Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 336
Page 336 scan

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह । सिंधुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो
महायशाः ॥१॥ अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः । स वै नलसखस्तस्मादश्वविद्यापरायणः ॥२॥ सर्वकामस्ततो
जज्ञे तस्माज्जातः सुदासकः । सौदासास्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥३॥ कल्माषपादक्षेत्रे वै वसिष्ठो
मुनिसत्तमः । अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥४॥ अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः । स हि राम-
भयाद्राजा वनं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 337
Page 337 scan

खं. ३ अ. २६ पान ५३
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
स्थापिता मूर्तिरादरात् । गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥२६॥ पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् ।
आययौ नगरेऽयोध्यायां सर्वान् संप्रहर्षयन् ॥२७॥ ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः । गणेशः स तु पुत्रोऽभून्
मुने दशरथस्य भोः ॥२८॥ चतुर्धात्मानमाभाज्य विबभौ हरिरव्ययः । कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥२९॥
कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 338
Page 338 scan

स्वरूपकम्। कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥५१॥ रामस्य वचनं श्रुत्वा शंकरस्तमुवाच ह। योगं गाणेशकं पूर्णं
बोधयन् मुनिसत्तम ॥५२॥ शिव उवाच। शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम्। तेन त्वं सर्वभावज्ञः शांतिं प्रलभसे
प्रभो ॥५३॥ पंचधा हृदि संस्था या बुद्धिः सैव न संशयः। चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥५४॥ नानाभ्रम-
करी माया सिद्धिः सर्वत्र दृश्यते। भ्रमंति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥५५॥ सा तस्य प्रकृतिः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 339
Page 339 scan

यहाँ पृष्ठ का सम्पूर्ण देवनागरी पाठ प्रस्तुत है:

शीर्षक (Header):
खंड. ३ अ. २६ | पान ५५


भक्तिनम्रात्मकंधरः ॥७६॥ राम उवाच । हेरंबाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः
॥७७॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥७८॥ अनादये च सर्वेषामादि-
रूपाय ते नमः । अंतमध्यप्रतिष्ठाय लंबोदर नमो नमः ॥७९॥ चिंतामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय
तदाकाराय ते नमः ॥८०॥ सर्वपूज्याय

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 340
Page 340 scan

खं. ३ अ. २७ पान ५६
वानरैर्देवरूपिभिः ॥२॥ सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः । हत्वा राक्षससंघान् स कुंभकर्णं जघान च ॥३॥
लक्ष्मणश्चेंद्रजेतारं मारयामास वेगतः । ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥४॥ तेन सर्वे कपींद्राश्च हताः संमूर्च्छिताः
कृताः । लक्ष्मणे मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥५॥ शस्त्रास्त्राणि च रामस्य कुंठितानि विशेषतः । ततोऽतिविह्वलो
रामः सस्मार गणनायकम् ॥६॥ स्मृतिमात्रेण

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 341
Page 341 scan

खं. ३ अ. २७ पान ५७
मार्कंडेयश्च तौ पुनः । जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥८॥ मार्कंडेय उवाच । नरनारायणौ देवौ भवद्भ्यां पावितो-
ऽप्यहम् । कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥९॥ अतो गणेशयोगं मे वदतं येन चाप्यहम् । रामवच्छांतिमाश्रित्य
ब्रह्मभूतो भवामि च ॥१०॥ नरनारायणावूचतुः । गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः । न शक्तिस्तं वर्णयितुं मनसाऽपि
मुनीश्वर

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 342
Page 342 scan

खं. ३ अ. २७ पान ५८
संयुक्तो भक्तरक्षणतत्परः ॥३३॥ बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं
भक्तिप्रभावतः ॥३४॥ मार्कंडेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानंदान्नानाभावप्रकाशिनीम् ॥३५॥
व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयंति नरान् सदा ॥३६॥ कुत्र ब्रह्मांडनाशश्च कुत्र
ब्रह्मांडपालनम् । कुत्रोत्पत्तिश्च विप्रेंद्रा दृश्यते तेन योगिना ॥३७॥ कुत्र शून्यमयं कुत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 343
Page 343 scan

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण (Transcription) प्रस्तुत है:

सं. ३ अ. २८ [Page Header Left] | पान ५९ [Page Header Right]

किं प्रदद्मो महात्मंस्त्ववां देहोऽयं ते समर्पितः । तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥५९॥ ततः सर्वे पुपूजुस्तं
**वालखिल्यास्तपोधनाः । प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥६०॥ साधयित्वा यथायोगं श्रुतमंत्र प्रजापते ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 344
Page 344 scan

