मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
by महर्षि जैमिनि / शाबर स्वामी
Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)
About this granth
Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.
This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.
The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.
५२० मीमांसादर्शनम् [ सू०
निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्व-
मुक्तम् ।
आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते ।
कथं चाऽऽदिमतां सिध्येद्वेदेनाऽनादिना विधिः ॥ ७५०
तस्मात् 'स्वाध्यायोऽध्येतव्यः' इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु
दृष्टम्, उपपन्नं च, निःस्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न
कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वम्,
प्रमाणत्वं वा लभते ।
न चं वेदाङ्गभावोऽपि कश्चिद् व्याकरणं प्रति ।
तादर्थ्यनियवाभावाद् बुद्धादिवचनेष्विव ॥ ७५१
श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते ।
अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥ ७५२
आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम्
तस्मादवयवविषयमेवैतदेदं वर्णयितव्यम् ।
षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया ।
तैः षड्भिः प्रविभक्तः सन् स हि कर्मविबोधनः ॥ ७५३
ननु बाह्याङ्गानपेक्षत्वे वेदस्वरुपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं
प्रसज्यते ।
तथा हि—सम्भवव्यभिचाराभ्यां स्याद्विशेषणसम्भवः ।
श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥ ७५४
उच्यते—यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् ।
ज्ञात्वाऽधीते स एवाऽस्य विधेरर्थं करोति नः ॥ ७५५
अधिगन्तव्य इत्येतदध्येय इति चोच्यते ।
तेन श्रुत्यादिमान्वेद्यो वेदितव्यो विधेरतः ॥ ७५६
ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् ।
श्रुत्यार्पितस्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ७५७
ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते, न व्याकरणा-
ध्ययनविधिः ।
वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम्
वेदे व्याकरणাদীनि सन्त्येवाभ्यन्तराणि नः ।
भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥ ७५८
२४ ] प्रथमाध्याये तृतीयपादः '२१
'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त-
व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् ।
प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम्
प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते ।
गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९
व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ
यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु
कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव
प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि
वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः
पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व-
माविष्कृतम् ।
पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते ।
आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६०
ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः,
शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् ।
व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः
यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज-
नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् ।
गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम्
यदि वा गौरवस्यैव लघुत्वमुपचर्यते ।
विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१
लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक-
संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं
गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य-
चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु-
रित्युपचरितः ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः
यदपि केनचिदुक्तम्-
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२
तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् ।
१ म. भा. पस्पशाह्निके ।
५२२ मीमांसादर्शनम् [ सू०
को हि प्रत्यक्षगम्येऽर्थे शास्त्रतत्त्वावधारणम् ।
शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥ ७६३
अत एवं श्लोकस्योत्तरार्धं वक्तव्यम् ।
तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति । ७६४
न ह्यत्र कश्चिद्विप्रतिपद्यते, बधिरैश्चैवमदृष्टत्वात् ।
पञ्चमस्यासन्देहप्रयोजनस्य निरासः
असन्देहश्च वेदार्थे यदप्युक्तं प्रयोजनम् ।
तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥ ७६५
यतः पदार्थसन्देहास्तावद्बहवो वृद्धव्यवहारादेव निवर्तन्ते । शेषाश्च निगम-
निरुक्त-कल्पसूत्र-तर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनर-
तन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि—
धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते ।
न चाभिधानवेलायां तत्प्रतीतिर्मनागपि ॥ ७६६
‘गमेर्डो’ ( उ० सू० २३५ ) इत्येतद्व्युत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्द-
वाच्यमध्यस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितः । यत्र प्रसिद्धस्त-
त्रान्वाख्यातव्यः ।
तथा च—
कुशलोदारशब्दादेर्यवित्यनुगमस्थितः ।
न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥ ७६७
अश्वकर्णादिकर्णादौ समासानुगमे सति ।
अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥ ७६८
एवं राजन्यशब्दादेरयतत्त्वाद्यनादरः ।
व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्धितः ॥ ७६९
वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम्
तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् ।
तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥ ७७०
‘कलेर्ढक्’ (पा० सू० ४-२-८-) ‘वामदेवाड्ड्यौ’ (पा० सू० ४-२-९) इति
कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्व्याकरणस्य भवति । वेदे तु ‘ततो वसु
वामं समभवत्, तस्माद्द्वात्रदेवत्यम्’ । ‘यदकालयत्, तत्कालेयस्य कालेयत्वम्’
इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधंत ।
२४ ] प्रथमाध्याये तृतीयपादः ५२३
तथा कल्पसूत्रकारैः कृष्णंशंवासः । कृष्णवलक्षे अजिने इत्येवमादिषु कृष्ण-
