मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
नारद उवाच । मोहासुर महाभाग मतिस्ते योगिसंमता । योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥२७॥ अतस्त्वां सकलं
दैत्य कथयामि विशेषतः । शृणुष्वैकमना ढुंढेश्चेष्टितं योगदं परम् ॥२८॥ नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् । नामरूप-
विहीनं यद्देहिरूपं जगद्धितम् ॥२९॥ तयोर्योगे च दैत्येंद्र बोधः सर्वत्र संमतः । ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥३०॥
तदेव नामरूपादियुक्तं भवति सर्वदा । तदेव नामरूपादि हीनं भवति सर्वदा ॥३१॥ तद्ब्रह्म पूर्णभावेन संस्थितं योग-
वाचकम् । दैत्यपुंगव जानीहि तदेवाऽसौ महोदरः ॥३२॥ देहदेहिकृतो भोगः स्वस्वस्वानंददः परः । सर्वत्रगः स उदरे
भुक्तभोगश्च कथ्यते ॥३३॥ उदरेन कृतो भोगो यदि बाह्यपरायणैः । तदा ते मरणैर्युक्ता भवंति स्वल्पकालतः ॥३४॥
स्वस्वानंदमयो भोगो भुज्यते सर्वभावतः । सर्वैर्ब्रह्माभिरत्यंतं जगद्द्भिश्चैव निश्चितम् ॥३५॥ भिन्नभोगश्च विश्वस्मिन्नात्मनि
ह्यमृतात्मकः । एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥३६॥ देहेषु जठरं भिन्नं जठरं मतमात्मनि । एकभावात्मकं
दैत्य जानीहि योगसेवया ॥३७॥ यदि भोगविहीनौ तौ विश्वात्मानौ महामते । विशेषतो यत्नवंतौ किमर्थं वै बभूवतुः ॥३८॥
नामरूपधरं विश्वं जातं भोगार्थमेव च । नामरूपविहीनं यद्देही जातस्तदर्थतः ॥३९॥ नास्ति भोगस्य चेच्छा चेत् किमर्थं
द्विविधं भवेत् । अतो जानीहि दैत्येंद्र भोगयुक्तौ विशेषतः ॥४०॥ विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः । महोदराख्या
संजाता तेन तस्य महात्मनः ॥४१॥ द्विविधस्य च दैत्येंद्र जठरं स्वल्पवाचकम् । स्वस्वभोगपरत्वाद्वै विचारय
महामते ॥४२॥ सकलानां विशेषेणोदरेषु स सदा स्थितः । महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥४३॥ विश्वं देहमयं
तस्य मस्तकं चात्मवाचकम् । तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥४४॥ जायते सकलं यस्मादंते गच्छति यत्र च ।
दैत्यनायक जानीहि गजरूपं तदेव वै ॥४५॥ विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः । तपसाऽऽराधितो देवो
देहधारी बभूव ह ॥४६॥ न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप । भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥४७॥
स्वसंवेद्येन योगेन लभ्यते गणनायकः । तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥४८॥ सिद्धिर्भ्रांतिप्रदा माया ततो भ्रमति
वै जनः । बुद्धिर्भ्रांतिधरा प्रोक्ता चित्तरूपा विशेषतः ॥४९॥ चित्तं पंचविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् । त्यक्त्वा शांतिमवा-
प्नोति योगीशो योगसेवया ॥५०॥ तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः । तं भजस्व महादैत्य नोचेत्त्वां स
हनिष्यति ॥५१॥ सुरासुरमयं तेन सृष्टं विश्वं विशेषतः । स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥५२॥ देवा दैत्यविनाशार्थं
खं. ३ अ. १०
पान २१
यतंते स्म यदा प्रभो । तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥५३॥ देहधारी स्वयं भूत्वा वरदो भवति प्रभुः ।
असुरेभ्यो न संदेहस्तं जानीहि महोदरम् ॥५४॥ दैत्या देवविनाशार्थं यतंते सर्वभावतः । तदा देहधरश्चाऽयं हंति दैत्यान्न
संशयः ॥५५॥ देवाः संख्यायुता वेदे वर्तते दैत्यनायक । वृद्धिक्षयविहीनत्वाद् हंति तान्न विशेषतः ॥५६॥ दैत्या अपाररूपाश्च
वृद्धिक्षययुता मताः । तस्मात्तान् हंति वेगेन गणेशो ब्रह्मनायकः ॥५७॥ स्वस्वधर्मरता एते यदा खलु सुरासुराः ।
तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥५८॥ सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते । तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च
कथ्यते ॥५९॥ तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि । भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥६०॥
एवमुक्त्वांतर्दधेऽसौ नारदः करुणानिधिः । गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥६१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मुनौ महाभागा मोहो जातः सुहर्षितः । विचारमकरोचित्ते नारदोक्तविचारवित् ॥१॥
