Skip to content
SarvaKosh
Back to the archive

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished804 pages

About this granth

Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.

This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.

The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.

Page 742Permalink

६८८ मीमांसादर्शनम् [ सू०
इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं
दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा-
द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः
पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य
दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा-
मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग-
भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न
भविष्यत इति ।
तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट-
प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न
तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं
च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा-
भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन
वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य
प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव-
धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा-
वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन-
चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे
प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन
निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥
न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु
क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन
बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति
किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक-
शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं-
लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति
वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं
सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते-
र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य-
सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-

Page 743Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६८९
वायाच्छ्येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवंरूप-
स्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गानेदमभ्युपगत-
मित्यर्थः ।
कस्तर्हि श्येनवचनचोदनार्थ इत्याशङ्कयाह—पिष्टेति । अमी पिष्टपिण्डाः सिंहाः
कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहा-
कृतिसादृश्यसम्पादनं चोदनार्थः तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन
प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वाभावात्तद्वाचित्वे श्येन-
शब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते । श्येनव्यक्तेश्च
यत्नेनानुत्पाद्यत्वेऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च
पश्चाच्छ्रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य—पक्षद्वयेऽपोत्यु-
क्तम् । श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्न्यनाधारत्वायोगानाग्न्याधारानु-
पपत्तेः । 'कर्मण्यन्वाख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वा-
श्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथ-
मस्य श्येनशब्दस्याकृतित्वाचित्वेन निश्चय इत्याशङ्कयाह—सा त्विति । सा सादृश्यसम्पत्तिः
श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्, तस्य च कतिपयविशेषोपादानेन सम्पाद-
यितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्य-
सम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरन्ततःकुशलेनापि सम्पादयितुं शक्यमिति
भावः ।
अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतम्, ततस्त्वस्यैवंविधमिति
निरूपणरूपविकल्पगोचरत्वाभावाज्ञानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथञ्चिच्छ-
क्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविध-
मिति विकल्पगोचरत्वात्सा दृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन
सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपा-
तात्सामान्येनेवोक्तं स्यात् तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेर-
साधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यत इत्याशङ्कयानिर्धारितविशेषया
यया कयाविद्वयक्त्या सादृश्यं (विधीयेत निर्धारितविशेषया वा यया कयाचिदिति
विकल्प्याद्यपक्षे तावद् दूषणमाह--सामान्येति । सामान्यविशेषावच्छेदकत्वेन यज्ञापेक्षते
सादृश्यं१) तत्तयोक्तम् । तच्च व्यक्तिमात्रेऽपि नित्यप्राप्तं सर्वस्य येन केनचित्सा दृश्यावश्यं
भावादित्यर्थः । श्येनव्यक्त्या यया कयाचिदपि तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य
१. अयं पा० २ पु० ना० ।
४४

Page 744Permalink

६९० मीमांसादर्शनम् [ सू०
श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु
यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य
चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति —
तस्मादिति ।
ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ-
वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध-
कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् ।
तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे-
षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न
शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे —
श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या-
शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति ।
श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ
सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं
दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं
पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व-
निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया-
माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय
व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति ।
व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति-
वाच्यत्वं निश्चीयत इति भावः ।
ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि-
शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं
चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं
व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत-
देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति
भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न
शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि
विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु
सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति ।
न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन

Page 745Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६९१
भाष्येणाशङ्क्य सामान्यविशेषरपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्ति-
ष्वापि भावाद् गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनाथं यदीति भाष्यं व्याख्यातुम्—
अव्यपदेश्यत्वेन चेत्युक्तम् । ननु सामान्यविशेषविमुक्तत्वाविशेषेऽप्युगादिशब्दवत्प्रयोगतो
व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः
प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथंचित्प्रयोगसम्भवेऽपि व्यवहारकालीनस्य
प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद् गौर्न पदा स्पृष्टव्येत्यादौ
शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थंप्रतिपादकं
सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम्—सामान्याकारेण वेत्युक्तम् । गौर्न पदा स्पृष्ट-
व्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते, तत्र विकल्पः प्रसज्ये-
तेत्यर्थः । ननु व्यक्तिवाचिनोऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्या-
शङ्क्य—व्यापकेत्युक्तम् । गोत्वैकार्थसमवायिनां शावलेयत्वाद्यवान्तरसामान्यरूपाणां विशे-
षाणां गोत्वव्याप्यत्वाच्चव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दा-
भिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वसाधारणशब्देनोक्तत्वात् व्यक्तिः
परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद् गोत्वा-
पेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकत्वाग्न्यपेक्षत्वेऽपि तदाश्रयस्या-
साधारणस्याग्न्यपेक्षा नास्ति । वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चयेऽप्यनिश्चया-
दिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षेत्युक्तम् । नन्वसाधारण-
रूपेण व्यक्तेः शब्दार्थत्वासम्भवेऽपि शावलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्व-
रूपेण शब्दार्थत्वोपत्तेः कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्कयाह - तत्रेति ।
तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यम्,
तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः,
सम्बन्धानित्यत्वापत्तिः विकल्पप्रसङ्गः, शेषव्यक्त्यानयनापत्तिः । नित्यबहुवचनप्रसङ्ग-
शुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एते च व्यक्त्यभिधानपक्षे,
सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां
वाच्यतेत्याह—न चेति ।
नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य
स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्व्यक्त्याकृत्योर्विकल्पेन, समुच्चयेन वाभिधान-
निरासेनैव निरस्तमित्याह एतेनेति । व्यक्तिविशिष्टाकृतिपक्षोऽपि व्यक्तेर्विशेषणत्वेन
पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह—व्यक्तीति । एतेन प्रयुक्त इत्यनुषङ्गः ।
आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैन्निराकर्तुमाह—
सम्बन्धेति । सम्बन्धसमुदायोरपि वाच्यत्वाभ्युपगमेऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशे-
षणताऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते—स्वरूपेत्युक्तम् । सम्बन्धोऽयम्,
समुदायोऽयमिति स्वतन्त्ररूपेणाप्रतीते। सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायिनिरूपण-

Page 746Permalink

६९२ मीमांसादर्शनम् [ सू०
स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया-
माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह—
व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः
क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या-
कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह—
अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति-
मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त-
तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव-
माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे-
र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष-
सिद्धत्वेनाऽवाच्यत्वस्य ।
नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि-
शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् ।
'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि ।
प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः ।
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥'
इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह—
नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय-
व्यतिरेकाभ्यां गम्यत इत्यर्थः ।
कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः ।
शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति
वाच्यत्वरूपा शक्तिरिति योज्यम् ।
ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका-
कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते-
रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा-
द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या
वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य-
प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् ।
नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः ।
ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व-
सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः

Page 747Permalink

३३ ] प्रथमाध्याये तृतीयपाद। ६९३
स्यादित्याशङ्कयाह—तदेकेति । सामान्यान्तरादवगतिर्निश्चयस्तैः सामान्यान्तरैर्गोशब्दार्थस्य
गोत्वस्य व्याप्तेर्विशेषैश्च साहचर्यं सत्यप्यव्याप्तेस्तेषां सन्देहनिवृत्तयेऽन्यतोऽवधारणा-
काङ्क्षेत्यर्थः ।
एवं सिद्धान्तमुपपाद्य, पूर्वोक्तान् दोषान्परिहर्तुमाह—अत्यन्तेति । आदिशब्दादनित्य-
त्वम् । ननु वस्तुतोऽत्यन्तव्यतिरेकाभावेऽपि शब्दान्निकृष्टावगतेः कथं दोषप्रसङ्गाभावोऽत
आह—सा हीति । कैवल्याभिप्रायो निकृष्टशब्दो न स्वनिष्ठत्वाभिप्रायः । यद्यप्याकृतिः
शब्दाच्छुद्धा प्रतीयते, तथापि क्रियान्वयस्यापि प्रतीतेस्तदन्यथानुपपत्त्या व्यक्तितादात्म्या-
वगमात्सम्भवत्येव क्रियान्वय इत्यर्थः । प्रोक्षणादि तु व्यतिरेकेऽपि सम्भवतीत्याह—
प्रोक्षणेति । क्षरणार्थसिञ्चतिधात्वर्थवाचित्वादुक्षतेः क्षारणस्य चोदकादेरूर्ध्वाधोदेशविभाग-
संयोगमात्रेण सिद्धेराभिमुख्यमात्रेण क्षरणसिद्धेराभिमुख्यमात्रेण च जातेरपि द्रव्यवतत्कर्म-
त्वोपपत्तेः । सिच्यमानस्योदकादेः कर्मीभूतव्रीह्यादिसंयोगानपेक्षणादुञ्जीकृतेषु च व्रीह्य्-
परिस्थितब्रीहितिरोहितानामधःस्थितानां व्रीहीणां सिच्यमानोदकसंयोगाभावेऽपि शास्त्रार्थ-
निष्पत्तिप्रसिद्धेः व्रीह्यादिसंयोगापेक्षायामनुपपत्तेः प्रोक्षणमाकृतेः स्वतोऽपि सम्भवति ।
अवेक्षणं चाकृतेश्चक्षुःसंयुक्तद्रव्यसमवायात्प्रसिद्धमेव । आदिशब्देन ध्यानोपादानम् । किमर्थं
तर्ह्यत्यन्तव्यतिरेकोपन्यास इत्याशङ्कयाह—विशसनेति । प्रतीतिसिद्धत्वाद्राकृतेर्विशसनादि-
योगो न स्वमनीषिकामान्रकल्पित इत्याह--तथा हीति । पश्चादिष्वपनीताङ्गेषु विच्छिन्ना-
वयवेषु या विशसनादिविशिष्टा बुद्धिः सामान्यविषयैव विभक्तैरवयवैः सामान्यमात्रानुमा-
नोपपत्तेः । न तु व्यक्तिविषया व्यक्तिविशेषानुमानासम्भवे तत्तद्बुद्ध्यभावादित्यर्थः ।
नन्वाकृतेर्विशसनादियोगे सत्यत्वप्रसङ्गादनिष्टापत्तिः स्यादित्याशङ्कते—नन्विति ।
विनष्टव्यक्त्यात्मकरूपेणाकृतेरपि विनाशाभ्युपगमान्नानिष्टापत्तिरिति परिहरति—तेनेति ।
नन्वेवं सत्याकृतिपक्षेऽपि सम्बन्ध्नित्यत्वं न सिद्ध्येदित्याशङ्कयाह—आश्रयान्तरेति ।
अत्यन्तव्यतिरेकवादिनाप्युत्तरालेऽनुपलम्भात् स्वपिण्डमात्राश्रिताकृतिरेष्टव्या । तस्याश्चाश्रय-
विनाशे स्थातुमशक्तेरन्यत्र च गमनायोगादवश्याङ्गीकरणापत्तेराश्रयान्तरविनाशादेव
नित्यत्वमेष्टव्यमिति—सर्वैरित्यनेनोक्तम् । एतदेव विवृणोति—तेनेति । नन्वत्यन्तव्यति-
रेकेऽप्याकृतिलक्षितव्यक्तिद्वारेण प्रयोगचोदनोपपत्तेरित्यन्तक्लिष्टभेदाभेदपक्षाश्रयणमित्या-
शङ्कयाह—अत्यन्तेति ।
अव्यवस्थामुपपादयितुमाह—न चेति । ननु पशुनोपलक्षितं द्रव्यं पशुं विशास्तीत्यादि-
धर्म्मविधीनां विषयो भविष्यत्यत आह—तदुपलक्षितं त्विति । द्रव्यरूपताया द्रव्यत्वाप्रति-
पादनं विना प्रतिपादयितुं शक्तेस्तदेव प्रतिपाद्यं स्यात् तत्र स स एव दोष इत्यर्थः । ननु
द्रव्यत्वप्रतिपादनद्वाराप्याश्रयोपलक्षणोपपत्तेर्नापूर्त्तंत्वदोषापत्तिरित्याशङ्कयाह—आश्रयेति ।
ननु पशुत्वेन स्वाश्रयोपलक्षणाद्वाक्यलमात्रेण द्रव्यत्ववदाश्रयपक्षदोषात्तत्त्वनिर्णयफलवादेन
युक्तमित्याशङ्क्य, पशुत्वाश्रयमात्रोपलक्षणे तस्य पश्वाकृतितोऽन्यत्वेनानिरूपणादाकृतेरेव
बलाद्धर्म्मविषयत्वापत्तेराश्रयविशेषस्योपलक्षणं वाच्यम् । तत्त्वव्याप्ते न सम्भवतीत्याह—

