Skip to content
SarvaKosh
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

Report a copyright issue

DevanagariSanskritpublished1,023 pages

About this granth

The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.

This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.

Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.

Page 143
Page 143 scan

खं. २ अ. ७ पान १७
पूजयंत उपचारैरनेकंशः । प्रणेमुर्भक्तियुक्तास्तं सरोमांचा बभूविरे ॥ १५ ॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव
सफलं सर्वं भविष्यति न संशयः ॥ १६॥ भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति
॥ १७॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः शृणोति नरो भक्त्या पठेद्द्वै तस्य सिद्धिदम् ॥ १८॥ एकविंशतिवारं
च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 144
Page 144 scan

ख. २ अ. ७ | पान १८
मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥४०॥ सूत उवाच । सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् ।
व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥४१॥ रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः । परद्रव्यहराः सर्वे
परस्त्रीगामिनस्तथा ॥४२॥ परापकारकर्तारो जंतुभ्यो दुःखदाः स्मृताः । सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥४३॥
साधूनां मुनिमुख्यानां देवानां योगिनां तथा ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 145
Page 145 scan

यहाँ प्रस्तुत पृष्ठ का संपूर्ण देवनागरी लिप्यंतरण नीचे दिया गया है:

खं. २ अ. ८ पान १९
अत्रिणा मानितः सोऽपि निषसादासने स्वयं । उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥६॥ दत्त उवाच। स्वामिन्नानाविधं ब्रह्म
मया योगेन साधितम् । तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥७॥ उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः ।
तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥८॥ तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो । तेन शांतिविहीनोऽहं
किं करोमि वदस्व भोः ॥९॥ सहजान्न परं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 146
Page 146 scan

यन्नागतं न गतं पुनः । स्वानंदनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ ३१ ॥ ब्रह्मस्वानंदवासी स गणेशः कथ्यते बुधैः । न
स्वानंदात्मकः प्रोक्तो वेदै वै वेदवादिभिः ॥३२॥ क्रीडात्मकगणेशानः स्वानंदः परिकीर्तितः । संयोगात्मकरूपेण स्वस्वरूपिणि
तिष्ठति ॥३३॥ क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः । निरानंदात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥३४॥ संयोगायोग-
योश्चैव तयोर्नाशे गणेश्वरः । शांतियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥३५॥ पूर्णयोगात्मकस्तत्र गणेशः परि-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 147
Page 147 scan

खं. २ अ. ८ पान २१


देवाय जगदीशाय ते नमः। महते बिंदुरूपाय जगद्रूपाय ते नमः ॥ ५७ ॥ नादात्मकगुणेशाय नानावेषप्रधारिणे ।
ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ ५८ ॥ हरये पालकायैव नानादेहधराय ते । संहर्त्रे शंकरायैव कर्माकाराय
भानवे ॥ ५९ ॥ शक्तये च क्रियामूर्ते देवमानवरूपिणे । नागासुरमयायैव ढुंढिराजाय ते नमः ॥ ६० ॥ स्थावराय
नमस्तुभ्यं जंगमाय नमो नमः । जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ६१ ॥ किं स्तौमि त्वां गणाधीश
योगाकारेण

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 148
Page 148 scan

महर्षिभिः । क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥८२॥ विज्ञाननामकं पुण्यं शांतियोगफलप्रदम् । सर्वसिद्धिकरं
क्षेत्रं यात्राकारि जनस्य च ॥८३॥ ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः। अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः॥८४॥
योगिभिर्देवगंधर्वैः सिद्धैर्नागैश्च मानुषैः । नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥८५॥ एतद्दत्तस्य माहात्म्यं यः शृणोति
नरोत्तमः । पठेद्वा भविता तस्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 149
Page 149 scan

खं. २ अ. ९ पान २३
नारद उवाच । शृणु पुत्र महाभाग प्रियव्रत महामते । देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥१७॥ तथापि नरदेहो-
ऽयमृणत्रयसमन्वितः । नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥१८॥ सर्वेषामन्नरूपोऽयं नरदेहो न संशयः । तस्य पोषणमत्यंतं
कर्तव्यं देहधारिणा ॥१९॥ स्वधर्मपालनेनैव वर्णाश्रमविधानतः । देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥२०॥
यज्ञादिभिर्ऋणं दैवं श्राद्धाद्यैश्चैव पैतृकम् । पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥२१॥ अधुना

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 150
Page 150 scan

खं. २ अ. १० पान २४
संस्थितोऽभूत्स गणेशभजने रतः ॥४२॥ प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् । धर्मेण नीतिदानेन त्यागेन यश
आर्जयत् ॥४३॥ स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः । मुदिताः सत्यशीलाश्च स्थिते राज्ये प्रिय व्रते ॥४४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 151
Page 151 scan

[खं. २ अ. १०] [पान २५]

क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥१९॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वो
पुरोजवमनोजवौ ॥२०॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्दरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥२१॥
पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खंडमन्यत्प्रकथ्यते ॥२२॥ पवमानस्य खंडं वै
पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पंचमं चैत्ररेफकम् ॥२३॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 152
Page 152 scan

ख. २ अ. ११ पान २६
प्रकीर्तिताः ॥४४॥ गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः । नराणां जीवनं तत्र पंचवर्षसहस्रकम् ॥४५॥ द्विलक्षयोजनान्येव
विस्तारस्तस्य सर्वतः । इक्षूणां च रसोदेन तावता परिसंवृतः ॥४६॥ लक्षद्वीपे यजंते वै सूर्यं धर्मपरायणाः । वृष्टिसंस्राविणं
देवं तेजोरूपेण संस्थितम् ॥४७॥ प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपांतिमेषु वै । वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥४८॥
पुष्करे सर्वधर्मज्ञा एकमार्गं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 153
Page 153 scan

