मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
खं. २ अ. ३९ पान ८३
येन ज्ञानं दृढं भवेत् ॥२५॥ मुद्गल उवाच । प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् । मदासुरस्य माहात्म्यमेकदंताश्रितं
प्रभो ॥२६॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । चरित्रमेकदंतस्य सर्वसिद्धिप्रदायकम् ॥२७॥ एकदा राक्षसः
कश्चिद्ययौ भृग्वाश्रमं महान् । महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥२८॥ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् ।
सुलोमा किं भृगोः पत्नी त्वं हि मां वद सांप्रतम् ॥२९॥ मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् । एतस्मिन्नंतरे कन्या
याचिता भृगुणाऽभवत् ॥३०॥ मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता । तस्माद्गोर्हरिष्यामि भार्यां चाऽहं न
संशयः ॥३१॥ तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह । सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥३२॥ राक्षस उवाच ।
अग्ने वद महाभाग त्वं साक्षी सर्वसंमतः । इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥३३॥ राक्षसस्य वचः श्रुत्वा न
किंचित्तं वचोऽब्रवीत् । उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४॥ पुनस्तेन च संपृष्टोऽग्निर्नोवाच सुदुर्मतिम् ।
पुनः पृष्टस्तथाग्निस्तमुवाच भयसंकुलः ॥३५॥ अजानता नरः पृष्टः संशये प्रसमुच्यते । कथयेत्तं न पापीयान् भवेद्वै सोऽपि
निश्चितम् ॥३६॥ अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः । आदौ राज्ञा च संदातुं कथिता राक्षसाय सा ॥३७॥ अतस्त्वं
राक्षसो भागी मतः शास्त्रे न संशयः । तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥३८॥ अतः कन्यां प्रदातुं वै नराय
दृढनिश्चयः । न कर्तव्योऽसुरेश त्वं विचारय महामते ॥३९॥ यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् । तस्मै सा वै
प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥४०॥ आशाभंगमयं पापं संप्राप्तं तस्य दैत्यप । न कन्या दूष्यते तत्रान्यस्मै दत्ता
नराय चेत् ॥४१॥ ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः । पत्नी भृगोरियं साधो मा गृहीष्व परस्त्रियम् ॥४२॥
अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ । अंतर्वत्नीं रुदंतीं च मूर्च्छितां स विहायसा ॥४३॥ तस्यामुदरवासी च
भृगोस्तेजोधरो मुनिः । कुपितो राक्षसं हंतुं च्युतो वै जठरात् स्वयम् ॥४४॥ तस्य क्रोधानलेनैव भस्मसाद्भवत्क्षणात् ।
राक्षसः सोऽपि संगृह्य पुत्रं स्वगृहमाययौ ॥४५॥ दुःखिता रुदती देवी सुलोमा भयविह्वला । वनाद् भृगुः समायात-
स्तस्मिन् काले प्रतापवान् ॥४६॥ रुदंत्या कथितस्तस्मै वृत्तांतो मुनिभार्यया । तं श्रुत्वा कुपितो योगी साक्षाद्रुद्र
इवाऽपरः ॥ ४७॥ उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना । सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥४८॥ एवं
शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः । सुलोमां सांत्वयामास पुत्रं स्वं प्रशशंस ह ॥४९॥ उदरात्तु च्युतः क्रोधाच्च्यवनो
नाम सत्तमः । तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५० ॥ सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् । पत्न्या
पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१ ॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः । अंतर्धाय स्वमात्मानं स्थितः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४०
पान ८५
गजाननः । बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥१९॥ विप्र उवाच । स्वानंदवासिनं विद्धि विनायकमनामयम् । सर्वेषां
नायकं पूर्णं नायकैर्वर्जितं परम् ॥२०॥ शांतियोगेन शांतिज्ञास्तं भजंते द्विजोत्तमाः । तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः
प्रभो ॥२१॥ एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः । संप्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥२२॥ संयोगायोगभेदैश्च
संयुक्तं ब्रह्म यत् स्मृतम् । असंप्रज्ञातरूपस्थं विद्धि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inगणाध्यक्षो भक्तवत्सलभावतः ॥४५॥ गणेश उवाच। त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम्। भविष्यति नृणां चैव
शृण्वतां पठतां सदा ॥४६॥ यं यं चिंतयसे कामं तं तं दास्यामि शाश्वतम्। भक्तिभावेन संतुष्टो भृशं स्तोत्रेण संस्थितः ॥४७॥
