मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
by महर्षि जैमिनि / शाबर स्वामी
Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)
About this granth
Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.
This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.
The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.
७ ] प्रथमाध्याये द्वितीयपादः ४७
तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रसिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन
धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः। तत्र भाष्यकाराः
प्रसिद्धेनैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति। एतावत्तत्र प्रथमं वक्तव्यम्।
किमर्थं रूपभङ्गे न बलादेकवाक्यता; पुरुषार्थत्वं वा वेदस्योच्यते इति। लौकिक-
वाक्ये तु दृष्टत्वादिति यद्युच्येत, तत्राभिधीयते। युक्तं लोके वाक्यार्थस्य
प्रमाणान्तरगम्यत्पादन्यथाऽपि कल्पनम्। इह त्वत्यन्तातीन्द्रियत्वादयथाश्रुता-
दीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत। लोकेऽपि च यानि प्रमाणान्तरानवगता-
र्थानि आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति, तेषां नैवान्यथात्वकल्पनं
लभ्यते।
तत्र केचिद्वदन्ति। ‘तुल्यं च सांप्रदायिकम्’ इति यद्वक्ष्यति, तेन समस्तो
वेदः पुरुषार्थ इति साध्यते। न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः
पुरुषाः प्रयत्नेन धारयेयुः। यद्यपि च केषांचिदज्ञानं भवेत्, तथाऽप्यस्मत्पूर्वाति-
क्रान्ताऽनेकपरोक्षकप्रमादकल्पना निष्प्रमाणिका। तस्माद्यथा यथा पुरुषार्थता
भवति, तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति।
न त्वेतद्युक्तमिव। कुतः? पुरुषाधीनप्रामाण्यप्रसङ्गात्। यदि ह्यक्षरानुपात्तो-
ऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते, यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य
पुरुषार्थतेति। तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात्। अथ पुरुषा-
न्तरधारणमुच्यते, एवमपि तद्वशेन, तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्ध-
परम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम्। सर्वत्र ह्येवमयं
पुरुषो वेदेति प्रत्ययो, नैवमयमर्थ इति। तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं
वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते, तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः। अतो
यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम्।
तदुच्यते। सकलस्य तावद्वेदस्य ‘स्वाध्यायोऽध्येतव्य’ इत्यध्ययनभावना
विधीयते। तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्ति-
युक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशात्क्षिप्ता-
क्रियते। ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते। तेन किमि-
त्यपेक्षिते ‘यच्छक्यते’ इत्युपबन्धादक्षरग्रहणमित्यापतति। तस्याप्यपुरुषार्थ-
त्वात्तेन किमिति, पदावधारणमित्युपतिष्ठते, तेनापि पदार्थज्ञानम्, तेन वाक्यार्थ-
ज्ञानम्, तेन चानुष्ठानम्, अनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निरा-
काङ्क्षीभवति। एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम्। न च सहसैव
विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते। योग्यतया हि यस्य यत्रानन्तरभाविनि
व्यापारे लक्ष्यते, तदेव तस्य कार्यमित्यवधार्यते। तत्र यदि तावत्तदनुसारेणैव
कियत्यप्यध्वनि फलमासाद्यते, ततो नान्तरा कल्पनमर्हति। पारम्पर्यप्रयोजने-
४८ मीमांसादर्शनम् [ सू०
नापि श्रुतविध्युपपत्त्या, अन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं
दृष्टं कार्यं न स्वयं पुरुषार्थो नाऽपि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहव-
नीयप्राप्तिः, भस्मसाद्भावो वा । तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना ।
सर्वत्र चैतल्लक्षयितव्यम् ।
यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं
किंचित्क्रतवे, पुरुषार्थाय वा चोद्यते, तत्र तदेव तत्साधनम् । पूर्वस्य तु विधेस्तदु-
पकारार्थतया पर्यवसानम् । यानि तूत्तरविधेः कार्याणि, प्राक्तानि साध्यसाधन-
भावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वालादीनि पूर्वविहितकर्म-
स्वव्यापारमात्रतया मन्तव्यानि ।
यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते, तत्र सर्वाणि स्वव्यापारी-
कृत्य विधेयस्यैव स्वयं फलसाधनता । तत्र यानि तावत्क्लृप्तकल्पयिष्यमाणपुरुषार्थ-
साधनविधिवाक्यानि, तानि तत्प्रतिपादनं यावत्स्वाध्यायाध्ययनविधिना
नीयन्ते, परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे
पठ्यन्ते, तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात्
क्रत्वङ्गं भवन्ति । कुतः ? कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वन-
वसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते, नान्यत् । अतः
प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् ।
एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्ट-
पुरोडाशद्रव्यवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारा-
दुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः ।
यदप्रकरणस्थत्वादक्षराण्यस्पृष्टप्रधानमर्थमेव १ संबध्यते । यानि त्वाधानादि-
वाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायिनि दूरस्थे-
नैव फलेन निराकाङ्क्षीक्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां
नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन
सर्वेषां भावनान्तर्गतिरुपपन्ना ।
यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति, तत्राभिधीयते ।
सत्यम्, अतिरिक्तं न गृह्यते । अस्तित्वन्तर्गतिः । कथम् ? इह हि लिङ्गादियुक्तेषु
वाक्येषु द्वे भावने गम्येते शब्दात्मिका, चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थ-
वादा नापेक्ष्यन्ते । शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते स्वाध्याया-
ध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावये-
दिति । तत्र लिङादीनां प्रयोजककर्तृत्वम्, पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां
पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते
१. स्पृशन् ।
७ ] प्रथमाध्याये द्वितीयपादः ४९
प्रवर्तयेदिति । ततः किमित्यपेक्षते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वा-
ल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति, तथाऽपि पुरुषस्य प्रयोज्यस्य प्रयोज-
कत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत,
नैवेषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण
विधिविज्ञानेनेति संबध्यते । कथमिति ? प्राशस्त्यज्ञानानुगृहीतेनेति । कुत
एतत् ? बुद्धिपूर्वकारिणो हि पुरुषा यावत्प्रशस्तोऽयमिति नानुबुध्यन्ते, तावन्न
प्रवर्तन्ते । तत्र विधिशक्तिरवसीदति, तां प्राशस्त्यज्ञानमुत्तम्भाति । तच्च
