Skip to content
SarvaKosh
Back to the archive

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished804 pages

About this granth

Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.

This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.

The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.

Page 733Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६७९
अभावः प्रत्ययार्थस्य विधेरप्रतिपादनात् ।
अर्थान्तरे च शब्दस्य न प्रयोगो विधीयते ॥ १०५९
वेदेनाशास्त्रहेतुत्वात्सम्बन्धस्येति हि स्थितम्१ ।
सिद्धान्तः
किं चाविभक्तरूपत्वं प्रत्यभिज्ञायते स्फुटम् ॥ १०६०
वैदिकेष्वपि शब्देषु प्रत्यक्षेण पुनः पुनः ।
यद्वा विभागशब्देन शब्दस्योच्चारणे सति ॥ १०६१
गोत्वबुद्धेः समानत्वान्न भेद इति कीर्त्यते ।
लक्षणस्याविभक्तत्वं शब्दानां वेदमुच्यते ॥ १०६२.
सर्वथा शक्यते भेदो न वक्तुं शब्दवाच्ययोः ।
एकत्वे याज्ञिकानां च प्रसिद्धिर्नुगृह्यते ॥ १०६३
मीमांसा चापि वेदार्थतत्त्वनिर्णयकारणम् ।
व्यपदेशादिभेदैश्च न भेदोऽत्रानुमीयते ॥ १०६४
प्रत्यक्षप्रत्यभिज्ञाते वेदशब्देऽन्यरूपता ।
व्यपदेशादिभेदश्च स्वरभेदादिकारितः ॥ १०६५
स्वरादयश्च भिद्यन्ते वेदत्वात्किमिहोच्यते ।
स्वरयूपादिशब्दानामन्यत्वेनेतरत्र२ च ॥ १०६६
नान्यत्वं युज्यते बाधात्प्रत्यक्षप्रत्यभिज्ञया ।
वचनाद्धर्मभेदस्तु शूद्रवर्जितताऽपि वा ॥ १०६७
धर्मवुच्चारणस्यैतौ न शब्दस्य स्वरश्च यः ।
अश्वबालादिशब्दार्थभेदे वचनकारिते ॥ १०६८
न च भिन्नत्वमन्येषु प्रज्ञातार्थेषु युज्यते ।
उत्तानानां च केषांचिद्वह्रतां न विधीयते ॥ १०६९
गोत्वं तेषामसिद्धत्वात्पदार्थग्रहणादपि ।
विधेरन्यस्य शेषत्वात्स्तुतिरेषाऽवगम्यते ॥ १०७०
उत्तानेत्यादिका तेन नातो भेदः प्रतीयते ।
तस्माद्यावेव शब्दार्थौ लोके पूर्वं निरूपितौ ॥ १०७१
१. जै० सू० ( ३-२-२ ) इत्यत्र ।
२ ब. स्वर ।

Page 734Permalink

६८० मीमांसादर्शनम् [ सू०
वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् ।
प्रकारान्तरोपन्यासेन प्रकृतस्यानुसन्धानम्
यद्वा चैवं यदा युक्ता चिन्तेयं क्रियतेऽधुना ॥ १०७२
किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति ।
बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥ १०७३
ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये ।
गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥ १०७४
जातिर्व्यक्तिश्च सम्बन्धः समूहो लिङ्गकारके ।
संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥ १०७५
किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् ।
किं विकल्पोऽथ सम्बन्धः समुदायो निरूप्यताम् ॥ १०७६
जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता ।
जातिसम्बन्धयोरेवं सामान्यसमुदाययोः ॥ १०७७
जातिकारकयोश्चैवं संख्यासामान्ययोरपि ।
लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥ १०७८
अष्टौ पक्षा नियोक्तव्याः षड्भिः प्रत्येकमुक्तवत्
एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥ १०७९
पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयवर्णनम् ।
पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः ।
व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥ १०८०
व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा ।
उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥ १०८१
निराकरणयुक्त्या च निषिद्धा इति नोदिताः ।
तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति ।
भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्व्यक्तौ च क्रियासंभवा-
दिति । एतदयुक्तम् ! व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते ?
यदि च व्यक्तिर्न संप्रतीयेत, ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च
क्रियासंभवोऽभिधेयत्वे कारणं व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव
संशयकारणं मन्तव्यम् । प्रयोजनप्रतीत्योः साधारणत्वात् शास्त्रान्तरे व्यक्तिपक्षाभ्यु
पगमात्संशयः ।

Page 735Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६८१
यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययात्
व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनशयनसहशयनादिक्रियासंभवात्सामान्ये
व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् ।
का पुनराकृतिः, का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य
शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति
का पुनराकृतिः ? का व्यक्तिरिति ? संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का
व्यक्तिः ? कियती वा जातिरिति । वैपरीत्येनैव कश्चित्पृच्छति यदा शाबलेयादि-
पिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते, तदा कुतोऽयं विवेको
व्यक्तिरियम्, जातिरियमिति ।
अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासं-
भवान्निष्प्रयोजना चिन्ता । यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य
पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगु-
णकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ, तयोः
स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् ।
यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेर-
त्यन्तभिन्ना नोपलभ्यते, तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरा-
लम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिः । इतरा व्यक्तिः । न चानेन ग्रन्थेन
जातेः सद्भावः, प्रमाणं वा प्रतिपाद्यते । व्यक्तेर्विवेकः केवलं कथ्यते । तेनैवाभि-
प्रायेण मात्रशब्दप्रयोगः अन्यथा तस्य गतार्थतैव भवेत् यदप्युक्तं नूनं काऽप्यत्यन्त-
भिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभि-
प्रेता, नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन
निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः ।
यद्वा सामान्यशब्दस्य प्रत्येकसंबन्धाद् द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दि-
श्यन्ते, सत्तया व्यवहाराभावात् ।
अथ वा मात्रशब्दप्रयोगाद् द्रव्यादिषु यावन्त्यवान्तरसामान्यानि, महासा-
मान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः ।
असाधारणविशेषा यस्यां व्यक्तौ, सेयमसाधारणविशेषा, न त्वसाधारणाश्च
ते विशेषाश्चेति सामानाधिकरण्यं संभवति , उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभि-
धानात् । स्मृतेश्च १ । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति ।
१. नित्यद्रव्यवृत्तयो विशेषा इति स्मृति ।