दशादिविवरणाश्रयणाद्व्याकरणशतेनाप्यनवगता अर्था वेदार्थवित्परम्पराप्राप्ता
वेदवाक्यपौर्वापर्यावगतयूपादिशब्दार्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकर-
णानपेक्षाणामेव निःसंशयार्थप्रतिपत्तिः तथा स्थूलपृषत्यादिशब्दार्थेष्वपि व्याख्यातृ-
परम्परैव निर्णयक्षमेति, न व्याकरणमपेक्षितव्यम् ।
वाक्यार्थनिर्णयेऽपि व्याकरणस्यानुपयोगवर्णनम्
किं च-वाक्यार्थेषु च सन्देहा जायन्ते ये सहस्रशः ।
नेषां व्याकरणात्कश्चित्पूर्वपक्षोऽपि गम्यते ॥ ७७१
यदि वेदार्थसंदेहप्रयोजनं व्याकरणं भवेत् ततः किमर्थवादा स्वतन्त्राः
कञ्चिदर्थं प्रतिपादयन्ति, अथ विधिशेषभूताः ? तथा किमूर्गवरोधनमौदुम्बरत्वस्य
फलम्, उत प्रशंसार्थमुपात्तमिति । तथा हेतुविधि-हेत्वर्थवाद-मन्त्रप्रयोगदृष्टा-
दृष्टार्थत्वादिषु, ग्रहै कत्वविवक्षादिषु च सन्देहानपनयेत् । अथैवमादिषु मीमांसा-
सिद्धत्वाद्याकरणेऽनुपन्यासः ततः कल्पसूत्रकारवचनसिद्धकतिपयस्थूलपृषत्याद्यर्थ-
निर्णयप्रयोजनता सुतरां नाऽऽश्रयणीया ।
व्याख्यानादेव सन्देहनिवृत्तेः नहि संदेहादवेद इति निरूपणम्
अपि च--लक्षणोत्थेऽपि सन्देहे व्याख्यानादेव निर्णयः ।
वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते ॥ ७७२
'व्याख्यानतो विशेषप्रतिपत्तिः'१ इत्यनयैव परिभाषया न हि सन्देहादलक्षण-
मितिवन्न हि सन्देहादवेद इत्यपि शक्यं वक्तुम् ।
न चागृहीतशब्दार्थैः कैश्चिद् व्याकरणाश्रयात् ।
व्याख्यातुं शक्यते वेदो यतः स्यात्तेन निश्चयः ॥ ७७३
यथैवावस्थितो वेदस्तथा व्याख्याऽपि सर्वदा ।
स्वरादर्थनिश्चय इत्यस्य निरासः
अतः स्थूलपृषत्यादिव्याख्या व्याकरणादृते ॥ ७७४
न च लोके प्रयुक्तानां पदानां दृश्यते स्वरः ।
व्यवहाराद्वहिर्भूतात्स्वरान्नातोऽर्थनिश्चयः ॥ ७७५
वृद्धव्यवहाराधीनं शब्दार्थविधारणम् । तत्र च समासान्तोदात्तत्व-पूर्वपद-
प्रकृतिस्वरत्वादिप्रयोगविभागाभावान्न तत्कृतार्थविशेषव्यवस्था ।
१. महाभाष्य ( प्रत्याहाराह्निके लण्सूत्रे )
५२४ मीमांसादर्शनम् [ सू०
यत्र त्वस्ति स्वरज्ञानं वेदवाक्येष्वविश्रुतम् ।
तत्र नैव पदार्थानामवधारणसंभवः ॥ ७७६
तत्रापि निर्णयो यः स्यादर्थप्रकरणादिभिः ।
तत्र तैरेव सिद्धत्वान्न स्वरस्याभिधां गता ॥ ७७७
तेनादृष्टार्थ एवायं स्वरपाठोऽवगम्यते ।
सर्वदा ब्रह्मयज्ञाङ्गद्रव्ययज्ञजपेषु च ॥ ७७८
व्याकरणानुगमोऽपि चास्य यदि नाम कथंचित्तदुपयोगार्थ एव भवेत् । न तु
लौकिकप्रयोगार्थः, अत्यन्ताप्रयुक्तत्वात् ।
न च व्याकरणोक्तेन स्वरेणार्थस्य निर्णयः ।
शब्दानुशासनं ह्येतद् दृष्टं नाऽर्थानुशासनम् ॥ ७७९
तस्मादसन्देहार्थमपि नाध्येयं व्याकरणम् । न ह्येतदर्थनिश्चयाङ्गभूतस्वर-
विशेषप्रयोगोत्पत्तिशास्त्रम् ।
आनुषङ्गिकाणां त्रयोदशानां प्रयोजनानां निरासः
यान्यपि च 'इमानि भूयः शब्दानुशासनस्य प्रयोजनानि' इत्येवमुपन्यस्तानि ।
तेषामपि कानिचित्प्रयोजनत्वयोग्यान्येव न संभवन्ति । कानिचित्प्रयोनाभासानि ।
कानिचिदप्रमाणकानि ।
अपि च—अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बिनी ॥ ७८०
तत्र यस्तावत् तेऽसुरा इत्याद्यसुरपुराकल्पार्थवादप्रक्रमेऽपशब्दप्रतिषेधः प्रयो-
जनत्वेनोपन्यस्तः, स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्दः इत्यत्रापि बहुजन-
