Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 248
Page 248 scan

न कदाचन । प्रत्यक्षो गणराजोऽयं शुंडावान्नात्र संशयः ॥५९॥ काश्यां मुक्तिस्वरूपायामागतोऽसौ महामुनिः । मणिकर्णी
च विश्वेशं सस्मार मनसाऽपि न ॥६०॥ गणेशार्थं समायातस्तं प्रणम्य महामुनिः । स्वाश्रमं पुनरेवासौ जगाम
सुखदायकम् ॥६१॥ एवं विस्मयभावेन काशिराजस्तथाऽभजत् । गणेशं साधुभावज्ञः सोऽपि तत्समतां ययौ ॥६२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 249
Page 249 scan

[header]
[left] खं. २ अ. ५८ [/left]
[right] पान १२३ [/right]
[/header]

महत् । तस्य प्रभावयोगेन पापं संशिथिलं त्वभूत् ॥१८॥ स पापशिथिलो नामा विचारमकरोद् हृदि । अहो मया च
पापानि कृतानि कति नाऽविदम् ॥१९॥ मृतोऽहं नरके घोरे पतिष्यामि न संशयः । कल्पान् दुःखमनेकांश्च सहिष्यामि
कथं परम् ॥२०॥ मुद्गल उवाच । एवं ब्रुवंतमानंददायकं मुनिसत्तमम् । प्रह्लादो वै गृत्समदं पप्रच्छ विनयान्वितः ॥२१॥
प्रह्लाद उवाच । कीदृशं कुंडरूपं च केन वा चरितं तपः । तत्र येन

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 250
Page 250 scan

संज्ञा पुत्रांश्च भेदतः। सततं न्यूनभावेनाऽवर्तयत् साधुसत्तम ॥४३॥ मनुश्च सेहे तं मातुरपराधं विचक्षणः। धर्मराजः
स तां तत्र निषिषेध मुहुर्मुहुः ॥४४॥ सा स्वभावं स्वकीयं तं न तत्याज कदाचन। कुपितो धर्मराजस्तां पदा हन्तुं
प्रचक्रमे ॥४५॥ तं चाविनयसंयुक्तं शशाप जननी सुतम्। पादस्ते क्लेद्यतां प्राप्य पतिष्यति धरातले ॥४६॥ धर्मः क्रोधं
समागृह्य सवितारं जगाम ह। भयभीतश्च शापेन वृत्तांतं तं जगाद सः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 251
Page 251 scan

खं. २ अ. ५९ | पान १२५
एवं दृढामग्रहं दृष्ट्वा सविता तोषवानभूत् । स्वरूपं दर्शयामास तां प्रगृह्य गृहं ययौ ॥१७॥ संज्ञया सवितुर्वार्थं त्यक्तं
तस्मात् समुद्भवौ । अश्विनौ भिषजां श्रेष्ठौ सर्वमान्यौ बभूवतुः ॥१८॥ गणेशभक्तिभावेन संज्ञा सुबहुपुत्रताऽभवत् । तमेव
सततं देवी भजतेऽनन्यमानसा ॥१९॥ यमोऽपि च तपस्तेपे दारुणं भावसंयुतः । निराहारतया देवं ध्यात्वा जपपरो-
ऽभवत् ॥२०॥ संवत्सरसहस्रेण गणेशो वरदोऽभवत् । तं दृष्ट्वा सहसोत्थायाऽऽपूज्य तुष्टाव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 252
Page 252 scan

[पान १२६]

यम ॥४२॥ हरामि नात्र संदेहोऽन्ते स्वानंदं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥४३॥ गणेशतीर्थ-
संज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥४४॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति ।
एवमुक्त्वांतर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥४५॥ संस्थाप्य मूर्तिमचलां हेरंबस्य महाद्विजैः । कुंडं चकार भावेन
गणेशपदलाञ्छितम् ॥४६॥ हेरंबगणपो नाम्ना तत्र ख्यातो बभूव ह ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 253
Page 253 scan

खं. २ अ. ६० पान १२७
सन्निधौ ते महाभाग नेच्छामि विषये सुखम् ॥१३॥ इति तस्य वचः श्रुत्वा शरणागतवत्सलः । गणेशाय नमो मंत्रं योगी
तस्मै ददौ स्वयम् ॥१४॥ स्वयष्टिं तत्र योगींद्रः समारोप्य जगाद तम् । शुष्कामत्रैव तिष्ठ त्वं जपन्मंत्रं महाखल ॥१५॥
यावद्यष्टिश्च नामान् मे सांकुरा प्रभविष्यति । तावत्त्वं जप तं मंत्रं तदा शुद्धो भविष्यसि ॥१६॥ न फलं न जलं मूलं
पर्णमन्नादिकं कदा । भक्षस्व वायुमात्रं त्वं तदा शुद्धो भविष्यसि ॥१७॥ एवमुक्त्वा महादुष्टं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 254
Page 254 scan