Page 736Permalink

६८२ मीमांसादर्शनम् [ सू०
तत्र पूर्वपक्षः
किं प्राप्तम् । आलम्भन-प्रोक्षण-विशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावात्,
अकृतिपक्षे चाभावात्, 'ब्राह्मणो न हन्तव्यः' 'सुरा न पातव्या' इत्यादिप्रतिषेध-
चोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गमभ्याजयेत्येवमादिलौकिकव्यवहार-
चोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि
व्यक्तिः शब्दार्थो भवति, ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु
व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्या, करणादिकारकं चोभयमुपपद्यते, इतरत्र
तु जातेरसंख्येयत्वादकारकत्वाच्चोभयमप्यनुपपन्नम् १। लाक्षणिकव्यक्त्याश्रयणं
चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च
पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं
सामानाधिकरण्यं कल्पयितव्यं भवेत् । तेनापि व्यक्तेः पादर्थत्वमवसीयते ।
'पशुमालभेत' इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपस्रिष्टाद् व्यवहारो दृश्यते,
न जात्या । कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् व्यक्तिपक्षेऽपेक्षिताभिधानम्, नेतरत्र ।
सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तम्, नाप्रसिद्धाया जातेः । अतो व्यक्तिः
शब्दार्थः ।
किमित्युभयं वाच्यं नाऽऽश्रीयते, प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् ? न ।
अनेकक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादिरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरे-
वाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् ? व्यक्तिसंबन्धादुपपत्स्यते ।
यत्रैव क्रियानुपपत्तिः, तत्रैव वाऽर्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वं-
प्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् ? न । उक्तमार्गेणानेकक्तिकल्पनादि-
दोषप्रसङ्गात् । अनवस्थितशब्दार्थसंबन्धापत्तेः, संशयापत्तेश्च । व्यक्तिवादिनः
कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेत् ? तदाकृतिचिह्ननिमित्त-
त्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः ।
भाष्यकारस्तु कथं सामान्यावगतिरित्युपन्यस्याऽऽकृतिश्चिह्नभूता भविष्यती-
त्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययकारणे २ पृष्टे व्यक्त्यन्तरप्रयोग-
निमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् ?
व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः ? चिह्नत्वादाकृतेरित्येवम् ।
यद्वा कथं सामान्यावगतिरिति चेदित्यपन्यस्ते, पूर्वपक्षवादी सामान्यावगति-
मपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता-
१. ब. संख्येयत्वाद् कारकत्वाच्चो । २. क. सामान्याप्रत्ययः कारणे ।

Page 737Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६८३
विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला,
विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च 'षड् देया' इत्येवमादिषु षडादिका
संख्योपपत्स्यते अन्यं तद्गुर्णमिति१ च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च
भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरन्यत्वादगुणत्वाच्चोभयमनुप-
पन्नम् । तस्माद् व्यक्तिः शब्दार्थ इति प्राप्ते ।
सिद्धान्तः
अभिधीयते । नैतत् शब्दवाच्येति; किं त्वाकृतिः पदार्थ इति विज्ञायते,
'श्येनचितं चिन्वीत' इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं
वेति वाक्यार्थी स्याताम् । यावदिष्टकाभिः२ श्येनव्यक्तेः कर्तुमशक्यत्वात्, स्नाव्या-
दिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छ्येनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेर्मुख्यार्थत्वात्
'कर्मण्यग्न्याख्यायाम्३ इति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनव्यक्तिं
कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽकृतेरपीष्टकाभिः कर्तुमशक्यत्वात् दैवनिर्मित-
त्वात्, प्रयोजनकल्पनाच्चिनोतेर्यथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्या-
दित्यपि नोपपद्यते । परिशेषाच्छ्येनमिव चितमग्निस्यलं चयनेन निर्वर्तयेदिति
वाक्यार्थः । ततश्च यया कयाचिच्छ्येनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात् ।
सर्वव्यक्तिसादृश्यासम्भवात्, अतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृति-
सादृश्यसंपत्तिसंभवाच्चाकृतिः शब्दार्थ इति निश्चीयते ।
अथ कस्माच्छ्येनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्रीयते 'श्येनचितं चिन्वीत'
इति । तत्र भाष्यकारेणोत्तरं दत्तम् 'ईप्सिततमो ह्यसौ४ श्येनशब्देन निर्दिश्यते'
इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थः, न च सकलश्येनचिच्छब्दोत्तरकालं
श्रुतत्वाद् द्वितीयायास्तदन्तो५, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्या-
ख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः
क्विप्प्रत्ययः स्मर्यते । यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवल-
स्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकल-
स्याग्निवचनत्वं निश्चीयते, न श्येनशब्दस्य पृथगर्थता । तेन न श्येनशब्दार्थं
करणतया विज्ञायते । यदि वासौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमास-
वचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता कल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च
१. क. तद्गुर्णामिति । २. क. दिष्टकादिः ।
३. पा० सू० ( ३-२-९२ ) । - ४. क. न ह्यसौ ।
५. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।

Page 738Permalink

५८४ मीमांसादर्शनम् [ सू०
स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु-
पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य
वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति ।
नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप-
क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या
व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त
इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता
चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये
करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते
अभिधीयते जातिरभिधेयेति ।
कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् ।
गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२
गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार-
ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा-
भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति
विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष-
स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या-
कृतिः शब्दार्थ इति निश्चीयते ।
सामान्यस्य वाच्यत्वसमर्थनम्
गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति,
न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि-
तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति-
मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते ।
व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम्
व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु-
दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक-
शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा-
ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक-
१. क. तदेतदपि ।

Page 739Permalink

· ३३ ] प्रथमाध्याये तृतीयपादः ६८५
वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः
शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः
सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः ।
समुदायस्य वाच्यत्वनिरासः
एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि-
धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च
व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य-
शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना-
धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् ।
अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव-
भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु-
वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः ।
समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति ।
एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः
समर्थितः अपरभाष्यव्याख्यायाम्
अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो
न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि-
र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति,
येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया,
यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा-
दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात्
ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा
तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा-
देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं
शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं
भवतः प्रद्वेष इति ।
पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो
वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः
कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य

Page 740Permalink

६८६ मीमांसादर्शनम् [ सू०
विशेषाणां चाऽऽश्रयः, सा व्यक्तिः न सामान्यविशेषौ ततश्च यथैकस्यां सामान्य-
विशेषव्यतिरिक्तायां व्यक्तौ शब्दस्य वृत्तिः तथाऽन्यस्यापि भविष्यति ।
सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते, ततः
सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति, तदा व्यक्त्यन्तरे वृत्तिर्न
प्राप्नोति , तदभावेऽपि चेद्वर्तेत, ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः
स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणा-
न्न'तिप्रसङ्गो भविष्यति । यद्येवं प्रयोगवशेन शब्दो वर्तेत, ततोऽद्य जातायां गवि
न दृष्ट इति शब्दो न प्रवर्तेत । तेन प्रयोगकृता चेद् व्यवस्था, क्वचिदप्रसङ्गः न
चेदतिप्रसङ्ग इति ।
यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौः, अयमपीति
तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्न-
वसरे वक्तव्यम् । शक्त्या र्तार्ह व्यवस्था भविष्यति । यत्र शक्तः शब्दः तत्र
वर्तिष्यते प्रयोक्ष्यते च, यत्र तु शक्तिर्नास्ति, तत्र प्रयोगप्रवृत्ती न भविष्यतः ततश्च
गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति ।
नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्य-
धीनं हि शब्दशक्तिज्ञानम् । तत्कथमिवाऽनुत्पन्नं प्रयोगकालेन व्यवस्थाकारण-
त्वेनाऽऽश्रयितुं युक्तम् । यद्यपि प्रयोगाच्छक्तिं जानाति, तथाऽपि प्रयोक्त्रा
कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दः नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि
प्रयोगः प्राप्नोति ।
जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणम्, तत्र शब्दो
वर्तिष्यते, यत्र तन्नास्ति, तत्राश्वव्यक्तादौ वृत्तिर्न भविष्यति ततश्च व्यवस्था-
सिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न
ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते, तच्चेदमभिहितं
सिद्धमाकृतिशब्दार्थत्वमिति ।
पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते, किं तु
गुणत्वेन स्थिता, व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत
इति प्रतिज्ञा । कस्यचित्प्राधान्येन किंचिदभिधेयतया विवक्षितम्, किंचिद्
गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभय-
प्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति ।

