Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 258
Page 258 scan

प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानंदे गणनायकम् ॥५२॥ एतत्ते कथितं सर्वं विनायक-
चरित्रकम् । संक्षेपेण महाभाग एकदंतावतारजम् ॥५३॥ शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अंते स्वानंदवासेने
ब्रह्मभूतो भविष्यति ॥५४॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥

॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 259
Page 259 scan

खं. २ अ. ६३ पान १३३
ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥१८॥ ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरंबाय
नमो नमः ॥१९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लंबोदर नमोऽस्तु ते ॥२०॥ त्वदीय-
भक्तियोगेन योगीशाः शांतिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥२१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा
तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥२२॥ गणेश

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 260
Page 260 scan

महाशक्तिस्तस्माद्वां वै नमो नमः ॥४२॥ एतस्मिन्नंतरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥४३॥
पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥४४॥
॥ ओमिति श्रीमदांद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 261
Page 261 scan

सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शांतिरूपाय ते नमः ॥२०॥ पुन्नामनरकान्त्राता पुत्रस्तेन
प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥२१॥ सिद्धिर्माया च वामांगे मायिके दक्षिणे च धीः । तयोर्भेद-
योगे त्वमेकदंताय ते नमः ॥२२॥ एवमुक्त्वा प्रहर्षेण सरोमांचो बभूव ह । प्रणनाम स साष्टांगं भक्तिभावेन संप्लुतः ॥२३॥
तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥२४॥ त्वया कृतमिदं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 262
Page 262 scan

ऽभवत्। तं हनिष्यामि वेगेन द्रक्ष्यसि त्वं गजाननम् ॥४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः। वृत्तांतमवदत्तीव्रं
श्रुत्वा चुक्रोध विघ्नपः ॥४६॥ बभूव मूषकारूढो तं हंतुं शस्त्रधारकः। देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥४७॥
॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स दैत्यराजोऽपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 263
Page 263 scan

खं. २ अ. ६५ | पान १३७

जय वेदांतवादज्ञ जय वेदांतकारण । जय बुद्धीश्वर प्राज्ञ जय सर्वामरप्रिय ॥२०॥ जय मायामये खेलिन् जयाव्यक्त
गजानन । जय लंबोदरः साक्षिन् जय दुर्मतिनाशन ॥२१॥ जयैकदंतहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं
जय ब्राह्मणपूजित ॥२२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥२३॥ जयानंद
गणेशान जय पाशांकुशप्रिय । जय परशुधर त्वं वै जय पावनकारक ॥२४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 264
Page 264 scan

अ. ६६ | पान १३८
ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् संख्यां वदस्व भो ॥४६॥ जगाद मुनिशार्दूलः
ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥४७॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा
सर्वे जना राजन् भवंति च निपीडिताः ॥४८॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै
संचितं भवेत् ॥४९॥ ततो राजा च वृत्तांतं कथयामास

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 265
Page 265 scan

खं. २ अ. ६६ पान १३९
मंत्रयामास चोदरम् । तस्य मंत्रप्रभावेण दैत्यः संजीर्णतां गतः ॥१०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन
नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः
स महाधने ॥१२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुंगवम् ॥१३॥ स मृतो
मे च मंत्रेण संजीर्णो जठरेऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥१४॥ पलायत स

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 266
Page 266 scan

न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥
गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स
जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् ।
कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 267
Page 267 scan

[Header]
खं. २ अ. ६७ | पान १४१


न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ
सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 268
Page 268 scan

पान १४२
मिलितौ गणपं निशि । ध्यायन्तौ भावसंयुक्तौ जेपतुर्मन्त्रमुत्तमम् ॥२०॥ ततस्तयोर्गणेशानो दर्शयामास चोत्तमम् ।
रूपं चतुर्भुजं साक्षाद्गजवक्रादिचिह्नितम् ॥२१॥ तं दृष्ट्वा सहसोत्थाय नेमतुश्चरणाम्बुजे । सरोमांचौ तुष्टुवतुः साश्रुनेत्रौ
गणेश्वरम् ॥२२॥ राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिफ्ते नमः शंकरसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥२३॥
स्वानंदवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥२४॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 269
Page 269 scan

खं. २ अ. ६८ पान १४३
महामुने ॥४५॥ अतस्त्वं मदहीनश्च शरणं गणपं व्रज । अगस्त्य तेन ते वाञ्छां पूरयिष्यति स प्रभुः ॥४६॥ ब्रह्मांडं
वर्तते तस्याऽऽधारेण मुनिसत्तम । सर्वत्र गणनाथोऽयं क्रीडति स्वेच्छया स्वयम् ॥४७॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते राधाकृष्णगोलोकप्राप्तिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । श्रुत्वा कथां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 270
Page 270 scan

यहाँ प्रस्तुत पृष्ठ का देवनागरी में लिप्यंतरण दिया गया है:

खं. २ अ. ६९ पान १४४
समुद्रगर्वं त्वं तेन हरिष्यसि महाद्भुतम् । तपोवनं तात गच्छ व्यवसायं करोम्यहम् ॥२०॥ गृत्समद उवाच। ब्रह्माणं स
नमस्कृत्य ययौ स्वकृतपोवनम् । षडक्षरेण विघ्नेशं तोषयन् मुनिसत्तमः ॥२१॥ सदा ध्यानरतो भूत्वा तताप तप उत्तमम् ।
संकटहरणीं प्राप्तां चतुर्थीं स चकार ह ॥२२॥ त्रिमासे प्रगते तुष्टो गणेशो व्रतसेवया । ध्यानेन तस्य प्रह्लाद तपसा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 271
Page 271 scan