एकांते संस्थितो दैत्यो गणेशध्यानतत्परः । महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥२॥ स शुक्रमुपसंगम्यकथयत्
प्रकथानकम् । नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥३॥ ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् । मोहासुरश्च
मोहेन वर्जितः प्रबभौ स्वयम् ॥४॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपाययौ । प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥५॥
केशवं मानयामास मोहासुरः प्रतापवान् । अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥६॥ पप्रच्छ तं महाविष्णुं किमर्थं
त्वमिहागतः । वद विष्णो महाभाग कारणं ते करोम्यहम् ॥७॥ विष्णुरुवाच । महोदरः समायातो धर्मरक्षणतत्परः । देवैश्च
मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥८॥ सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक । मित्रभावं त्वया सार्धं स इच्छति
महोदरः ॥९॥ देहदेहिमयं ब्रह्म तदेव गणनायकः । महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥१०॥ सर्वेषामुदरे स्थित्वा
भोगान् सर्वान् भुनक्ति सः । महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥११॥ नगरस्य पुरो राजन् दशयोजनदूरगः ।
संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥१२॥ स उवाच तदेवाऽहं कथयामि शृणुष्व तत् । वचनं सर्वभावज्ञ
खं. ३ अ. १० पान २२
सर्वेभ्यः सुखदायकम् ॥१३॥ विरुद्धं त्यज दैत्येंद्र तिष्ठ स्थाने स्वके सुखम् । देवा हविर्भुजः संतु ब्राह्मणाः कर्मकारकाः
॥१४॥ तिष्ठंतु लोका वर्णाश्रमयुता दुःखवर्जिताः । एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥१५॥ एतत्ते कथितं वाक्यं
गणेशेन विशेषतः । तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥१६॥ रविरुवाच । श्रुत्वा विष्णोर्वचो रम्यं तमुवाच
महाबलः । मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥१७॥ मोहासुर उवाच । सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् ।
करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥१८॥ एवमुक्त्वा स दैत्येंद्रानाहूयामास सत्वरम् । समागतानुवाचाथ
विष्णुना कथितं वचः ॥१९॥ मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः। क्रोधयुक्ताश्च पातालं विविशुर्भयसंकुलाः॥२०॥
शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् । विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥२१॥ समागत्य स दैत्येंद्रो ननाम
स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥२२॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा
करपुटं मोहस्तुष्टाव च महोदरम् ॥२३॥ मोहासुर उवाच । नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे । सर्वेषां भोगभोक्त्रे वै
देहदेहिमयाय ते ॥२४॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥२५॥
अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरंब दीनपालाय वै नमः॥२६॥ गणेशाय निजानंदपतये ब्रह्मनायक ।
सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥२७॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशांतिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो
योगदायक ॥२८॥ सिद्धिबुद्धिपते नाथ एकदंताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥२९॥ सर्वेषां मोहकर्त्रे
वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥३०॥ मायाविने च मायाया आधाराय नमो नमः ।
मायिभ्यो मायया चैव भ्रांतिदाय नमो नमः ॥३१॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहांगकाः । शांतिं प्राप्तास्तथापि
त्वं संस्तुतोऽसि दयापरः ॥३२॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश येन दृष्टं पदांबुजम् ॥३३॥
इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः । भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥३४॥ महोदर उवाच । मोहासुर वृणुष्व