Page 741Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६८७
इतरस्त्वाह---नैवं लभ्यते । जातिश्चेत्पूर्वमभिधेयत्वेनाभ्युपगताऽत्रैव शब्द-
स्योपक्षीणशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चाऽऽकृतिसंवेदनेनापि व्यक्ति-
प्रतीतेरन्यथाऽप्युपपन्नत्वात्सत्यां गतावनेकार्थता युज्यतेऽभ्युपगन्तुम् । अर्थापत्त्या
च शब्दस्य वाचकशक्तिः कल्प्यते । सा च यदा व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात्
क्षीणा, तदा वाचकशक्तिकल्पनायां प्रमाणं नास्ति । न च सामान्यविशेषवचनत्वं
शब्दस्य दृष्टम्, अक्षादिशब्दानामनेकसामान्यवचनत्वात् । अन्वयव्यतिरेकाभ्यां
च व्यक्तेरशब्दार्थत्वं निश्चीयते । अनुच्चरितेऽपि शब्दे प्रतीतसामान्यस्य
व्यक्तिप्रतीतेः श्रुतशब्दस्य चाऽगृही- सामान्यस्य व्यक्तिप्रत्ययाभावात्तेनाऽऽकृतिरेव
शब्दार्थ इति ।
साम्प्रतं पक्षान्तरमुपन्यस्यति अथ व्यक्तिविशिष्टायामाकृतौ किमिति न वर्तते ।
तदेतत् प्रयोगप्रतीतिक्रियासंभवत्वेन वा पक्षान्तरमुपन्यस्तम् । यद्वा व्यक्तेरेव
शब्दार्थत्वं साधयितुमिदमुच्यते । अनेनाभिप्रायेण कदाचित्सिद्धान्तवाद्याकृतेः
शब्दार्थत्वमनेनाभ्युपगतमेवाऽऽलम्भनादिक्रियासंभवश्च भविष्यतीत्यनेनाभिप्रायेण
व्यक्तेरपि गुणत्वेनाभिधानमिच्छति । ततोऽहं पूर्वं तावद्विशेषणे वर्तितुमर्हंतीति
व्यक्तिवचनत्वमेव साधयिष्यामीति ।
इतरस्तु—तदभिप्रायं ज्ञात्वोत्तरं वदति व्यक्त्यन्तरविशिष्टायां प्रयोगो न
प्राप्नोति । यदि हि व्यक्तिविशिष्टा जातिरभिधीयते, ततो व्यक्त्यभिधानपक्षोक्त-
दोषप्रसङ्गः, अनेकशक्तिकल्पनादिरूपो व्यक्त्यन्तरे प्रयोगश्च न प्राप्नोति,
विशेषणस्यान्यत्वादिति, तेन जातिरेव शब्दार्थः ।
ननु गुणभूता प्रतीयते, अतश्चान्येन प्रधानेनाभिधेयेन भवितव्यमिति । नैवं
शब्देन तावत्सैवाऽभिधीयते । यदि विवक्षावशेनार्थाद् गुणत्वम्, प्राधान्यं वा
भवति, भवतु नाम । न तावता शब्दाभिधेयत्वं व्याहन्यते । यदा चासौ शब्देना-
भिधीयते, तदा गुणत्वं नैव प्रतीयते । तेनार्थाद् गुणत्वप्रतीतिरदोषः । नन पूर्व-
पक्षोक्तैः कारणैर्व्यक्तेरेव शब्दार्थत्वं युक्तम्, व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीति
चेत् ? आकृतिचिह्नभूता भविष्यति । यथाऽनभिधीयमानमपि काकनिलयनं
देवदत्तगृहशब्दस्य स्वार्थमभिदधतश्चिह्नभूततां प्रतिपद्यते, तद्वदाकृतिश्चिह्नं
व्यक्त्यभिधाने भविष्यति ।
भाष्यकारेण तु दण्डिशब्दो दृष्टान्तत्वेनोपात्तः । यथा तेन न नाम किल
दण्डोऽभिधीयते । अथ च दण्डविशिष्टः पुरुषः प्रत्याय्यते, तद्वदाकृतावपीति । ननु
दण्डिशब्दे प्रकृत्या दण्डोऽभिधीयत एव । कथमुच्यते न च तावद्दण्डोऽभिधीयत

Page 742Permalink

६८८ मीमांसादर्शनम् [ सू०
इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं
दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा-
द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः
पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य
दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा-
मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग-
भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न
भविष्यत इति ।
तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट-
प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न
तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं
च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा-
भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन
वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य
प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव-
धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा-
वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन-
चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे
प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन
निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥
न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु
क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन
बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति
किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक-
शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं-
लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति
वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं
सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते-
र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य-
सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-

Page 743Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६८९
वायाच्छ्येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवंरूप-
स्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गानेदमभ्युपगत-
मित्यर्थः ।
कस्तर्हि श्येनवचनचोदनार्थ इत्याशङ्कयाह—पिष्टेति । अमी पिष्टपिण्डाः सिंहाः
कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहा-
कृतिसादृश्यसम्पादनं चोदनार्थः तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन
प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वाभावात्तद्वाचित्वे श्येन-
शब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते । श्येनव्यक्तेश्च
यत्नेनानुत्पाद्यत्वेऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च
पश्चाच्छ्रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य—पक्षद्वयेऽपोत्यु-
क्तम् । श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्न्यनाधारत्वायोगानाग्न्याधारानु-
पपत्तेः । 'कर्मण्यन्वाख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वा-
श्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथ-
मस्य श्येनशब्दस्याकृतित्वाचित्वेन निश्चय इत्याशङ्कयाह—सा त्विति । सा सादृश्यसम्पत्तिः
श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्, तस्य च कतिपयविशेषोपादानेन सम्पाद-
यितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्य-
सम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरन्ततःकुशलेनापि सम्पादयितुं शक्यमिति
भावः ।
अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतम्, ततस्त्वस्यैवंविधमिति
निरूपणरूपविकल्पगोचरत्वाभावाज्ञानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथञ्चिच्छ-
क्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविध-
मिति विकल्पगोचरत्वात्सा दृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन
सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपा-
तात्सामान्येनेवोक्तं स्यात् तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेर-
साधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यत इत्याशङ्कयानिर्धारितविशेषया
यया कयाविद्वयक्त्या सादृश्यं (विधीयेत निर्धारितविशेषया वा यया कयाचिदिति
विकल्प्याद्यपक्षे तावद् दूषणमाह--सामान्येति । सामान्यविशेषावच्छेदकत्वेन यज्ञापेक्षते
सादृश्यं१) तत्तयोक्तम् । तच्च व्यक्तिमात्रेऽपि नित्यप्राप्तं सर्वस्य येन केनचित्सा दृश्यावश्यं
भावादित्यर्थः । श्येनव्यक्त्या यया कयाचिदपि तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य
१. अयं पा० २ पु० ना० ।
४४

Page 744Permalink

६९० मीमांसादर्शनम् [ सू०
श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु
यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य
चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति —
तस्मादिति ।
ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ-
वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध-
कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् ।
तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे-
षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न
शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे —
श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या-
शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति ।
श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ
सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं
दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं
पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व-
निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया-
माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय
व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति ।
व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति-
वाच्यत्वं निश्चीयत इति भावः ।
ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि-
शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं
चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं
व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत-
देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति
भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न
शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि
विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु
सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति ।
न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन

Page 745Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६९१
भाष्येणाशङ्क्य सामान्यविशेषरपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्ति-
ष्वापि भावाद् गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनाथं यदीति भाष्यं व्याख्यातुम्—
अव्यपदेश्यत्वेन चेत्युक्तम् । ननु सामान्यविशेषविमुक्तत्वाविशेषेऽप्युगादिशब्दवत्प्रयोगतो
व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः
प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथंचित्प्रयोगसम्भवेऽपि व्यवहारकालीनस्य
प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद् गौर्न पदा स्पृष्टव्येत्यादौ
शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थंप्रतिपादकं
सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम्—सामान्याकारेण वेत्युक्तम् । गौर्न पदा स्पृष्ट-
व्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते, तत्र विकल्पः प्रसज्ये-
तेत्यर्थः । ननु व्यक्तिवाचिनोऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्या-
शङ्क्य—व्यापकेत्युक्तम् । गोत्वैकार्थसमवायिनां शावलेयत्वाद्यवान्तरसामान्यरूपाणां विशे-
षाणां गोत्वव्याप्यत्वाच्चव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दा-
भिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वसाधारणशब्देनोक्तत्वात् व्यक्तिः
परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद् गोत्वा-
पेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकत्वाग्न्यपेक्षत्वेऽपि तदाश्रयस्या-
साधारणस्याग्न्यपेक्षा नास्ति । वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चयेऽप्यनिश्चया-
दिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षेत्युक्तम् । नन्वसाधारण-
रूपेण व्यक्तेः शब्दार्थत्वासम्भवेऽपि शावलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्व-
रूपेण शब्दार्थत्वोपत्तेः कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्कयाह - तत्रेति ।
तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यम्,
तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः,
सम्बन्धानित्यत्वापत्तिः विकल्पप्रसङ्गः, शेषव्यक्त्यानयनापत्तिः । नित्यबहुवचनप्रसङ्ग-
शुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एते च व्यक्त्यभिधानपक्षे,
सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां
वाच्यतेत्याह—न चेति ।
नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य
स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्व्यक्त्याकृत्योर्विकल्पेन, समुच्चयेन वाभिधान-
निरासेनैव निरस्तमित्याह एतेनेति । व्यक्तिविशिष्टाकृतिपक्षोऽपि व्यक्तेर्विशेषणत्वेन
पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह—व्यक्तीति । एतेन प्रयुक्त इत्यनुषङ्गः ।
आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैन्निराकर्तुमाह—
सम्बन्धेति । सम्बन्धसमुदायोरपि वाच्यत्वाभ्युपगमेऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशे-
षणताऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते—स्वरूपेत्युक्तम् । सम्बन्धोऽयम्,
समुदायोऽयमिति स्वतन्त्ररूपेणाप्रतीते। सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायिनिरूपण-

Page 746Permalink

६९२ मीमांसादर्शनम् [ सू०
स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया-
माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह—
व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः
क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या-
कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह—
अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति-
मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त-
तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव-
माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे-
र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष-
सिद्धत्वेनाऽवाच्यत्वस्य ।
नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि-
शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् ।
'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि ।
प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः ।
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥'
इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह—
नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय-
व्यतिरेकाभ्यां गम्यत इत्यर्थः ।
कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः ।
शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति
वाच्यत्वरूपा शक्तिरिति योज्यम् ।
ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका-
कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते-
रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा-
द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या
वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य-
प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् ।
नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः ।
ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व-
सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः

Page 747Permalink

३३ ] प्रथमाध्याये तृतीयपाद। ६९३
स्यादित्याशङ्कयाह—तदेकेति । सामान्यान्तरादवगतिर्निश्चयस्तैः सामान्यान्तरैर्गोशब्दार्थस्य
गोत्वस्य व्याप्तेर्विशेषैश्च साहचर्यं सत्यप्यव्याप्तेस्तेषां सन्देहनिवृत्तयेऽन्यतोऽवधारणा-
काङ्क्षेत्यर्थः ।
एवं सिद्धान्तमुपपाद्य, पूर्वोक्तान् दोषान्परिहर्तुमाह—अत्यन्तेति । आदिशब्दादनित्य-
त्वम् । ननु वस्तुतोऽत्यन्तव्यतिरेकाभावेऽपि शब्दान्निकृष्टावगतेः कथं दोषप्रसङ्गाभावोऽत
आह—सा हीति । कैवल्याभिप्रायो निकृष्टशब्दो न स्वनिष्ठत्वाभिप्रायः । यद्यप्याकृतिः
शब्दाच्छुद्धा प्रतीयते, तथापि क्रियान्वयस्यापि प्रतीतेस्तदन्यथानुपपत्त्या व्यक्तितादात्म्या-
वगमात्सम्भवत्येव क्रियान्वय इत्यर्थः । प्रोक्षणादि तु व्यतिरेकेऽपि सम्भवतीत्याह—
प्रोक्षणेति । क्षरणार्थसिञ्चतिधात्वर्थवाचित्वादुक्षतेः क्षारणस्य चोदकादेरूर्ध्वाधोदेशविभाग-
संयोगमात्रेण सिद्धेराभिमुख्यमात्रेण क्षरणसिद्धेराभिमुख्यमात्रेण च जातेरपि द्रव्यवतत्कर्म-
त्वोपपत्तेः । सिच्यमानस्योदकादेः कर्मीभूतव्रीह्यादिसंयोगानपेक्षणादुञ्जीकृतेषु च व्रीह्य्-
परिस्थितब्रीहितिरोहितानामधःस्थितानां व्रीहीणां सिच्यमानोदकसंयोगाभावेऽपि शास्त्रार्थ-
निष्पत्तिप्रसिद्धेः व्रीह्यादिसंयोगापेक्षायामनुपपत्तेः प्रोक्षणमाकृतेः स्वतोऽपि सम्भवति ।
अवेक्षणं चाकृतेश्चक्षुःसंयुक्तद्रव्यसमवायात्प्रसिद्धमेव । आदिशब्देन ध्यानोपादानम् । किमर्थं
तर्ह्यत्यन्तव्यतिरेकोपन्यास इत्याशङ्कयाह—विशसनेति । प्रतीतिसिद्धत्वाद्राकृतेर्विशसनादि-
योगो न स्वमनीषिकामान्रकल्पित इत्याह--तथा हीति । पश्चादिष्वपनीताङ्गेषु विच्छिन्ना-
वयवेषु या विशसनादिविशिष्टा बुद्धिः सामान्यविषयैव विभक्तैरवयवैः सामान्यमात्रानुमा-
नोपपत्तेः । न तु व्यक्तिविषया व्यक्तिविशेषानुमानासम्भवे तत्तद्बुद्ध्यभावादित्यर्थः ।
नन्वाकृतेर्विशसनादियोगे सत्यत्वप्रसङ्गादनिष्टापत्तिः स्यादित्याशङ्कते—नन्विति ।
विनष्टव्यक्त्यात्मकरूपेणाकृतेरपि विनाशाभ्युपगमान्नानिष्टापत्तिरिति परिहरति—तेनेति ।
नन्वेवं सत्याकृतिपक्षेऽपि सम्बन्ध्नित्यत्वं न सिद्ध्येदित्याशङ्कयाह—आश्रयान्तरेति ।
अत्यन्तव्यतिरेकवादिनाप्युत्तरालेऽनुपलम्भात् स्वपिण्डमात्राश्रिताकृतिरेष्टव्या । तस्याश्चाश्रय-
विनाशे स्थातुमशक्तेरन्यत्र च गमनायोगादवश्याङ्गीकरणापत्तेराश्रयान्तरविनाशादेव
नित्यत्वमेष्टव्यमिति—सर्वैरित्यनेनोक्तम् । एतदेव विवृणोति—तेनेति । नन्वत्यन्तव्यति-
रेकेऽप्याकृतिलक्षितव्यक्तिद्वारेण प्रयोगचोदनोपपत्तेरित्यन्तक्लिष्टभेदाभेदपक्षाश्रयणमित्या-
शङ्कयाह—अत्यन्तेति ।
अव्यवस्थामुपपादयितुमाह—न चेति । ननु पशुनोपलक्षितं द्रव्यं पशुं विशास्तीत्यादि-
धर्म्मविधीनां विषयो भविष्यत्यत आह—तदुपलक्षितं त्विति । द्रव्यरूपताया द्रव्यत्वाप्रति-
पादनं विना प्रतिपादयितुं शक्तेस्तदेव प्रतिपाद्यं स्यात् तत्र स स एव दोष इत्यर्थः । ननु
द्रव्यत्वप्रतिपादनद्वाराप्याश्रयोपलक्षणोपपत्तेर्नापूर्त्तंत्वदोषापत्तिरित्याशङ्कयाह—आश्रयेति ।
ननु पशुत्वेन स्वाश्रयोपलक्षणाद्वाक्यलमात्रेण द्रव्यत्ववदाश्रयपक्षदोषात्तत्त्वनिर्णयफलवादेन
युक्तमित्याशङ्क्य, पशुत्वाश्रयमात्रोपलक्षणे तस्य पश्वाकृतितोऽन्यत्वेनानिरूपणादाकृतेरेव
बलाद्धर्म्मविषयत्वापत्तेराश्रयविशेषस्योपलक्षणं वाच्यम् । तत्त्वव्याप्ते न सम्भवतीत्याह—