Page 748Permalink

विशेषस्त्विति । परानभ्युपगतत्वादनाशङ्क्यत्वाच्च द्रव्यत्वस्येति दृष्टान्ततया व्याख्येयम् ।
अगम्यः ज्ञातुमशक्य इत्यर्थः । आगमगम्य इति पाठस्त्वव्यापकत्वेन लक्षयितुं शक्यत्वादयदि
परमागमगम्यः स्यात् चासावस्तीत्युपहासाथंत्वेन व्याख्येयः । ननु निर्विशेषसामान्यानुपपत्तेः
कस्यचिद्विशेषस्यावसायाद्धर्मविधिविषयत्वं भविष्यत्यत आह-न चेति । प्रत्येकरूपेण
निर्धारितरूपेणानवगतं विधिना न सम्बध्यत इत्यर्थः ।
ननु पशुत्वाश्रयो यो विशेष इत्येवं निर्धारणाद्विधिविषयतोपपत्स्यत इत्याशङ्क्याह—
न चेति । पशुत्वाश्रयाणामनेकत्वात्सर्वेषां चोपादानानाशक्तेरयं वोपादेयः, अयं वेति सन्देहा-
निवृत्तेर्न निर्धारणोपपत्तिरित्यशयः । ननु सामान्यमात्रे पर्यवसितेऽपि शास्त्रेऽनुष्ठानवेलायां
विशसनादेस्तत्रासम्भवात्तदाश्रयविशेषे प्रत्यक्षोपनयनेन निर्धारिते अनुष्ठानं भविष्यतीत्या-
शङ्क्याह—न चेति । यस्मादन्यत्रोक्तो धर्मस्तत्रासम्भवमात्रेणान्यत्र न कार्यतया शास्त्रेणा-
नुज्ञातः तस्मान्न .सामान्ये कृतो विहितो विशेषेषु कत्तुं युक्त इत्यर्थः । किं च प्रत्यक्षैक-
समधिगम्यस्यासाधरणस्य शब्दव्यवहाराविषयत्वान्छुक्लादिरूपो विशेषो वाच्यः यस्तस्य
चामूत्तंत्वात्पशुत्ववदेव विधिविषयत्वासम्भव इत्याह—विशेष इति । उपसंहरति—
तस्मादिति ।
अत्यन्तव्यतिरेकपशे च गौः शुक्ल इति सामानाधिकरण्यं पशुनेति लिङ्गकारक-
संख्यान्वयश्च लक्षणया स्यात् सा च लोके मुख्यत्वप्रसिद्धेरयुक्तेत्याह—सामानाधिकरण्यादि
चेति । ननु यदि पशुं विशस्तीत्यादावन्वयसव्यतिरेकपशे धर्मविधि विषयत्वयोग्या व्यक्तिनं
प्रतीयते, कथं तर्हि भाष्यकृताऽऽकृतिर्व्यक्त्या नित्यसम्बद्धा सम्बन्धिन्ध्यां च तस्यामवगतायां
सम्बन्ध्यन्तरमवगम्यत इति, व्यतिरेकमभ्युपगम्य तदेतदात्मप्रत्यक्षं शब्द उच्चरिते व्यक्तिः
प्रतीयत इति वदत आकृतिवाचिशब्दोच्चारणे व्यक्तिप्रतीतिरुक्तेत्याशङ्क्याह—भाष्येति ।
व्यतिरेकाभ्युपगमेऽनया व्यक्तेर्गतिः प्रतीतिरुक्ता साश्रयत्वमात्रेण, न विशेषरूपेण । न हि
विशेषरूपा व्यक्तिः शब्दात्प्रतीयत इत्यर्थः । अभ्युपगमशब्देन परमताभ्युपगममात्रेण व्यति-
रेकोऽभिहितः न स्वमताभिप्रायेणेति सूचितम् । ननु व्यतिरेकस्यानभिमतत्वे योऽर्थः
सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिरित्याश्रयाश्रयिभावोक्तिनं युज्येतेत्याशङ्कथाह—
योऽपीति । नन्वाकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषेष्यतीति भाष्याद्विशेषलक्षणप्रतीतेः
कथमाश्रयमाश्रयमात्रगति सत्तेत्युक्तम । शङ्कयाह—सामान्याच्चेति । सामान्याद्विशेषस्य
लक्षणं यद्भाष्यकृतोक्तम्, तन्नाश्रयितव्यम् । आश्रयणमादरशं न कत्तंव्यमिति भावे कृत्यं
व्युत्पाद्य व्याख्येयम् । लक्षणानाश्रयितव्येति पाठे साऽनादर्त्तव्या, आक्षेपमात्रस्य भावाद्दि-
शेषस्य त्वाक्षेप्यस्य गम्यस्याव्यभिचारिलिङ्गाभावेनाभावादित्यर्थः ।
यद्वा यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इत्ययं प्रपञ्चो न व्यक्तिप्रतीतिसद्भावविषयः
किं तु किं शब्दात्, आकृतेर्वेत्येतद्विचारविषयत्वेन यथा सिद्धव्यक्तिप्रतीत्यनुवादोऽयमित्याह-
अथ वेति । प्रसङ्गादादितः सोऽन्वयव्यतिरेकाभ्यामिति भाष्यं व्याचष्टे—अन्वयेति । शब्द-
व्यतिरेकेऽप्याकृत्यन्वये व्यक्तिप्रत्ययान्वयप्रतिपादनार्थमन्तरेणापीति भाष्यमुदाहरणनिष्ठतया

