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥३॥ अतः कैलासगाः सर्वे गणेशं
पूज्य योगिनः । बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥४॥ तदा कैलासनाथे ते स्वानंदं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 683
Page 683 scan

शीर्षक (Header):
खं. ६ अ. १७ | पान ४२


कथयामि समासतः ॥२५॥ चांडालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् । आंध्रे वनं समाश्रित्य जघ्ने लोकान्
समागतान् ॥२६॥ नानापापयुतो दुष्टो वर्णने न प्रशक्यते । ग्रंथबाहुल्यभावाद्धै परदोषप्रकीर्तनात् ॥२७॥ दुष्टो जगाम
मयूरे सुहृज्जनयुतः कदा । भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥२८॥ पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि
च । पुनः प्रतीक्ष्यंते तं क्रोधयुक्तानि देवपाः ॥२९॥ नरं मयूरे पापानि यत्र कुत्र कृतानि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 684
Page 684 scan

खं. ६ अ. १८ पान ४३
त्वेकचेतसः । चित्रं चरित्रकं वक्ष्ये मयूरे संभवं परम् ॥२१॥ वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् । भारेण संयुतं
चक्रुरन्नाद्यैस्तं महेश्वराः ॥२२॥ ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् । गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥२३॥
स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः। पशुजातिज एवं तु नराणां तत्र का कथा ॥२४॥ एवं क्षेत्रप्रभावेण जना नाना
महेश्वराः। सिद्धिं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 685
Page 685 scan

पान ४४

॥१४॥ तथा दक्षिणगः शंभुरर्थमंडपमाश्रितः । स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥१५॥ गुह्यानर्थान् सदा देवः
प्रकाशयति सर्वदा। गाणेशज्ञानकुशला भवंते तेन मानवाः ॥१६॥ मंडपः कामसंज्ञस्तु दिशि देवाः समीपगाः । पश्चिमायां
स्थिता तत्र महाशक्तिर्महेश्वरः ॥१७॥ गणेशकामानायां सा कुरुते सर्वमानवान् । सौख्यमाद्यं कथयते गाणेशं परमा-
द्भुतम् ॥१८॥ उत्तरे मंडपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते । गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥१९॥ गाणेशीं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 686
Page 686 scan

यहाँ प्रस्तुत पृष्ठ का यथारूप (अक्षरशः) देवनागरी लिप्यंतरण दिया गया है:


[शीर्षक / Header]
खं. ६ अ. १८ | पान ४५


समाश्रित्य गर्भागारनिवासिनः। भवंति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥४१॥ गर्भांगारं गणेशस्य मूर्तिरूपं महत्परम् ।
ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥४२॥ शतकोटिगणेशानाः संस्थिता देवसत्तमाः । गर्भांगारं समाश्रित्य निश्चितं
गणपेन च ॥४३॥ नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः । गर्भागारे च ते सर्वे बुधैस्तभ्योऽधिका मताः ॥४४॥
गर्भागारे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 687
Page 687 scan

खं. ६ अ. १९ पान ४६

निश्चितम् ॥६५॥ एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः । गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥६६॥ अन्ये
नाना गणेशाना गाणेशाः संस्थिताः परे । सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥६७॥ इदं शृणोति पठति यश्चित्रं
भक्तिसंयुतः । स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥६८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 688
Page 688 scan

खं. ६ अ. १९ पान ४७


स्थिताः संस्थाप्य हेरंबं सेवायां तत्परा जनैः ॥१७॥ चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते । क्षेत्रवासिन आनंदाद्वार्षिकीं
दुरितापहाम् ॥१८॥ द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः । संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥१९॥ तत्पुरो
नृहरिश्चैव वामनस्तत्पुरोऽभवत् । मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥२०॥ नरनारायणौ देवौ तत्पुरः संस्थितौ
किल । हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥२१॥ तथा वामांगभागे ये धनुषां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 689
Page 689 scan

यहाँ पृष्ठ का मूल पाठ पंक्ति-दर-पंक्ति (Line-by-Line) दिया गया है:

खं. ६ अ. १९ | पान ४८

भवं कुंडं वर्तते तत्र पापहृत् । महाकालस्य कुंडं तु स्नानेन पापनाशनम् ॥४३॥ सोमवारे प्रदोषे तमर्चयंति विशेषतः । ते
सर्वे धनधान्यैश्च संयुक्ता निवसंति हि ॥४४॥ काश्या दक्षिभागे तु तावन्मानेन संयुता । मायापुरी महेशाना दक्षयज्ञच्छि-
दीश्वरः ॥४५॥ प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् । पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥४६॥ तत्र द्वारं च गंगायाः
संस्थितं कुंडरूपकम् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 690
Page 690 scan

खं. ६ अ. १९ पान ४९

तीर्थं संस्थितं तत्र पापहृत् । स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥६९॥ तस्या वामांगके शक्तिर्महाकाली समास्थिता ।
कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥७०॥ महासरस्वती शक्तिर्दक्षिणांगे स्थिता तथा । सारस्वतं महत् कुंडं तत्र जाड्य-
विनाशनम् ॥७१॥ स्वानंदवासमास्थाप्य भजते गणनायकम् । महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥७२॥ सिद्धीशं
तु महाकाल्यास्थाप्य भक्तिपरायणा । भजते नित्यमानंदाद्भूतायां पूज्यते तथा ॥७३॥ बुद्धीशं तु तृतीयायां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 691
Page 691 scan

खं. ६ अ. १९ पान ५०
नित्यदा ॥९४॥ तत्र स्नानेन पापानि प्रणश्यंति महांति चेत् । जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥९५॥
सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः । सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥९६॥ तथाऽग्निश्च महात्मानं
विनायकं निरंतरम् । आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥९७॥ आग्नेयं तत्र कुंडं तु सर्वाघशमनं स्थितम् ।
स्नानमात्रेण जंतूनामग्निलोकप्रदं भवेत् ॥९८॥ कर्मनाशकरं कुंडं समीपं कर्मणः स्थितम् । स्नानेन त्रिविधं तत्र कृतं कर्म
विनश्यति ॥९९॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 692
Page 692 scan

खं. ६ अ. १९ | पान ५१
स्वस्वांकितेषु वारेषु पूजनीया इमे नरैः । पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥२१॥ अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः
स्थिताः किल । तेषां नामादि कथितुं देवाः शक्यते न वै ॥२२॥ देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः । नाना भैरवसंयुक्ताः
संस्थिता देवतत्पराः ॥२३॥ तत इंद्रो हव्यवाहः पूर्वभागे समाश्रितौ । यमपो निर्ऋतिस्तद्वद्दक्षिणांगे च तिष्ठतः ॥२४॥
पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ । धनपो निर्ऋतिस्तद्वदुत्तरांगे समास्थितौ ॥२५॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in