Page 748Permalink

विशेषस्त्विति । परानभ्युपगतत्वादनाशङ्क्यत्वाच्च द्रव्यत्वस्येति दृष्टान्ततया व्याख्येयम् ।
अगम्यः ज्ञातुमशक्य इत्यर्थः । आगमगम्य इति पाठस्त्वव्यापकत्वेन लक्षयितुं शक्यत्वादयदि
परमागमगम्यः स्यात् चासावस्तीत्युपहासाथंत्वेन व्याख्येयः । ननु निर्विशेषसामान्यानुपपत्तेः
कस्यचिद्विशेषस्यावसायाद्धर्मविधिविषयत्वं भविष्यत्यत आह-न चेति । प्रत्येकरूपेण
निर्धारितरूपेणानवगतं विधिना न सम्बध्यत इत्यर्थः ।
ननु पशुत्वाश्रयो यो विशेष इत्येवं निर्धारणाद्विधिविषयतोपपत्स्यत इत्याशङ्क्याह—
न चेति । पशुत्वाश्रयाणामनेकत्वात्सर्वेषां चोपादानानाशक्तेरयं वोपादेयः, अयं वेति सन्देहा-
निवृत्तेर्न निर्धारणोपपत्तिरित्यशयः । ननु सामान्यमात्रे पर्यवसितेऽपि शास्त्रेऽनुष्ठानवेलायां
विशसनादेस्तत्रासम्भवात्तदाश्रयविशेषे प्रत्यक्षोपनयनेन निर्धारिते अनुष्ठानं भविष्यतीत्या-
शङ्क्याह—न चेति । यस्मादन्यत्रोक्तो धर्मस्तत्रासम्भवमात्रेणान्यत्र न कार्यतया शास्त्रेणा-
नुज्ञातः तस्मान्न .सामान्ये कृतो विहितो विशेषेषु कत्तुं युक्त इत्यर्थः । किं च प्रत्यक्षैक-
समधिगम्यस्यासाधरणस्य शब्दव्यवहाराविषयत्वान्छुक्लादिरूपो विशेषो वाच्यः यस्तस्य
चामूत्तंत्वात्पशुत्ववदेव विधिविषयत्वासम्भव इत्याह—विशेष इति । उपसंहरति—
तस्मादिति ।
अत्यन्तव्यतिरेकपशे च गौः शुक्ल इति सामानाधिकरण्यं पशुनेति लिङ्गकारक-
संख्यान्वयश्च लक्षणया स्यात् सा च लोके मुख्यत्वप्रसिद्धेरयुक्तेत्याह—सामानाधिकरण्यादि
चेति । ननु यदि पशुं विशस्तीत्यादावन्वयसव्यतिरेकपशे धर्मविधि विषयत्वयोग्या व्यक्तिनं
प्रतीयते, कथं तर्हि भाष्यकृताऽऽकृतिर्व्यक्त्या नित्यसम्बद्धा सम्बन्धिन्ध्यां च तस्यामवगतायां
सम्बन्ध्यन्तरमवगम्यत इति, व्यतिरेकमभ्युपगम्य तदेतदात्मप्रत्यक्षं शब्द उच्चरिते व्यक्तिः
प्रतीयत इति वदत आकृतिवाचिशब्दोच्चारणे व्यक्तिप्रतीतिरुक्तेत्याशङ्क्याह—भाष्येति ।
व्यतिरेकाभ्युपगमेऽनया व्यक्तेर्गतिः प्रतीतिरुक्ता साश्रयत्वमात्रेण, न विशेषरूपेण । न हि
विशेषरूपा व्यक्तिः शब्दात्प्रतीयत इत्यर्थः । अभ्युपगमशब्देन परमताभ्युपगममात्रेण व्यति-
रेकोऽभिहितः न स्वमताभिप्रायेणेति सूचितम् । ननु व्यतिरेकस्यानभिमतत्वे योऽर्थः
सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिरित्याश्रयाश्रयिभावोक्तिनं युज्येतेत्याशङ्कथाह—
योऽपीति । नन्वाकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषेष्यतीति भाष्याद्विशेषलक्षणप्रतीतेः
कथमाश्रयमाश्रयमात्रगति सत्तेत्युक्तम । शङ्कयाह—सामान्याच्चेति । सामान्याद्विशेषस्य
लक्षणं यद्भाष्यकृतोक्तम्, तन्नाश्रयितव्यम् । आश्रयणमादरशं न कत्तंव्यमिति भावे कृत्यं
व्युत्पाद्य व्याख्येयम् । लक्षणानाश्रयितव्येति पाठे साऽनादर्त्तव्या, आक्षेपमात्रस्य भावाद्दि-
शेषस्य त्वाक्षेप्यस्य गम्यस्याव्यभिचारिलिङ्गाभावेनाभावादित्यर्थः ।
यद्वा यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इत्ययं प्रपञ्चो न व्यक्तिप्रतीतिसद्भावविषयः
किं तु किं शब्दात्, आकृतेर्वेत्येतद्विचारविषयत्वेन यथा सिद्धव्यक्तिप्रतीत्यनुवादोऽयमित्याह-
अथ वेति । प्रसङ्गादादितः सोऽन्वयव्यतिरेकाभ्यामिति भाष्यं व्याचष्टे—अन्वयेति । शब्द-
व्यतिरेकेऽप्याकृत्यन्वये व्यक्तिप्रत्ययान्वयप्रतिपादनार्थमन्तरेणापीति भाष्यमुदाहरणनिष्ठतया