पुरुषार्थत्वे फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्य-
मानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्य-
प्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वा फल-
पदेन निवर्त्येत, प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव, सर्वदोषाशङ्का-
विनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वा-
दिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते ।
विध्युत्तरकाला चेयमाकाङ्क्षा, पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्नि-
वर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चो-
भयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपाय-
मात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्य-
मानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते
तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते, तथाऽपि
न कार्येण युज्यते । तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थ-
त्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये
चान्यथानुपपत्तिर्भवति । प्रमाणाभावाच्च यः सर्वप्रकारं प्रयतमानस्य स
प्रमाणम् । तद्यपि केनचिदुपदेशेन वा अतिदेशेन वा न लप्स्यामहे, ततो दविर्हो-
मम्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद् दूरस्थेनापि
सेत्स्यति, ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा
वायुर्वे क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं
यच्छक्यते, तत्कुर्यादित्यपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च
पूर्ववदक्षरादिष्वपर्यवस्यद् भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साका-
ङ्क्षमेवेति, यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं
कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः, सोऽनन्तरप्रवृत्तविध्युद्देशा-
काङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टा-
श्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवाद-
पदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधा-
४
५० मीमांसादर्शनम् [ सू०
पेक्षितद्वेषसिद्धयर्थं निन्दापदसंगतिर्व्याख्याता । तत्रापि हि न द्वेषादृते विद्वाञ्प्रि-
वर्त्तते । द्वेषश्चाप्रशस्तप्रत्ययाधीनोत्पत्तिः । न चाप्रशस्तज्ञानं नकारादिभिः पदैः
प्रशस्ताप्रशस्तानभिधानेन निषेधतत्फलेतिकर्त्तव्यतामात्रपर्यवसितैः शक्यमव-
लम्बितुमित्यनन्यप्रयोजननिन्दावाक्यगम्यमेव भवति । अतश्चैकवाक्यत्वसिद्धिः ।
नित्यं च विधिप्रतिषेधयोः क्रमेण वाक्यशेषाः स्तुतिनिन्दानिर्णयहेतवो भवन्ति ।
न निह स्तुतिनिन्दे नाम व्यवस्थिते, निन्दारूपासु स्तुतिषु स्तुतिरूपास्वपि च
निन्दासु विपर्ययदर्शनात् । यथा वक्ष्यति न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते
अपि तु विधेयं स्तोतुमिति । तथा त्र्यम्बकवाक्येषु "यदभिधारयेत्तद्रुद्रायाऽस्य
पशूनभिदध्यात्" इति स्तुतमप्यभिधारणं नाऽऽश्रयिष्यते, निन्दितमपि चान्ते
विधिदर्शनादभिधारणमेव प्रशस्तं भविष्यति । संदिग्धस्तुतिनिन्दानामपि च
प्रक्रमादेव निर्णयो । यथा वक्ष्यति न वयं निन्दिताननिन्दितान्वाऽसुरान्विद्मः ।
कदाचिद्धि यस्मादसुरानप्येषा वशीकृत्याऽऽनयति क्रिया । तस्मान्न्यूनं प्रशस्तेंति
स्तुतिः स्यात् । अथ वा विध्वंसकासरागमननिमित्तत्वादशोभनेति निन्दा ।
तत्रान्ते सामविधानात्तत्प्रशंसार्थमृचां निन्देति गम्यते । सर्वत्र च किंचित्पदं
स्तौति, निन्दति च, इतराणि त्वेकवाक्यतया तदर्थं प्रतिपद्यन्ते । यत्रापि
तादृशं पदं न स्यात्तत्रापि लक्षणा लक्षितलक्षणा वाऽन्यथानुपपत्तेराश्रयणीया ।
विधिप्रतिषेधयोश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनेतरदनुमाय वाक्यं
पूरयितव्यम् ।
एवं भारतादिवाक्यानि व्याख्येयानि । तेषामपि हि श्रावयेच्चतुरो वर्णा-
नित्येवमादिविध्यनुसारेण पुरुषार्थत्वान्वेषणादक्षरादि व्यतिक्रम्य धर्मार्थकाम-
मोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिरुपादानपरित्यागाङ्गभूता फलम्¹ ।
तत्रापि तु दानराजमोक्षधर्मादिषु केचित्साक्षाद्विधयः, केचित्पुनः परकृतिपुरा-
कल्परूपेणार्थवादाः । सर्वोपाख्यानेषु च तात्पर्यं सति श्रावयेदिति विधेरानर्थ-
क्यात्कथंचिद्गम्यमानस्तुतिनिन्दापरिग्रहः । तत्परत्वाच्च नातीत्रोपाख्यानेषु
तत्त्वाभिनिवेशः कार्यः ।
वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्वैपायनप्रभृतिभिस्तथैव स्ववाक्यानि प्रणी-
तानि । प्रतिपाद्यानां च विचित्रबुद्धित्वाद्युक्तमेवैतत् । इह केचिद्विधिमात्रेण
प्रतिपद्यन्ते । अपरे सार्थवादेन, अपरोऽल्पेनार्थवादेन, अपरे महता । सर्वेषां च
चित्तं ग्रहीतव्यमित्येवमारम्भः । तत्र तु, केचिद्विधिप्रतिषेधाः श्रुतिमूलाः, केचि-
दर्थसुखादिषु लोकमूलाः, तथाऽर्थवादाः केचिद्वैदिका एव, केचिल्लौकिका एव,
१. धर्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः । धर्मादिचतुष्टयसाधनप्रतिपत्ति-
रुपादानाङ्गभूता । अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्यागाङ्गभूतेत्यर्थः ।
७ ] प्रथमाध्याये द्वितीयपादः ५१
केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु
वाक्यशेषत्वं न प्रतिपद्यन्ते, तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णक-
प्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साह-
कराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद् दृष्टमुपलभ्यते, तत्र विशिष्ट-
देवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् ।
विध्युत्खातिपूर्वपक्षः ।
विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं
रोचेत ततोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभि-
श्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थ-
वादरहिता लिङादयः तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्त-
कत्वम्, प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातः, तत्रान्यतरेण कृतार्थत्वाद-
वश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । 'त्यजेदेकं कुलस्यार्थे' इतिवद्विधि-
प्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थंपरोचनालब्धविधित्वा-
नुवादेन प्रवर्तते । यथा 'सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्' इति क्त्वाप्रत्यय-
सिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यंश्वेतालम्भ इत्येतावन्मात्रं विवक्षि-
तम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद् भूतिकाम
इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव
स्यात् । स्वोक्तेन तु विधिनेकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परि-
गृह्यते । तथा चाऽऽह-नायमभिसंबन्ध इति । विधिविधेयसम्बन्धनिषेधेन स्तुति-
स्तुत्यसम्बन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य
योजना । भिन्नावभाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति
चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया
साध्यते, तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि
प्रत्ययेऽर्थवादादेव तदर्थवासिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह-कथं रोचे-
तेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति ।
नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्वि-
वावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते, तदा निरपेक्ष-
त्वाद्भवन्ति प्रमाणम् । यथा घटो भवतीति । न च कदाचिदेतावन्मात्रेण
समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि
सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भव-
त्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते, तत्रैकवाक्यतां
गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन
विनाऽवान्तरवाक्यं प्रमाणम्, तत्सद्भावे तु नेत्येतदाह-यदा न स्तुतिपदानीति ।
नन्वेवं सतीति । यत्र महावाक्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवन-
५२ मीमांसादर्शनम् [ सू०
रागभवने, तत्रैव युक्तम्, इह त्वनतिरिक्तार्थस्य सतः किमवान्तरवाक्यनिराकरण-
मेव महावाक्यस्य युक्तं फलम् । तदेतदाह—यस्मिन् सत्यविधायकमवान्तरवाक्यं
भवति, मा भूतन्महावाक्यमिति । सत्यम्, विनाऽपि तेनेति । यो नाम वेदस्य
कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति ।
तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्था-
नवाप्तिः । दृष्टं चैवंजातीयेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता
सिध्यन्तमाकाशप्रभृतिभिरभिलपन्ति, न च जाड्यं लभन्ते । तथाऽत्र लिङादि-
भिरपि सिध्यन्तमर्थवादभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपाय-
प्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति, तथाऽन्येनापि विधिसिद्धा-
वर्थवादप्रतिपादितविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघु-
मुपायमनुपादाय गुरुपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर
आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव
प्रयुज्यन्ते, तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वा-
त्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वाद-
विवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त
इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्तव्यम् । तदुच्यते
तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाम स्तुतिसंबन्धः समस्तस्य पूर्व-
स्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्वचिदपि शक्ति-
रपह्रियते, ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते ।
भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्वाधितेत्यन्यत्रापि बाध्यते, कदाचिदा-
विर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते, तत्रोऽऽविर्भूता
शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिः, तत्र वाक्यभेद-
प्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते ।
तस्मादेकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोच्यमाना अनुष्ठातॄणामिति ।
“रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्य-
न्तरत्वादिति चेत् ? न, तत्रापि रुचिसंबन्धानपह्लवात् । अथ सामान्यविवक्षया
षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः
केभ्यः प्ररोच्यमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुप-
करिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका
इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कञ्चिदर्थं स्तुवन्तीति शत्रन्तम् ।
कञ्चिदिति विधेयं तत्संबन्धिनं वा कञ्चिद्वा विदधति क्रियां तत्संबन्धिनं वा
तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् ।
विध्युत्खाति-पक्षनिरासः ।
७ ] प्रथमाध्याये द्वितीयपादः ५३
इदं तु व्याख्यानं नानुमन्यन्ते । यदि हि प्रत्ययोत्खातिः स्यात्, ततः केन
स्तुतिराकाङ्क्ष्येत । न तावच्छब्दभावनाकथंभावोऽस्ति । याऽपि कस्मादित्यपेक्षा
कल्प्येत, साऽपि विधीतिकर्तव्यताविषयैव, तदनुग्रहार्थत्वात् । शब्दान्तरव्यप-
देशमात्रं तु भिद्यते । साऽपि च नियुज्यमानस्यैव पुरुषस्य भवति, न क्रिया-
मात्रश्रवणात् । न हि वायव्यश्वेतालम्भ इत्युक्ते कर्तव्यताऽकर्तव्यतोक्तः प्राक्
प्रशस्तोऽप्रशस्त इति वाऽपेक्ष्यते । तदनपेक्षितं च श्रुतिमात्रेणैव वदन्तो नार्थ-
वादाः प्रतिपादयन्ति न च धात्वर्थेन सह कस्यचित् संबन्धः, अपेक्षा वा विद्यते ।
सर्वस्य भावनागामित्वात् ।
भावना तु प्रत्ययोद्धारेणापनीता किमपेक्षेत । तस्मात्तद्गतांशत्रयोच्छेदान्न
भूतिः फलम्, न यागः करणम्, न वेतिकर्तव्यता काचित्स्यात् । उक्तेऽपि च प्राश-
स्त्ये कस्मादित्यनपेक्षितत्वात्प्रशस्तोऽयमित्येतावन्मात्रेऽवधृते प्रशस्तत्वादित्य-
नुच्यमाने कर्तव्यताबुद्धिर्नैव स्यात् । भवन्ती वा तन्निष्ठा भवेत्प्रशस्तोऽयं कर्तव्यः,
पटो रक्तः कर्तव्य इतिवत् । अकल्पिते विधावानर्थक्यमेव स्यात् । प्रत्यक्षं च
विधिमुत्सृज्य पारम्पर्यलक्षणयाऽर्थवादेभ्यः परिगृह्यत इतणपूर्वा वाचोयुक्तिः । न
चैतत्कल्पनावसरोऽस्त्यन्यतः सिद्धत्वात् । अनुक्तो हि सन्नर्थवादादेव विधिः
कल्प्येत, यद्यन्यथा नोपपद्येत । प्रत्यक्षप्रत्ययोपपन्नत्वान्नान्यथानुपपत्तिस्तथाऽर्थ-
वादोऽपि यद्युपाख्यानादिष्वेव प्ररोचनायां निष्प्रयोजनः स्यात्ततो दूरं नीयेत ।
यथोक्तेन तु न्यायेन प्ररोचनोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्तव्या च प्ररोचना,
यद्यन्यतः सिध्येत्ततोऽर्थवादान्नापेक्षेत साऽपि त्वनन्यगतिकत्वात्तमेवाऽऽश्रयति ।
सर्वत्र च वैदिकेऽर्थेऽर्थापत्त्या शब्दः कल्प्येत, ततोऽर्थसिद्धिः तेन प्ररोचनया
विधिशब्दः कल्प्येत, नार्थः, तत्कल्पनावेलायां च यथैन्द्रवायवादिवाक्येषु सोमेन
यजेतेत्यस्मिन्नुपतिष्ठमाने नान्ययजिकल्पना, तथैवाऽऽलभेतत्येनेनान्यानुमान-
प्रतिबन्धः ।
तुल्यार्थयोश्च बाधविकल्पौ भवतः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानु-
ग्राह्यानुग्राहकार्थविषयत्वेनार्थभेदात्समुच्चयः इत्येकवाक्यता । यदि च प्रत्ययो-
त्खातिः स्यात्ततः कर्तृसंख्योपग्रहविशेषावगतक्रियाफलस्वार्थपरार्थत्वाद्युच्छेद-
प्रसङ्गः ।
स्यादेतत् । विधित्वमात्रमविवक्षयित्वा शेषविवक्षया कर्तृसंख्यादिलाभ
इति । एतच्चाशक्यं यतस्तदर्थमप्युपात्तः प्रत्ययः सामर्थ्याद्विधित्वं वदत्येव ।
प्रतीतस्य च द्वय्येवाविवक्षा, विध्यसंस्पर्शो वा ग्रहैकत्ववत् अनुवादकत्वं वेन्द्रिय-
कामहोमवत् । न तावद्विधेरविधित्वं नाम किंचित् । नाप्यनुबादस्तस्यामवस्था-
यामप्राप्तेः । न ह्येवं संभवति योऽयं वायव्यश्वेतालम्भः कर्तव्यः, स प्रशस्त
इति । भवति त्वेवं कर्तव्यः, प्रशस्तत्वादिति ।
५४ मीमांसादर्शनम् [ सू०
यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्रा-
विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्ते-
र्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्रातिनाशेनैव
विधिनेकवाक्यत्वम् । तथा च भाष्यकारः । साविधिकमेव भूतिकाम इत्येवमन्तो
विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । तन्नास्य क्रियामात्रतया
विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः ।
विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त
इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् ।
नन्वेवं सति वर्तमानोपदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमे-
वैतत्, तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चम-
लकारेण । अथवा श्रुतवर्तमानस्यान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः ।
यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् ।
संभवन्त्यां तु गतौ, नातिगौरवं युक्तमिति ।
यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति, स आलभेन प्रशस्तत्वा-
दित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुप-
पन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेति-
कर्तव्यतासंबंधैरपि भिद्येत । तस्मान्नायमभिसंबन्धो^१ विवक्षित इत्यादिभाष्य-
मेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिवार-
प्ररोचनाकल्पनायामतिगौरवनििमत्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वे-
णैव प्ररोचनाऽपि सिद्धेत्यभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु
प्रागिति—पूर्वाभिप्रायविवरणम् । न हीति । स्तुत्यभावे तस्य शक्तिद्वयमग-
त्याऽऽश्रीयते न संभवन्त्यामपीत्येतत्, न, तदा भूतिकामस्य विधिः समाप्यत
इत्याह—यथा घट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति । विवृतं
कार्यनानात्वं विधिस्तुत्योः ।
१. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलभते
कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो
विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति ।
तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युद्देशोपलक्षणम् ।
यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथा च विशेष्यविशेषणरूपभिन्नाविमा-
वर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ
तर्हि गौरवलक्षणो वाक्यभेद इति ।
७ ] प्रथमाध्याये द्वितीयपादः ५५
नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः, कस्मादन्यदपेक्ष्यत इति ।
सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ ।
स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापोत्यर्थः । स्तुतिविषयोपकल्पनाच्च
विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादा-
भावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति ।
ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति१ । इदानीं षष्ठी-
वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निर-
पेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यद-
पेक्षते, तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह-यत्रासौ केवलः
प्रयुज्यमानो निरपेक्षः । तत्र भवतु न कश्चिद्विरोधः । इह त न तत्संभवः साका-
ङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकम् । तन्न
यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि
गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽ-
र्थवादा इति ॥ ७ ॥
न्या० सु० ] पूर्वपक्षसिद्धान्तयोर्भिन्नविषयत्वापत्तेरपूर्वोदाहरणानुपपत्तिमाशङ्कते-पूर्व-
पक्षेति । नातिप्रयत्निनं परिहारमाह-केचिदिति । भाष्यकारस्यानिपुणत्वापत्तेरिमं परिहारं
दूषयति—यद्यपीति । स्वमतेन परिहरति—तदभिधीयत इति । अत्र भाष्यकारेण वायुर्वै-
क्षेपिष्ठा देवतेति यद्यपि क्रिया नावगम्यते, क्रियासम्बद्धं वा, तथापि विध्युद्देशेनैकवाक्य-
त्वात्प्रमाणमित्युक्त्वा, कथमेकवाक्यभावः ? इति पृष्टे पदानां साकाङ्क्षत्वाद्दिधेः स्तुतेश्चैक-
वाक्यत्वमित्यभिधानादेकवाक्यत्वं प्रामाण्यकारणम्२, स्तुत्यर्थत्वं त्वेकवाक्यत्वकारणमुक्त-
मिति प्रतिभाति । तच्चायुक्तम्, विध्येकवाक्यत्वं विना लाक्षणिकस्तुत्यर्थत्वायोगादितरे-
तराश्रयापत्तेरित्याशङ्क्य व्याचष्टे—तत्रेति । स्तुत्यर्थत्वोपपादनद्वारेणैकवाक्यत्वस्यो-
पयोगरूपप्रामाण्यकारणत्वमभिप्रेतम्, न साक्षात् । विधिस्तुतिपदसाकाङ्क्षत्वं तु समभि-
व्याहारावगतैकवाक्यत्वनिर्वाहायोक्तमित्यदोषः । तदेतद्भाष्यमाक्षिपति—एतावत्स्विति ।
सामान्यतः पुरुषार्थानुबन्धित्वासिद्धौ तदधीनलाक्षणिकस्तुत्यादिद्वारविशेषनिरूपणाशक्ते-
स्तदेवादौ साध्यमिति प्रथमशब्देनोक्तम् । स्वारसिकैकवाक्यत्वावगमे३ श्रौतार्थत्यागस्य
१. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमव-
गच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियेत । पूर्व-
ग्रन्थविरोधापत्तेरिति ।
२. धर्मप्रमाजनकस्वरूपप्रामाण्यकारणं तदाश्रितम्, ततो धर्मप्रमानुत्पत्तेः ।
३. ननु समभिव्याहारलक्षणैकवाक्यताप्रकृते स्वारसिकी सम्भवतीति चेत् ? विभज्य-
मानसाकाङ्क्षत्वे सत्येकार्थप्रतिपादकत्वं स्वारसिकमेकवाक्यत्वं विवक्षितम् । प्रकृते
त्वर्थवादानां निराकाङ्क्षत्वेन तदभावात् ।
५६ मीमांसादर्शनम् [ सू०
गङ्गायां घोष इत्यादी दर्शनात्तेद्व्युदासार्थं बलादित्युक्तम् । स्वरसतो प्रतीयमानाप्येक-
वाक्यता पुरुषार्थानुबन्धित्वलाभाय स्तुत्यर्थत्वावधारणात्तद्वशेन कल्प्यमाना नेतरेतरा-
श्रयापादिकेत्याशङ्कां निराकर्त्तुं पुरुषार्थत्वं वेत्युक्तम् । पुरुषार्थानुबन्धित्वस्याप्यप्रमाण-
कत्वादिति भावः ।
बहुक्षीरादिवाक्येषु रूपभङ्गेनापि पुरुषार्थपर्य्यवसायित्वदर्शनाद्वेदेऽपि तथानुमानं १
स्यादित्याशङ्कते—लौकिकवाक्येष्विति । आक्षेप्ता पुरुषार्थपर्य्यवसायित्वे साध्ये वाक्यत्वस्य
हेतोरप्रयोजकत्वं दूषणमाह—तत्रेति । एतदेवोपपादयति—लोके ऽपीति । समाधानान्तर-
माशङ्कते—तत्रेति । कथं तेन सूत्रेण पुरुषार्थपर्य्यवसायित्वसिद्धिरत आह—न हीति ।
आदरण्यान्यथानुपपत्तिः पुरुषार्थपर्यवसायित्वे प्रमाणम्, तेन सूत्रेण वक्ष्यत इति भावः । न
च व्यामोहादादरोपपत्तिरित्याह—यद्यपीति एतदेवोपसंहरति-तस्मादिति । एतदप्याक्षेप्ता
दूषयति—न त्वेतदिति ।
नन्वाप्तवाक्यवत्पुरुषाधोनप्रामाण्याङ्गीकरणमपि न दोषाय स्यादत आह—यदि हीति ।
अयमाशयः—किमत्र स्वादरान्यथानुपपत्त्या प्रयोजनवत्त्वकल्पनं स्यात्, पुरुषान्तरादरान्यथा-
नुपपत्त्या वा । तत्राद्ये पक्षे स्वाद्रात्प्रयोजनवत्त्वावगमः प्रयोजनवत्त्वावगमाच्च स्वादर
इत्यन्योन्याश्रयः स्यादित्यनेनोक्तम् । द्वितीये तु मूलप्रमाणाभावेनान्धपरम्परेत्याह—
अथेति । तदेव दर्शयति—सर्वत्र हीति । नन्वादरान्यथानुपपत्त्याध्येतृषु प्रयोजनवत्त्वज्ञाने
कल्पिते तत्कारणीभूतं किं चिन्मूलप्रमाणं कल्पयिष्यामोऽत आह—तेनेति । कस्यचिन्मूल-
प्रमाणस्यासम्भवाद् भ्रान्तिमूलत्वं प्रसज्येतेति भावः ।
कथमसम्भवोऽत आह—अतो यावदिति । एवमाक्षिप्याध्ययनविधिरैव सर्वस्य पुरुषार्थ-
पर्यवसायित्वे प्रमाणमिति स्वमतेन समाधातुमुपक्रमते—तदुच्यत इति । विध्यादिसाधारण्य-
प्रदर्शनार्थं सकलग्रहणं । पूर्वं तावत्सर्वोपयोगः प्रतिपाद्यते । पश्चादर्थवादानां द्वारविशेष
इति तावच्छब्देनोक्तम् । निष्प्रयोजनाक्षरमात्राध्ययनेऽपि बुद्धिपूर्वकारिणां पुंसां प्रवर्त्त-
यितुमशक्यत्वान्नै कस्याप्यक्षरस्य निष्प्रयोजनत्वमध्ययनविधिरनुमन्यते । न चैकदेशे दृष्टार्थ-