Page 749Permalink

३३ ] प्रथमाध्याये तृतीयपादः। ६९५
व्याचष्टे—यो हीति। आकाङ्क्षाशब्देन निर्विशेषसामान्यायोगात् कश्चिदत्र तीक्ष्णमन्दादि-
रग्निविशेषः स्यादिति प्रमाणतो विशेषनिर्धारणाकाङ्क्षा भवतीत्येवम्परत्वेनाबुद्ध्यतेवाऽसौ
व्यक्तिमिति भाष्यं व्याख्यातम् । शब्दान्वयेऽप्याकृतिव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकप्रतिपाद-
नार्थं ‘यस्त्विति’ भाष्यं मनो वै यग्योच्छन्दायंसम्बन्धास्मृती सहकार्यभावाच्छब्दस्यापि
व्यतिरेकापत्तेः । स्मृतौ वा मनो वै अग्य्राभावादाकृतेरप्यन्वयापत्तेरयुक्तमाशङ्क्य द्वेधा
व्याचष्टे—मानसादिति । निष्कृष्टकृतित्वाचित्वनिश्चयात्सामर्थ्यात्मकजाड्यरूपेणापचारेण
सम्बन्धस्मृतावप्याकृत्यप्रतीतिः शीघ्राप्रतीतिर्वा विवक्षितेति भावः ।
ननु यदि गोशब्दात्स्वतन्त्राकृतिः प्रतीयते ततः केन हेतुना गोशब्दस्य शाबलेयादि-
शब्दसामानाधिकरण्यं प्रतीयते, न गोत्वशब्दस्येत्याशङ्कते—केनेति । गोत्वमित्यत्र प्राति-
पदिकवाच्याया जातेर्भावप्रत्ययेन व्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्याप्रतीतिः ।
गोरित्यत्रान्वयव्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्यप्रतीतिरिति विशेषहेतुमाह—
व्यतिरेकांशस्येति । ननु भावप्रत्ययेन व्यतिरेकांशस्य विवक्षायां गोतवांश्छावलेय इत्यपि
सामानाधिकरण्यं न स्यादित्याशङ्क्याह—गोत्ववानिति । यद्यप्यत्र स्फुटो व्यतिरेको
विवक्षितः तथापि प्रकृतिप्रत्ययविभागोपपत्तेर्मतुप् प्रत्ययेन जातिमदभिधानात्तद्वाचिना
शावलेयादिशब्दस्य सामाधिकरण्यं युक्तमिति भावः । स्फुटमितिपाठे स्फुटमिति
क्रियाविशेषणं स्फुटं निष्कृष्टत्वेन गोत्ववाचिनि गोत्वशब्दे यत्र परतो मतुप्प्रत्ययो
भवति, तत्र तेन जातिमदभिधानमित्यर्थः । ननु मतुप्प्रत्ययेनापि व्यक्त्यभिधाने
व्यक्त्यभिधानपक्षोक्ताः सम्बन्धानाख्यातादयो दोषाः प्रसज्येरन्नित्याशङ्क्याह—
सामान्यस्य वेति । जातिमदभिधाने प्रमेयान्तर्गतत्वेन व्यावर्तकत्वाज्जातेर्विशेषणत्वेऽपि
विशिष्टवाचिना प्रत्ययेनानुपादानादुपलक्षणत्वोक्तिः । ननु गौरित्यत्राव्यतिरेकांशविवक्षायां
जातिव्यक्त्योरभेदात् व्यक्तैर्वा गोशब्दो वाचको जातेर्वेति चिन्ता न युज्येतेत्याशङ्क्याह—
भेदानामिति । अयं विचार्यत्वेन प्रकृतो गोशब्दः पक्षद्वये भेदानां व्यक्तीनामेव वाचकः ।
सामानाधिकरण्याद्यन्यथानुपपत्तेरिष्यते । स्वरूपेण व्यक्तिर्वाच्या नान्यात्मना वेत्येतावत्तु
विचारार्थः । व्यक्तिवाचित्वेऽपि व्यक्त्यन्तरे प्रयोगोपपादनार्थम्—सर्वेषामित्युक्तम् ।
नन्वेवं सत्यानन्त्यात्सम्बन्धग्रहणानुपपत्तिरित्याशङ्क्य—प्रत्येकमित्युक्तम् । समुदितानां
वाच्यत्वे सम्बन्धग्रहणासम्भवः स्यात् नान्योन्यनिरपेक्षाणां वाच्यत्वे जात्यात्मना चैकेन
नित्येन रूपेण वाच्यत्वान्न शक्त्यानन्त्याद्यापत्तिरिति भावः । ननु गोशब्दोच्चारणे व्यक्ति-
विशेषानिर्धारणाच्च व्यक्तेर्वाच्यत्वं युक्तमित्याशङ्क्याह- यस्त्विति । व्रीहीन्प्रोक्षतीत्यादा-
वुद्दिश्यमानेषु व्रीह्यादिषु प्रकृतापूर्वसाधनव्यक्तिविशेषनिर्णयान्न सन्देहाशङ्का व्रीहिभिर्य-
जेतेत्यादावुपादीयमानत्वेऽप्यन्यजातीयव्यक्तिभ्यो व्रीहिजातीयानां व्यावृत्तिप्रतीतेर्व्रीहि-
जातीयैव व्यक्तिरित्यस्त्येव निर्णयः । सर्वासां तूपादानायोगात्कियतीनामुपादेयतेति संख्या-
श्रयमात्ररूपसन्देहः न व्यक्तिरूप इत्यर्थः ।
अधिकरणोपक्रमे जातिशब्दा एवाऽत्र विद्यन्त इति यदुक्तम् तत्परमतेनेति द्योतयितुं
तस्माद् गौरश्व इत्येवमादय इत्युपसंहारभाष्यं स्वमतेन नामाख्यातरूपद्विविधपदविषयत्वेन

Page 750Permalink

६१६ मीमांसादर्शनम् [ सू०
व्याचष्टे—गवादीति । गुणक्रियाशब्दोपसंग्रहार्थः सर्वशब्दः विचारप्रयोजनमाह—प्रयोजन-
मिति । पूर्वपक्षविशेषणसामर्थ्यात् सिद्धान्ते बाध इत्युक्तं भवति । वर्णकान्तरस्वाभावेऽपि
पूर्वव्याख्याप्रकारे केनचिद्दूषणक्षेपदोषेणाप्रसन्नाभिधानाच्छिष्यक्लेशपत्तेः । सुखप्रतिपत्त्यर्थं
प्रकारान्तरमारभते—एवं वेति । प्रासङ्गिकत्वेन तावत्सङ्गतिमाह—गौरिति । विचार-
विषयं बोधयति—चतुर्विध इति । संशयोत्पत्तिरित्यनेन यावकादिद्रव्यशब्दानां देवदत्तादि-
यदृच्छाशब्दानां सर्वादीनां च सर्वनामशब्दानां व्यक्तिवाचित्वेन निश्चयात्संशयानुपपत्ते-
र्निपातोपसर्गवद्विचारविषयत्वमस्तीति सूचितम् निपातोपसर्गयोर्जातिव्यक्तिवाचित्वसंशया-
नुपपत्तौ हेतुमाह—तयोरिति । अभ्युपगम्यापि वाचकत्वमन्वित्यादिषूपसर्गेषु पश्चादित्यादिषु
च निपातेषु पदान्तरान्वयात् पूर्वं कस्यचिद्गार्थंस्याऽप्रतीतेः पदान्तरान्वये च विशेषस्यैव
प्रतीतेः । सन्देहानुपपत्तिमाह—वाचकत्वेऽपीति । पाश्चात्यशब्दान्तर्गतः पश्चाच्छब्दोऽत्रोदा-
हरणं संशयेन ज्ञाप्यते न विषयीक्रियत इत्यर्थः । एतदेव विवृणोति—यदोति । ननु
पौनरुक्त्यापत्तेर्नैतस्यातं विचार्यमित्याशङ्कते—आख्यातव्यापीति ।
अत्र प्रकृत्यर्थः तत्र प्रत्ययार्थ इति पुनरुक्ति-परिहारः
ननु द्वितीयाध्याय्याद्येऽधिकरणे द्रव्यादिशब्देभ्योऽपूर्व मावशब्देभ्यो वेति विचारान्नाख्या-
तार्थविचारणेत्याशङ्कयाह—कः पुनरिति । अन्यार्थेऽप्यधिकरणप्रसङ्गाद्भाष्यकृतार्थ-
निरूपणात्पौनरुक्त्यं भवतीत्याशयः । तत्र प्रत्ययार्थचिन्तेव प्रकृत्यर्थचिन्तेति परिहरति—
प्रत्ययार्थस्येति । आश्रयं तु प्रत्ययार्थविचारे पौनरुक्त्यं परिहर्तुमशक्नुवतां परिहारे
इत्यपरितोषादन्यथा स्वमतेन परिहरति -- प्रकृत्यर्थेति ! प्रत्ययार्थस्य प्रकृत्यर्थाद्विवेकायेह
सिद्ध एव प्रकृत्यर्थस्तत्र वक्ष्यत इत्यर्थः । ते च यागदानहोम सम्बद्धा इत्यादिना प्रकृत्यर्थस्य
यागस्य भाष्यकृता स्पष्टीकृतत्वात् भाष्यकारेणेत्युक्तम् । ननु सूत्रकारानुक्तिसूचनार्थं तेनापि
कर्मशब्दपदेन प्रकृत्यर्थस्योक्तत्वात् । अयमपि विषयभेदं वक्तुमशक्नुवतां परिहार इत्य-
परितोषात्स्वमतेनान्यथा परिहरति--यज्याद्यर्थेऽपि वेति । सामान्यविशेषयोर्मध्ये इति
निर्धारणे षष्ठी प्राप्तेतीहावसरप्राप्त्युक्त्या तत्रासङ्गतत्वात्सामान्यविशेषविचाराभावः
सूचितः ।
प्रासङ्गिककथया चैतत्पौनरुक्त्यं परिहृतम् । प्रधानचिन्तया तु पौनरुक्त्यशङ्कव
नास्तीत्याह—अपूर्वमिति । अतोऽत्र युक्ता द्विविधस्य पदस्यार्थचिन्तेत्युपसंहरति-नामेति ।
गोसदृशो गवयः इति जातौ गोशब्दप्रयोगाद् गौरानय इति च व्यक्तौ प्रयोगाच्च गोशब्दो-
च्चारणाच्चोभयप्रतीतेर्वृद्धव्यवहारस्योभयत्र तुल्यत्वं शब्दलक्षणे महाभाष्यकारेण किं
पुनराकृतिः पदार्थः, आहोस्विविद् द्रव्यमिति पृष्ट्वोभयमित्याहेत्याकृतिपक्षवद्व्यक्तिपक्षस्याप्य-
भिधानाच्च शास्त्रस्याप्युभयत्र तुल्यतेति, द्वेधा सन्देहहेतुमाह -- प्रयोगस्येति । भाष्योक्त-
सन्देहहेतुनिरासार्थमस्माद्धेतुद्वयादेव—संशयो न प्रतिभातीत्युक्तम् । ननु यदि सामान्य-
प्रत्ययाद्व्यक्तौ च क्रियासम्भवात्सन्देहः स्याद्, ततः प्रतीयमानाया आकृतेरक्रियार्थत्वात्
क्रियार्थायाश्च व्यक्तेरप्रतीतेर्वाक्यार्थौपयिकपदार्थासम्भवाद्द्द्यक्तिवाच्यत्वपूर्वपक्षस्याकृतिवाच्य-