त्वं वरं यं मनसीप्सितम् । दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥३५॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न
संशयः । शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥३६॥ मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव
पठते शृण्वतेऽसुर ॥३७॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥३८॥
खं. ३ अ. ११ | पान २३
रविरुवाच । एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः । मोहासुर उवाचाऽथ निबद्धकरसंपुटः ॥३९॥ मोहासुर उवाच ।
महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् । तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥४०॥ त्वदीयभक्तमित्रत्वं स्थानं
भक्ष्यादिकं तथा । देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥४१॥ मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह ।
महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥४२॥ महोदर उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । मदीयभक्त-
मित्रत्वं प्राप्स्यसि त्वं न संशयः ॥४३॥ कर्मज्ञानादिभावेषु मदीयं पूजनं न हि । स्मरणं तत्र दैत्य त्वं भोगभोक्ता
भविष्यसि ॥४४॥ स्वस्थाने तिष्ठ दैत्येंद्र स्वधर्मस्थितमादरात् । नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥४५॥ तथेति
गणपं मोहासुरो नत्वा प्रतापवान् । स्वस्थाने संस्थितो गत्वा शांतियुक्तो बभूव ह ॥४६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरशांतिवर्णनं नाम दशमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मोहासुरे तत्र शांतरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥१॥
पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥२॥ सुरर्षय ऊचुः । अमेयमायामित-
विक्रमाय निरंजनायाऽथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥३॥ मनोवचोहीन-
तया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुंढे नमो नमस्तेऽस्तु महोदराय ॥४॥ विदेहरूपाय च
बोधकाय तथाहि सोऽहंपदभोगकाय । सदा सुबिंद्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥५॥ गुणेशरूपाय
सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥६॥ शुभाशुभाकारधराय
भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥७॥ कर्त्रे सुपात्रे हरणाय
कालप्रकाशरूपाय च भानवे ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥८॥ यमाय चंद्राय च वायवे वै
कुबेररूपाय पुरंदराय । शिवाय वह्न्यात्मकनैर्ऋताय नमो नमस्तेऽस्तु महोदराय ॥९॥ अनंतरूपाय जलेशकाय प्रजापते रूपधराय
पाशिन् । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥१०॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय
खं. ३ अ. ११
पान २४
धात्रे। पिशाचगंधर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥११॥ धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते।
वाताय चाकाशमयाय धात्रे नमो नमस्तेऽस्तु महोदराय ॥१२॥ अनादिमध्यांतविहारकाय सदादिमध्यांतमयाय चित्रम्। तत्त्व-
प्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥१३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय। वैश्याय
शूद्राय तथाऽंतिमाय नमो नमस्तेऽस्तु महोदराय ॥१४॥ गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय। वर्णाश्रमैर्हीन-
मयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥१५॥ वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव। पशुस्वरूपाय च
पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥१६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय। चराचराकारमयाय
नाग नमो नमस्तेऽस्तु महोदराय ॥१७॥ वरांकुशाद्यैश्च सुचिह्नितायोंदुरुध्वजायाऽऽखुसुवाहनाय। त्रिनेत्रधाराय च
शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥१८॥ स्वानंदलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन्। सदैकदंताय
चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥१९॥ महोदरायादिसुपूजिताय सुवस्त्रसंभूषणभूषिताय। प्रमोदमौदादिगणैः
स्तुताय नमो नमस्तेऽस्तु महोदराय ॥२०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकंजपाणे। गणेश हेरंब च भक्तपोष