स्याद्दृष्टार्थत्वमेकदेशान्तरे युक्तम् । एकत्र नियमविधिः, परत्राप्राप्तविधिरिति वैरूप्यस्या-
परिहार्थत्वात् तस्मात्सकलस्यैव वेदस्य प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिबलाद-
वसीयत इति भावः ।
ननु क्वचिदध्ययनविधेः पुरुषार्थपर्यवसायित्वे सिद्धे सत्यवैरूप्याय सर्वत्र तथाङ्गी-
करणं युक्तम्, तदेव तु निष्प्रमाणकं समानपदोपात्तस्याध्ययनस्यैवभव्यत्वोपपत्तेरित्याशङ्क्य
प्रथमसूत्रोक्तं दृष्टार्थत्वे दर्शयितुमाह—तत्रेति । कस्मिन्नंशे तर्हि तस्य निवेशः, अत आह—
ततश्चेति । साध्यांशानिवेशकारणस्य विधिविरोधस्यात्राभावमविरोधादित्यनेन दर्शयति ।
नामांथंस्य करणांशे निराकर्त्तुं सन्निधेरित्युक्तम् । तेनात्र भाव्याकाङ्क्षायां श्रुतभाव्या-
१. अर्थवादवाक्यं पुरुषार्थपर्यवासायि वाक्यत्वात् बहुक्षीरादिवाक्यवत् ।
७ ] प्रथमाध्याये द्वितीयपादः ५७
भावादश्रुतादृष्टकल्पने च तस्य स्वरूपम्, तज्जन्यत्वम्, तत्र चाध्ययनस्य शक्तिः कल्प्येतेत्य-
नन्तादृष्टकल्पनागौरवापत्तेः, दृष्टस्य जन्यत्वमात्रं कल्पनीयमित्याह—तेनेति । एवं तर्ह्य-
नन्तरदृष्टाक्षरग्रहणमात्रेण नैराकाङ्क्षयान्नाभिमतं वाक्यार्थज्ञानपर्यन्तत्वं सिद्ध्येदित्याशङ्क्य
प्राक् पुरुषार्थसिद्धैर्नेराकाङ्क्ष्याभावं दर्शयति—तस्यापीत्यादिना—निराकाङ्क्षी
भवतीत्यन्तेन ।
आधानादिविधीनामपुरुषार्थरूपााहवनीयादिमात्रे नैराकाङ्क्षयदर्शनादिहापि तथा
स्यादित्याशङ्क्याह—एवमिति । एवं तर्हि न साक्षात्पुरुषार्थपर्यवसाय्येव सर्वत्र फलमस्तु
अत आह—न चेति । पारम्पर्यपुरुषार्थफलत्वेनापि विध्युपपत्तेर्न नियोगतः साक्षात्पुरु-
षार्थफलत्वे किंचित्प्रमाणमस्तीति भावः । एवमपि कथमत्र दृष्टफलत्वनिश्चयः ? अत
आह—योग्यतया हीति । लाघवमनेन निश्चयकारणमुक्तम् । एवं तर्हि होमादावप्याहवनीय-
प्राप्यादिदृष्टकार्यसम्भवाददृष्टकल्पना न स्यात्, वक्तव्यो वा विशेषः, अत आह--तत्रेत्या-
दिना अदृष्टकल्पनेत्यन्तेन । पारम्पर्येणापि तस्य पुरुषार्थानुबन्धाभावात्फलत्वं न सम्भव-
तीति भावः ।
नन्वेवमपि पारम्पर्य्यपुरुषार्थानुबन्ध्र्यक्षरग्रहणमनन्तरदृष्टत्वात्फलं स्यात्, साक्षात्पुरुष-
र्थरूपं वा स्वर्गादि वाक्यार्थज्ञानस्य तूभयरूपरहितत्वात्फलत्वाङ्गीकरणमयुक्तमित्याशङ्क्य
तत्प्रतिपत्त्युपयोगितया सामान्यन्यायं तावद्वक्तुमारभते—सर्वत्र चेति । विहितेऽवघाता-
दावफलात्मकवैतुष्यादिदृष्टकार्यपरम्परायामान्तरालिकं यत्पुरोडाशादि क्रतवे, यागादि
वा पुरुषार्थाय चोद्यते । तदेव तस्य क्रतोः पुरुषार्थस्य वा साधनम् । पूर्वस्य१ त्ववघाता-
दिविधेः पुरोडाशादियागाद्युपकारार्थत्वमात्रम्, न पुरुषार्थपर्य्यन्ततेत्यर्थः । पेषणादीनां तर्हि
कथमन्वयः ? अत आह—यानि त्विति । पेषणादिविधेयानि कार्याण्यनुष्ठेयानि पेषणा-
दीनि, तानि पूर्वविहितस्यावघातादेः स्वव्यापारमात्रतया द्वारमात्रतयान्वीयन्ते, नान्तरी-
यकत्वात्, तैर्विनाऽवघातादिना पुरोडाशादेः कर्तुमशक्यत्वात् । किमिति पेषणादेरवघा-
तादिसाध्यत्वम्, पुरोडाशसाधनत्वं वा नेष्यत इत्याशङ्क्योक्तम्—प्राक् साध्यसाधनभावेना-
चोदितत्वादिति । यदि२ ह्यवघातविधेः प्राक् पेषणादेः पुरोडाशसाधनत्वमवगतं स्यात्,
तत्प्रयोजनवत्त्वेन योग्यत्वादवघातसाध्यत्वं युज्यते । पुरोडाशप्रकृतिभूतव्रीह्युद्देशेन विधा-
नाच्चावघातस्यैव पूर्वं पुरोडाशसाधनतां प्रतीमः । यदि च पेषणादिविधेः प्राक् पेषणा-
देरवघातसाध्यत्वावगमः स्यात् । ततो द्वारमात्रत्वं न युज्येत न त्वेतदस्ति । पुरोडाशस्यै-
वोक्तन्यायेनावघातसाध्यत्वावगमादित्यर्थः ।
३यद्दोत्तरविधिशब्देन पुरोडाशविधिमभिप्रेत्य तस्मात्प्राग्यानि कार्याणीति योज्यम् ।
नन्वेवं तर्ह्यादानानुमितविधिबलेन भस्मसाद्भावस्यापि फलसाधनत्वावगमादश्रुतफलस्य
१. अनुध्यानपेक्ष्येत्यर्थः । २. किमपेक्षया प्रागत आह ।
३. यदा तूतरविधेरिति पञ्चमी तदोत्तरविधिः पुरोडाशविधिः प्रागिति च कार्यपदेन
सम्बध्यत इत्याह—यद्वेति ।
५८ मीमांसादर्शनम् [ सू०
होमस्य तत्साधनत्वापपत्तेर्न दृष्टफलकल्पना स्यादित्याशङ्कयाह—यत्र त्विति । अयमाशयः१
विध्यभावे ऽप्यदग्धस्य क्रत्वर्थस्य कदाचिदुपघाते सति क्रतुवैगुण्यापत्तेस्तत्परिहाराय
दाहादरोपपत्तेर्नैकान्ततो विध्यनुमानम्, विध्यनुमाने ऽपि द्वारमात्रतयापि विध्युपपत्तेर्न
फलसाधनत्वकल्पना युक्तेति ।
एवं सामान्यन्यायमुक्त्वा तदनुसारेण यथाध्ययनविधेर्वाक्यार्थज्ञानपर्यन्तत्वं भवति,
तथा प्रपञ्चयन्नाह—तत्रेति । श्रुतफलेषु क्लृप्तः पुरुषार्थो, अश्रुतफलेषु कल्पयिष्यमाण
इति सर्वाणि प्रधानवाक्यानि अनेन परामृष्टानि । तत्प्रतिपादनं यावदित्यनेनाक्षरग्रहणादीनां
पेषणादिन्यायेनावान्तरव्यापारमात्रत्वादध्ययनफलत्वं निराकृतम् ।
फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता ।
निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यते ॥
इत्यनेन न्यायेन वाक्यार्थज्ञानार्थं स्वाध्यायोद्देशेन विहितस्याध्ययनस्य पुरोडाशार्था-
वघातवद्वाक्यार्थज्ञानार्थत्वावधारणात्तदन्तरालवर्त्तिनामक्षरग्रहणादीनां पेषणादिन्यायेना-
वान्तरव्यापारत्वमात्रं युक्तमिति भावः ।
ननु पुरोडाशस्य विध्यन्तरेण क्रत्वर्थतया फलत्वज्ञानाद्युक्तमवघातसाध्यत्वम्, वाक्यार्थ-
ज्ञानस्य तु कथम् ? अत आह—परतस्त्विति । वाक्यार्थज्ञानस्य सामर्थ्येन, यदेव विद्यया
करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति वाक्येन वा कर्म्मानुष्ठानार्थत्वाव-
धारणात्कर्मणां च विध्यन्तरैः पुरुषार्थफलत्वावधारणात् न तत्पर्य्यन्तमध्ययनविधिरा-
यास्यति इत्यर्थः ।
ननु च भवतु प्रधानवाक्यानां स्वार्थप्रतिपादनमात्रेण पर्य्यवसानमङ्गवाक्यानां त्वर्थ-
द्वारेण, स्वरूपस्यापि मन्त्रवत्प्रधानेऽग्रहणात्कर्मकालप्रयोज्यत्वावगतेनार्थप्रतिपादनमात्रेण
पर्य्यवसानमित्याशङ्कयाह—यानि त्विति । अयमाशयः—न मन्त्राणामङ्गभूतार्थप्रति-
पादनमात्रेण स्वरूपग्रहणं ज्ञातम्, किं तु विधिवशात् । न चाङ्गवाक्यानां विधिरस्ति,
प्रकरणपाठेन च क्रत्वङ्गत्वं शङ्क्यमानमनारभ्याधीतानां तावन्न शक्यते शङ्कितुम्, प्रकरणा-
धीतानामपि प्रयाजादिवाक्यानां प्रमाणाभावान्न सम्भवतीति । एतदेव प्रश्नपूर्वकमुपपाद-
यति—कुत इति । अदृष्टार्थत्वेन क्रतोरदृष्टोपकारापेक्षत्वान्न२ दृष्टार्थाङ्गवाक्यग्राहकत्व-
मित्यर्थः३ । प्रयोजनशब्देनोपकारमाह । न च साक्षात्क्रतुसम्बन्धायापि प्रयोज्यत्वकल्पनं४
१. नन्वादरानुमितविधिविहितत्वं भस्मसाद्भावस्य विद्यत एव कथमुच्यते न किंचिद्वि-
धीययत—इत्यत आह—अयमाशय इति ।
२. वाक्यार्थप्रतिपादनं दृष्टोऽर्थः ।
३. नन्वङ्गानामफलत्वात् कथं प्रयोजनद्वारेणेत्युक्तमत आह—प्रयोजनेति ।
४. प्रयोगकाले पाठकल्पनमित्यर्थः ।
७ ] प्रथमाध्याये द्वितीयपादः ५९
पारम्पर्येणापि पुरुषार्थानुबन्धलाभादित्यर्थान्तरन्यासेनाह—अत इति । अङ्गानां प्रधान-
वाक्यवदेकान्तरितपुरुषार्थान्वयित्वाद् बाह्यत्वम् । तद्वाक्यानां तु द्व्यन्तरितत्वात्प्रधानाद्
बाह्यतरत्वम् । एतच्च द्व्यन्तरितत्वं प्रकरणाधीतारादुपकारकाङ्गवाक्यविषयम्; सामवा-
यिकाङ्गवाक्यानां त्वादिशब्दोपात्तोपनयनादिवद् बहुव्यवधानमित्याह—एवमिति¹ । स्व-