Page 749Permalink

३३ ] प्रथमाध्याये तृतीयपादः। ६९५
व्याचष्टे—यो हीति। आकाङ्क्षाशब्देन निर्विशेषसामान्यायोगात् कश्चिदत्र तीक्ष्णमन्दादि-
रग्निविशेषः स्यादिति प्रमाणतो विशेषनिर्धारणाकाङ्क्षा भवतीत्येवम्परत्वेनाबुद्ध्यतेवाऽसौ
व्यक्तिमिति भाष्यं व्याख्यातम् । शब्दान्वयेऽप्याकृतिव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकप्रतिपाद-
नार्थं ‘यस्त्विति’ भाष्यं मनो वै यग्योच्छन्दायंसम्बन्धास्मृती सहकार्यभावाच्छब्दस्यापि
व्यतिरेकापत्तेः । स्मृतौ वा मनो वै अग्य्राभावादाकृतेरप्यन्वयापत्तेरयुक्तमाशङ्क्य द्वेधा
व्याचष्टे—मानसादिति । निष्कृष्टकृतित्वाचित्वनिश्चयात्सामर्थ्यात्मकजाड्यरूपेणापचारेण
सम्बन्धस्मृतावप्याकृत्यप्रतीतिः शीघ्राप्रतीतिर्वा विवक्षितेति भावः ।
ननु यदि गोशब्दात्स्वतन्त्राकृतिः प्रतीयते ततः केन हेतुना गोशब्दस्य शाबलेयादि-
शब्दसामानाधिकरण्यं प्रतीयते, न गोत्वशब्दस्येत्याशङ्कते—केनेति । गोत्वमित्यत्र प्राति-
पदिकवाच्याया जातेर्भावप्रत्ययेन व्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्याप्रतीतिः ।
गोरित्यत्रान्वयव्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्यप्रतीतिरिति विशेषहेतुमाह—
व्यतिरेकांशस्येति । ननु भावप्रत्ययेन व्यतिरेकांशस्य विवक्षायां गोतवांश्छावलेय इत्यपि
सामानाधिकरण्यं न स्यादित्याशङ्क्याह—गोत्ववानिति । यद्यप्यत्र स्फुटो व्यतिरेको
विवक्षितः तथापि प्रकृतिप्रत्ययविभागोपपत्तेर्मतुप् प्रत्ययेन जातिमदभिधानात्तद्वाचिना
शावलेयादिशब्दस्य सामाधिकरण्यं युक्तमिति भावः । स्फुटमितिपाठे स्फुटमिति
क्रियाविशेषणं स्फुटं निष्कृष्टत्वेन गोत्ववाचिनि गोत्वशब्दे यत्र परतो मतुप्प्रत्ययो
भवति, तत्र तेन जातिमदभिधानमित्यर्थः । ननु मतुप्प्रत्ययेनापि व्यक्त्यभिधाने
व्यक्त्यभिधानपक्षोक्ताः सम्बन्धानाख्यातादयो दोषाः प्रसज्येरन्नित्याशङ्क्याह—
सामान्यस्य वेति । जातिमदभिधाने प्रमेयान्तर्गतत्वेन व्यावर्तकत्वाज्जातेर्विशेषणत्वेऽपि
विशिष्टवाचिना प्रत्ययेनानुपादानादुपलक्षणत्वोक्तिः । ननु गौरित्यत्राव्यतिरेकांशविवक्षायां
जातिव्यक्त्योरभेदात् व्यक्तैर्वा गोशब्दो वाचको जातेर्वेति चिन्ता न युज्येतेत्याशङ्क्याह—
भेदानामिति । अयं विचार्यत्वेन प्रकृतो गोशब्दः पक्षद्वये भेदानां व्यक्तीनामेव वाचकः ।
सामानाधिकरण्याद्यन्यथानुपपत्तेरिष्यते । स्वरूपेण व्यक्तिर्वाच्या नान्यात्मना वेत्येतावत्तु
विचारार्थः । व्यक्तिवाचित्वेऽपि व्यक्त्यन्तरे प्रयोगोपपादनार्थम्—सर्वेषामित्युक्तम् ।
नन्वेवं सत्यानन्त्यात्सम्बन्धग्रहणानुपपत्तिरित्याशङ्क्य—प्रत्येकमित्युक्तम् । समुदितानां
वाच्यत्वे सम्बन्धग्रहणासम्भवः स्यात् नान्योन्यनिरपेक्षाणां वाच्यत्वे जात्यात्मना चैकेन
नित्येन रूपेण वाच्यत्वान्न शक्त्यानन्त्याद्यापत्तिरिति भावः । ननु गोशब्दोच्चारणे व्यक्ति-
विशेषानिर्धारणाच्च व्यक्तेर्वाच्यत्वं युक्तमित्याशङ्क्याह- यस्त्विति । व्रीहीन्प्रोक्षतीत्यादा-
वुद्दिश्यमानेषु व्रीह्यादिषु प्रकृतापूर्वसाधनव्यक्तिविशेषनिर्णयान्न सन्देहाशङ्का व्रीहिभिर्य-
जेतेत्यादावुपादीयमानत्वेऽप्यन्यजातीयव्यक्तिभ्यो व्रीहिजातीयानां व्यावृत्तिप्रतीतेर्व्रीहि-
जातीयैव व्यक्तिरित्यस्त्येव निर्णयः । सर्वासां तूपादानायोगात्कियतीनामुपादेयतेति संख्या-
श्रयमात्ररूपसन्देहः न व्यक्तिरूप इत्यर्थः ।
अधिकरणोपक्रमे जातिशब्दा एवाऽत्र विद्यन्त इति यदुक्तम् तत्परमतेनेति द्योतयितुं
तस्माद् गौरश्व इत्येवमादय इत्युपसंहारभाष्यं स्वमतेन नामाख्यातरूपद्विविधपदविषयत्वेन