मदीया भक्तिरचला भविष्यति सदाऽनघ। संकटं स्मरणेनैव मदीयेन विनश्यति ॥४८॥ भृगुर्मम विशेषेण भक्तोऽसौ
शांतियोगधृक्। तस्यापि वचनं मिथ्या न करोमि कदाचन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४१ पान ८७
महाभागैस्ततस्तं मुनिरब्रवीत् ॥९॥ शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं
च कृतवान् मुनेः ॥१०॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥११॥
मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥१२॥ तथाऽपि मुनिना मान्यं
न कृतं तत्ततो नृपः । राज्यमर्धं ततौ मौल्यं धीवरान् दातुमुद्यतः ॥१३॥ मुनिना कथितं तत्र मम योग्यं न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयेन संकुपितो मुनिः ॥३४॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचितांजलिः
॥३५॥ वने क्रीडनभावेन वल्मीके कंटकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥३६॥ ततो राजा वनं गत्वा
वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥३७॥ ततस्तं राजशार्दूलमुवाच भृगुनंदनः । अज्ञानेन
कृतं कर्म तव पुत्र्या नृपालक ॥३८॥ अतो मदीयसेवार्थं कन्यां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशीर्षक (Header):
खं. २ अ. ४२ | पान ८९
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावाहितौ तत्र तत इंद्रोऽब्रवीद्वचः ॥१॥
इंद्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माहेयति वदाम्यहम् ॥२॥ अभवन् मुनि-
मुख्यो सौ त्यक्त्वेंद्रवचनं ततः । समुद्युक्तश्च तौ तत्राव्हयितुं त्वसुरेश्वर ॥३॥ तत इंद्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव
हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥४॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४२ पान ९०
किं मदेन समन्वितः । समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥२६॥ ततोऽवदं सुता चाऽऽदौ पत्नीभावेन संधृता ।
त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥२७॥ तातस्तु क्षुभितोऽत्यंतं स च मां शप्तुमुद्यतः । तातं तं दंडवद्भूमौ नतोऽहं
भक्तिसंयुतः ॥२८॥ अवदं तं महाभागं मां क्षमस्व महागसम् । परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥२९॥ क्षमस्वेदं कृतं कर्म
त्वं श्रेष्ठः सर्वभावतः । स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥३०॥ दृष्ट्वा मां तापसं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. २ अ. ४२ | पान ९१
परं तस्मान्न विद्यते। विचार्य शंकरं चित्ते धृत्वाऽहं भजने रतः ॥५२॥ शैवो जातोऽहमत्यंतं भस्मांगालेपने रतः। नानापाशु-
पतैर्मार्गैरभजं शंकरं सदा ॥५३॥ एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले। शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥५४॥
तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे। उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥५५॥ गायत्रीं मुख्यभावां वै
प्राप्तां वीक्ष्य महासती। सावित्री
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ९२
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स
कृतांजलिः ॥१॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुक्तौ ॥२॥ अधुना
गणनाथस्य ज्ञानं मे वद शांतिदम् । मदादिकं समुत्सृज्य येन शांतो भवाम्यहम् ॥३॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य
भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४४ पान ९३
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रांतं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥१॥
मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥२॥ गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥३॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं
महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धांजलिपुटो मदः ॥४॥ विनयेन समायुक्तं मदं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४४ | पान ९४
त्वां नमाम्यहम् ॥२५॥ त्वां स्तोतुं न समर्था ये मुनयो वेदवादिनः । देवाः स्कंदश्च शेषश्च तत्राऽहं स्तौमि किं पराम् ॥२६॥
धन्यौ मे पितरौ ज्ञानं तपो विद्यादिकं च यत् । यत्तवांघ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥२७॥ इत्युक्त्वा संस्थितस्तूष्णीं
भावेन स मदासुरः । तमुवाच महाशक्तिर्भक्तिभावेन यंत्रिता ॥२८॥ शक्तिरुवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति महाभाग सर्वकामफलप्रदम्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४५ पान ९५