नमो नमस्तेऽस्तु महोदराय ॥२१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण। विकारहीनाय सुबोधदाय नमो
नमस्तेऽस्तु महोदराय ॥२२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन। तेषु त्वमेवं सुखभोगकारिन् नमो
नमस्तेऽस्तु महोदराय ॥२३॥ भानुरुवाच। एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः। समुत्पन्नो भक्तिरसस्तेन ते
नन्दतुः पुरः ॥२४॥ साश्रुनेत्रान् स रोमांचान् रुद्धकंठान् विशेषतः। तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥२५॥
गणेश उवाच। वरान् वृणुत देवेशा देवा मुनिगणास्तथा। भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥२६॥ गणेशवचनं
श्रुत्वा हर्षयुक्ताः सुरर्षयः। तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥२७॥ देवर्षय ऊचुः। यदि तुष्टोऽसि देवेश तदा ते
भक्तिमुत्तमाम्। देहि नो गणनाय त्वं तया तृप्ताः स्म सांप्रतम् ॥२८॥ त्वया शांतिधरो दुष्टः कृतो मोहासुरः प्रभो। तेन
सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥२९॥ अधुना तापसंहीनाः कृता गणपते वयम्। त्वं नाथोऽसि जगन्नाथ अनाथानां
करोषि तत् ॥३०॥ एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः। तथेति तानुवाचैव गणेशोऽंतर्दधे द्विजाः ॥३१॥ देवाश्च मुनयः
सर्वे स्वस्वस्थानं ययुस्ततः। स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥३२॥ एवं मोहासुरं विप्राः शांतिरूपधरं प्रभुः। चकार
खं. ३ अ. १२ पान २५
गणनाथो वै मोहहीनं जगत्तथा ॥३३॥ महोदरस्य तस्यैवावतारा विविधाः स्मृताः । चरित्रमखिलं तेषां गदितुं न
प्रशक्यते ॥३४॥ रामः सीतावियोगार्तः शरणं तं महोदरम् । ययौ तेन स शांतोऽभूत् ससीतो भजने रतः ॥३५॥
दक्षिणस्यां दिशि प्रांते स्थापितोऽसौ महोदरः । देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥३६॥ इदं महोदरस्यैव चरितं
मोहनाशनम् । मोहशांतिप्रदं पूर्णं कथितं वो मया द्विजाः ॥३७॥ यः पठेच्छृणुयाद्यश्च तस्मै शांतिप्रदायकम् । भुक्तिमुक्तिप्रदं
चैव भविष्यति न संशयः ॥३८॥ मोहेन मोहिता विप्रा मां वदंति परात्परम् । स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न
संशयः ॥३९॥ एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् । गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥४०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते महोदराऽन्तर्धानं नामैकादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सूर्येण कथितं चित्रं महोदरकथानकम् । श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः
॥१॥ मानसे धारयामासुर्गणेशोऽयं सुशांतिदः । योगरूपो न संदेहो भानुना बोधिता वयम् ॥२॥ हर्षयुक्ताः पुनस्तं ते
वालखिल्याः प्रजापते । महोदरस्य पप्रच्छुश्चेष्टितं तस्य शांतिदम् ॥३॥ वालखिल्या ऊचुः । धन्योऽसि च रवे त्वं वै योगशांति-
प्रकाशकः । वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥४॥ धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः । श्रुत्वा मनसि
संतुष्टा भवामस्त्वदनुग्रहात् ॥५॥ सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् । आत्माकारेण सूर्यस्त्वं तन्न चित्रं
किमप्युत ॥६॥ अधुना ब्रूहि देवेश रामो गणपतिं कथम् । अभजद्भक्तिसंयुक्तः शांतिरूपो बभूव ह ॥७॥ धन्यास्ते
पुरुषा लोके गणेशस्य कथां रवे । पृच्छंति प्रपठन्त्यन्ये शृण्वते योगशांतिदाम् ॥८॥ मुद्गल उवाच । इति पृष्टो महातेजा
वालखिल्यैः प्रजापते । रविस्तान् हर्षितो भूत्वा भो जगाद शृणुष्व तत् ॥९॥ रविरुवाच । अत्राऽहं कथयिष्यामि चेतिहासं
पुरातनम् । नारायणस्य संवादं मार्कंडेयस्य सिद्धिदम् ॥१०॥ मृकंडाच्च समुत्पन्नो मार्कंडेयो महामुनिः । कृतोपवीतको भूत्वा
तताप परमं तपः ॥११॥ ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः । नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥१२॥ अयुते
प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे । आययौ शंकरस्तत्र पार्वत्या गणसंवृतः ॥१३॥ ध्याने विष्णुं समाधृत्वा संस्थितो