Page 751Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६९७
त्वासम्भवप्रतिपादनमात्रपरत्वात्पूर्वपक्षे वेदाप्रामाण्यम्, सिद्धान्ते चाकृतेरपि क्रियार्थत्वा-
द्दाक्यार्थौपयिकत्वोपपत्तेर्वेदप्रामाण्यमिति प्रामाण्याप्रामाण्यफलत्वात्प्रमाणलक्षणसङ्गतेयं चिन्ता
स्यात् । व्यक्त्याकृत्योस्तु प्रतीतिप्रयोगतुल्यत्वे पक्षद्वयेऽपि प्रामाण्याविशेषात्कथं तल्लक्षण-
सङ्गतिः । प्रतीतिप्रयोगतुल्यत्वेनैव च व्यक्तिवाच्यत्वस्मृतेरपि समूलत्वोपपत्तेरेतत्पादगतेन
स्मृतिमूलविचारेणापि कथं सङ्गतिः स्यादित्याशङ्कते-कथमिति । पादानामेकार्थ्य-
नियमाभावान्नावश्यं सर्वत्र पादसङ्गतिरपेक्षणीया एकप्रकरणगतानां त्वधिकरणानां प्रकरण-
प्रतिपाद्यैकार्थान्वयाय प्रकरणसङ्गतिरवश्यापेक्षणीयेति मत्वा-प्रकृते न वेत्युक्तम् । स्मृति-
मूलविचारो ह्यस्मिन्पादे प्रकरणार्थः । तथा हि-
स्मृतीनां श्रुतिमूलत्वं विरोधे भ्रान्तिमूलता ।
उक्तोपवीतस्मृत्यादवविरोधं निरूप्य च ॥
आर्यैर्विरोधे म्लेच्छानां शब्दार्थविषयस्मृतेः ।
भ्रान्तिमूलमसत्त्वेऽस्य पिकादौ लोकमूलता ॥
मूलापेक्षां च कल्पादेरव्यवस्थितगोचरम् ।
होलाकादिस्मृतेर्मूलमुक्तं शब्दस्मृतेरपि तत्प्रामाण्यमूलत्वप्रासङ्गिकत्वेनास्याश्चिन्तायाः
पूर्वचिन्ताया लक्षणप्रकरणप्रसङ्गस्यैवास्या अपि तद्द्वारेण सङ्गतिलाभान्न पृथक्सङ्गत्य-
पेक्षेति परिहरति-द्वयमिति । ननु यदि कस्मिन्नर्थे गोशब्दस्य साधुवेत्यनेन प्रसङ्गेनास्य
विचारस्यावान्तरस्तुतेरर्थनिरपेक्षस्य साधुत्वस्य निरूपयितुमशक्यत्वाद्द्द्व्यक्त्याकृतिचिन्तैव
पूर्वं प्रसज्येतेत्याशङ्कते - वक्तव्य इति । सास्नादिना शब्दस्य साधुवाच्ये इत्येतावति ज्ञाते
व्यक्त्याकृतिविवेकाज्ञानेऽपि साधुत्वं निरूपयितुं शक्यमिति परिहरति-अनिश्चितेऽपीति ।
एतदेवं विवृणोति-वाच्येति । पूर्वापवादत्वेन चास्य सङ्गतिरिति परिहारान्तरसापेक्षत्वेऽपि
किं विचार्यत इत्यपेक्षायामाह - व्यक्तिरिति । अस्मिंश्च पक्षे त्रिविधापि सङ्गतिः
साक्षादेवेत्याह-- स्मृतेरिति ।
प्रयोजनाभावेनाधिकरणारम्भमाशङ्कते - ननु चेति । शब्दार्थशब्देनाकृतिर्विवक्षिता,
प्रोक्षणादेः क्रिया, ब्रह्महत्यादेश्चाक्रिया पक्षद्वयेऽप्याकृतावसम्भवाद्द्द्व्यक्तावेवेत्यर्थः । वेदे
प्रयोजनाभावेऽपि, लोके प्रयोजनं भविष्यतीति तावत्परिहरति - यद्यपीति । किं फलमित्य-
पेक्षायामाह - व्यक्तीति । लोकव्यवहारस्य प्रमाणान्तरानुसारित्वात्तदर्थं शब्दार्थतत्त्व-
चिन्तानर्थक्यापत्तेर्वेदार्थनिर्णयानौपयिकत्वाच्च शास्त्रसङ्गत्यभावापत्तेरपरितोषात्स्वमतेन
प्रयोजनमाह-वेदेऽपि चेति । हेत्वपेक्षायामुदाहरणद्वयमाह - व्रीहीति । भेदो-विशेषः ।
आद्योदाहरणे विशेषं विवृणोति-प्रोक्षणमिति । सन्निधिरूपं क्रमं बाधित्वेत्यर्थः । द्विती-
योदाहरणं विवृणोति-एवमिति । 'यदाहवनीये जुहोति, पदे जुहोतीत्यादिसामान्यविशेष-
शास्त्रयोः पूर्वपक्षे विकल्पः, सिद्धान्ते सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्याद्यपि
प्रयोजनमित्याह-सोपपत्तिकमिति । उपसंहरति-कृतं ध्येति ।

Page 752Permalink

पौनरुक्त्यमाशङ्कते-नन्विति । गौरिति शब्द आदिर्यस्य, तस्य गौरित्यस्य शब्दस्य
कोऽर्थ इत्यस्य भाष्यस्य, तस्मिन्नित्यर्थः । आद्यपादस्थे भाष्ये विचारितमित्यर्थः । तत्र
प्रतिज्ञायामिहानुपपत्तिरिति तावत्परिहरति आकृतिरिति । यथा चाकृतिश्शब्दार्थः तथा-
कृतिस्तु क्रियार्थत्वादित्यत्र निपुणतरमुपपादयिष्याम इत्याकृतिवादान्ते भाष्यकृताप्येव-
मेवोदितमित्याह-यथा चेति । विषयप्रदर्श नार्थत्वात्प्रतिज्ञाया हेतुं विनानर्थक्यापत्तेरि-
हापि चाकृतिः शब्दार्थ इति प्रतिज्ञायाः पौनरुक्त्यापत्तेरेतत्परिहारेष्वपरितोषात्स्वमते-
नान्यथा परिहरति-यद्वेति ।

नन्वेवं सत्याकृतेः शब्दार्थत्वोक्तिस्तत्रत्या कथमित्याशङ्क्य सद्भावप्रतिपादनायैव ।
प्रकृतानुपयोगप्रसङ्गाच्च साक्षाद्वाच्यत्वोपक्रमस्तत्रेत्याह-या त्विति । चिन्ताविषयत्वेन
नोक्तेत्यर्थः । प्रतिज्ञामात्रेणाकृतिवाच्यत्वासिद्धेरनभिमतमपि परिहारान्तरं विभवार्थमाह-
उक्ते वापीति । व्यक्त्याकृतिचिन्तामुपक्रम्य भाष्यकृता लौकिकवैदिकशब्दार्थभेदाभेदचिन्ता
कृता । तस्याः प्रकृतोपाद्घाताथंत्त्वेन सङ्गतिमाह-एतद्विति । ननु संख्याभावादित्यनेन
न्यायेनाभेदस्य सिद्धत्वात्पुनः कोऽयं विचारः स्यादित्याशङ्कय, लौकिकशब्दाभेदेऽपि, वैदि-
कानां रूपभेदाद्व्यपदेशभेदाच्च भेदशङ्कोपपत्तेस्तन्निराकरणार्थोऽयमारम्भ इति । संशय्यते
अस्मिन्नित्यधिकरणव्युत्पत्त्या संशयविपर्यंयप्रतिपादकेन-संशयशब्देनोक्तम् । उपोद्घात-
त्वमेव विवृणोति - एकत्वे सतीति । लौकिकवैदिकयोः शब्दयोर्वाच्ययोश्चैकत्वे सति लोक-
व्युत्पन्नाद्वैदिकाद् गोशब्दाद् व्यक्त्याकृतिरूपत्वादिपदार्थप्रत्ययोत्पत्तौ कोऽर्थो वाच्यः, को वा
गम्य इति सन्देहाद्विचारः कार्यः । भेदे व्युत्पत्त्यभावेन वैदिकाच्छब्दादर्थप्रतीतेः सन्देहा-
भावान्न चिन्तावसर इत्यर्थः ।

ननु लोके सन्देहसम्भवाच्चिन्ता भविष्यतीत्याशङ्क्याह-शब्दार्थनेति । वेदे तु
शब्दविषये, अर्थविषये च 'य एव लौकिकः शब्दोऽर्थश्च स एवायमिति प्रत्यभिज्ञाने सति
लोकव्युत्पन्नाद्वैदिकाच्छब्दार्थप्रतीतेः कोऽर्थो वाच्यः, को वा गम्य' इति विवेक्तुं शक्यम् ।
अलौकिके तु वैदिके शब्देऽर्थे वाचकत्वाज्ञानाद्वाच्यविषयः सन्देह एव न स्यादिति पूर्वोक्त-
मेव विवृणोति-वेदे त्विति । उपसंहरति-तेनेति ।

संशयशब्दसूचितं पौनरुक्त्यपरिहारं वक्तुमाशङ्कते-तावत्संख्येति । न हेवन्तरा-
भिधित्सया पुनरारम्भस्तस्यानुक्तत्वादित्याह-अभेदेति । ननु न 'प्रयोगचोदनाभावादिति
हेवन्तरमप्युक्तमित्याशङ्कयाह-अन्येष्विति । शङ्कामुपसंहरति - तेनेति । परिहरति -
लौकिकेष्वेवेति । ननु वैदिकेषु काऽधिका शङ्केत्यपेक्षायामाह-व्यपदेशादेरिति । रूपभेदो
लिङ्गं चादिशब्देनोपात्तम् । अर्थभेदाभेदचिन्तायास्तु पौनरुक्त्याशङ्कव नास्तीत्याह -
एकत्वेऽपि चेति । न च शब्दैक्यमात्रेण प्रकृतचिन्तासिद्धिर्येनार्थैक्यमचिन्त्यं स्यादित्याह-
अर्थेति । शब्दाभेदे सत्यपि यद्यर्थभेदः स्यात् ततो व्यक्त्याकृत्योर्द्वयोर्मध्ये कस्य वाच्यतेतीयं
चिन्ता घटते, न शब्दैक्यमात्रेणेत्यर्थः । सन्देहहेतुमाह-व्यपदेशादीति । उभयविषय-

