Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 314
Page 314 scan

पान ३०

कार्यं क्षात्रधर्मपरायणैः ॥१९॥ एवं षट्कं समाख्यातं मन्वंतरमयं मुने । मन्वंतरे समाप्ते वै द्वितीयस्य समुद्भवः ॥२०॥
ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥२१॥ लयस्तत्र समाख्यातो
मन्वंतरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजंगमाः ॥२२॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः
स्वमात्मानं ससृजुर्योगसेवया ॥२३॥ पुनः सृष्टिं प्रचक्रुस्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 315
Page 315 scan

यहाँ पृष्ठ पर मुद्रित पाठ का लिप्यंतरण प्रस्तुत है:

खं. ३ अ. १५ | पान ३१

कालः संवत्सरांतगः । नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥१३॥ संवत्सरात्मकः कालः पंचधा परिकीर्तितः । आद्यः
संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥१४॥ इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः । वत्सरश्चैव पंचैते शृणु तेषां गतिं
मुने ॥१५॥ अंगप्रत्यंगसंयोगः कालेनैव प्रजायते । अग्निर्जठरसंस्थश्च कुरुते सर्वमंजसा ॥१६॥ देहोत्पत्तिः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 316
Page 316 scan

अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥३९॥ अमायां चंद्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं
पूर्णिमायां विशेषतः ॥४०॥ चंद्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितॄणां कालश्चंद्रमासेन जायते ॥४१॥
देवानां पितॄणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चांद्रमासे न जायते ॥४२॥ देवानां दिवसे कालः
सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥४३॥ त्रीणि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 317
Page 317 scan

खं. ३ अ. १६ पान ३३
त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः । मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥१५॥ द्वापरे मूषकारूढः पूज्यते च
चतुर्भुजः । गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥१६॥ कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् । तारकः सर्वभावज्ञो
गणेशः पूज्यते जनैः ॥१७॥ ब्रह्माकारमयश्चैव तेन भेदो न विद्यते । चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥१८॥ कृते
नराणामायुष्यं लक्षवर्षाणि संमतम् ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 318
Page 318 scan

[header]
खं. ३ अ. १७ पान ३४
[/header]

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस
उच्यते ॥१॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥२॥ कलौ प्रमारको
रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥३॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः ।
वदिष्यंत्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥४॥ अरिष्टैर्दुर्धीतैश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 319
Page 319 scan

खं. ३ अ. १७ पान ३५
ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षिष्यंति मानवान् ॥२६॥ करिष्यंत्यवतारांश्च ब्राह्मणानां
कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥२७॥ शापयुक्ता गौतमस्य भविष्यंति विशेषतः । वामादिमार्ग-
संसक्ता जनान् भ्रष्टांश्च कुर्वते ॥२८॥ अन्यजातिषु सर्वत्र भविष्यंति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते
दुराग्रहाः ॥२९॥ मोहयिष्यंति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 320
Page 320 scan

महामते ॥५१॥ षोडशाब्दं परं चायुः पंचवर्षसमन्विता । अंतर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥५२॥ एवमासुर-
भावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवंति ते ॥५३॥ तदा ढुंढिः सुराणां स हितायाऽवतरिष्यति ।
धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥५४॥ धर्मं प्रवर्तयित्वा स अंतर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं संध्यांशेन
युगक्रमैः ॥५५॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 321
Page 321 scan

कुर्यान्नवविंशतिसंख्यया । ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥१७॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं
चरेत् । ब्रह्मचारी शतान्येव पंचकालेषु वै पृथक् ॥१८॥ गायत्र्याश्च जपं कुर्याद्भागवतो मानसैक्यतः । अष्टोत्तरशतं
काले गृहस्थो जपमाचरेत् ॥१९॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं संध्या त्रिकालेषु ब्राह्मणैः क्रियते
सदा ॥२०॥ त्रिपदां चैव गायत्रीं जपेदोंकारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥२१॥ आदौ प्रणवमुच्चार्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 322
Page 322 scan

खं. ३ अ. १९ पान ३८
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः । स्वगृहे वासमातिष्ठेत् द्विजदेव-
परायणः ॥१॥ ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् । सर्वावयवसंपूर्णां वधूं स वरयेत्ततः ॥२॥ ऋतुगामी भवेच्चैव
संतानार्थं कलत्रवान् । देवविप्रातिथिप्रेप्सुः संतिष्ठेत् स गृहाश्रमी ॥३॥ यजनं याजनं चैव दानमध्ययनं तथा । प्रतिग्रहो-
ऽध्यापनं च षट् कर्माणि समाचरेत् ॥४॥ स्नानं संध्यां जपं होममातिथ्यं देवतार्चनम् । स्वाध्यायं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 323
Page 323 scan

खं. ३ अ. १९ पान ३९
योगभूमिक्रमेण च । योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥२६॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै ।
ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥२७॥ द्वंद्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी
च सदा मुने ॥२८॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥२९॥
चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेंद्रियो जितप्राणो निःसंगः सर्वकर्मसु ॥३०॥ अहिंसा परमो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 324
Page 324 scan

