मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
पान ६८
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् । संकष्टीसंभवं मुख्यं न तृप्तस्तदपि
प्रभो ॥१॥ अतो ज्येष्ठे चतुर्थी या संकष्टी मुनिसत्तम । तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥२॥ वसिष्ठ उवाच । निषधेषु
महाभागो नलो नामाऽभवन्नृपः । तेजस्वी शस्त्रसंपन्नः शास्त्रज्ञश्च बभूव ह ॥३॥ रूपवान् धनसंपन्नश्चतुरंगबलान्वितः ।
शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥४॥ सामंता वशगा यस्य करदा इतरे नृपाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २४ पान ६९
महावाक्यादिभिर्वेदास्तं भजंति सुयोगदम् । महावाक्यानि राजेंद्र भजंति ब्रह्मनायकम् ॥२६॥ सर्वसिद्धिप्रदा यस्य
वामांगे प्रकृतिः परा । पंचचित्तमयी बुद्धिर्दक्षिणांगे व्यवस्थिता ॥२७॥ स्वानंदे वसतिर्यस्य सर्वपूज्योऽयमुच्यते । सर्वादिर्गण-
नाथश्च विप्रैः सोऽंतेषु तिष्ठति ॥२८॥ गणाः समूहरूपाश्चांतरबाह्यादियोगतः । तेषां स्वामी गणेशोऽयं तं भजस्व
विधानतः ॥२९॥ एवमुक्त्वा ददौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २५ पान ७०
ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बंधने ॥५२॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठ-
चतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बंधनाकुलः ॥५३॥ चंद्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन
दुष्टेन तत्क्षणात् ॥५४॥ राजाज्ञया च तं दुष्टं पंचम्यां जघ्नुरादरात् । स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[header]
खं. ४ अ. २५ पान ७१
[/header]
सदा । किं पश्यसि सुसंहारे प्राप्ते योगींद्रसत्तम ॥१३॥ वसिष्ठ उवाच । एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः । विश्वरक्षण-
भावार्थं दुष्टनाशनकरं वचः ॥१४॥ गृत्समद उवाच । राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका। व्रतभ्रष्टोऽसि देवेंद्र अधुना तद्व्रतं
कुरु ॥१५॥ ज्ञानमदेन विघ्नेशमंत्रस्त्यक्तस्तथा त्वया । किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥१६॥ एवमुक्त्वा चतुर्थ्या
यन् माहात्म्यं मुनिसत्तमः । कथयामास तस्मै तत्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २६ | पान ७२
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥३९॥ विधियुक्तं व्रतं भूप ये कुर्वंति नरोत्तमाः । दर्शनेन जनानां ते
तारकाः संभवंति हि ॥४०॥ एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे । अनंताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥४१॥
इदमाषाढसंकष्ट्याश्चरितं यः शृणोति चेत् । पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥४२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशीर्षक / हेडर:
खं. ४ अ. २६ | पान ७३
मूल संस्कृत पाठ:
श्रुत्वा युधिष्ठिरो महायशाः । उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥१८॥ युधिष्ठिर उवाच । शृणु तात मदीयं त्वं
वाक्यं धर्मयुतं महत् । राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥१९॥ तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल ।
अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥२०॥ धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः । न किंचिदुक्तवांस्तत्र
तं निःश्वस्य महायशाः ॥२१॥ विदुरेण युताः सर्वे सस्त्रीकाः पांडवा नृप
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २६ पान ७४
सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥४३॥ पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् । हत्वा सर्वन्नृपैर्युक्तं कृष्णेन
हर्षसंयुतः ॥४४॥ पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥४५॥ इह भुक्त्वा-
ऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते । पांडवा ज्ञानसंयुक्ता बभुः स्वांशेषु संगताः ॥४६॥ अन्ये जनाः क्रमेणैव
गता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २७ पान ७५
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां शृण्वन् सर्वसिद्धि-
प्रदायिनीम् ॥१॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥२॥
नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥३॥ धर्मशीलः सदानंदं
चाददाद्भक्तिसंयुक्तः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥४॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inविस्मितो ह्यहम् ॥२५॥ ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥२६॥
एवं क्रमेण राजेंद्र आसं स्वानंदगोऽभवम् । तत्र शांतिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥२७॥ तस्माद्भेदमयं द्वंद्वं दृष्ट्वा शांतो
महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥२८॥ ब्रह्मभूतस्वरूपां मे वद शांतिं महामुने । शिष्योऽहं ते
महाभाग तारयस्व भवार्णवात् ॥२९॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ४ अ. २७ पान ७७
कृतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥५१॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं
जनास्तथा ॥५२॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥५३॥ अंते गणेश-
लोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥५४॥ एतत्ते कथितं भूप माहात्म्यं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि
वै ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥२॥ पार्वती-
शंकराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥३॥ कार्तिकेयस्तथा जातः स्ववीर्यात्
स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥४॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे
पुरा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[खं. ४ अ. २८] [पान ७९]
नारदः कलहप्रियः । स्कंदो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥२६॥ ज्ञात्वा पुत्रस्य वृत्तांतं पार्वतीशंकराविमम् ।
शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥२७॥ क्रौंचे स्कंदं स्थितं ज्ञात्वा पार्वतीशंकरौ नृप । शोकसंविनचित्तौ
तौ विलापं चक्रतुः पुरा ॥२८॥ तत्राऽऽजगाम विप्रेंद्रो मुद्गलः सर्वमुद्गलः । तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥२९॥
सुखासीनं महाभाग उवाच शोकसंकुलः । भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥३०॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसिद्धिबुद्धिपतिः स्वयम् । योगशान्तिस्वरूपोऽयं न जानामि सुमूखर्वत् ॥५१॥ एवं विचार्य स्कंदः स ययौ कैलासमादरात् ।
आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥५२॥ अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् । उमां संपूज्य तुष्टाव
प्रणनामाऽथ दंडवत् ॥५३॥ संमानितः स तैः स्कंदोऽतिष्ठत्तद्भक्तिसंयुतः । तदाज्ञावशगो भूत्वा शांतियोगपरोऽभवत् ॥५४॥
विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह । स्त्रियं बंधकरीं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ दिए गए पृष्ठ का देवनागरी में अक्षरशः प्रतिलेखन (transcription) प्रस्तुत है:
खं. ४ अ. २९ | पान ८१
ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ
वशगां पृथिवीं समुद्रांतां विशेषतः ॥५॥ करदा इतरे सर्वे राजानः सेवका इव । सामंताश्च महाराज तस्याज्ञा-
वशवर्तिनः ॥६॥ पुण्यवान् धर्मशीलश्च नानादानपरायणः । देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥७॥ यज्वा
विनीतकस्तीर्थकारकः परवीरहा । नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥८॥ स एव यक्ष्मणाऽत्यंतं पीडितः
पापरूपिणा ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. २९ पान ८२
गतोऽभवत् ॥३०॥ मया मनसि राजेंद्र संधृतं शंकरात् परम् । विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥३१॥ दर्शयित्वा
तपोरूपमतो भस्म कृतं महत् । रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥३२॥ त्यक्त्वा विष्णुं महेशस्य भजने निरतो-
ऽभवम् । क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥३३॥ जडादिका मया योगभूमयः क्रमितास्ततः । क्रमेण सहजे
संस्थोऽभवं वै मोहवर्जितः ॥३४॥ यत्र तत्र महीदेशे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header: खं. ४ अ. ३० | पान ८३]
भूत्वा ब्रह्मभूतो बभूव ह । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥५६॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यत्त्वं शृणु भावेन परं कार्तिकसंभवम् ॥५७॥ चांडालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणा-
नन्यान् जंतून् वनसमाश्रितान् ॥५८॥ परस्त्रियं वने दृष्ट्वाऽयभक्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा
॥५९॥ कदाचित् कार्तिके मासि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ८४
ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् । प्रत्यक्षं वरदो भूत्वा हरिश्चंद्रमुवाच ह ॥११॥ कुरु राज्यं महाबुद्धे शृणु मे परमं
वचः । तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥१२॥ तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम । अहं संक्षुभितो वाऽपि
तदर्थं नात्र संशयः ॥१३॥ सर्वाद्यौ तद्द्रुतं कार्यं चतुःपादप्रदं नृप । नित्यवन्नात्र संदेहः सर्वसिद्धिप्रदायकम् ॥१४॥ त्वया
नानाविधं पुण्यं कृतं विधियुतं महत् । तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥१५॥ जनैः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[खं. ४ अ. ३१] [पान ८५]
॥३६॥ स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥३७॥ ब्राह्मणादय एवं ते
भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥३८॥ कथने परदोषाणां दोषी भवति मानवः ।
एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥३९॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां
मोहने कदा ॥४०॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inख. ४ अ. ३१
पान ८६
मानद । फलहीनप्रभावेण पतिष्यंति च रौरवे ॥१३॥ एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः । श्रावयामास संपूर्णं
ततस्तं त्वब्रवीन्नृपः ॥१४॥ वीरसह उवाच । गणेश्वरस्य माहात्म्यं वद मे करुणानिधे । एतादृशं व्रतं यस्य तं भजिष्यामि
नित्यदा ॥१५॥ त्रित उवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् । उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥१६॥
अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः । एको द्वितश्च मे राजन् भ्रातरौ विद्यया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसाक्षादंतर्धानं चकार ह ॥३७॥ राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥३८॥
तत्रादौ पौषगां कृष्णां चतुर्थी तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥३९॥ प्रशस्तं तद् व्रतं तेन
कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४०॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुक्तम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in