Page 753Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६९९
प्रतिज्ञापूर्वकं शब्दभेदामवाहहेतूनाह—किं प्राप्तमिति । आख्यायाः शब्दस्य यल्लक्षणम्,
तस्य भाषायाम्, छन्दसीति चोपबन्धेन भिन्नत्वादित्यर्थः । अर्थभेदे हेतुमाह—अश्व-
बालादिति ।
नन्वग्निवृत्राणीति भाष्ये वृत्रहननादिक्रियाभेदो हेतुः प्रतीयते, स किमित्युपेक्षित
इत्यपेक्षायामर्थभेदे हेतुत्वं तावन्न सम्भवतीत्याह—अग्न्यादीनां चेति । नन्वग्निसरूपा-
भेदेऽपि वृत्रहन्तृत्वविशिष्टस्य वैदिकाग्निपदवाच्यत्वादर्थभेदो भविष्यतीत्याशङ्क्याह—
हन्तीति । वृत्रहन्तृत्ववैशिष्ट्यस्य वाक्यार्थत्वेनाऽशब्दवाच्यत्वान्न वैदिकाग्निशब्दवाच्यता
युक्तेत्यर्थः । हन्तृत्वे च प्रमाणाभावान्न तेनापि रूपेणान्यत्वं युक्तमित्याह—हननमिति ।
न च यो वृत्रहन्ता, सोऽग्निरिति वचनव्यक्त्यार्थान्यत्वसिद्धिर्वृत्रशब्दार्थस्य जघ्ननदिति च
क्रियाशब्दस्यालीकत्वेनैवंविधवचनव्यक्त्यसम्भवादित्याह—अपूर्वमिति । देवतायाश्च
विग्रहाभावस्य नवमे वक्ष्यमाणत्वेन क्रियया वृत्रहननायोगान्मन्त्रस्य स्तुतिमात्रार्थत्वावगतेनं
वृत्रहन्तृत्वानुवादेनाग्निशब्दवाच्यत्वविधियुक्त इत्याह—स्तुतीति । कथमक्रियेत्यपेक्षायाम्—
भाष्योक्तेरित्युक्तम् । कानि तानि वाक्यानीत्यपेक्षायां नावमिकदेवताधिकरणोक्त--
युक्तिपरामर्शार्थमितीत्युक्तम् । अतोऽश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनादित्येवैवार्या-
न्यत्वे युक्तिरित्युपसंहरति—तेनेति । शब्दभेदहेतुत्वं तु क्रियाभेदहेतुत्वेऽप्यनाशङ्कय-
मेवेत्याह तच्चेति । अथ भेदकारितोऽपि शब्दभेदो न भवति, किमुत तद्गुणभेदकारित
इत्यर्थः भाष्यस्य र्तिह का गतिरित्यपेक्षायां भाष्योक्तं रूपान्यत्वं स्वशब्दिभेदामिप्रायं
व्याख्येयमित्याह—तेनेति । पूर्वपक्षोपसंहारपूर्वकं सिद्धान्तप्रतिज्ञां करोति तस्मादिति ।
प्रतिज्ञाक्षिप्तमेव तावद्धेतुमाह—वेदस्यैवेति । प्रसज्यतामित्येवं वादिनम्—प्रति
प्रसज्येतेत्युक्तम् ।
प्रयोगचोदनाभावादिति सौत्रं हेतुं प्रयोगस्य, चोदनायाश्चाभावादित्येवं व्याचष्टे—
प्रयोगस्येति । चोदनायाः कथमभाव इत्यपेक्षायाम्—प्रत्ययार्थस्येत्युक्तम् । अर्थान्तरे
शब्दप्रयोगविषयायाश्चोदनाया विधेरभावादित्येवमन्यथा व्याचष्टे—अर्थान्तरे चेति कस्माद्वेदे-
नाऽर्थान्तरे शब्दप्रयोगो न विधीयते इत्यपेक्षायां, गुणाद्वाप्यभिधानं स्यात् सम्बन्धस्याशास्त्र-
हेतुत्वादिति३-२-४त्यैन्द्राधिकरणसूत्रावयवोऽर्थः पठितः । वचनान्वयार्थमैन्द्री स्यादिति
सूत्रेणेन्द्रचा गार्हपत्यमुपतिष्ठत इति श्रुतिबलेनेन्द्रचा गार्हपत्योपस्थानाङ्गत्वे विहिते श्रुत्या-
प्यशक्तविनियोगासम्भवात्कथमिन्द्रशब्देन गार्हपत्याविधानमित्यपेक्षायां गुणयोगेनेति
पूर्वावयवेनोक्तम् । नन्विन्द्रशब्दस्य गार्हपत्याभिधानशक्तिप्रदर्शनाथमेवैतद्वचनं कस्मान्न
भवतीत्याशङ्क्य, शब्दार्थसम्बन्धस्य वृद्धव्यवहारावसेयत्वेन शास्त्रहेतुत्वाभावादित्यने-
नोक्तम् ।
अविभागादिति सूत्रावयवो न तेषामेषां विभागमुपलभामह इति भाष्येण शब्दप्रत्यभिज्ञा-
भिधानार्थत्वेन तांश्चार्थानवगच्छाम इत्यनेन चार्थप्रत्यभिज्ञानाधानार्थत्वेन व्याख्यातः । तदु-
मयमपि यथाक्रममनुसन्धत्ते—किं चेति । शब्दलक्षणाविभागादित्येवं स्वयमन्यथा व्याचष्टे-

Page 754Permalink

७०० मीमांसादर्शनम् [ १ सू०
लक्षणस्येति । ननु कतिपयलक्षणाविभागेऽपि भाषायां छन्दसीत्युपबन्धेनोक्तानां लक्षणानां
भेदात्कथं सर्वशब्दैक्यसिद्धिरित्याशङ्क्याह - सर्वथेति । भिन्नलक्षणानां शब्दानाम्,
अश्वबालाद्यर्थानां च भेदस्य सिद्धान्तिनाऽपीष्टत्वादितरशब्दार्थानामैक्यं साध्यम्, तेषां
चोक्तैर्हेतुभिर्न भेदः शक्यो वक्तुमित्यर्थः । याज्ञिकानां च गवादिविधौ लौकिकैरेव सास्ना-
दिमदर्थैर्व्यवहारान्मीमांसायां च लोकव्युत्पत्त्यनुसारेण वेदार्थनिर्णयादुभयानुग्रहार्थं
लौकिकवैदिकशब्दार्थानामैक्यमाश्रयणीयमित्याह - एकत्वेति । मीमांसा चानुगृह्यत इत्यनु-
षङ्गः । अविभागशब्देनोक्तं प्रत्यभिज्ञानमेव पूर्वपक्षोक्तानां हेतूनां कालात्ययापदिष्टत्व-
लक्षणदोषाभिधानार्थत्वेन व्याचष्टे - व्यपदेशादेरिति । आदिशब्देनाख्यालक्षणस्वरोपादानम् ।
ननु व्यपदेशादिभेदेन तदवच्छिन्नात्मनां भेदस्यावश्यकत्वात्कथं न भेदानुमानमित्याशङ्कया-
न्यरूपतेत्युक्तम् । रूपिणः स्वरूपतोऽन्यता, रूपान्यता । अत्र भेदानुभेदे विचारे यो व्यपदेशा-
दिभेदैरैक्यरूपतालक्षणो भेदोऽनुमीयते स तु न युक्तः वैदिकशब्दे प्रत्यक्षप्रत्यभिज्ञानादित्यर्थः ।
भेदादेरिति पाठे द्वितीयेनादिशब्देन लोपागमव्यत्ययोपादानम् । अन्यनिबन्धनत्वादपि
व्यपदेशभेदो रूपभेदो वा न भेदानुमानायालमित्याह व्यपदेशादेरिति ।
नन्वेवमपि पदावधारणोपायतत्प्रकृतिश्छन्दसि स्मृतयः ।
क्रमन्यूनातिरिक्तत्वस्वरवाक्यस्मृतिश्रुती ॥
इत्यनेन न्यायेनाऽऽचारादिभेदेन च भेदो भविष्यतीत्याशङ्क्य आह-स्वरादयश्चेति ।
अभिधानाङ्गभूतस्वरादिभेदोऽभिधायकपदभेदहेतुत्वेन तत्रोक्तः । अग्निवृत्राणि जङ्घन-
दित्यादिषु तु स्वरनियमस्य, व्योमन्नित्यादिषु च वर्णलोपस्य, देवास इत्यादिषु
आगमस्य, अगृभ्णन्नित्यादिषु विकारस्य, स्वाध्यायविध्यपेक्षितवेदत्वसिद्धयर्थं त्वदृष्टार्थो-
पयोगितयाऽभिधानाङ्गत्वभावात्राभिधायकभेदावधारणोपायताऽस्तीत्यर्थः ।
यत्तु स्वरयूपादिसपष्टभेदशब्दसाहचर्यं गवादिशब्दे भेदहेतुत्वेनोपन्यस्तम्, तन्निराकरणार्थं
विभागशब्दोक्तशब्दप्रत्यभिज्ञानं योजयति - सर्वत्रेति । अनध्यायादिधर्मभेदस्य शूद्रोच्चरण-
वर्जनस्य च वाचनिकत्वेनाऽप्युपपत्तेर्न भेदहेतुतेत्याह-वचनादिति । उच्चारणधर्मत्वाद-
प्येषां न भेदहेतुतेत्याह - धर्मादिति । यत्त्वाश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनाद् गवादि-
शब्दानार्माप भिन्नार्थतेत्युक्तम्, तन्निराकरणेऽप्यविभागशब्दोक्तमर्थप्रत्यभिज्ञानं योजयति --
अश्वबालादीति । वाक्यशेषात्मकवचनवशात्तत्रार्थभेदे जातेऽपि प्रत्यभिज्ञायमानार्थेषु
गवादिशब्देष्वर्थान्यत्वद्योतकत्वाभावान्नार्थान्यता युक्तेत्यर्थः ।
नन्विहाप्युत्तानवहनादिवचनकारितोऽर्थभेदो भविष्यतीत्याशङ्क्याह -- उत्तानानां
चेति । उत्तानवहनासिद्धेस्तदनुवादेन गोशब्दवाच्यत्वविध्ययोगात्सर्वेषां च वैदिकानामन्यत्वे
सम्बन्धज्ञानाभावेनैकस्यापि पदार्थस्याग्रहणाद्वाक्यार्थानवगतेर्नातो वाक्यार्थान्यत्वावसाय
इत्यर्थः । किमर्थं तर्ह्युत्तानवाक्यम् इत्यपेक्षायामाह--विधेरिति । सिद्धान्तमुपसंहरति-
तस्मादिति ।