[पान ६०]

बृहस्पतेश्च या नारी तारा यौवनशालिनी। रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥१३॥ मा मेति ब्रुवतीं तारां
हाहाकारं प्रकुर्वतीम् । गुरुपत्नीं महामूर्खश्चुचुंब हठसंयुतः ॥१४॥ वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः । रेमे तया
प्रजापाल कामबाणप्रपीडितः ॥१५॥ ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत । न मुमोच तदाऽप्येतां मोहयुक्तश्च चंद्रमाः
॥१६॥ बृहस्पतिश्च तं ज्ञात्वा वृत्तांतं क्षुभितो भृशम् । नानायत्नेन चंद्रं स ययाचे न ददौ शठः ॥१७॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 345
Page 345 scan

खं. ३ अ. २९ पान ६१
बुधस्य चरितं पूर्णं कथितं ते प्रजापते । पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥३९॥ इलायां गर्भसंदानात्तस्य जन्म
मया पुरा । कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥४०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पुरूरवाश्चकाराऽसौ राज्यं भूमंडलस्य च ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 346
Page 346 scan

खं. ३ अ. २९ पान ६२
च ते वासो भविष्यति महामते । त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥२०॥ ततः शोकाकुलो राजा रुरोदातीव
दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवांगना च तम् ॥२१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं
महाभाग ततः साऽन्तर्हिताऽभवत् ॥२२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ
परम् ॥२३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामांकिता देवाः श्राद्धेऽस्माकं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 347
Page 347 scan

खं. ३ अ. ३० पान ६३
अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः । भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥४५॥ अस्थिमांसमयो देहस्तत्र
दुर्गंधसंयुक्तः। छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥४६॥ सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा । नरकाधिप्रदं
कर्म कृतं वै नात्र संशयः ॥४७॥ नरदेहमवाप्यैव मद्विना को भवेच्छठः । स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः
॥४८॥ एवं खेदसमायुक्तो बभूव नृपसत्तमः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 348
Page 348 scan

वचनाच्च मे ॥१४॥ तमुवाच महायोगी गौतमः किं करोम्यहम् । उपायं वद मे तात तं करिष्ये जवादहम् ॥१५॥ गौतमाय
ततस्तेन कथितं सुखदं परम् । विनायकस्य मंत्रं त्वं देहींद्राय महामुने ॥१६॥ गौतमेन तदा दत्तः स्वमंत्रो गणपस्य च ।
इंद्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥१७॥ जजाप मंत्रराजं तं शक्रो गणपतेस्ततः । ध्यात्वा तं देवदेवेशं तताप तप
उत्तमम् ॥१८॥ विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् । नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥१९॥ गते
वर्षसहस्रे वै तं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 349
Page 349 scan

यहाँ पृष्ठ की पूर्ण एवं शुद्ध प्रतिलिपि (Transcribed Text) प्रस्तुत है:

खं. ३ अ. ३० पान ६५
लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥४०॥ तथेति तमुवाचाऽथ गणेशोऽन्तर्दधे ततः । इंद्रेण गणनाथस्य मूर्तिः
संस्थापिता द्विजैः ॥४१॥ तं पूजयित्वा देवेंद्रः संस्थितस्तत्र मानद । नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥४२॥
अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् । गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥४३॥ बृहस्पतिमुवाचाऽथ मृत
इंद्रो न संशयः । न दृश्यते जनैः कुत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 350
Page 350 scan

खं. ३ अ. ३० पान ६६
नादश्च कृतो मेघसमो महान् । तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥६६॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसम-
न्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥६७॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं
मया चाऽयं भीमः संजगृहेऽधुना ॥६८॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं
मतो यतः ॥६९॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 351
Page 351 scan

[खं. ३ अ. ३१] [पान ६७]

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नहुषस्याभवन् पुत्राः पंच देवसमा धिया । यभ्यातिश्च ययातिश्च तथा संयातिरायतिः
॥१॥ पंचमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् । माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥२॥ देवयानीमुशनसः स
तां भार्यामवाप ह । वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥३॥ यदुं च तुर्वसं चैव देवयानी व्यजीजनत् । द्रुह्यं तद्वदनुं
पूरुं शर्मिष्ठां वार्षपर्वणी ॥४॥ सोऽभ्यषिंचदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः । पूरुं कनिष्ठमेवं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 352
Page 352 scan

[पान ६८]

ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥२५॥ मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् । गच्छ त्वं स्वगृहे बाले
गमिष्यामि स्वमालयम् ॥२६॥ तमुवाच प्रजानार्थं देवयानी प्रहर्षिता । काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो
॥२७॥ हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया । त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥२८॥ तस्यास्तद्वचनं श्रुत्वा
ययातिस्तामुवाच ह । काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥२९॥ ततः सोवाच तं देवयानी

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 353
Page 353 scan

खं. ३ अ. ३१ | पान ६९
गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥५०॥ कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना । लाञ्छनं दैत्यराजस्य
प्राप्तं किं दैवयोगतः ॥५१॥ शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया । ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥५२॥
तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः । राज्ञा संमानिता नित्यं वाटिकायां विशेषतः ॥५३॥ कदाचिद्देवयानी सा
वाटिकायां जगाम ह । तत्र पुत्रा ययातिं तं पितरं प्राहुरदरात् ॥५४॥ तच्छ्रुत्वा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 354
Page 354 scan

पान ७०

परः ॥७५॥ इति गर्वेण संयुक्तमिंद्रस्तं प्रजगाद सः । त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥७६॥ उवाच नरशार्दूलः
ततस्तं मोहसंयुतः । न संख्या विद्यते देव मम पुण्यस्य देवप ॥७७॥ स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे ।
न मे कलां च पुण्यस्य लभंते देवनायक ॥७८॥ तस्य तद्वचनं श्रुत्वा तमिंद्रः प्रत्युवाच ह । न जानासि महाराज एषां
पुण्यप्रभावकम् ॥७९॥ सर्वानिमांस्तिरस्कृत्य त्वं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 355
Page 355 scan

[शीर्षक / पृष्ठ-शीर्षक]
खं. ३ अ. ३२ | पान ७१


मूल संस्कृत पाठ (Line-by-Line Transcription)

प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥८॥ दक्ष उवाच । कथं तेन नृपालेन चतुर्थी भूमिमंडले । समानीता महायोगिन्
वद तस्य चरित्रकम् ॥९॥ श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते । अतो विस्तरभावेन कथयस्व कथानकम् ॥१०॥
मुद्गल उवाच । माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा । अंत्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥११॥ स तु मार्गे जनान्
वीक्ष्याऽमारयत्तन् दिने दिने । मांसविक्रयकारी च पशून् हत्वा निरंतरम् ॥१२॥ एकदा माघमासस्य चतुर्थी कृष्णपक्षगा ।
समागता च तत्राऽसौ विचचार वनांतरे ॥१३॥ महापर्वतदेशे स जनानां प्रबधाय च । दैवयोगेन तस्याऽपि मिलितं
नैव किंचन ॥१४॥ अयं बभ्रामान्नजलविहीनो लोभसंयुतः । मिलितं तत्र नो किंचित्तथाभूतश्चचार ह ॥१५॥ ततोऽस्तमगमत्
सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् । गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥१६॥ मार्गे दुष्टो द्विजांस्तत्र दृष्ट्वा द्वादशसंख्यकान् ।
तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥१७॥ चंद्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः । पुत्रं गणेशनामानमाह्वया-
मास तेन सः ॥१८॥ पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् । कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥१९॥
गणेशदूतास्तं तत्र समानेतुं समाययुः । कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥२०॥ स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वा-
दिभिस्तुतः । विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥२१॥ तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले । माहिष्मत्यां
सुतो जज्ञे धनकस्य महाबलः ॥२२॥ कृतवीर्य इति ख्यातो नानाधर्मपरायणः । देवविप्रातिथिप्रेप्सुर्भूवे यज्ञकारकः ॥२३॥
अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् । पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥२४॥ न लेभे संततिं राजा
ततोऽसौ दुःखसंयुतः । प्रधानेषु समाक्षिप्य राज्यं निहतकंटकम् ॥२५॥ सपत्नीको वनं राजा ययौ तपसि संस्थितः ।
पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥२६॥ नानातपश्चकाराऽसौ संततिं न तथाऽपि च । लेभे नृपः प्रजानाथ नेत्र-
प्राणावशेषितः ॥२७॥ अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः । स्वर्गस्थं धनकं तत्र वृत्तांतमवदन्नृपम् ॥२८॥ तव
पुत्रो वने संस्थः पुत्रार्थं यतते नृप । नानायतनसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥२९॥ न लेभे संततिं राजा स्वल्पकाले
मरिष्यति । पुत्रहीनस्य भो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in