न बुबोध तम् । समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥१४॥ योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः ।
लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥१५॥ हृदये शंकरं दृष्ट्वा विस्मितोऽसौ महामुनिः । त्यक्त्वा ध्यानं बहिर्वीक्ष्य
शंकरं प्रणनाम सः ॥१६॥ अथर्वशिरसा शंभुं स्तुत्वा हर्षसमन्वितः । पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥१७॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥१८॥ गायत्री वेदमाता वै पिता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमहायोगी तावुवाच प्रहर्षितः । योगं शांतिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥३९॥ विष्णुरुवाच । चित्तं पंचविधं प्रोक्तं तदैश्वर्यं
च यत् स्मृतम् । मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥४०॥ यद्यच्चित्तेन संप्राप्तं तत्तद्योगेन मानदौ । योगरूपं
प्रकर्तव्यं तदाकारसमाधिना ॥४१॥ यद्यच्चित्तेन न ज्ञातं तत्तन्निवृत्तिवाचकम् । तदेव योगरूपं वै कर्तव्यं योगसेवया ॥४२॥
चित्ते चिंतामणिर्नित्यं तिष्ठेद्वै चित्तचालकः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inचतुर्बाहुधरायैव लंबोदर नमोऽस्तु ते ॥१२॥ ढुंढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिंतामणे
नमः ॥१३॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥१४॥ सगुणाय नमस्तुभ्यं
निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥१५॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शांतिप्रदायक । सुखशांति-
धरायैव नाभिशेषाय ते नमः ॥१६॥ पूर्णाय पूर्णनाथाय पूर्णानंदाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥३७॥ रविरुवाच । तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् । शांतियोगप्रदं पूर्णं
गाणेशं मुनिपुंगवौ ॥३८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते नरनारायणमार्कंडेयसमागमो नाम त्रयोदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ज्ञानं शांतिप्रदं पूर्णं शृणु त्वं मुनिसत्तम । तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ३०
कार्यं क्षात्रधर्मपरायणैः ॥१९॥ एवं षट्कं समाख्यातं मन्वंतरमयं मुने । मन्वंतरे समाप्ते वै द्वितीयस्य समुद्भवः ॥२०॥
ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥२१॥ लयस्तत्र समाख्यातो
मन्वंतरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजंगमाः ॥२२॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः
स्वमात्मानं ससृजुर्योगसेवया ॥२३॥ पुनः सृष्टिं प्रचक्रुस्ते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ पृष्ठ पर मुद्रित पाठ का लिप्यंतरण प्रस्तुत है:
खं. ३ अ. १५ | पान ३१
कालः संवत्सरांतगः । नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥१३॥ संवत्सरात्मकः कालः पंचधा परिकीर्तितः । आद्यः
संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥१४॥ इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः । वत्सरश्चैव पंचैते शृणु तेषां गतिं
मुने ॥१५॥ अंगप्रत्यंगसंयोगः कालेनैव प्रजायते । अग्निर्जठरसंस्थश्च कुरुते सर्वमंजसा ॥१६॥ देहोत्पत्तिः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥३९॥ अमायां चंद्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं
पूर्णिमायां विशेषतः ॥४०॥ चंद्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितॄणां कालश्चंद्रमासेन जायते ॥४१॥
देवानां पितॄणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चांद्रमासे न जायते ॥४२॥ देवानां दिवसे कालः
सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥४३॥ त्रीणि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ३ अ. १६ पान ३३
त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः । मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥१५॥ द्वापरे मूषकारूढः पूज्यते च
चतुर्भुजः । गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥१६॥ कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् । तारकः सर्वभावज्ञो