पान १२८
मात्रेण नमो नमस्ते ॥३७॥ शरीरभाजां त्वमथासि बिंदुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां
कलांशमात्रेण नमो नमस्ते ॥३८॥ विदेहकानामसि सांख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी
कलांशमात्रेण नमो नमस्ते ॥३९॥ गणास्त एते गणनाथ नाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशांतिप्रद संस्थितोऽसि
भक्तेश भक्तिप्रिय ते नमो वै ॥४०॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 255
Page 255 scan

खं. २ अ. ६१
पान १२९
ईश्वरास्ते महामुने । नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥६१॥ एवं प्रभावयुक्तः स भ्रूशुंडी कथितो मया ।
चांडालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥६२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते भ्रूशुंडिबाह्मणत्ववर्णनं नाम षष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 256
Page 256 scan

पान १३०
॥ श्रीगणेशाय नम ॥ गृत्समद उवाच । ततो विनायकस्तत्र काश्यां बालगणैः सह । चिक्रीड प्राकृतो भूत्वा भक्तानंद-
विवर्धनः ॥१॥ ततो गणकरूपेण दैत्यो हेमासुरो ययौ । तं मायया गणेशानो मारयामास दैत्यप ॥२॥ ततः कृपाणुरस्तत्र
कंदरेण सहागतः । परस्परविभेदेन तौ हतौ गणपेन च ॥३॥ ततोंऽभोसुरनामा यः प्रतापी च तथाऽन्धकः । तुंगासुरस्त्रयः
प्राप्ता ब्रह्मलब्धवराः खलाः ॥४॥ खगरूपगणेशेन हता मुक्तिं प्रलेभिरे । विनायकस्य हस्तस्य स्पर्शनादिप्रभावतः ॥५॥
तेषां माता

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 257
Page 257 scan

खं. २ अ. ६२ पान १३१
तत्र दैत्यौ द्वौ विद्युद्रूपौ प्रपेततुः ॥२६॥ विनायकेन तौ त्यक्तौ शिखां संधृत्य दैत्यपौ । प्रजग्मतुः स्ववृत्तांतं कथयित्वा
नरांतकम् ॥२७॥ राजाऽपि स्वगृहं प्राप ततो दैत्यः समाययौ । श्रुत्वा वृत्तांतमत्यर्थं ताभ्यां सर्वं नरांतकः ॥२८॥
गुल्मस्था नगरद्वारि काशिराजं ययुर्जनाः । अवदन् दैत्यवृत्तांतं नरांतक उपागतः ॥२९॥ सन्नद्धः सर्वसैन्येन काशिराजः
स तं ययौ । युयुधे तेन दैत्येन धृतो राजा क्षणेन वै ॥३०॥ ततो विनायकः क्रुद्धः सिद्धिमाज्ञापयत्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 258
Page 258 scan

प्रह्लाद काशिराजोऽपि मुद्गलस्योपदेशतः । सदेहः स ययौ राजा स्वानंदे गणनायकम् ॥५२॥ एतत्ते कथितं सर्वं विनायक-
चरित्रकम् । संक्षेपेण महाभाग एकदंतावतारजम् ॥५३॥ शृणुयाद्यः पठेद्वाऽपि स लभेदीप्सितं फलम् । अंते स्वानंदवासेने
ब्रह्मभूतो भविष्यति ॥५४॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते विनायकचरितं नाम द्विषष्टितमोऽध्यायः ॥

॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 259
Page 259 scan

खं. २ अ. ६३ पान १३३
ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥१८॥ ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरंबाय
नमो नमः ॥१९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लंबोदर नमोऽस्तु ते ॥२०॥ त्वदीय-
भक्तियोगेन योगीशाः शांतिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥२१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा
तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥२२॥ गणेश

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 260
Page 260 scan

महाशक्तिस्तस्माद्वां वै नमो नमः ॥४२॥ एतस्मिन्नंतरे तत्र शक्तिः स्वयमुपागता । प्रणतं रविपुत्रं तमुवाच प्रेमनिर्भरा ॥४३॥
पश्य पश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः । ततस्तां स शनिर्देवीमवोचद् दुःखितो भृशम् ॥४४॥
॥ ओमिति श्रीमदांद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । किमर्थं दुःखितो देवः शनिस्तत्र बभूव ह ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 261
Page 261 scan

सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे । तयोर्योगे च योगाय शांतिरूपाय ते नमः ॥२०॥ पुन्नामनरकान्त्राता पुत्रस्तेन
प्रकीर्तितः । शिवपुत्राय वै तुभ्यं गणेशाय नमो नमः ॥२१॥ सिद्धिर्माया च वामांगे मायिके दक्षिणे च धीः । तयोर्भेद-
योगे त्वमेकदंताय ते नमः ॥२२॥ एवमुक्त्वा प्रहर्षेण सरोमांचो बभूव ह । प्रणनाम स साष्टांगं भक्तिभावेन संप्लुतः ॥२३॥
तमुत्थाप्य गणाधीशो जगाद स शनैश्चरम् । वरं वरय दास्यामि यस्ते चित्ते प्रवर्तते ॥२४॥ त्वया कृतमिदं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 262
Page 262 scan