Page 755Permalink

३३ ] प्रथमाध्याये तृतीयपादः ७०१
प्रकृतिविचारमनुसन्धत्ते—यद्वा चेति । अतोऽधुना क्रियत इत्यध्याहारेण योज्यम् ।
पक्षान्तराणामप्यभिधानं प्रतिजानाति—बहव इति । अभिनवे पक्षे केनचिदुपन्यस्ते
निराकरणोपपत्त्या ज्ञानाच्छिष्याणां व्यामोहापत्तेः तन्निवृत्त्यर्थं सर्वैऽभिधेया इत्यर्थः । बहु-
पक्षप्रतिभाने कारणमाह—गौरिति । शब्दस्वरूपस्य प्रत्यक्षग्राह्यत्वेन तद्विषयाभिधान-
शक्तिकल्पनानुपपत्तेर्नव्यानभिधानो हिंशब्दः कश्चित्कदाचनेति शून्यवादे वृहट्टीकायां
स्वरूपाभिधानस्य निरस्तत्वाच्छब्दवाच्यत्वशङ्कानुपपत्ति—सूचनार्थं तद्युक्तम् । सहवस्तु-
प्रतिभानेऽपि कथं बहुपक्षप्रतिभानमित्याह—तेषामिति ।
पक्षानुद्दिशति—किं जातिरेवेति । जातिव्यक्त्योः सामानाधिकरण्यबुद्धिहेतुभूतस्य ।
'आश्रयी येन भिन्नोऽपि सम्बन्धेनाऽऽश्रये धियम् ।
स्वानुरूपां सदा कुर्यात्समवायः स कीर्त्यते ॥'
इत्येवं लक्षणसमवायाख्यस्य सम्बन्धस्य जात्या सहाधाराधेयसम्बन्धसद्भावाज्जाति-
सम्बन्धयोः सच्छब्दवचः सम्बन्धः शब्दार्थ इत्यस्यापि पक्षस्योपपत्तेर्वस्तुगतस्य जात्या-
ख्याया अनुवृत्ताकारस्य, व्यावृत्ताकारस्य च व्यक्तित्वेनाभिप्रेतस्यैव वस्तुगतत्वादेकदेश-
स्थवृक्षवद्यः समुदायस्तस्याकारद्वयाकारद्वयाधारे धर्मिभूते वस्तुनि प्रतीतेः तदाश्रितया
जात्या सहैकवस्तुगतत्वादेव समुदायोपपत्तेः । सर्वत्राऽष्टपक्षीसम्भवः ।
यथा जातेर्व्यक्त्यादिभि षड्भिः सह प्रत्येकमष्टौ पक्षाः कृताः । तथा व्यक्तादेरप्ये-
कैकस्येतरैः सह कार्या इत्याह-एवमेकैकस्येति । ननु व्यक्त्यादिभिः सह सम्प्रधारितया जात्या
सह व्यक्त्यादेः सम्प्रधारणे पक्षभेदो नास्तीत्याशङ्क्य—उक्तवदित्युक्तम् । (एकाद्वित्रिचतुः-
पञ्चषट्कैः सह विकल्पने) त्युक्तद्विकादिप्रकारभेदात्पक्षाविवेक इत्याशयः । ततश्च व्यक्ति-
सम्बन्धः व्यक्तिसमुदाययोर्व्यक्तिलिङ्गयोः, व्यक्तिकारकयोः, व्यक्तिसंख्ययोः, सम्बन्धसमु-
दाययोः, सम्बन्धलिङ्गयोः, सम्बन्धकारकयोः, सम्बन्धसंख्ययोः, समुदायलिङ्गयोः, समुदाय-
कारकयोः, समुदायसंख्योलिङ्गकारकयोः, लिङ्गसंख्ययोः, कारकसंख्ययोः, पञ्चदशाऽष्टपक्षीः
पूर्वाभिः षड्भिः सहैकविंशतिं कृत्वा ।
१. जातेर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमु-
दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग-
कारकलिसंख्याकरसंख्याद्विकैः पञ्चदश ।
व्यक्तेर्जाति-सम्बन्ध-जातिसमुदाय-जातिलिङ्ग-जातिकारक-जातिसंख्या-सम्बन्धसमु-
दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग-
संख्याकारकसख्याद्विकैः पञ्चदशसम्बन्धस्य जातिव्यक्तिजातिसमुदाय-जातिलिङ्गजाति-
कारक-जातिसंख्याव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारक-व्यक्तिसंख्यासमुदायलिङ्गसमुदाय-
कारकसमुदायसंख्यालिङ्गकारकलिसंख्याकारकसख्याद्विकैः पञ्चदश ।

Page 756Permalink

७०२ मीमांसादर्शनम् [ सू०
समुदायस्य जातिव्यक्तिजातिसम्बन्धजातिलिङ्गजातिकारकजातिसंख्याव्यक्तिसम्बन्ध-
व्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसंख्यासम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यालिङ्गसंख्या -
द्विकैः पञ्चदश ।
लिङ्गस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिकारकजातिसंख्याव्यक्तिसम्बन्ध-
व्यक्तिसमुदायव्यक्तिकारकव्यक्तिसंख्यासम्बन्धसमुदायसम्बन्धकारकसम्बन्धसंख्यासमुदायकारक-
समुदायसंख्याकारकसंख्यायुगलैः पञ्चदश ।
कारकस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिसंख्याव्यक्तिसम्बन्ध-
व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिसंख्यासम्बन्धसमुदायलिङ्गसम्बन्धसंख्यासमुदायलिङ्गसमु -
दायसंख्यालिङ्गसंख्याद्विकैः पञ्चदश ।
संख्याया जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकव्यक्तिसम्बन्ध-
व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकसम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसमुदायलिङ्ग-
कारकद्विकैः पञ्चदश ।
२. जातेर्व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धसमु-
दायलिङ्गसम्बन्धलिङ्गकारसंख्यासमुदायलिङ्गकारक.समुदायकारकसंख्या.लिङ्गकारकसंख्या-
त्रिकैर्दश :
व्यक्तेर्जातिसम्बन्धसमुदायसंख्याजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या-
सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकसख्यासमुदायलिङ्गकारकसमुदायकारक-
संख्यात्रिकैदश ।
सम्बन्धस्य जातिव्यक्तिसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या-
व्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासमुदायलिङ्गकारकसमुदायकारक -
संख्यालिङ्गकारकसंख्यात्रिकैर्दश ।
समुदायस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धलिङ्गजातिलिङ्गकारकजातिकारकसंख्या-
व्यक्तिसम्बन्धलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धलिङ्गकारकसम्बन्धकारक -
संख्यात्रिकैर्दश ।
लिङ्गस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायकारकजातिकारकसंख्या-
व्यकिनसम्बन्धसमुदायकारकव्यक्तिकारकसंख्यासम्बन्धसमुदायकारकसम्बन्धकारकसंख्यासमु-
दायकारकसंख्यात्रिकैर्दश ।
३. कारकस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गसंख्या-
व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गसंख्यासम्बन्धसमुदायलिङ्गकारकव्य -
क्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकसम्बन्धसमुदायलिङ्गसम्बन्धलिङ्ग -
कारकसम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । व्यक्तेः जातिसम्बन्ध-
समुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसंख्यासम्बन्धसमुदायलिङ्गकारक -
सम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । सम्बन्धस्य जातिव्यक्ति-

