Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 343
Page 343 scan

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण (Transcription) प्रस्तुत है:

सं. ३ अ. २८ [Page Header Left] | पान ५९ [Page Header Right]

किं प्रदद्मो महात्मंस्त्ववां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥५९॥ ततः सर्वे पुपूजुस्तं
**वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥६०॥ साधयित्वा यथायोगं श्रुतमंत्र प्रजापते ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 344
Page 344 scan

[पान ६०]

बृहस्पतेश्च या नारी तारा यौवनशालिनी। रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥१३॥ मा मेति ब्रुवतीं तारां
हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुंब हठसंयुतः ॥१४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया
प्रजापाल कामबाणप्रपीडितः ॥१५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चंद्रमाः
॥१६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तांतं क्षुभितो भृशम् । नानायत्नेन चंद्रं स ययाचे न ददौ शठः ॥१७॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 345
Page 345 scan

खं. ३ अ. २९ पान ६१
बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥३९॥ इलायां गर्भसंदानात्तस्य जन्म
मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥४०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमंडलस्य च ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 346
Page 346 scan

खं. ३ अ. २९ पान ६२
च ते वासो भविष्यति महामते । त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥२०॥ ततः शोकाकुलो राजा रुरोदातीव
दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवांगना च तम् ॥२१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं
महाभाग ततः साऽन्तर्हिताऽभवत् ॥२२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ
परम् ॥२३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामांकिता देवाः श्राद्धेऽस्माकं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 347
Page 347 scan

खं. ३ अ. ३० पान ६३
अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥४५॥ अस्थिमांसमयो देहस्तत्र
दुर्गंधसंयुक्तः। छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥४६॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं
कर्म कृतं वै नात्र संशयः ॥४७॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः
॥४८॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 348
Page 348 scan

वचनाच्च मे ॥१४॥ तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥१५॥ गौतमाय
ततस्तेन कथितं सुखदं परम् । विनायकस्य मंत्रं त्वं देहींद्राय महामुने ॥१६॥ गौतमेन तदा दत्तः स्वमंत्रो गणपस्य च ।
इंद्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥१७॥ जजाप मंत्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप
उत्तमम् ॥१८॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥१९॥ गते
वर्षसहस्रे वै तं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 349
Page 349 scan

यहाँ पृष्ठ की पूर्ण एवं शुद्ध प्रतिलिपि (Transcribed Text) प्रस्तुत है:

खं. ३ अ. ३० पान ६५
लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥४०॥ तथेति तमुवाचाऽथ गणेशोऽन्तर्दधे ततः । इंद्रेण गणनाथस्य मूर्तिः
संस्थापिता द्विजैः ॥४१॥ तं पूजयित्वा देवेंद्रः संस्थितस्तत्र मानद । नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥४२॥
अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् । गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥४३॥ बृहस्पतिमुवाचाऽथ मृत
इंद्रो न संशयः । न दृश्यते जनैः कुत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 350
Page 350 scan

खं. ३ अ. ३० पान ६६
नादश्च कृतो मेघसमो महान् । तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥६६॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसम-
न्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥६७॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं
मया चाऽयं भीमः संजगृहेऽधुना ॥६८॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं
मतो यतः ॥६९॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 351
Page 351 scan

[खं. ३ अ. ३१] [पान ६७]

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नहुषस्याभवन् पुत्राः पंच देवसमा धिया । यभ्यातिश्च ययातिश्च तथा संयातिरायतिः
॥१॥ पंचमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् । माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥२॥ देवयानीमुशनसः स
तां भार्यामवाप ह । वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥३॥ यदुं च तुर्वसं चैव देवयानी व्यजीजनत् । द्रुह्यं तद्वदनुं
पूरुं शर्मिष्ठां वार्षपर्वणी ॥४॥ सोऽभ्यषिंचदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः । पूरुं कनिष्ठमेवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 352
Page 352 scan

[पान ६८]

ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥२५॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले
गमिष्यामि स्वमालयम् ॥२६॥ तमुवाच प्रजानार्थं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो
॥२७॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥२८॥ तस्यास्तद्वचनं श्रुत्वा
ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥२९॥ ततः सोवाच तं देवयानी

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 353
Page 353 scan

खं. ३ अ. ३१ | पान ६९
गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥५०॥ कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना । लाञ्छनं दैत्यराजस्य
प्राप्तं किं दैवयोगतः ॥५१॥ शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया । ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥५२॥
तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः । राज्ञा संमानिता नित्यं वाटिकायां विशेषतः ॥५३॥ कदाचिद्देवयानी सा
वाटिकायां जगाम ह । तत्र पुत्रा ययातिं तं पितरं प्राहुरदरात् ॥५४॥ तच्छ्रुत्वा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 354
Page 354 scan

पान ७०

परः ॥७५॥ इति गर्वेण संयुक्तमिंद्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥७६॥ उवाच नरशार्दूलः
ततस्तं मोहसंयुतः । न संख्या विद्यते देव मम पुण्यस्य देवप ॥७७॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे ।
न मे कलां च पुण्यस्य लभंते देवनायक ॥७८॥ तस्य तद्वचनं श्रुत्वा तमिंद्रः प्रत्युवाच ह । न जानासि महाराज एषां
पुण्यप्रभावकम् ॥७९॥ सर्वानिमांस्तिरस्कृत्य त्वं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 355
Page 355 scan

[शीर्षक / पृष्ठ-शीर्षक]
खं. ३ अ. ३२ | पान ७१


मूल संस्कृत पाठ (Line-by-Line Transcription)

प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमंडले । समानीता महायोगिन्
वद तस्य चरित्रकम् ॥९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥१०॥
मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अंत्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥११॥ स तु मार्गे जनान्
वीक्ष्याऽमारयत्तन् दिने दिने । मांसविक्रयकारी च पशून् हत्वा निरंतरम् ॥१२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा ।
समागता च तत्राऽसौ विचचार वनांतरे ॥१३॥ महापर्वतदेशे स जनानां प्रबधाय च । दैवयोगेन तस्याऽपि मिलितं
नैव किंचन ॥१४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किंचित्तथाभूतश्चचार ह ॥१५॥ ततोऽस्तमगमत्
सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥१६॥ मार्गे दुष्टो द्विजांस्तत्र दृष्ट्वा द्वादशसंख्यकान् ।
तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥१७॥ चंद्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वया-
मास तेन सः ॥१८॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥१९॥
गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥२०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वा-
दिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥२१॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां
सुतो जज्ञे धनकस्य महाबलः ॥२२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्भूवे यज्ञकारकः ॥२३॥
अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥२४॥ न लेभे संततिं राजा
ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥२५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः ।
पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥२६॥ नानातपश्चकाराऽसौ संततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्र-
प्राणावशेषितः ॥२७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तांतमवदन्नृपम् ॥२८॥ तव
पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायतनसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥२९॥ न लेभे संततिं राजा स्वल्पकाले
मरिष्यति । पुत्रहीनस्य भो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 356
Page 356 scan

खं. ३ अ. ३२ पान ७२
धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि। पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥३४॥ राज्यादिकं समुत्सृज्य वने तपति
संस्थितः। तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥३५॥ केनोपायेन पुत्रश्च भविता तं वदस्व मे। प्रापयिष्याम्यहं तत्र
स्ववंशस्य विवृद्धये ॥३६॥ ततस्तं प्रत्युवाचेदं वचनं चतुराननः। पूर्वजन्मनि संभूतं द्विजहत्यायुतं व्रतम् ॥३७॥ पुनः
प्रोवाच तं देवो विधिः सर्वार्थकोविदः। पुत्रप्राप्त्यर्थमेवैकमुपायं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 357
Page 357 scan

यहाँ पृष्ठ का पूर्ण देवनागरी पाठ प्रस्तुत है:

खं. ३ अ. ३३ | पान ७३
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्रतं लब्ध्वा पुस्तकं संलिख्य संगृह्य मायया । धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह
॥१॥ धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् । पुत्रं राजा समादायोत्संगे स्वस्य जगाद तम् ॥२॥ धनक उवाच । पुत्र
नानाविधा यत्ना विशेषेण कृतास्त्वया । पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥३॥ तेन पुण्येन पुत्रस्ते भविता नात्र
संशयः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 358
Page 358 scan

खं. ३ अ. ३४ | पान ७४
कृतवीर्यकः । बभूव वर्णितं विप्र त्वया संशयदायकम् ॥२६॥ अतः संशयनाशार्थं वद मुद्गल मे वचः । सर्वज्ञस्त्वं न
संदेहः साक्षाद्योगीश्वरो महान् ॥२७॥ मुद्गल उवाच । प्रजापते शृणु ह्यत्र वचनं मे महामते । येन ते संशयो नाशं
गमिष्यति न संशयः ॥२८॥ व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् । संकष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥२९॥
पृथिव्यां स्वर्गलोके तत् पाताले सर्वसंमतम् । चतुर्थी च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 359
Page 359 scan

खं. ३ अ. ३४ पान ७५
ततः स हर्षितो राजा ददौ पुत्रं च तत्करे । अंके संगृह्य योगींद्रो राजानं प्रत्युवाच ह ॥१५॥ राजन् व्रतं त्वया तत्रांग-
हीनत्वमजानता । कृतं तु तेन ते पुत्रोऽंगहीनः प्रबभूव ह ॥१६॥ व्रतस्य जागरे राजन् जृंभितं च पुनः पुनः । त्वया
नाचमनं तत्र कृतं तेनायमीदृशः ॥१७॥ व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः । पुत्रोऽभवत्तदंशेन विख्यातः
प्रभविष्यति ॥१८॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । विधियुक्तं गणेशस्य कार्तवीर्याय

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 360
Page 360 scan

भविष्यति ॥४०॥ ततस्तं कार्तवीर्यश्च जगाद गणनायकम् । हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥४१॥
कार्तवीर्य उवाच । किं वृणोमि गणाधीश सर्वं मायामयं विभो । तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥४२॥ सुहृदां तदपि
स्वामिन् संतोषार्थं वृणोम्यहम् । शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥४३॥ यद्यदिच्छामि तत्तच्च सुलभं मे गजानन ।
भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥४४॥ अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप । धर्मार्थकाममोक्षादि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 361
Page 361 scan

खं. ३ अ. ३५ पान ७७
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् । धर्मेण राजन्यनीत्या स्वां पालयामास हि
प्रजाम् ॥१॥ ततस्तेन च भूपेन जिताः सर्वे महीभृतः । सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥२॥ देवैः संस्थापितं नाम
सहस्रार्जुन आदरात् । न समस्तेन कश्चिद्वै बभूव क्षात्रमंडले ॥३॥ स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे । यदा क्रुद्धः
स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥४॥ न संख्या वर्तते तस्य सैन्यानां च प्रजापते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 362
Page 362 scan

वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥२६॥ गणेशं स्थापयामास ब्राह्मणैर्मंत्रकोविदैः । प्रवालगणनाथेति नाम कृत्वा
पुपूज ह ॥२७॥ एवं नानाविधैर्भावैर्गणेशमभजत् सदा । त्रिलोककीर्तिसंगीतो बभूव कृतवीर्यजः ॥२८॥ चतुर्थीव्रतजेनैव
तेजसा संयुतो बभौ । अंगहीनकभावेन मोहयुक्तो बभूव ह ॥२९॥ देवादीनामभून् मान्यः श्रिया परमया युतः । भोगयुक्तः
स्वभावेन विसस्मार गजाननम् ॥३०॥ त्यक्त्वा मंत्रं गणेशस्य ब्रह्मज्ञानमदेन सः । अहं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in