ऽभवत्। तं हनिष्यामि वेगेन द्रक्ष्यसि त्वं गजाननम् ॥४५॥ ततो विष्णुः समायातो गणेशं तस्य दुर्मतेः। वृत्तांतमवदत्तीव्रं
श्रुत्वा चुक्रोध विघ्नपः ॥४६॥ बभूव मूषकारूढो तं हंतुं शस्त्रधारकः। देवाः सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॥४७॥
॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते विष्णुदौत्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः स दैत्यराजोऽपि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 263
Page 263 scan

खं. २ अ. ६५ | पान १३७

जय वेदांतवादज्ञ जय वेदांतकारण । जय बुद्धीश्वर प्राज्ञ जय सर्वामरप्रिय ॥२०॥ जय मायामये खेलिन् जयाव्यक्त
गजानन । जय लंबोदरः साक्षिन् जय दुर्मतिनाशन ॥२१॥ जयैकदंतहस्तस्त्वं जयैकरदधारक । जय योगिहृदिस्थ त्वं
जय ब्राह्मणपूजित ॥२२॥ जय कर्म तपोरूप जय ज्ञानप्रदायक । जयामेय महाभाग जय पूर्णमनोरथ ॥२३॥ जयानंद
गणेशान जय पाशांकुशप्रिय । जय परशुधर त्वं वै जय पावनकारक ॥२४॥ जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 264
Page 264 scan

अ. ६६ | पान १३८
ततो दिलीपो राजा तं जगाद व्ययमानकम् । द्रव्यं मेऽस्ति महाभाग तस्मात् संख्यां वदस्व भो ॥४६॥ जगाद मुनिशार्दूलः
ततस्तं विस्मयान्वितः । न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः ॥४७॥ मया द्रव्यं त्वदीयं वै गृहीतं चेन्नराधिप । तदा
सर्वे जना राजन् भवंति च निपीडिताः ॥४८॥ अतस्त्वं राजभिर्युक्तश्चल शीघ्रं नराधिप । मया सार्धं महद् द्रव्यं यत्र वै
संचितं भवेत् ॥४९॥ ततो राजा च वृत्तांतं कथयामास

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 265
Page 265 scan

खं. २ अ. ६६ पान १३९
मंत्रयामास चोदरम् । तस्य मंत्रप्रभावेण दैत्यः संजीर्णतां गतः ॥१०॥ अपानवायुरत्युग्रो निःसृतो धूलिमुद्वहन् । तेन
नादेन सर्वे ते विस्मिताः प्रबभूविरे ॥११॥ ततो मुनिः समुत्तस्थौ मुखप्रक्षालनाय च । क्षालयित्वा स हस्तादि संस्थितः
स महाधने ॥१२॥ ततो वातापिना भ्रातैहीत्याहूतोऽभवत्तदा । उवाच मुनिशार्दूलस्ततस्तं दैत्यपुंगवम् ॥१३॥ स मृतो
मे च मंत्रेण संजीर्णो जठरेऽधुना । अधुना त्वां हनिष्यामि दुष्ट ब्राह्मणहिंसकम् ॥१४॥ पलायत स

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 266
Page 266 scan

न क्षमा वयम् ॥३५॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रवणात् संशयस्ते च नाशमेष्यति निश्चितम् ॥३६॥
गोलोके राधया युक्तः कृष्णो गोलोकवासिभिः । उवास तत्र देवेशः सर्ववंद्यः प्रतापवान् ॥३७॥ सर्वेषां मदहंता स
जातः स्वस्यैव तेजसा । अस्माकं पालको भूत्वा विघ्नहीनः स्वभावतः ॥३८॥ तथा राधाऽपि देवीनां मदस्य हरणं बलात् ।
कृत्वा वंद्या स्वयं भूत्वोवास विघ्नविवर्जिता ॥३९॥ त्रिपुरादिभिरुग्रैश्च परस्परविरोधतः । विघ्नयुक्ताः

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 267
Page 267 scan

[Header]
खं. २ अ. ६७ | पान १४१


न्यभर्त्सयत् स तां क्रुद्धः कृष्णमित्रं प्रतापवान् ॥६०॥ तमतिक्रोधसंयुक्ता राधिका ह्यसुरो भव । शशाप सा मुनिश्रेष्ठ
सोऽपि क्रोधयुतोऽभवत् ॥६१॥ राधां शशाप मर्त्येषु भव नारी त्वमंजसा । शतवर्षाणि कृष्णस्य वियोगेन समन्विता ॥६२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in