मते पुरोडाशस्यैव साक्षात्प्रधानभूतयागसाधनत्वात्; भाष्यकाराभिप्रायेण द्व्यवदानग्रहणं
व्यवहिततरत्वप्रदर्शनार्थं कृतम् । आदिशब्दो व्रीह्यादित्यादिशब्दोपात्ताज्यादिविषयः चतु-
र्गृहीताचभिप्रायो द्रष्टव्यः ।
एतामेव सन्निधिव्यवधिव्यवस्थामनारभ्याधीताङ्गवाक्येष्वतिदिशति—एवमेवेति ।
कथं तर्ह्यनारभ्याधीतानां प्रकरणाधीतेभ्यो दौर्बल्यमत आह—तत्र त्विति । असम्बद्ध-
वाक्यान्तरव्यवायेन तेषां प्राकरणिकाङ्गवाक्यवत्प्रधानवाक्यैकवाक्यत्वायोगादिति भावः ।
अनङ्गवाक्यानां त्वतिदूरव्यवधानमित्याह—यानि त्विति ।
ननूक्तेन द्वारेण पुरुषार्थानुबन्धिकर्मानुष्ठानोपयोगिवाक्यार्थज्ञानं सर्वविधिवाक्येषु
सम्भवदपि सकलवेदाव्यापित्वान्नध्ययनविधिप्रयोजनं भवितुमर्हतीत्याशङ्क्य सूत्रभाष्य-
कारानुक्तत्वादुपनिषद्वाक्यानां तावदुपयोगमाह—एतेनेति । उपनिषदामपि² आधानादि-
वाक्यन्यायेन दूरस्थेनैव क्रतुफलेन नैराकाङ्क्ष्यमित्यर्थः । कथमित्यपेक्षिते क्रत्वर्थकर्तृप्रति-
पादनद्वारेणेत्युक्तम् । परलोकफलेषु कर्मसु विनाशिदेहादिव्यतिरिक्त नित्यकर्तृभोक्तृरूपा-
त्मज्ञानं विना प्रवृत्त्यनुपपत्तेरहंप्रत्ययेन च देहे ऽपि दृष्टेन स्फुटतया तद्व्यतिरेकस्य ज्ञातुम-
शक्यत्वात् शास्त्रीयमात्मज्ञानं क्रतुविधिभिरपेक्षितं क्रत्वर्थप्रतिपादनम् तस्य चानारभ्य-
विहितस्यापि सामर्थ्येन पूर्वोदाहृतेन वाक्येनोपनिषदाममन्त्रत्वेन स्वरूपप्रयोज्यत्वाभावा-
दुपनिषज्जनितस्यात्मज्ञानस्य फलातिशयलक्षणवीर्यवत्तरत्वहेतुत्वाभिधानपरेण क्रत्वङ्गत्वा-
वधारणात् तद्द्वारेण पुरुषार्थानुबन्धित्वम् । ज्ञानस्य चाव्यापाररूपकत्वेन स्वरूपेणाविधेय-
त्वे ऽप्युपासनापरनामधेयं ध्यानमेवात्मा ज्ञातव्य इत्यादिभिर्विधीयते । अप्रतिपन्नस्वरूपस्य च
ध्यातुमशक्तेरात्मस्वरूपप्रतिपादनमविनाशी वा अरेऽयमात्मेत्यादिभिः क्रियमाणं विध्यपेक्षित-
त्वानार्थवादेष्विवानादरमर्हतीति तद्द्वारेणोपनिषदां पुरुषार्थपर्यवसानमिति भावः ।
एतच्च संसारिरूपात्मप्रतिपादनाभिप्रायम् । असंसारिरूपसगुणनिर्गुणात्मज्ञानस्या-
भ्युदयनिःश्रेयसार्थतया साधुशब्दाधिकरणे वक्ष्यमाणत्वात्सिद्धार्थप्रतिपादनपराणामप्युप-
निषदामुपासनाविधिशेषतया ³चोदनाशब्देनोपादानसम्भवाच्चोदनासूत्रप्रतिज्ञातप्रामाण्य-
१. ननु द्व्यवदानस्याचार्यमते प्रतिपत्तित्वात् कथं यागसाधनत्वमुक्तमत आह—स्वमत इति ।
२. यथाधानादिवाक्यानां क्रत्वङ्गभूताग्निसंस्कारप्रतिपादनद्वारेण पुरुषार्थत्वं तथेत्यर्थः ।
३. चोदनेति ननु चोदनाशब्दस्य मन्त्रार्थवादनामधेयोपेतमहावाक्यत्वमुक्तम् । तत्र
चोपनिषदामनन्तर्भावात्पुरुषार्थौपयिकत्वेन चेत्यग्रिमभक्तिकयार्थवादेभ्यः पृथक्-
करणात् कथं चोदनाशब्देनोपादानम्; कथं वा तत्सूत्रप्रतिज्ञातप्रामाण्यसाधनमिति चेत्,
सत्यम् किं तु कर्तुरितिकर्तव्यतात्वेन सर्वत्र भावनान्तर्गतैरुक्तदोषाभावादित्यर्थः ।
६० : मीमांसादर्शनम् [ सू०
साधनं सङ्गतम् । पुरुषार्थापयिकत्वेन चात्मस्वरूपप्रतिपादने असंसार्यात्मज्ञाननैरा-
काङ्क्ष्यसम्भवात् पदकवाक्यत्वाभावेनार्थवादवैलक्षण्यमिति सर्वमनवद्यम् ।
मन्त्रनाम्नोः केन द्वारेण नैराकाङ्क्ष्यमत आह—मन्त्रेति । योज्यते सम्बध्यते भाव-
नया सहानेनेति व्युत्पत्त्या योजनाशब्देन द्वारमुक्तम् । ननु साध्यसाधनेतिकर्त्तव्यतानभि-
धायित्वेनाक्रियार्थत्वान्मन्त्रादीनामानर्थक्यमाशङ्कितम्, तत्कथं क्रियार्थत्वमव्युत्पाद्यैवार्थवत्त्वं
व्युत्पाद्यते, तत्राह—तेनेति । येन भावनासम्बन्ध्यर्थप्रतिपादनेनैवार्थवत्त्वं वक्ष्यते, तेन
भावनान्तर्गतिः सिद्धैवेत्यर्थः । अर्थवादोपयोगद्वारानभिधाने ऽप्यध्ययनविधिवलेन सामान्यतः
सर्वोपयोगस्य साधितत्वात्सर्वेषामित्युक्तम् । एतच्च सामान्यतः सर्वोपयोगस्यप्रतिपादनम्,
[सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके इति] न्यायाद्विधिना त्वेकवाक्त्वादिति
सूत्रावयवारूढं¹ द्रष्टव्यम्, तत्र तुशब्देनानर्थक्यनिराकरणार्थेनार्थवत्त्वं सामान्यतः सर्वेषां
प्रतिज्ञातम् । श्रुतिवृत्त्या क्रियार्थत्वानवगमे ऽपि क्रियाविध्येकवाक्यत्ववशेन लक्षणया तदपेक्षि-
तार्थप्रतिपादनाक्रियार्थत्वमुपपादयितुं विधिनैकवाक्यत्वादित्युक्तमिति योज्यम् । भाष्यमपि
यद्यपीत्यादिप्रमाणमित्यन्तमेतत्सूत्रावयवव्याख्यानपरमेव योज्यम् । यद्यप्यर्थवादादिभ्यः
श्रुत्या क्रिया, तत्सम्बद्धं वा नावगम्यते; तथापि तत्रैव प्रमाणं विध्युद्देशैकवाक्यत्ववशेन
लक्षणया वृत्त्या तत्परत्वसम्भवादिति ।
एवं सामान्यतः सर्वेषां क्रियार्थत्वमुपपाद्येदानीमर्थवादानां क्रियार्थत्वनिर्वाहाय द्वार-
विशेषं प्रतिपादयितुं यो ऽपि चेत्यादिनोक्तं पूर्वपक्षन्तावदनुभाषते—यत्त्विति । क्रियाप्रति-
पादकत्वं हि क्रियार्थत्वम्, न चार्थवादैराख्यातवत्स्वरूपेणासौ प्रतिपाद्यते, नापि फलादिपद-
वक्तृदंशः कश्चित्साध्यादिः तस्मात्तदर्थस्य भावनांशत्रयानन्तःपातान्न तत्प्रतिपादकत्वं
विनार्थवादानां भावनया ग्रहणमित्यर्थः । एवमनुभाष्य निराकर्तुमाह—तत्रेति । यद्यप्यर्थ-
वादानां विधिवदनुष्ठापकत्वेन न क्रियार्थत्वम्, क्रियाभिधायकत्वं वा, तथापि प्राशस्त्यज्ञा-
पनेनैवानुष्ठापकत्वात्स्वरसतश्च प्राशस्त्याज्ञानादध्ययनविधिवलाल्लक्षणया तादर्थ्यमङ्गी-
कार्यम् । न च प्राशस्त्यज्ञानस्य कर्त्तव्यत्वासिद्धावध्ययनफलत्वं युक्तं रागत्तो विधितो वा
कर्त्तव्यत्वेनानवगतस्य कस्यचित्फलत्वायोगात् । कर्त्तव्यत्वं च भावनान्तर्गत्या विना न
सिध्यतीत्यर्थवादाध्ययनफलत्वोपपत्तये प्राशस्त्यज्ञानस्य कर्तव्यत्वसिद्धयर्थं भावनान्तर्गति-
व्युत्पादयितुमारभते—सत्यमिति । ननु न तावदर्थभावनान्तर्गतिः शाब्दभावनाया पूर्वपक्षः
प्रागस्त्यज्ञानस्य कैश्चिदिष्यते । न च ततोऽन्या शब्दभावना नाम काचिदुपपत्तिं सहते,
शब्दश्रवणानन्तरभाविन्यां हि प्रवृत्तौ हेतुः प्रवृत्त्युत्पादकत्वात् शब्दभावना शब्देनाभिप्रेतः ।
न चासौ कश्चित्सम्भवति । तथा हि—
प्रवर्त्तको लिङादिर्वा तत्क्रिया वा विलक्षणा ।
अभिधा वाऽथवा ज्ञादिः कार्यं वाऽऽयेष्ठहेतुता ।। १ ।।
१. सूत्रेति तत्तच्छावृत्त्या सामान्यविशेषसमाधानपरतया सूत्रं योजनीयमिति ।
७ ] • प्रथमाध्याये द्वितीयपादः ६१
तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्त्तकः ।
प्रमाणत्वं विहन्येत नियमाच्च प्रवर्त्तयेत् ॥ २ ॥
न च स्वरूपसम्बन्धज्ञानापेक्षो भवेन्न च ।
प्रकृत्यान्वयमाकाङ्क्षेन्न च स्यात्फलकल्पकः ॥ ३ ॥
अथ प्रवृत्ति हेत्वर्थस्वव्यापाराभिधानतः ।
प्रवर्त्तकत्वाच्छब्दस्य सर्वदोषनिवारणम् ॥ ४ ॥
तन्न प्रवृत्तिसामर्थ्यात्पादनात्माऽस्य या क्रिया ।
कार्यार्थ्यादिषु दृष्टासावनुक्तैव प्रवर्त्तिका ॥ ५ ॥
तेनाभिधानवैयर्थ्यात्पूर्वदोषनिवारणम् ।
अलौकिकी प्रेरणा तु सम्बन्धानुमवाहते ॥ ६ ॥
अभिधातुमशक्यत्वान्न प्रवर्त्तयितुं क्षमा ।
राजादिवच्च शब्दस्य फलादातृत्वतः स्वतः ॥ ७ ॥
तद्व्यापाराभिधानेऽपि न प्रवर्त्तेत कश्चन ।
पुरुषार्थोपयोगित्वं न लिङादेश्च गम्यते ॥ ८ ॥
येनास्यानुविधेयत्वात्फलकल्पकता भवेत् ।
तस्याप्यानुविधेयत्वे शब्दस्य न तदीयताम् ॥ ९ ॥
अज्ञात्वा व्याप्तेः कश्चित्प्रवर्त्तेताभिधावपि ।
न च शब्दमनुक्त्वैतद्व्यापारत्वं निरूप्यते ॥ १० ॥
स्वरूपवाचितातोऽस्मिन्पक्षेऽनिष्टा लिङां भवेत् ।