खं. ३ अ. २० पान ४०
धर्मयोगतः । ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥५२॥ त्रेतायां चंचलं चित्तं धर्मस्य पादहीनतः । तपस्तत्र कृतं
मुख्यं तेन सर्वं लभेन्नरः ॥५३॥ द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च । मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥५४॥
कलावासुरभावेन नष्टो धर्मः क्रमेण वै । तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥५५॥ नामस्मरणमार्गे वर्णाश्रमो न च
विद्यते । संन्यासादिः सदाचारो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 325
Page 325 scan

अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् । कणादि तस्य योगेन देहपोषणमाचरेत् ॥७॥ एका वृत्तिरियं प्रोक्ता द्वितीयां
शृणु सांप्रतम् । भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥८॥ तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा । शुक्लवृत्त्याऽऽचरेद्भैक्ष्यं
रागलोभविवर्जितः ॥९॥ तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् । अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥१०॥
कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् । तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥११॥ स्वधर्मः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 326
Page 326 scan

ख. ३ अ. २१ पान ४२
तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः । एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् । शृणोति यः पठेत्तस्य मायामोहो
न विद्यते ॥३३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते । जातमात्रा च सा देवैर्भुज्यते
त्रिभिरादरात्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 327
Page 327 scan

खं. ३ अ. २१ पान ४३


पूर्णिमाद्या अमांता यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥२०॥ शस्त्रादिविषयोगैर्यै
मृतास्तेषां महामुने । चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥२१॥ कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥२२॥ त्रयोदशी समायुक्ता

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 328
Page 328 scan

ख. ३ अ. २२ पान ४४
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् । तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः
॥१॥ नानामंत्रजपेनैव नानाध्यानपरायणैः । निराहारप्रभावेण तोषितस्तैर्गजाननः ॥२॥ पूर्णवर्षसहस्रेण ययौ विघ्नपतिः
प्रभुः । उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥३॥ ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः । बहुत्वान्नैव शक्यं
तद्वर्णनं मुनिसत्तम ॥४॥ सर्वेषामीप्सितं दत्त्वा ययौ स्वानंदके पुरे । ते सर्वे

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 329
Page 329 scan

खं. ३ अ. २२ पान ४५
सद्यः कृत्वा नरसुरूपिणम् । गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥२७॥ सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो
मुने । उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥२८॥ पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् । गणेशं योगमार्गेण
तोषयामास नित्यदा ॥२९॥ शांतियोगधरः सोऽपि बभूव वनसंस्थितः । अंते सायुज्यतां प्राप्तो गणेशस्य महाबलः
॥३०॥ सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने । इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥३१॥ वनं ययौ महाभागो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 330
Page 330 scan

भविष्यति न संशयः । एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥२३॥ उदरे युवनाश्वस्य गर्भः संववृधे मुने । संपूर्णी
तत्र देवेंद्रो गर्भं तस्य महात्मनः ॥२४॥ विदार्य जठरं सद्यः पूर्ववत्तं चकार ह । कं धास्यति कुमारोऽयं तत्रेंद्रस्तानुवाच
ह ॥२५॥ मां धास्यति ततस्तेन मांधाता कथितो द्विजैः । इंद्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥२६॥ स तु सर्वान् वशे
कृत्वा सार्वभौमो बभूव ह । अव्याहतगतिर्लोके देवतुल्यो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 331
Page 331 scan

निमंत्र्य तं विशेषेण जपध्यानपरायणः ॥१४॥ गते संवत्सरे तत्राऽऽजगाम मुनिनारदः । प्रपूज्य सर्ववृत्तांतं कथयामास
तं नृपः ॥१५॥ ततस्तं नारदः प्राह शृणु राजन् महामते । जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥१६॥ तेनोपोषणयुक्तेन
त्वया धर्मः प्रपालितः । द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥१७॥ अपराधविहीनस्य तवाऽयं विघ्न उत्थितः । दुर्वासाः
कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥१८॥ अतस्त्वं विघ्नराजं तं भज यत्नेन मानद । तेन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 332
Page 332 scan

[पान ४८]

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । पुरुकुत्सस्य दायादावभूतां तु महाबलौ । अंबरीषो महाभागो मुचुकुंदस्तथा-
ऽपरः ॥१॥ अंबरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ । तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥२॥ चकार मुचुकुंदः स
राजर्षिराज्यमुत्तमम् । धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥३॥ कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् । तत्र देवा
जिताः सर्वै दैत्यैः परमदारुणैः ॥४॥ मुचुकुंदं ततो देवाः शरणं जग्मुरादरात् । ततस्तेन महादैत्या

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 333
Page 333 scan

खं. ३ अ. २५ पान ४९
ददाह च ॥२६॥ एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः । आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥२७॥ तमागतं समादृष्ट्वा
मुचुकुंदो ननाम च । उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥२८॥ मुचुकुंद उवाच । देवैः संकथितं कृष्ण ममैतद्-
भवत् प्रभो । अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥२९॥ मुचुकुंदस्य वाक्यं स श्रुत्वा हर्षसमन्वितः । जगाद तं महाभागं
कृष्णः परमयोगवित् ॥३०॥ श्रीकृष्ण उवाच । अहं गणेश्वरः पूर्णो न भिन्नश्च महामते ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in