Page 750Permalink

६१६ मीमांसादर्शनम् [ सू०
व्याचष्टे—गवादीति । गुणक्रियाशब्दोपसंग्रहार्थः सर्वशब्दः विचारप्रयोजनमाह—प्रयोजन-
मिति । पूर्वपक्षविशेषणसामर्थ्यात् सिद्धान्ते बाध इत्युक्तं भवति । वर्णकान्तरस्वाभावेऽपि
पूर्वव्याख्याप्रकारे केनचिद्दूषणक्षेपदोषेणाप्रसन्नाभिधानाच्छिष्यक्लेशपत्तेः । सुखप्रतिपत्त्यर्थं
प्रकारान्तरमारभते—एवं वेति । प्रासङ्गिकत्वेन तावत्सङ्गतिमाह—गौरिति । विचार-
विषयं बोधयति—चतुर्विध इति । संशयोत्पत्तिरित्यनेन यावकादिद्रव्यशब्दानां देवदत्तादि-
यदृच्छाशब्दानां सर्वादीनां च सर्वनामशब्दानां व्यक्तिवाचित्वेन निश्चयात्संशयानुपपत्ते-
र्निपातोपसर्गवद्विचारविषयत्वमस्तीति सूचितम् निपातोपसर्गयोर्जातिव्यक्तिवाचित्वसंशया-
नुपपत्तौ हेतुमाह—तयोरिति । अभ्युपगम्यापि वाचकत्वमन्वित्यादिषूपसर्गेषु पश्चादित्यादिषु
च निपातेषु पदान्तरान्वयात् पूर्वं कस्यचिद्गार्थंस्याऽप्रतीतेः पदान्तरान्वये च विशेषस्यैव
प्रतीतेः । सन्देहानुपपत्तिमाह—वाचकत्वेऽपीति । पाश्चात्यशब्दान्तर्गतः पश्चाच्छब्दोऽत्रोदा-
हरणं संशयेन ज्ञाप्यते न विषयीक्रियत इत्यर्थः । एतदेव विवृणोति—यदोति । ननु
पौनरुक्त्यापत्तेर्नैतस्यातं विचार्यमित्याशङ्कते—आख्यातव्यापीति ।
अत्र प्रकृत्यर्थः तत्र प्रत्ययार्थ इति पुनरुक्ति-परिहारः
ननु द्वितीयाध्याय्याद्येऽधिकरणे द्रव्यादिशब्देभ्योऽपूर्व मावशब्देभ्यो वेति विचारान्नाख्या-
तार्थविचारणेत्याशङ्कयाह—कः पुनरिति । अन्यार्थेऽप्यधिकरणप्रसङ्गाद्भाष्यकृतार्थ-
निरूपणात्पौनरुक्त्यं भवतीत्याशयः । तत्र प्रत्ययार्थचिन्तेव प्रकृत्यर्थचिन्तेति परिहरति—
प्रत्ययार्थस्येति । आश्रयं तु प्रत्ययार्थविचारे पौनरुक्त्यं परिहर्तुमशक्नुवतां परिहारे
इत्यपरितोषादन्यथा स्वमतेन परिहरति -- प्रकृत्यर्थेति ! प्रत्ययार्थस्य प्रकृत्यर्थाद्विवेकायेह
सिद्ध एव प्रकृत्यर्थस्तत्र वक्ष्यत इत्यर्थः । ते च यागदानहोम सम्बद्धा इत्यादिना प्रकृत्यर्थस्य
यागस्य भाष्यकृता स्पष्टीकृतत्वात् भाष्यकारेणेत्युक्तम् । ननु सूत्रकारानुक्तिसूचनार्थं तेनापि
कर्मशब्दपदेन प्रकृत्यर्थस्योक्तत्वात् । अयमपि विषयभेदं वक्तुमशक्नुवतां परिहार इत्य-
परितोषात्स्वमतेनान्यथा परिहरति--यज्याद्यर्थेऽपि वेति । सामान्यविशेषयोर्मध्ये इति
निर्धारणे षष्ठी प्राप्तेतीहावसरप्राप्त्युक्त्या तत्रासङ्गतत्वात्सामान्यविशेषविचाराभावः
सूचितः ।
प्रासङ्गिककथया चैतत्पौनरुक्त्यं परिहृतम् । प्रधानचिन्तया तु पौनरुक्त्यशङ्कव
नास्तीत्याह—अपूर्वमिति । अतोऽत्र युक्ता द्विविधस्य पदस्यार्थचिन्तेत्युपसंहरति-नामेति ।
गोसदृशो गवयः इति जातौ गोशब्दप्रयोगाद् गौरानय इति च व्यक्तौ प्रयोगाच्च गोशब्दो-
च्चारणाच्चोभयप्रतीतेर्वृद्धव्यवहारस्योभयत्र तुल्यत्वं शब्दलक्षणे महाभाष्यकारेण किं
पुनराकृतिः पदार्थः, आहोस्विविद् द्रव्यमिति पृष्ट्वोभयमित्याहेत्याकृतिपक्षवद्व्यक्तिपक्षस्याप्य-
भिधानाच्च शास्त्रस्याप्युभयत्र तुल्यतेति, द्वेधा सन्देहहेतुमाह -- प्रयोगस्येति । भाष्योक्त-
सन्देहहेतुनिरासार्थमस्माद्धेतुद्वयादेव—संशयो न प्रतिभातीत्युक्तम् । ननु यदि सामान्य-
प्रत्ययाद्व्यक्तौ च क्रियासम्भवात्सन्देहः स्याद्, ततः प्रतीयमानाया आकृतेरक्रियार्थत्वात्
क्रियार्थायाश्च व्यक्तेरप्रतीतेर्वाक्यार्थौपयिकपदार्थासम्भवाद्द्द्यक्तिवाच्यत्वपूर्वपक्षस्याकृतिवाच्य-

Page 751Permalink

३३ ] प्रथमाध्याये तृतीयपादः ६९७
त्वासम्भवप्रतिपादनमात्रपरत्वात्पूर्वपक्षे वेदाप्रामाण्यम्, सिद्धान्ते चाकृतेरपि क्रियार्थत्वा-
द्दाक्यार्थौपयिकत्वोपपत्तेर्वेदप्रामाण्यमिति प्रामाण्याप्रामाण्यफलत्वात्प्रमाणलक्षणसङ्गतेयं चिन्ता
स्यात् । व्यक्त्याकृत्योस्तु प्रतीतिप्रयोगतुल्यत्वे पक्षद्वयेऽपि प्रामाण्याविशेषात्कथं तल्लक्षण-
सङ्गतिः । प्रतीतिप्रयोगतुल्यत्वेनैव च व्यक्तिवाच्यत्वस्मृतेरपि समूलत्वोपपत्तेरेतत्पादगतेन
स्मृतिमूलविचारेणापि कथं सङ्गतिः स्यादित्याशङ्कते-कथमिति । पादानामेकार्थ्य-
नियमाभावान्नावश्यं सर्वत्र पादसङ्गतिरपेक्षणीया एकप्रकरणगतानां त्वधिकरणानां प्रकरण-
प्रतिपाद्यैकार्थान्वयाय प्रकरणसङ्गतिरवश्यापेक्षणीयेति मत्वा-प्रकृते न वेत्युक्तम् । स्मृति-
मूलविचारो ह्यस्मिन्पादे प्रकरणार्थः । तथा हि-
स्मृतीनां श्रुतिमूलत्वं विरोधे भ्रान्तिमूलता ।
उक्तोपवीतस्मृत्यादवविरोधं निरूप्य च ॥
आर्यैर्विरोधे म्लेच्छानां शब्दार्थविषयस्मृतेः ।
भ्रान्तिमूलमसत्त्वेऽस्य पिकादौ लोकमूलता ॥
मूलापेक्षां च कल्पादेरव्यवस्थितगोचरम् ।
होलाकादिस्मृतेर्मूलमुक्तं शब्दस्मृतेरपि तत्प्रामाण्यमूलत्वप्रासङ्गिकत्वेनास्याश्चिन्तायाः
पूर्वचिन्ताया लक्षणप्रकरणप्रसङ्गस्यैवास्या अपि तद्द्वारेण सङ्गतिलाभान्न पृथक्सङ्गत्य-
पेक्षेति परिहरति-द्वयमिति । ननु यदि कस्मिन्नर्थे गोशब्दस्य साधुवेत्यनेन प्रसङ्गेनास्य
विचारस्यावान्तरस्तुतेरर्थनिरपेक्षस्य साधुत्वस्य निरूपयितुमशक्यत्वाद्द्द्व्यक्त्याकृतिचिन्तैव
पूर्वं प्रसज्येतेत्याशङ्कते - वक्तव्य इति । सास्नादिना शब्दस्य साधुवाच्ये इत्येतावति ज्ञाते
व्यक्त्याकृतिविवेकाज्ञानेऽपि साधुत्वं निरूपयितुं शक्यमिति परिहरति-अनिश्चितेऽपीति ।
एतदेवं विवृणोति-वाच्येति । पूर्वापवादत्वेन चास्य सङ्गतिरिति परिहारान्तरसापेक्षत्वेऽपि
किं विचार्यत इत्यपेक्षायामाह - व्यक्तिरिति । अस्मिंश्च पक्षे त्रिविधापि सङ्गतिः
साक्षादेवेत्याह-- स्मृतेरिति ।
प्रयोजनाभावेनाधिकरणारम्भमाशङ्कते - ननु चेति । शब्दार्थशब्देनाकृतिर्विवक्षिता,
प्रोक्षणादेः क्रिया, ब्रह्महत्यादेश्चाक्रिया पक्षद्वयेऽप्याकृतावसम्भवाद्द्द्व्यक्तावेवेत्यर्थः । वेदे
प्रयोजनाभावेऽपि, लोके प्रयोजनं भविष्यतीति तावत्परिहरति - यद्यपीति । किं फलमित्य-
पेक्षायामाह - व्यक्तीति । लोकव्यवहारस्य प्रमाणान्तरानुसारित्वात्तदर्थं शब्दार्थतत्त्व-
चिन्तानर्थक्यापत्तेर्वेदार्थनिर्णयानौपयिकत्वाच्च शास्त्रसङ्गत्यभावापत्तेरपरितोषात्स्वमतेन
प्रयोजनमाह-वेदेऽपि चेति । हेत्वपेक्षायामुदाहरणद्वयमाह - व्रीहीति । भेदो-विशेषः ।
आद्योदाहरणे विशेषं विवृणोति-प्रोक्षणमिति । सन्निधिरूपं क्रमं बाधित्वेत्यर्थः । द्विती-
योदाहरणं विवृणोति-एवमिति । 'यदाहवनीये जुहोति, पदे जुहोतीत्यादिसामान्यविशेष-
शास्त्रयोः पूर्वपक्षे विकल्पः, सिद्धान्ते सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्याद्यपि
प्रयोजनमित्याह-सोपपत्तिकमिति । उपसंहरति-कृतं ध्येति ।