Page 757Permalink
<!-- Page 757: Content rendered in scan -->
Page 758Permalink

७०४ मीमांसादर्शनम् [ सू०
विशेषणंविशेष्यत्वप्रकाराधिक्यतोऽधिकाः ।
पक्षाश्चतुःशतात्पूर्वं गणितादित्यनन्तता ॥
ननु 'भाष्ये किमाकृतिः शब्दार्थो व्यक्तिरिति' पक्षद्वयस्यैवोपन्यासाद् व्याख्यातृणा-
मेतावत्पक्षापन्यासो न युक्त इत्याशङ्कयाह—पूर्वपक्षेऽपीति । यत्रोच्चारणार्थैक्यम्, तत्र
व्यक्तिरर्थाः, अन्यत्राकृतिवचन इति भाष्ये पूर्वपक्षवेलायां द्वयवाच्यत्वपक्षस्यापि व्यक्तिपक्ष-
वदुपन्यासादपिशब्दाच्च सिद्धान्तवेलायामथ किं विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन
व्यक्तिमित्याकृतिविशिष्टव्यक्तिपक्षोपन्यासात्, ननु व्यक्तिविशिष्टायामाकृतौ वर्त्तत इति च
व्यक्तिविशिष्टाकृतिपक्षोपन्यासादुपलक्षणार्थः । सन्देहवेलायां पक्षद्वयोपन्यास इत्याशयः ।
नन्वेवं सति सर्वेषामेवोपन्यासनिराकरणे कस्मान्न कृत इत्याशङ्कयाह—उपन्यासेन चेति ।
सन्देहवेलायामपि पक्षद्वयोपन्यासोऽत एवेत्याह—तेनेति । भाष्योक्तसन्देहहेतुमुपन्यासपूर्वकं
दूषयति—भाष्यकारेण चेति ।
अतः प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे व्यक्तिपक्षाभिधानाच्चेत्यस्मदुक्त एव
द्वेधा सन्देहहेतुरित्याह—तेनेति । का पुनराकृतिरिति प्रश्नभाष्यं प्रथमपादेन त्वाकृतिः
साध्यास्ति वा न वेत्याशङ्क्य; न प्रत्यक्षा सती साध्या भवितुमर्हतीत्यादिना रुचकादि-
दृष्टान्तकवस्तुदाहरणेनाकृतिसद्भावस्य निरूपितत्वादयुक्तमित्याशङ्कते—का पुनरिति ।
तदश्राविणो ज्ञानाभिप्रायेण तावत्प्रश्नमुपपादयति—नैष दोष इति । प्रथमपादाश्राविण-
स्तृतीयपादश्रवणेऽनधिकारज्ञानाभिप्रायायोगादुक्तेऽपि दृष्टाकारे वस्तुनि को व्यक्त्याकारः,
को वाऽऽकृत्याकार इत्यविवेकात्सन्देहाभिप्रायेणोपपादयति—सन्देहाद्धेति । श्येनादिमध्या-
शङ्कानिराकरणेनानुगताकारस्याकृतित्वनिश्चयात् सन्देहानुपपत्तेरुक्ताप्याकृतिर्व्यक्तिव्यतिरे-
केणानुपलम्भान्न सम्भवतीति विपर्ययाभिप्रायेणोपपादयति—वैपरीत्येन चेति ।
युक्तिविशेषस्योत्तरेऽनभिधानेनोक्ताक्षेपाभिप्रायेण प्रश्नायोगात्स्वमतानुगताकारस्य
व्यक्तितोऽत्यन्तभेदाभावेनाविचार्यत्वान्नाज्ञातोऽत्यन्तभिन्नाकृतिर्वाच्या । न चासावस्तीत्येवं
विपर्ययाभिप्रायेणोपपादयति—अथ वेति । द्रव्येत्युत्तरभाष्यमज्ञानसन्देहानिरासार्थत्वेन
तावदवतारणपूर्वकं व्याचष्टे—तत्राहेति । अत्यन्तभेदे सति व्यतिरेकानुपलम्भादभावः
स्यात् । भिन्नाभिन्नयोस्तु न भेदानुपलम्भमात्रेणाऽभावो भवतीत्युक्ताक्षेपनिरासार्थत्वेन
व्याचष्टे—यस्त्विति । ननु प्रथमपादोक्तन्यायेनैवाकृतिसिद्धावयं ग्रन्थोऽनर्थकः स्यादित्या-
शङ्कयाह—न चेति । एतदेवोपपादयति—तेनैवेति । विवेककथनार्थत्वाभावे स्वरूपक-
थनस्य सामान्यमित्येतावत्तैव सिद्धेर्मात्रशब्दोऽनर्थकः स्यादित्यर्थः ।
अत्यन्तभेदाभावेऽपि कथंचिद् भेदाद्विचार्यत्वं भवतीति द्वितीयविपर्ययाभिप्रायनिरा-
सार्थत्वेन व्याचष्टे—यदपीति । यद्वा चायं मात्रशब्दोऽत्यन्तभेदनिरासार्थः । तथा सर्व-
सामान्यव्याप्त्यर्थोऽपीति दर्शयितुं, तदभावे सत्तामात्रमेव, द्रव्यत्वादित्रयमात्रमेव वा
निर्दिष्टः स्यादिति पक्षद्वयं तावदाह—द्रव्यादीनां चेति । एतत्पक्षद्वयनिरासे मात्रशब्दं
योजयितुमाह—अथ वेति ।

Page 759Permalink

३३ ] प्रथमाध्याये तृतीयपादः ७०५
असाधारणविशेषेतिसमासं पराभिमतकर्मधारयत्वनिरासेन बहुव्रीहितया व्याचष्टे-
असाधारणेति । कस्मादित्यपेक्षायां योऽर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिरित्यु-
परिष्टादभिधानाद् 'द्रव्यगुणकर्मणां सामान्यविशेषवत्त्वं साधर्म्यम्'ति च वैशेषिकतन्त्रे
द्रव्यगुणकर्मव्यक्तीनां सामान्यविशेषाधारत्वस्मृतेश्चेत्याह-- उपरिष्टादिति । अन्त्यविशेषाणां
वा नित्यद्रव्य-वृत्तित्वस्मृत्या सामान्यतो विशेषाणां द्रव्यवृत्तित्वं स्मृतं न भवतीति
मत्वा—स्मृतेश्चेत्युक्तम् । कुतः प्रश्नपूर्वकस्य व्यक्त्याकृतिविवेकाभिधानस्य प्रस्तुतोपयोग
इत्याशङ्क्य, व्यक्त्याकृतिवाच्यत्वविचारानुपपत्तिशङ्कानिरासार्थत्वं सुचयितुमाह- तेनेति ।
प्रयोगचोदनाभावादितिसूत्रमावृत्त्यैतद्विचारपूर्वपक्षेऽपि योजयति - किं प्राप्तमिति ।
अनेनैव सूत्रावयवेनाक्षिप्तानि हेत्वन्तराण्याह - संख्येति । एतदेव विवृणोति-यदि हीति ।
प्रयोगचोदनादिसिद्ध्यर्थं व्यक्तिलक्षणायां लक्षणैव दोषः स्यादित्याह- लाक्षणिकेति ।
ननु लक्षणापि शब्दवृत्तिप्रकारत्वान्न दोषमित्याशङ्कयाह - तथा चेति । ततश्च श्रुतिलक्षणा-
विवेको न स्यादिति भावः । मुख्यसामानाधिकरण्यसिद्ध्यर्थमपि व्यक्तैरेव शब्दार्थतेत्याह --
व्यक्तीति । पशुचोदनाक्षिप्तहृदयादिव्यवहारसिद्ध्यर्थमपि व्यक्तेरेव शब्दार्थतेत्याह-
पशुमिति । अपेक्षितविधिसिद्ध्यर्थमपि सैव शब्दार्थ इत्याह-- कर्मभिश्चेति । सर्ववादि-
सिद्धत्वाच्च सैव वाच्येत्याह - सिद्धेति ।
अर्थकत्वमिति सूत्रावयवमवतारयितुं शङ्कते - किमितीति । प्रयोगप्रतीत्युपपत्तेर्जा-
तिर्वाच्या, क्रियोपपत्तेश्च व्यक्तिरित्यर्थः । सूत्रावयवेनेमां शङ्कां निराकरोति-नेति ।
अविभागादिति सूत्रावयवावतारणाय शङ्कते-- सामान्येति । एतदाशङ्कानिराकरणार्थत्वेन
सूत्रावयवं व्याचष्टे - व्यक्तीति । अर्थकत्वमिति सूत्रावयवावतारणार्थं यत्रेति शङ्काभाष्यं
निरुपपत्तिकमाशङ्क्योपपादयति - यत्रैवेति । सूत्रावयवव्याख्यानार्थत्वमुक्तमिति भाष्य-
मुपपादयति-नेति । आदिशब्देन विकल्पोपादानं गौरिति एकपदोच्चारणे क्रियाविशेषान-
वधारणेन तत्सम्भवासम्भवसन्देहादुच्चारणानर्थक्यसन्देहे संशयोत्पत्तिः कथमिति प्रश्न-
भाष्यं व्यक्तिपदार्थकस्येत्युत्तराननुरूपत्वादुपेक्ष्योत्तरानुरूपं स्वयं प्रश्नान्तरं करोति -
व्यक्तीति । एतत्प्रश्नापाकरणार्थत्वेनोत्तरभाष्यं व्याचष्टे - आकृतीति । ननु कथं
सामान्यावगतिरित्येतत्प्रश्नोत्तरभाष्यस्य प्रश्नान्तरापाकरणार्थत्वेन व्याख्या न युक्तेत्या-
शङ्क्य, यथाश्रुतस्य दूषणमाह - भाष्यकारस्त्विति । का तर्हि भाष्यस्य गतिरित्यपेक्षाया-
माह - तेनेति । अविभागादिति सूत्रावयवावतरणार्थोऽयं प्रश्न इति भावः । एवं भाष्य-
कृतः शून्यहृदयतापत्ते रन्यथा व्याचष्टे - यद्वेति । ननु विशिष्टाभिधाने पूर्वपक्षिणोऽभिमते
कथं सामान्यावगतिरितिप्रश्नानुपपत्तिः, शुद्धाभिधाने तु पक्षान्तरपरिग्रहे प्रतिज्ञान्तराणां
निग्रहस्थानं स्यादित्याशङ्क्य व्यक्तिः शब्दार्थं इति पूर्वपक्षप्रतिज्ञाया द्वैविध्यं दर्शयितु-
माह - तेनेति । अद्रव्यशब्दत्वादिति सूत्रं सङ्क्षेपेण व्याचष्टे -- तथा चेति । तस्मान्ना-
कृतिवचन इति उपसंहारभाष्यं व्यक्तिः शब्दार्थं इति प्रतिज्ञानुरोधात् व्यतिरेकमुखेन
व्यक्त्यभिधानोपसंहारार्थमेवेति सूत्रयितुं तथा चेत्युक्तम् । अन्यदर्शनाच्चेतिसूत्रमन्वयमुखेन
४५