[Header]
खं. २ अ. ६९ | पान १४५


ननाम कर्दमः पुत्रमेकदा भक्तिसंयुतः । सस्त्रीकश्च महाभागं पप्रच्छ विनयान्वितः ॥६॥ कर्दम उवाच । त्वं साक्षाद्विष्णुरूपो
मां शुक्लः सर्वार्थकोविदः । वद ज्ञानं महाबाहो तारयस्व भवार्णवात् ॥७॥ एवं पृष्टो महात्माऽसौ कपिलस्तमुवाच ह ।
सर्वसारमयं ज्ञानं गाणेशं तारकः प्रभुः ॥८॥ कपिल उवाच । शृणु तात मया दृष्टमेव तत् शांतिदायकम् । कथयामि महाज्ञानं
शांतियोगप्रदं प्रभो ॥९॥ सर्वं मायामयं विद्धि पंचकं पंचकं यतः । त्रिविधं आंतिरूपं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 272
Page 272 scan

खं. २ अ. ६९ पान १४६
न योगे कस्यचिद्भावो ब्रह्मणश्च प्रजापते ॥३२॥ गृत्समद उवाच । एवं पुत्रं वदंतं स प्रणिपत्य महामुनिः । उवाच कर्दमो
यज्ञं योगेप्सुः परमादृतः ॥३३॥ कर्दम उवाच । केनोपायेन भो वत्स योगशांतिः प्रलभ्यते । तदर्थं पूजनीयं किं तद्वदस्व
जनार्दन ॥३४॥ कपिल उवाच । गणेशभजनं मुख्यं शांतियोगप्रदं मतम् । योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥३५॥
सर्वादिः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 273
Page 273 scan

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एकदा कपिलस्यैवाश्रमं देवपतिर्ययौ । सर्वामरसमायुक्तस्तं ननाम कृतांजलिः ॥१॥
अपराह्ने च संप्राप्तमिंद्रं दृष्ट्वा महामुनिः । न्यमंत्रयत् क्षुधायुक्तं सर्वैर्योगीश्वरो मुदा ॥२॥ सिद्धियुक्तं गणेशानं ध्यात्वा
ह्यमृतमुत्तमम् । देवार्थं कल्पयित्वा स भोजयामास तेन तान् ॥३॥ पृथिव्यमृतभोगेन संतुष्टः सुरनायकः । मुनये
वायुनाऽऽनाय्य प्रददौ मणिमुत्तमम् ॥४॥ गणेशभूषणं चिंतामणिर्मुख्यं प्रकथ्यते । योगी धृत्वा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 274
Page 274 scan

खं. २ अ. ७० पान १४८

बबंध गणराजवत् ॥२५॥ गते कियति काले वै कपिलस्याश्रमं ययौ । मृगयाभिरतो दैत्यो गणासुर इति स्मृतः ॥२६॥
सेनां बहिः समास्थाप्य एकाकी मुनिमाययौ । कपिलं प्रणनामैव कृतांजलिपुटः स्थितः ॥२७॥ विनीतं तं विलोक्यैव
कपिलस्तमुवाच ह । कोऽसि कस्मादिहाऽऽयातो वद सर्वं नरोत्तम ॥२८॥ गणासुर उवाच । गणासुर इति ख्यातो नाम्नाऽहं
मुनिसत्तम । मृगयाभिरतो ह्यत्र

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 275
Page 275 scan

खं. २ अ. ७१ पान १४९
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । कोऽसौ गणासुरो दैत्यो येन चासत्कृतो मुनिः । समर्थः कपिलः साक्षात् प्रलयाग्नि-
समद्युतिः ॥१॥ यस्य क्रोधयुता दृष्टिः सगरान् प्रददाह सा । तं तिरस्कृत्य जीवन् स कथं स्वनगरे गतः ॥२॥ गृत्समद उवाच ।
शृणु प्रह्लाद यत्नेन गणासुरविचेष्टितम् । सर्वं वदामि पापघ्नं गणेशचरिताश्रितम् ॥३॥ अभिजित्नाम राजर्षिरपुत्रः संबभूव ह ।
पुत्रार्थं स वनं राजा ययौ त्यक्त्वा स्वराज्यकम् ॥४॥ भ्रमन् ददर्श योगीशं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 276
Page 276 scan

खं. २ अ. ७१ पान १५०
ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः । सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥२६॥ ततो दैत्यैः
समायातैर्नानादिग्भ्यो नृपो गणः । तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥२७॥ पातालं स ततो नागैर्जिगाय
बलसंयुतः । युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥२८॥ स्वर्गं जित्वा सहेंद्रैः स ततो ब्रह्माणमंजसा । विष्णुं
शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥२९॥ ततस्तान् करदान् कृत्वा स्थापयामास देवपान् । स्वस्वस्थानेषु

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 277
Page 277 scan

खं. २ अ. ७२ पान १५१
तं महाभागं प्रेमयुक्तं विशेषतः ॥५१॥ गणेश उवाच । त्वया यत् प्रार्थितं विष्णो तत् सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि
गणासुरवधाय च ॥५२॥ एवमुक्त्वांतर्दधेऽसौ ढुंढिराजः प्रतापवान् । मुनिस्तं हृदि संचिंत्य स्वाश्रमस्थो बभूव ह ॥५३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते कपिलवरप्रदानं नामैकसप्ततितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in