मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
ख. ५ अ. ४२ पान १०२
॥ श्रीगणेशाय नमः ॥ कपिल उवाच । एतादृशी महाभक्तिस्त्वदीया गणनायक । यदा सर्वे प्रकुर्वंति तदा विश्वं कथं
भवेत् ॥१॥ सर्वेभ्यः श्रेष्ठभावेन जानंति त्वां यदा नराः । तदा त्वां सर्वभावेन भजंते ते न संशयः ॥२॥ श्रेष्ठार्थिनो
नराः सर्वे भजंते शीघ्रसिद्धये । देवेंद्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥३॥ चिंतामणिरुवाच । मया सृष्टं जगत् सर्वं
नानाभावमयं मुने । नानाभावयुताः सर्वे न भजंते तु मां सदा ॥४॥ चतुर्णां देवमुख्यानां कृत्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवर्णितोऽयं शिववरबलेनैव मुनींद्रकैः ॥२६॥ स्वसत्तासंयुक्तो देवो नाऽयं चिंतामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो
बभूव ह ॥२७॥ कलिप्रांते मुने लोका न भजिष्यंति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥२८॥
मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजंते त्वग्रपूज्यकान् ॥२९॥ सर्वपूज्याग्रपूज्यत्वं
नष्टं भवति मे ततः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ श्रीगणेशाय नमः॥ दक्ष उवाच। धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानंदजां कथाम्। विस्मितो योगिराजेंद्र न समं तस्य
विद्यते ॥१॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम्। गार्गेयेण नृपशार्दूल उपदिष्टः किमाचरत् ॥२॥ गणेशलोकगः
सोऽपि बभूव वद तत्कथम्। अत्र तत्र गणेशानं भजते कथमप्यहो ॥३॥ मुद्गल उवाच। गार्गेयेण नृपवर्यश्च गाणपत्येन
शिक्षितः। गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥४॥ स्कंदेन स्थापितस्तत्र लक्षो नाम गजाननः। तं नित्यं सेवया-
मासानन्यभावेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ५ अ. ४३ पान १०५
देवः पूजनीयं चराचरम् । केनाऽपि तत्र विपेंद्र भवेच्चासंख्यभावतः ॥२६॥ चराचरं पूजितं चेत्तदपि तस्य रोमगम् ।
ब्रह्मांडकूटमेवेदं वदंति मुनयोऽपरे ॥२७॥ यस्य रोमांतरंध्रेषु ब्रह्मांडानां हि कोटयः । अतः संपूर्णदेहस्य पूजनं न भवेत्
कदा ॥२८॥ भक्तवात्सल्यभावार्थं देहधारी बभूव ह । देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥२९॥ अनेन निश्चयेनैव
पूजयेत् स्वेष्टदैवतम् । अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥३०॥ नान्यान्निंदेन्न वै दक्ष
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ५ अ. ४४ पान १०६
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमैलः स राजर्षिरेकनिष्ठापरायणः । गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥१॥
ध्यात्वा गजाननं देवमेकांते तद्गताऽखिलः । मानसे राज्यभोगे स निःस्पृहः संबभूव ह ॥२॥ पुत्रे राज्यं परित्यज्य
पूजयित्वा गजाननम् । ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥३॥ दक्ष उवाच । गणेशस्य ध्यानमैलकृतं मे वद सांप्रतम् ।
तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरंतरम् ॥४॥ मुद्गल उवाच । यथैलो नृपवर्यः स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ५ अ. ४४ पान १०७
निशाकरस्थलम् । रक्ताष्टगंधैश्च सुचित्रितं प्रभोर्बिंदुप्रयुक्तं त्वथ तंडुलैर्युतम् ॥२०॥ केशैः समाच्छादितमस्तकं तथा सं
चिंतये विघ्नविनाशकारिणः । ब्रह्मांडमूले प्रभुमस्तकाश्रिते कुंभस्थले ब्रह्मवरस्य सौख्यदे ॥२१॥ गणेशदेहं परिचिंतयाम्यहं
सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥२२॥ विचित्रगंधैः परिलेपितं
तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिंतयेऽहं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमतौ ॥४१॥ शमीमंदारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥४२॥ दूर्वां देवीं गणेशस्य
मंत्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः कांडादिभिः प्रपूजयेत् ॥४३॥ नाममंत्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतद्देव
रहस्यं ते कथितं सर्वमंजसा ॥४४॥ प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमंदिरे ॥४५॥
यत्र दूर्वा च मंदारः शमी तिष्ठति तत्र सः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशीर्षक (Header):
[L0a] खं. ५ अ. ४५
[L0b] पान १०९
एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् । पंचोपचारकैर्दक्ष ततो जपं समाचरेत् ॥८॥ एकविंशतिवारं तु जपं कुर्यात्
प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥९॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा
कीर्तिं विघ्नराज नमोऽस्तु ते ॥१०॥ यदा देवादयः सर्वे कुंठिता दैत्यपैः कृताः । तदा त्वं तान् निहत्य स्म कुरुषे
वीर्यसंयुतान् ॥११॥ तथा मंत्रा गणेशान कुंठिताश्च दुरात्मभिः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमुक्तिं लभेत् ध्रुवम् ॥३३॥ खंडं लंबोदरस्यैतद्यः शृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥३४॥
नानेन सदृशं किंचिद्भक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लंबोदरः स्तुतः ॥३५॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन
फलं लभेत् । तदस्यैकस्य खंडस्य श्रवणेन भवेदिह ॥३६॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ अथ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[शीर्षक/Header]
खं. ६ अ. ६ | पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् । लंबोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥१॥
अहो गणेशमाहात्म्यं सर्वसंतोषकारकम् । श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥२॥ अधुना वद माहात्म्यं विकटस्य
विशेषवित् । सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥३॥ अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा । पृष्टं दक्षेण किं तात
वद तन्मे प्रविस्तरात् ॥४॥ तव संगेन संतुष्टा वयं सर्वे विशेषतः । भवामः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. १ पान २
ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥२६॥ कर्मणां फलदात्री त्वं तपसां ज्ञान-
धारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥२७॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि
तं ध्यायसि किमर्थतः ॥२८॥ सदा नामावलिं तस्य वदसि जगदंबिके । अमार्थं सर्वजंतूनां गुह्यगोपनकारणात् ॥२९॥ सर्व-
सत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥३०॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २ पान ३
ब्रह्म तयोर्योगे स देहभृत् ॥५१॥ इत्युक्त्वा विररामाथ शक्तिः स्वानंदवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता
बभूविरे ॥५२॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inविविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥१८॥ ततः शिवं समागत्याग्निस्तदंश-
समुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥१९॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान
कार्यमाज्ञापयोत्तमम् ॥२०॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्मांडमथ वा ग्रसिष्यामि त्वदाज्ञया ॥२१॥
अग्नेस्तद्वचनं श्रुत्वा शंकरस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥२२॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. २ पान ५
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
कथयामास संसदि ॥४३॥ निशुंभभाषितं श्रुत्वा ततः क्रोधसमायुतः । जलंधरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥४४॥
तमागतं समालोक्य महादेवः प्रतापवान् । विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥४५॥ देवानां दानवानां च युद्धं
परमदारुणम् । अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥४६॥ वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ६
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । जलंधरस्वरूपेण आगतं तं जनार्दनम् । नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥१॥
नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः । जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥२॥ ततो गणेशमायाभिर्मोहिता तं
समीपगा । वृंदा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥३॥ मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् । रूपेणाप्रतिमां
पूर्णयौवनेन विराजिताम् ॥४॥ एकांते स तया सार्धं रेमे नारायणः स्वयम् । साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ६ अ. ३ पान ७
तं मंत्रमुत्तमम् ॥२६॥ एवं तस्योग्रतपसा विश्रांताः सुरमानुषाः । दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥२७॥
ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा । बोधयामाय दैत्येशं वरं ब्रूहि समब्रवीत् ॥२८॥ ततः स शंकरं दृष्ट्वा प्रणनाम
कृतांजलिः । समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुक्तः ॥२९॥ यजुर्वेदभवेनैव रौद्रस्तोत्रेण शंकरम् । कामासुरः प्रसन्नात्मा
तोषयामास भावतः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं ६ अ. ४ पान ८
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचिद् दैत्यराजेंद्रो बलिमुख्यान् समागतान् । जगाद हर्षसंयुक्तः कामासुरः
प्रतापवान् ॥१॥ कामासुर उवाच । बले रावणमुख्याश्च वचनं मे हितावहम् । शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥२॥
ब्रह्मांडं हि प्रजेष्यामि वरदर्पेण निश्चितम् । भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥३॥ वरदानस्य माहात्म्यं वृथा
भवति चान्यथा । न वयं जयसंहीना भविष्यामः कदाचन ॥४॥ कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येंद्रसत्तमाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ६ अ. ४ | पान ९
जयशालिनः ॥२५॥ ततस्तं शंबरो दैत्यः प्राह वैरसमन्वितः । प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥२६॥ शंबरासुर उवाच ।
शंभुं जय महाराज देवमुख्यैश्च संवृतम् । तदा ब्रह्मांडकस्यैव राजा त्वं तु भविष्यसि ॥२७॥ न त्वां वरप्रदो देवः शिवः
शृणु वचो हितम् । स्वधर्मसंयुक्तं राजन् सर्वेभ्यः सुखदायकम् ॥२८॥ कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् । स्वधर्मस्थं
विजानीहि नोचेन्नाशयंति देवताः ॥२९॥ प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in