Page 760Permalink

७०६ मीमांसादर्शनम् [ सू०
तावत्स्वयं व्याचष्टे -- अन्यथेति । यद्याकृतिवचन इति व्यतिरेकमुखेन भाष्यकारीयव्याख्या-
नमनुसन्धत्ते -- अन्यथेति । पूर्वपक्षमुपसंहरति । तस्मादिति ।
आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रमुभयत्र क्रियासम्भवादुभयाभिधानप्रति-
पादनार्थम् कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थं जातिमात्राभिधानप्रतिपादनार्थत्वेन
व्याचष्टे -- इतीति ।
नन्वाकृतेरपि व्यक्तिवच्चयेनेनानुत्पाद्यत्वात्कथमख्यातश्रवणादाकृतेः पदार्थत्वविज्ञान-
मित्याशङ्कयाह -- अत्र हीति । अत्र हि श्येनमिव चितं चयनेन निर्वर्त्तयेदिति वाक्यार्थं
इत्यन्वयः । श्येन इव चीयत इति श्येनचिच्छब्दस्य कर्मव्युत्पत्तिप्रदर्शनार्थः । स्थलशब्दः
क्विब्वप्रत्ययस्याग्न्याख्यातौपाधिकत्वप्रदर्शनार्थः अग्निशब्दसादृश्यवाचिशब्दाश्रवणात् कथं
सादृश्यलाभ इत्याशङ्क्य -- परिशेषादित्युकम् । ननु श्येनव्यक्तिभिः स्थलस्य चेतुं शक्यत्वात्
कथं सादृश्यलाभ इत्याशङ्क्य, श्येनशब्दार्थकरणत्वस्य निषेध्यमानत्वात्कर्मतैव वाच्येति
दर्शयितुम् -- वाक्यार्थद्वयमुक्तम् । नन्वेवमपि न सादृश्यलाभ इत्याशङ्क्यैतद्वाक्यार्थद्वय-
दूषणार्थं -- यावदित्याद्युक्तम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतद्यावन्नोपपद्यते, तथाकृतिं
कुर्यादित्येतदपि यावन्नोपपद्यते तावत्परिशेषात्सा दृश्यलाभ इति । यस्मादर्थं यावच्छब्दा-
वृत्तिः । तस्मादर्थं तावच्छब्दोत्कर्षेण योज्यम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतत्कस्मान्नोप-
पद्यत इत्यपेक्षायाम् -- इष्टकाभिरित्युक्तम् । स्नाव्यादिभिस्तर्हि श्येनव्यक्त्यन्तरादुद्भूतैः
क्रियतामित्याशङ्क्य स्नाव्यादिभिः -- अपीति हेतुद्वयमुक्तम् ।
ननु स्त्रीपुंसमैथुनेन तर्हि क्रियतामित्याशङ्क्य, तेन निष्पन्नाया अपि श्येनव्यक्तेरग्नि-
शक्तवात्तादर्थ्यासम्भवेन प्रयोजनान्तरकल्पनापत्तेः, मैथुने च चाग्न्याख्यानुपपत्तेरग्न्याख्या-
निमित्तक्विप्प्रत्ययस्मृतिपरित्यागापत्तेश्चेत्युक्तम् । इष्टकाबाधश्चात्रापि तुल्यः । चयनेनाकृतिं
कुर्यादिति वाक्यार्थानुपपादनार्थम् -- आकृतेरपीत्युक्तम् । ननु सादृश्यमपि श्येनव्यक्त्या
सह करिष्यते, अत आह -- ततश्चेति । एकया वा श्येनव्यक्त्यन्तरविलक्षणया श्येनव्यक्त्या
सहाग्न्याख्यस्थलस्य सादृश्यं सम्पद्येत, सर्वाभिर्वा । तत्रानिर्द्धारितरूपैकव्यक्तिसादृश्यस्य
व्यक्तिनिरपेक्षजातिसादृश्यासम्भवेन जातिसादृश्यव्यतिरेकापत्तेर्निर्द्धारितरूपव्यक्त्यन्तर-
विलक्षणैकव्यक्तिसादृश्यं वाच्यम् । न चेष्टकाभिस्तत्सुसम्पादम् । सर्वव्यक्तिसादृश्यं तु तासां
परस्परवैलक्षण्यादतीतानागतानां चाग्रहणेन तत्सादृश्याग्रहणादवाङ्मुखमेवेत्याशयः ।
ननु चेत्याशङ्काभाष्यं व्याचष्टे -- अथेति । न साधकतम इत्युत्तरभाष्यमनुवादपूर्वक-
माक्षिपति -- तत्रेति । यद्यपि सिंहं देवदत्तमानयेति सिंहशब्दवच्छ्येनं चितमिति द्वितीयान्तः
श्येनशब्दः स्यात् तथापि तावत्सादृश्यविशेषणार्थत्वेन मुख्यार्थत्वाभावात्, मुख्यार्थत्वेऽपि
वा श्येनमानयेति गोशब्दवत्परविशेषणार्थत्वेन स्वप्रधानभूतार्थप्रतिपादकत्वाभावान्न मुख्य-
श्येनशब्दार्थस्य करणत्वेनाशङ्कितस्येप्सिततमतयाभिधानायाऽलम् । अयं च द्वितीयान्तवत्
भवति । तस्याः श्येनशब्दानन्तर्य्यमात्रादित्यर्थः । क्विब्वप्रत्ययान्तः शब्दोऽत्रेिप्सिततमत्व-
निर्देश्कोऽभिमतः । न द्वितीयेतिभाष्यं समाधत्ते -- तेनेति । स्मृतिपर्यालोच्येति ल्यब्लोपे

Page 761Permalink

३३ ] प्रथमाध्याये तृतीयपादः ७०७,
पञ्चमी, कथमेतत्स्मृतिपर्यालोचनया श्येनशब्दार्थस्य करणत्वनिषेधः अत आह - कर्म्मणि
हीति। नन्वेवमपि प्रत्ययार्थमात्रस्य कर्म्मत्वावगतेर्नोपपदार्थस्य कर्म्मत्वं सिद्ध्येदित्या-
शङ्क्याह- यदीति। नन्वेवमप्युपपदस्य किमायातमित्याशङ्क्याह- न चेति। निरुप-
पदस्य चिनोतेरग्नौ प्रयोगदर्शनेनान्वाख्यात्वाभावात्प्रसिद्धद्यन्वाख्यानिमित्तत्वाच्च
क्विप्प्रत्ययस्मृतेः सोपपदस्यैव चिनोतेरन्वाख्यातवं गम्यतं इत्यर्थः।
ननु कर्म्मणीति वाच्यसप्तम्या चिच्छब्दपात्रस्य कर्मवाचित्वावगतेरुपपदस्य कर्म-
वाचित्वनियमाभावात् कथं सकलस्यैकार्थत्वमित्याशङ्कयाह - तेनेति। केवलस्य चिनोते-
रन्वाख्यानुपपदापेक्षया 'कर्मणि हन' इत्येतत्सूत्रगतस्योपपदविशेषणस्य कर्मशब्दस्यावश्या-
नुवर्त्तनीयत्वादुपपदस्यापि कर्मवाचित्वावगतेनं श्येनशब्दस्य कर्मवाचिना चिच्छब्देन सह
वैयधिकरण्यमित्यर्थः। उपसंहरति - ततश्चेति । 'तृतीया तत्कृतार्थेन गुणवचनेने' (पा० सू०)
त्यादितृतीयासमासलक्षणाभावादपि न श्येनशब्दार्थः करणमित्याह - यदि वेति। यद्यसौ
करणं स्यात्, ततस्तृतीयासमासो वाच्यः। स चानुपपन्नः, लक्षणाभावादित्यर्थः।
नन्वश्रुततृतीयाकल्पनं चास्मिन्पक्षे स्यादित्याह- तृतीया चेति । काम्यत्वेन च
श्रुताभिः श्येनव्यक्तिभिर्नित्यानामिष्टकानां बाधोऽस्मिन्पक्षे स्यान्न चाबाधपक्षसम्भवो
बाधपक्षव्याप्य इत्याह - श्रुतेति। विश्वजिति तत्परत्वान्निषिद्धानुष्ठानं प्रसज्येतेत्याह -
सत्यां चेति। अत इत्याशङ्कानिराकरणोपसंहारभाष्यं व्याचष्टे - तेनेति ।
तथाकृतिकवचनत्वे विकल्प इति पुनरुक्तं भाष्यं चयनमाकृतौ सम्भवतीत्यनेन पुनरुक्तं
मासमानं सूत्रार्थोपसंहारार्थत्वेन व्याख्यातुमाह - अतश्चेति । उभयत्रेत्याक्षेपभाष्यस्य
तात्पर्यमाह - नैतदिति। व्यतिरेकमुखेन तात्पर्यं तु योगसाध्यं भाष्यकारोक्तं द्रढयितुमन्वय-
मुखेन स्वयमुक्तं पर्य्यनुयोगं सामान्येऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थम् - बहुत्वाच्चे-
त्युक्तम् । परिहारसाम्यप्रतिपादनार्थं यदप्युच्यत इति भाष्यं व्याचष्टे -- अथेति । परिहार-
साम्येऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थं विशेषमाह - युक्ता चेति । व्यक्तेरेव वाचक-
रूपत्वेन क्रियायोगसिद्ध्यर्थमनन्वाख्यातोऽपि तृतीयासमासोऽङ्गीकरिष्यत इत्याह - अगत्या
चेति । व्यक्तिपक्षेऽन्योऽपि विशेषोऽस्तीत्याह - संख्येति ।
किं पुनरत्र ज्याय इति काक्वा सूचितमाक्षेपतात्पर्यं व्याचष्टे - तेनेति । आकृतिः शब्दार्थ
इति समाधानभाष्यसूचिताः पर्य्यनुयोगपरिहारसाम्येऽप्याकृतिपक्षस्य ज्यायस्त्वसाधिका
युक्तीर्वक्तुं स्वरूपतस्तावत् व्याचष्टे इतीति । प्रश्नपूर्वकं युक्तीराह - कुत इति । आद्यां
युक्तिं व्याचष्टे - गोशब्दोच्चारणे हीति । गौरित्युक्ते सजातीयव्यक्त्यन्तराव्यवच्छेदेन विजा-
तीयव्यक्तिमात्रव्यवच्छेदप्रतीत्या सामान्यप्रतीतेः पूर्वभावमुपपादयितुम् - तदाकारेत्युक्तम् ।
एवमपि कथं जातिवाचित्वनिश्चयोऽत आह - अतश्चेति । द्वितीयां व्याचष्टे - यदीति ।
तृतीयां व्याचष्टे - गामिति ।
ननु व्यक्तिपक्षज्यायस्त्वे युक्तीनामुपन्यस्तत्वात्कथमन्यतरपक्षावधारणेत्याशङ्कय, व्यक्ति-
पक्षं दूषयितुं त्रेधा विकल्पयति - व्यक्तीति । सर्वव्यक्त्यभिधानपक्षे तावत्कल्पना गौरव-