Page 752Permalink

पौनरुक्त्यमाशङ्कते-नन्विति । गौरिति शब्द आदिर्यस्य, तस्य गौरित्यस्य शब्दस्य
कोऽर्थ इत्यस्य भाष्यस्य, तस्मिन्नित्यर्थः । आद्यपादस्थे भाष्ये विचारितमित्यर्थः । तत्र
प्रतिज्ञायामिहानुपपत्तिरिति तावत्परिहरति आकृतिरिति । यथा चाकृतिश्शब्दार्थः तथा-
कृतिस्तु क्रियार्थत्वादित्यत्र निपुणतरमुपपादयिष्याम इत्याकृतिवादान्ते भाष्यकृताप्येव-
मेवोदितमित्याह-यथा चेति । विषयप्रदर्श नार्थत्वात्प्रतिज्ञाया हेतुं विनानर्थक्यापत्तेरि-
हापि चाकृतिः शब्दार्थ इति प्रतिज्ञायाः पौनरुक्त्यापत्तेरेतत्परिहारेष्वपरितोषात्स्वमते-
नान्यथा परिहरति-यद्वेति ।

नन्वेवं सत्याकृतेः शब्दार्थत्वोक्तिस्तत्रत्या कथमित्याशङ्क्य सद्भावप्रतिपादनायैव ।
प्रकृतानुपयोगप्रसङ्गाच्च साक्षाद्वाच्यत्वोपक्रमस्तत्रेत्याह-या त्विति । चिन्ताविषयत्वेन
नोक्तेत्यर्थः । प्रतिज्ञामात्रेणाकृतिवाच्यत्वासिद्धेरनभिमतमपि परिहारान्तरं विभवार्थमाह-
उक्ते वापीति । व्यक्त्याकृतिचिन्तामुपक्रम्य भाष्यकृता लौकिकवैदिकशब्दार्थभेदाभेदचिन्ता
कृता । तस्याः प्रकृतोपाद्घाताथंत्त्वेन सङ्गतिमाह-एतद्विति । ननु संख्याभावादित्यनेन
न्यायेनाभेदस्य सिद्धत्वात्पुनः कोऽयं विचारः स्यादित्याशङ्कय, लौकिकशब्दाभेदेऽपि, वैदि-
कानां रूपभेदाद्व्यपदेशभेदाच्च भेदशङ्कोपपत्तेस्तन्निराकरणार्थोऽयमारम्भ इति । संशय्यते
अस्मिन्नित्यधिकरणव्युत्पत्त्या संशयविपर्यंयप्रतिपादकेन-संशयशब्देनोक्तम् । उपोद्घात-
त्वमेव विवृणोति - एकत्वे सतीति । लौकिकवैदिकयोः शब्दयोर्वाच्ययोश्चैकत्वे सति लोक-
व्युत्पन्नाद्वैदिकाद् गोशब्दाद् व्यक्त्याकृतिरूपत्वादिपदार्थप्रत्ययोत्पत्तौ कोऽर्थो वाच्यः, को वा
गम्य इति सन्देहाद्विचारः कार्यः । भेदे व्युत्पत्त्यभावेन वैदिकाच्छब्दादर्थप्रतीतेः सन्देहा-
भावान्न चिन्तावसर इत्यर्थः ।

ननु लोके सन्देहसम्भवाच्चिन्ता भविष्यतीत्याशङ्क्याह-शब्दार्थनेति । वेदे तु
शब्दविषये, अर्थविषये च 'य एव लौकिकः शब्दोऽर्थश्च स एवायमिति प्रत्यभिज्ञाने सति
लोकव्युत्पन्नाद्वैदिकाच्छब्दार्थप्रतीतेः कोऽर्थो वाच्यः, को वा गम्य' इति विवेक्तुं शक्यम् ।
अलौकिके तु वैदिके शब्देऽर्थे वाचकत्वाज्ञानाद्वाच्यविषयः सन्देह एव न स्यादिति पूर्वोक्त-
मेव विवृणोति-वेदे त्विति । उपसंहरति-तेनेति ।

संशयशब्दसूचितं पौनरुक्त्यपरिहारं वक्तुमाशङ्कते-तावत्संख्येति । न हेवन्तरा-
भिधित्सया पुनरारम्भस्तस्यानुक्तत्वादित्याह-अभेदेति । ननु न 'प्रयोगचोदनाभावादिति
हेवन्तरमप्युक्तमित्याशङ्कयाह-अन्येष्विति । शङ्कामुपसंहरति - तेनेति । परिहरति -
लौकिकेष्वेवेति । ननु वैदिकेषु काऽधिका शङ्केत्यपेक्षायामाह-व्यपदेशादेरिति । रूपभेदो
लिङ्गं चादिशब्देनोपात्तम् । अर्थभेदाभेदचिन्तायास्तु पौनरुक्त्याशङ्कव नास्तीत्याह -
एकत्वेऽपि चेति । न च शब्दैक्यमात्रेण प्रकृतचिन्तासिद्धिर्येनार्थैक्यमचिन्त्यं स्यादित्याह-
अर्थेति । शब्दाभेदे सत्यपि यद्यर्थभेदः स्यात् ततो व्यक्त्याकृत्योर्द्वयोर्मध्ये कस्य वाच्यतेतीयं
चिन्ता घटते, न शब्दैक्यमात्रेणेत्यर्थः । सन्देहहेतुमाह-व्यपदेशादीति । उभयविषय-