अस्तु तर्ह्यभिधानाख्यो व्यापारोऽस्य प्रवर्त्तकः ॥ ११ ॥
तस्य ह्यर्थप्रतीत्याख्यकार्यकॢप्तस्य केवलम् ।
कल्प्यं प्रवृत्तिहेतुत्वं लिङ्वाच्यस्येति लाघवम् ॥ १२ ॥
शब्दान्तरगतार्थेऽस्मिन्नभिधा स्यात्प्रवर्त्तिका ।
पक्षेऽर्थतो विशेषश्चेत्स एव स्यात्प्रवर्त्तकः ॥ १३ ॥
न चास्या अभिधेयत्वाद्विशेषः कार्यतो गते ।
न युक्तं ह्यभिधेयत्वं सर्वासां हि प्रसज्यते ॥ १४ ॥
अथ प्रवर्त्तनात्वेन कार्यादनवबोधतः ।
तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ १५ ॥
तन्नास्या ह्यभिधानात्प्राक् चेत्प्रवर्त्तकरूपता ।
स्याद्व्यर्थमभिधेयत्वं नास्ति चेत्स्यादसत्यता ॥ १६ ॥
आज्ञादिस्तु न वेदार्थः पुंधर्म्मत्वेन युज्यते ।
अथ मानान्तरागम्यनियोगापरनामकम् ॥ १७ ॥
६२ मीमांसादर्शनम् [ सू०
कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् ।
तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥
मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् ।
अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥
प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः ।
अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥
प्राभाकरसम्मतविध्यर्थनिरूपणम्
कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् ।
नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥
नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते ।
काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥
कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् ।
क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥
तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् ।
अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥
अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता ।
अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥
तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा ।
किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥
क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव ।
कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥
तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता ।
तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥
लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति ।
फलस्य प्रवर्त्तकत्वतिरासः
नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥
साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते ।
तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥
नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् ।
अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥
फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना ।
फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥
७ ] प्रथमाध्याये द्वितीयपादः ६३
अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः ।
फलस्य साधनेऽङ्गावातारन्यायात्प्रवर्त्तते ॥ ३३ ॥
ततः साधनबोधात्प्रागप्रवृत्तेः प्रवर्त्तना ।
वरं साधनतैवास्तु न क्लेशात्प्राप्तिरूपता ॥ ३४ ॥
तस्याश्च कर्म्मधर्मत्वात्कर्म्मैव स्यात्प्रवर्त्तकम् ।
प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्त्तकम् ॥ ३५ ॥
साध्यता फलधर्मोऽथ लिङुक्तः सन्प्रवर्त्तना ।
नासौ पूर्वमसिद्धत्वात्प्रवर्त्तयितुमर्हति ॥ ३६ ॥
अथानुष्ठेयरूपं कार्य्यत्वं स्यात्प्रवर्त्तकम् ।
ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्त्तिका ।
सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥
कालसंबन्धतोऽर्थानुष्ठेयत्वप्रतिबन्धनात् ।
तत्राप्रवृत्तिरित्येतत्किं स्यादिति निरूप्यताम् ॥ ३८ ॥
कृत्यात्मभावना या हि न कृतिव्याप्यतां विना ।
जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्त्तकम् ॥ ३९ ॥
अथानिष्पन्नरूपत्वं तदभावेऽपि विद्यते ।
तस्मात्क्रियात्मकं कार्य्यमथ वा तत्फलात्मकम् ॥ ४० ॥
न ताभ्यामतिरिक्तं वा पूर्वमस्ति प्रवर्त्तकम् ।
अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥ ४१ ॥
प्रवर्त्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः ।
शुद्धस्य च लिङर्थत्वे कर्त्तव्यत्वात् प्रतीतितः ॥ ४२ ॥
भवेन्नाकरणे दोषो निष्कामेष्वपि कर्म्मसु ।
न च द्रव्यगुणादीनां क्वचित्स्यादिष्टहेतुता ॥ ४३ ॥
प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः ।
कर्त्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥ ४४ ॥
कर्त्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः ।
नन्विष्टहेतुतामात्रं लिङा तावन्निरूप्यते ॥ ४५ ॥
कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया ।
कर्त्तृ भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥
क्रियायां चाप्रवृत्तस्य कर्त्तृ त्वानुपपत्तितः ।
प्रवृत्तिविषयत्वाख्यं कर्त्तव्यत्वं प्रतीयते ॥ ४७ ॥
एवं तु वर्त्तमानापदेशोऽप्येतत्प्रतीतितः ।
कर्त्तिष्टसाधनत्वस्य तद्बलेनैव कल्पनात् ॥ ४८ ॥
६४ मीमांसादर्शनम् [ सू०
लिङाद्यवाच्यतापत्तेरप्रामाण्यं विधेर्भवेत् ।
प्रवृत्तिविषयत्वं च नेच्छा विषयतां विना ॥ ४९ ॥
युक्तमिच्छाप्रवृत्त्योर्हि परशुच्छिदयोरिव ।
भिन्नगोचरता न्याय्या न हेतुफलभावतः ॥ ५० ॥
अत एवेष्टहेतूनां स्वबुद्ध्या यो ऽयमिच्छति ।
प्रवर्त्तते स तत्रैव नानिष्टेऽपीष्टसाधने ॥ ५१ ॥
तेनेष्टसाधनत्वस्य सद्भावे ऽप्यप्रवृत्तिता ।
प्रवृत्तिव्यभिचारित्वान्न प्रवर्त्तकतोचिता ॥ ५२ ॥
इच्छात्वव्यभिचारित्वाद्भवोत्पुंसां प्रवर्त्तिका ।
स्वरूपसत्तामात्रेण न तु ज्ञानमपेक्षते ॥ ५३ ॥
अथापि ज्ञायमानाऽसौ कारणं स्यात्तथापि तु ।
स्वप्रत्यक्षैकगम्यत्वान्नाभिधानमपेक्षते ॥ ५४ ॥
एतत्सर्वं पूर्वपक्षी मनस्याधाय पृच्छति ॥ ५५ ॥
स्वमतेन विध्यर्थनिरूपणम्
कथमिति । उत्तरमाह—इह हीति । अयमाशयः स्वतन्त्रपुरुषप्रवृत्तिर्द्विधा लोके
दृश्यते । क्वचित्स्वेच्छयार्थेषु स्वार्थः प्रवर्त्तते, क्वचिदन्यप्रेरितः । आचार्यप्रेरितोऽहं
गामानयामि न स्वेच्छयेत्यादिव्यवहारदर्शनात् । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति
प्रवर्त्तयितुम्, तथापि स्वारसिकेच्छाविरहितमपि शिष्यादिकं स्वप्रवर्त्तनाबलेनेच्छामुत्पाद्य
प्रवर्त्तयतीति सर्वसाक्षिकम् । तस्माच्छब्दश्रवणानन्तरभाविन्यां प्रवृत्तावाचार्यदेः प्रवर्त्तना-
ज्ञापनेन¹ प्रवर्त्तकत्वमवसोयते ।
का पुनः प्रवर्त्तना ? प्रवृत्तिहेतुभूतः प्रवर्त्तयितुर्धर्मः ²कश्चिदिति ब्रूमः । स्वातन्त्र्ये
देवदत्त एव मां प्रवर्त्तयति न यज्ञदत्त इति व्यवस्थानुपपत्तेः प्रवर्त्तनाज्ञापनमात्रेण प्रवर्त्त-
कत्वे देवदत्तस्त्वां प्रवर्त्तयतीति प्रवर्त्तनाद्यज्ञदत्तस्यापि प्रवर्त्तकत्वप्रसङ्गः । सर्वत्र लोके
पुरुषस्याचार्यदेः प्रवर्त्तयितुर्द्धर्मोऽहमेनं प्रवर्त्तयामीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः
प्रैषादिरूपो नापह्नोतुं शक्यते । वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्त्तकत्वात्तद्धर्मो भवि-