[शीर्षक]
खं. २ अ. ११ पान २७

निवासा अद्भुता बभुः ॥ १३ ॥ उद्यानानि विचित्राणि देवक्रीडनकानि च । जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४ ॥
कैलासाद्यष्ट शैलेंद्रा दिक्षु तस्य व्यवस्थिताः । तेषु रुद्रादिदेवेंद्रा वसन्ति दिगधीश्वराः ॥ १५ ॥ मध्ये स्थानं महारण्यं
ब्रह्मणः परमेष्ठिनः । इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६ ॥ तस्य दक्षिणभागे च द्वीपखंडास्त्रयोऽभवन् । उत्तरे
च तथा खंडास्त्रयस्तस्य प्रकीर्तिताः ॥ १७ ॥ पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 154
Page 154 scan

सर्वत्र संस्थिताः ॥ ३८ ॥ पुण्यदाः स्नानमात्रेण मिष्टतोया महामते । नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ ३९ ॥
तीर्थानि सर्वदेवानां स्थानानि

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 155
Page 155 scan

खं. २ अ. १२ पान २९
चंद्रस्य षोडशो भागो मंडलं भार्गवस्य च । भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७॥ बृहस्पतेः पादहीनं
मंडलं भौमसौरयोः । विस्ताराच्च तयोः पादहीनं सौम्यस्य मंडलम् ॥१८॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् ।
शतानि पंचचत्वारि त्रीणि द्वे योजनानि वै ॥ १९॥ सर्वेभ्योऽपि निकृष्टानि ताराणां मंडलानि तु । योजनाध्यर्धमात्राणि
तेभ्यो न्यूनं न विद्यते ॥२०॥ उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोंङ्गिराश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 156
Page 156 scan

पान ३०

कृत्स्ना यत्तेजः सार्वलौकिकम् । विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥४१॥ सर्वात्मा सर्वलोकेशो गणेशांशः
प्रभाकरः । मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥४२॥
॥ ओमिति श्रीमदान्ते पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते सूर्यमंडलवर्णनं नाम द्वादशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रवेः कलांशसंभूता द्वादशान्ये च भानवः । द्वादशस्वेव

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 157
Page 157 scan

खं. २ अ. १३ पान ३१
गंधर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥१९॥ ग्रामणीर्यक्षभूतानि कुर्वतेऽभीषुसंग्रहम् । सर्पा वहंति देवेशं यातुधानाः
प्रयांति तम् ॥२०॥ वालखिल्या नयंत्यस्तं परिवार्योदयाद्रविम् । एते तपंति वर्षति भांति वांति सृजंति च ॥२१॥
भूतानामशुभं कर्म व्यपोहंत्यनुकीर्तिताः । एते सहैव सूर्येण भ्रमंति दिवि सर्वदा ॥ २२ ॥ विमानेऽधिष्ठिता नित्यं
कामगे वातरंहसि । वर्षतश्च तपंतश्च ह्लादयंतः सदा प्रजाः ॥ २३ ॥ गोपायंतीह भूतानि सर्वाण्येते युगक्षये ।
एतेषां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 158
Page 158 scan

खं. २ अ. १४ | पान ३२
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः
॥१॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥२॥ जनलोकात्तपोलोकः
कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥३॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा
च ब्रह्मणो वसतिः परा ॥४॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 159
Page 159 scan

खं. २ अ. १५ पान ३३
निराधारे सदा लोके मोहहीने सुखप्रदे। निष्कामाः शिवभक्ताश्च तत्र गच्छंति मानवाः ॥२६॥ ज्योतिर्मयस्वरूपे च
सदा कल्याणदायके। लोके तत्र स्वयं शंभुर्वसति स्वेच्छया मुने ॥२७॥ अयुतं योजनानां च तस्य विस्तार एव च ।
तत्र योगेन योगज्ञः शंकरः क्रीडति प्रभुः ॥२८॥ वामांगं प्रकृत्याकारं दक्षिणांगं प्रजापते। पुरुषाकारमेतस्य शंकरस्य
महात्मनः ॥२९॥ संयोगे च तयोर्दक्ष आनंदः परिकीर्तितः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 160
Page 160 scan

[Header: पान २४]

हयग्रीवश्च जृंभकः ॥५॥ सुतलं पीतवर्णं तदधस्तद्भूतप्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥६॥
कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसंति विहारिणः ॥७॥ तलातलं तथा ज्ञेयं
शार्करं तत्र वासिनः । मयासुररादयश्चैव बाणांधकमुखाः परे ॥ ८ ॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः।
कालकेया महादेहा निवातकवचास्तथा ॥९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा
वसन्ति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 161
Page 161 scan

खं. २ अ. १६ पान ३५
वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥३१॥ तस्मादधो रौरवाद्या
नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः ।
अंधतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥ लोहदंडस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च
इत्याद्या बहवः स्मृताः ॥३४॥ नरकेषु प्रपच्यंते पापकारिण एव ये

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 162
Page 162 scan

शिवमार्गप्रकाशकः। यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् ।
दृष्ट्वा शांतिं परित्यज्य विस्मितः प्रबभूव सः ॥१३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न
योगींद्रस्ततो भवेत् ॥१४॥ एवं विचार्य विक्षेपाच्छंकरालयमाययौ । तं प्रणम्य स्थितो योगी शिवसंमानितो भृशम् ॥१५॥
तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥ ततो-
ऽवसरमासाद्य

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in