गणेशः पूज्यते जनैः ॥१७॥ ब्रह्माकारमयश्चैव तेन भेदो न विद्यते । चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥१८॥ कृते
नराणामायुष्यं लक्षवर्षाणि संमतम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[header]
खं. ३ अ. १७ पान ३४
[/header]
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी । द्वापरस्तमसा युक्तः स्वयं राजस
उच्यते ॥१॥ कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति । पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥२॥ कलौ प्रमारको
रोगः सततं क्षुद्भयं मुने । अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥३॥ अधार्मिका अनाचारा महाकोपाऽल्पचेतसः ।
वदिष्यंत्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥४॥ अरिष्टैर्दुर्धीतैश्च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ३ अ. १७ पान ३५
ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षिष्यंति मानवान् ॥२६॥ करिष्यंत्यवतारांश्च ब्राह्मणानां
कुलेषु ते । दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥२७॥ शापयुक्ता गौतमस्य भविष्यंति विशेषतः । वामादिमार्ग-
संसक्ता जनान् भ्रष्टांश्च कुर्वते ॥२८॥ अन्यजातिषु सर्वत्र भविष्यंति तथा नराः । दक्षाध्वरे सर्ववर्णाः शापितास्ते
दुराग्रहाः ॥२९॥ मोहयिष्यंति च जनान् दर्शयित्वा फलानि वै । तमसाऽऽविष्टहृदया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमहामते ॥५१॥ षोडशाब्दं परं चायुः पंचवर्षसमन्विता । अंतर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥५२॥ एवमासुर-
भावेन जितं सर्वं महामुने । देवता मुनयः सर्वे गणेशानं स्तुवंति ते ॥५३॥ तदा ढुंढिः सुराणां स हितायाऽवतरिष्यति ।
धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥५४॥ धर्मं प्रवर्तयित्वा स अंतर्धानं गमिष्यति । तदा पुनः कृतं प्राप्तं संध्यांशेन
युगक्रमैः ॥५५॥ एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः । मायामयमिदं सर्वं त्वं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकुर्यान्नवविंशतिसंख्यया । ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥१७॥ गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं
चरेत् । ब्रह्मचारी शतान्येव पंचकालेषु वै पृथक् ॥१८॥ गायत्र्याश्च जपं कुर्याद्भागवतो मानसैक्यतः । अष्टोत्तरशतं
काले गृहस्थो जपमाचरेत् ॥१९॥ वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् । एवं संध्या त्रिकालेषु ब्राह्मणैः क्रियते
सदा ॥२०॥ त्रिपदां चैव गायत्रीं जपेदोंकारसंयुताम् । तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥२१॥ आदौ प्रणवमुच्चार्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ३ अ. १९ पान ३८
॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः । स्वगृहे वासमातिष्ठेत् द्विजदेव-
परायणः ॥१॥ ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् । सर्वावयवसंपूर्णां वधूं स वरयेत्ततः ॥२॥ ऋतुगामी भवेच्चैव
संतानार्थं कलत्रवान् । देवविप्रातिथिप्रेप्सुः संतिष्ठेत् स गृहाश्रमी ॥३॥ यजनं याजनं चैव दानमध्ययनं तथा । प्रतिग्रहो-
ऽध्यापनं च षट् कर्माणि समाचरेत् ॥४॥ स्नानं संध्यां जपं होममातिथ्यं देवतार्चनम् । स्वाध्यायं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. ३ अ. १९ पान ३९
योगभूमिक्रमेण च । योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥२६॥ कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै ।
ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥२७॥ द्वंद्वभावविहीनः स भिक्षां नित्यं समाचरेत् । करपात्री भवेद्वाऽपि संन्यासी
च सदा मुने ॥२८॥ करपात्री स संन्यासी ग्रासे ग्रासे महामुने । अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥२९॥
चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु । जितेंद्रियो जितप्राणो निःसंगः सर्वकर्मसु ॥३०॥ अहिंसा परमो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in