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । ततः कदाचिद्दैत्येंद्रैर्बोधितोऽभून् मदासुरः । विजयाय समुद्युक्तस्त्रैलोक्यस्य
मदान्वितः ॥१॥ स शुक्रमुपसंगम्य तं प्रणम्य विशेषतः । संगृह्य मुनिमुख्यं वै विजयायाऽकरोन् मतिम् ॥२॥ नानादिग्भ्यः
समायाता असुरा दैत्यपास्ततः । संनद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् ॥३॥ चतुरंगबलैर्युक्तः संख्यातीतैर्मदासुरः ।
निर्ययौ दिग्विजयर्थं स संस्तुतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inततस्तैः संवृतो दैत्यो ययौ वैकुंठमादरात् । ज्ञात्वाऽऽगतं महाक्रूरं पलायत रमापतिः ॥२७॥ सोऽपि कैलासमगमद्विष्णुः
स्वैः पार्षदैर्वृतः । मदासुरो महादुष्टो वैकुंठे संस्थितोऽभवत् ॥२८॥ नारायणासने संस्थो दैत्यराजैर्महाबलैः । संवृतः
शुशुभेऽतीव नानाभोगसमन्वितः ॥२९॥ सुखं चानुपमं तत्र वैकुंठे विष्णुना कृतम् । तदेव बुभुजे सोऽपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४६ पान ९७
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । कैलासे दैत्यपैर्युक्तः संस्थितोऽभून् मदासुरः । कियत्कालं प्रभुआनो भोगान् परमदुर्लभान्
॥१॥ गते कियति काले च त्रिपुराद्यास्तमब्रुवन् । देवानां छेदने दुष्टाः संसक्ता मदसंयुताः ॥२॥ त्रिपुराद्या ऊचुः ।
शृणु राजन् महाभाग मदासुर हितं वचः । देवाः शंभुमुखाः सर्वे शक्तिलोकं गता बभुः ॥३॥ तत्र शक्त्या विशेषेण मानिताः
सुरसत्तमाः । भयहीनाः सुखे सक्ता बुभुजुर्विविधं सुखम् ॥४॥ अस्माकं शत्रवः सर्वे देवा दैत्य मताः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inदुर्मतिः ॥२५॥ तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥२६॥ तं प्रणम्य
ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥२७॥ नत्वा शक्तिं महामायां कृतांजलिपुटो-
ऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥२८॥ तारकासुर उवाच । शृणु शक्ते महामाये आगतः स मदासुरः ।
दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥२९॥ तेनोदितं च शक्ते त्वं वचनं शृणु मानदे । भक्तेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४७ पान ९९
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । आगतं तारकं दृष्ट्वा हर्षितः स मदासुरः । दैत्यैः सह महासाधो प्रहृष्टश्चाभवत् खलः
॥१॥ मदासुरं प्रणम्याऽसौ कथयामास तारकः । वृत्तांतं देवपक्षे च संश्रितं कुलदैवतम् ॥२॥ तच्छ्रुत्वा मद्यपो दैत्यः
प्रतापी स मदासुरः । क्रोधयुक्तोऽभवत्तत्र देवान् हंतुं समुद्यतः ॥३॥ सन्नद्धैर्दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः ।
शक्तिलोकं जगामाऽथ महाकाल इवाऽऽबभौ ॥४॥ पुरःप्रांते स्थितान् शक्तेर्गणान् परमविश्रुतान् । ताञ्जघ्नुश्च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४७ पान १००
स्वपरज्ञानकारकः ॥२६॥ प्रबोध्य केचिद्दैत्यांस्तान् सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥२७॥
शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजहिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥२८॥ दैत्याः प्रकुपिता अन्ये
शस्त्रास्त्रैर्देवमंडलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥२९॥ मेरुशीताचलग्रख्या दैत्या देवाः स्थिता बभुः ।
चेलुर्न च पदं तत्र परस्परवधे रताः ॥३०॥ अभवन् शोणितौघानां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४८ पान १०१
गमिष्याम्यमरावतीम् ॥५१॥ आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमम् । अधुना शक्तिसंयुक्तः कदनं ते
करोम्यहम् ॥५२॥ किं बहूक्तेन दैत्येंद्र दर्शय स्वपराक्रमम् । नोचेद्गच्छस्व पातालं मिथ्या वल्गसि किं वचः ॥५३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रतारकसमागमो नाम सप्तचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । एवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inख. २ अ. ४८ पान १०२
तत्रापि पुरुषोऽत्यंतं भक्षयामास चामरान् ॥१९॥ ततः क्रोधसमायुक्तो महेंद्रो वारुणं महत् । अस्त्रं धनुषि संगृह्य मृधे
तत्याज दारुणम् ॥२०॥ तस्माच्च जलधाराऽभूत् समंतान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥२१॥
जलौघेन महावह्निः प्रशांतः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥२२॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in