ष्याति । कथमज्ञातपूर्वेण प्रवर्त्तयितुर्द्धर्मेणाव्युत्पन्नो बालः प्रथमं लिङादेः संबन्धं गृह्णा-
तोति चेत् ? अलौकिकप्रवर्त्तनायां शक्तिग्रहोपायवर्णनां पश्य यदा बुभुक्षितस्य बालस्य
रोदनेन स्तन्यदानप्रवर्त्तनां ज्ञात्वा स्तन्यदाने माता प्रवर्त्तते, तदासौ तस्या मातुः प्रवृत्तेः
कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या स्वप्रवर्त्तनायां कारणत्वं प्रकल्प्य गामानये-
त्यादिवाक्यश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्तिं दृष्ट्वा मातृप्रवृत्तिदृष्टान्तेन तस्यामपि प्रवर्त्तना-
१. स्वप्रवर्त्तनाज्ञापनेनेत्यर्थः ।
२. प्रवर्त्तयितुर्धर्मं इति २ पु० पा० ।
७ ] प्रथमाध्याये द्वितीयपादः ६५
ज्ञानकारणत्वमनुमाय तत्कारणजिज्ञासायां लिङादिशब्दश्रवणानन्तर्यात्तस्यैवान्वयव्यति-
रेकाभ्यां प्रवर्त्तनाभिधानशक्तिं कल्पयद् केन वार्यते ।
तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेनावाच्यत्वात्सर्वानुयायिनः प्रवर्त्तनासामा-
न्यस्य वाच्यत्वेऽवगते, तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्म्माणां वेदेऽनुपपत्तेस्तद्वि-
लक्षणं विशेषान्तरमभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते । अतो गृहीत-
संबन्धतया लिङादिवाच्येन प्रवर्त्तनासामान्ये तद्विशेषस्य प्रेरणाख्यस्य लक्षणयाऽवगति-
सम्भवात् संबन्धाग्रहणमदोषः । तस्य च प्रवर्त्तनासामान्यविशेषत्वेन हेतुना प्रैषादिदृष्टान्तेन
प्रवर्त्तयितृधर्म्मत्वानुमानाद्वेदे च पुरुषाभावात् भावनादेश्च प्रवृत्तिविषयत्वेन तदानीम-
सत्त्वात् प्रवर्त्तकत्वानुपपत्तेः । पारिशेष्याल्लिङादेरेव प्रवर्त्तकत्वावधारणात् दीयत्वसिद्धेनं
लिङादिशब्दस्वरूपाभिधानापत्तिः । प्रवृत्तिविषयत्वस्य च श्रेयःसाधनत्वाक्षेपकत्वेन लिङादेः
पुरुषार्थोपयिकत्वेनानुविधेयत्वात्प्रवर्त्तकत्वाव्याहतिः ।
तस्य श्रेयस्साधनत्वाक्षेपः
कथं श्रेयःसाधनत्वाक्षेपकत्वमिति चेत् ? पश्य, प्रवर्त्तना तावत् प्रयत्नरूपभावना-
विषया सर्वत्रावधार्यते । गामानयेत्युक्ते गवानयने प्रयतमानस्य कुतश्चित्कारणाद् गवानयना-
सिद्धावपि मदाज्ञामयं कृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् इतो ऽपसरेत्योक्ते स्वयमप्रयत-
मानस्य बलात्केनचिदपसारितस्य जातेऽप्यपसरणे, नायं मदीयामाज्ञां कृतवानित्याज्ञप्तु-
र्व्यवहारदर्शनात् । चेतनप्रवर्त्तकत्वाच्च प्रवर्त्तनायास्तस्य च प्रयत्नमन्तरेणान्यत्राप्रवृत्तेः
प्रयत्नविषयत्वसिद्धिः प्रयत्नश्चेच्छाकारणकत्वात् तां विना नोपपद्यते । सा च स्वरसतः
पुरुषार्थ एव स्वर्गपुत्रपश्वादौ भवन्ती साधनमन्तरेण तदसिद्धेस्तत्सिद्धयर्थं तत्साधने २ संक्रा-
मेत् । तेन स्वयमपुरुषार्थस्य यागादेः पुरुषार्थसाधनत्वं विनेच्छाविषयत्वानुपपत्तेः प्रवृत्ति-
विषयत्वासम्भवेन तत्र लिङादेः प्रवर्त्तकत्वायोगात्तन्निर्वाहार्थं पुरुषार्थसाधनत्वाक्षेप-
कत्वसिद्धिः ।
न चैवं ३ पुरुषार्थसाधनत्वावगताविच्छात् एव प्रवृत्तिसिद्धेः कारणकारणत्वेनान्वय-
व्यतिरेकयोरन्यथासिद्धत्वाल्रिङादीनामप्रवर्त्तकत्वं प्रसज्येतेति शङ्कनीयम् । न हि यत्सि-
द्ध्यर्थं यत्कल्प्यते, तेनैव तद्बाधोचिता, कल्पकाभावेनात्मोपमर्द्दप्रसङ्गात् । यथैव च
श्रेयःसाधनत्वाकल्पने प्रवर्त्तकत्वानिर्वाहात् तन्निर्वाहाय श्रेयःसाधनत्वं कल्प्यते, तथैव ४
१. वृत्तेरप्यौपाधिकवृत्तिविषयत्वस्वीकारादित्यर्थः । २. तदिति २ पु० ना० ।
३. इष्टसाधनताज्ञानस्येच्छाजनकत्वात् तद्द्वाराैव वृत्तिरित्यर्थः ।
४. यथा श्रेयःसाधनव्यतिरेकेण विधिना पुरुषो यागे प्रवर्त्तयितुं न शक्यत इति प्रवर्त-
कतानिर्वाहाय तत्कल्प्यते तथा प्रवर्तकत्वनिर्वाहाय विहितरूपेण श्रेयःसाधनत्वं
कल्पयिष्यते अन्यथास्वरूपे सति श्रेयःसाधने इच्छयैव प्रवृत्तेः प्रवर्त्यस्य फलामावात्
विधेः प्रवर्तकत्वं न स्यादित्यर्थः ।
५
६६ मीमांसादर्शनम् [ सू०
स्वरूपेण यागादेः श्रेयःसाधनत्वे सति इच्छयैव प्रवृत्तिसिद्धेर्लिङादीनां प्रवर्त्तकत्वानिर्वाहा-
द्विहितस्वरूपेण श्रेयःसाधनत्वं कल्पयिष्यते । तथा च लोकेऽपि स्वाम्याज्ञामन्तरेण स्वे-
च्छया गवानयनादौ कृतेऽपि न तत्फलं वेतनं लभ्यते । तस्मात्प्रवर्त्तकान्तरासम्भवेऽपि
प्रेरणाज्ञापनेन लिङादेर्वेदे प्रवर्त्तकत्वं सिद्धम् । सा च प्रेरणा प्रवृत्त्युत्पादकव्यापारत्वाद्भाव-
नाशब्देन गीयते, भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धेः । व्यापारत्वं च
तस्याः सिद्धरूपत्वे निर्व्यापारायाः प्रवृत्त्युत्पादकत्वासम्भवेन ज्ञानस्य च ज्ञेयव्यापारत्वा-
योगाद्व्यापारान्तरकल्पनापत्तेर्गौरवपरिहारार्थं कल्प्यते । प्रेषणाध्येष्णादीनामपि पुरुषा-
शयविशेषाणामनेनैव न्यायेन व्यापारत्वाध्यवसानं द्रष्टव्यम् । व्यापारस्य च व्यापारवतो-
ऽत्यन्तभेदाभावाच्छब्दात्मिकेत्युक्तम् । एतामेव शब्दात्मिकां शब्दस्यात्मनो व्यापारं
भावार्थाधिकरणे तत्रार्थात्मिकायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा
द्वितीया । शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते (भा० पृ० ३४४) इत्यनेन
स्वयमेव विवरिष्यति । लौकिकानां प्रवर्त्तनाविशेषाणां पुरुषधर्मत्वेन शब्दात्मकत्वायोगात्
वेदविषयत्वं शब्दभावनाया दर्शयितुमिहेत्युक्तम् । प्रवर्त्तनाविशेषशब्दभावनाविषयभूतायाः
प्रयत्नरूपभावनायास्तत्फलप्रवृत्तिविषयत्वसिद्धयर्थं श्रेयोहेतुत्वाक्षेपकत्वायाऽर्थशब्दाभिधेया-
र्थयितृचेतनधर्मार्थनापरम् पर्य्ययेच्छाद्योनित्वसूचनार्थमर्थात्मकत्वाभिधानमिति सर्वं
मनोहरम् ।
ननु सत्यपि भावनाद्वये कयाऽर्थवादानां ग्रहणम् अत आह—तत्रेति । अनेन च
ग्रन्थेनार्थवादानामर्थभावनांशाप्रतिपादकत्वेऽपि तदनुष्ठापकशब्दभावनाङ्गत्वेनार्थभावना-
ख्यक्रियार्थत्वं दर्शितम् । कथं तया ग्रहणमत आह—सा हीति । सा शब्दभावना यस्मादेवं
वक्ष्यमाणेन प्रकारेण प्रवर्त्तते अध्ययनविधिवशात्कार्य्यत्वेन प्रतीयते, तस्मात्तदङ्गभूतस्य
प्राशस्त्यज्ञानस्य तद्द्वारेण कार्य्यत्वावगमात् साधनापेक्षायामर्थवादानां तत्साधनतयाऽध्ययन-
विधिर्नैव विनियोगाद्दर्शपूर्णमासभावनयैव प्रयाजाद्यङ्गभूतद्रव्यदेवतादेः शब्दभावनया
ग्रहणं युक्तमित्यर्थः । शब्दभावनायास्तु कार्य्यत्वाप्रतीतौ तद्द्वारेण प्राशस्त्यज्ञानस्य कार्य्य-
त्वानवगमात्साधनानपेक्षत्वेन स्वरसतोऽसमर्थानामर्थवादानां लाक्षणिकप्राशस्त्यज्ञानार्थ-
त्वायोगात् तादर्थ्येन तया सहग्रहणं न स्यादिति, तमेव प्रकारं दर्शयति—स्वाध्याया-
ध्ययनविधिनेति । अध्ययनविधिना हि अधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्त्तव्यमिति
शक्त्यनुसारेणाक्षराणि विनियुञ्जानेन लिङादीनि सामर्थ्यात्प्रवर्त्तने विनियुज्यन्ते । तत्र
चैषां प्रवर्त्तयितृपुरुषाभावेन स्वातन्त्र्यात्कर्तृत्वमवसीयते । स्वतन्त्रकर्तृश्चानियुक्तस्य वैध-
विनियोगान्नियोज्यत्वं लिङादीनां कल्प्यते ।
नन्वस्तु नाम विधायकान्तराणामध्ययनविधिनियोज्यत्वम्, तस्य चात्मनि नियोगा-
योगेनात्मना नियोज्यत्वासम्भवात् तद्विषयविधायकान्तराभावाच्च तद्व्यापाररूपायाः
शब्दभावनायाः कार्य्यत्वाभावात्प्रेरणाज्ञानजननमात्रेण कृतार्थतया प्रवृत्त्या ग्राहकत्वाभावे