प्रसिद्धशिक्षाकारपठितमन्त्रपदोद्धारेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः ।
दुष्टमन्त्रप्रयोगे त्विष्यत एव यजमानस्य प्रत्यवायः, 'यदृचोता जहाति, वाग्वि
तद्यजमानं जहाति' इत्येवमादिभिः सर्वर्त्विक्प्रयोज्यमन्त्रविनाशेषु यजमा-
नगामिदोषदर्शनात् । तथा 'इन्द्रशत्रुर्वर्धस्व' इति मन्त्रप्रयोगविनाशदोष
एवोदाहृतः । यत्तु निरुक्ते 'यदधीतमविज्ञातं निगदेनैव शब्द्यते' १ ।
इत्युक्तम्, तदस्माभिः प्रथमसूत्र एवाऽथशब्दं व्याचक्षाणैः स्नानस्मृतिक्रमकारणत्वे-
नोपवर्णितम् 'अनतिक्रामन्तो वेदमर्थवन्तं सन्तममनर्थकमवकल्पयेम, २ दृष्टो हि
तस्यार्थः कर्मावबोधनम्' इति । ततश्चाव्याख्यातेन वेदेनार्थप्रकाशनाकरणात्
'न तज्ज्वलति कर्हिचित्' इति । सत्यमेवैतत् । न तु व्याकरणस्य तत्रोपयोगः ।
कर्मप्रयोगोत्पत्तिं प्रत्यशास्त्रत्वात् । शब्दशास्त्रमेतदिति चेत् ? तेष्वपि पूर्वोक्तेन
१ क. शक्यते । २ क. मनर्थकं कल्पयेम ।
२४ ] प्रथमाध्याये तृतीयपादः ५२५
निर्मूलत्वेन न व्यवस्था स्यात् । तस्मात्कल्पसूत्र-निरुक्त-मींसानामेवाधीतमन्त्र-
ब्राह्मणार्थविज्ञानोपयोगक्षमत्वादेतत्प्रयोजनं युक्तम्, न तु व्याकरणस्य ।
यस्तु प्रयुङ्क्ते इत्येतदपि मन्त्रब्राह्मणशब्दस्य सम्यक्प्रयोगप्रयोजनमेव
विज्ञायते । यथासमाम्नातादन्यथाकरणाच्च 'दुष्यति चापशब्दैः' इति ।
स्वाध्यायाध्ययनाध्यापनयजनयाजनगतवेदशब्दाविनाशेऽपि 'यदृत्वो यज्ञ आतिं-
भियात्' इति । एतद्वचनादवगतदोषानुवादोऽपीत्यवगम्यते । वाग्योगविदिति च
बहुलोकव्यवहारदर्शनाद्विदितपदपदार्थसम्बन्धः पुमान्, ब्राह्मणवाक्येषु चोद्दिश्य-
मानोपादीयमानगुणप्रधानादिनिरूपणावधृतवचनव्यक्तिविशेषो मन्त्रेषु चावगत-
चोदितस्वार्थपरार्थप्रकाशनार्हत्वानर्हत्वविदेव१ च वाग्योगविदित्युच्यते, न
वैयाकरणः वैयाकरणस्यैवंविधप्रयोगोत्पत्त्यशास्त्रत्वात् ।
यदप्यविद्वांस इति प्रत्यभिवादे नामान्त्यस्वरप्लुतानभिज्ञनिन्दावचनम्,
तत्प्लुतस्य त्रिमात्रस्य लोकप्रसिद्धत्वान्मन्वाद्युपदिष्टनामान्त्यप्रयोगसिद्धौ लब्धायां
तत्प्रयोगोत्पत्त्यशास्त्रत्वम् । न च तावता मन्वादिभिरनेन चोदाहृतेन श्लोकेन
प्रकृतिप्रत्ययादिविभागद्वारेण शब्दापशब्दविवेकज्ञानम्, २ तदुपयोगो वाऽऽश्रीयते ।
यच्च प्रजायाः सविभक्तिकाः कर्तव्याः इति, तद्याज्ञिकोपदेशसिद्धत्वाद्
ब्राह्मणे च षड्हविभक्तयः 'अग्निर्वृत्राणि जङ्घनत्' 'अग्निं वो वृत्रहन्तमम्'
'अग्निनाऽग्निः समिध्यते' इत्येवमादिविभक्तिप्रयोगदर्शनादन्तरेणापि
व्याकरणम् । वैभक्तिकमात्रा लोचनापि वा सा विभक्ति.कप्रयाजप्रयोगसिद्धेर-
शास्त्रं व्याकरणम् ।
'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आर्त्विजीनो भवति'३.
इति सम्यग्वेदाध्याय्येवमभिधीयते ।
तथा 'चत्वारि वाक्परिमिता पदानि' इति यानि तावदोंकारमहाव्याहृत्यादि-
चतुष्टयबाहुल्यप्रयोजनानुसरणेन नैरुक्तैरप्यक्षरवर्णसाम्यान्निर्वू यादितिवत्प्रपञ्चि-
तानि, न तत्र व्याकरणस्य कश्चिदधिकारः । यत्तु नामाख्यातोपसर्गनिपातचतुष्ट-
यानुगतं वैयाकरणमतमाश्रितम्, तदपि चतुष्टयस्य लोकसिद्धत्वादेव नातीव
व्याकरणापेक्षम् । एतद्विषयत्वे च वर्ण्यमाने 'तुरीयं वाचो मनुष्या वदन्ति'
इत्यसम्बद्धमेव स्यात्, चतुर्णामपि पदजातानां मनुष्यैरूच्यमानत्वात् । तस्मादय-
मस्य मन्त्रस्यार्थः पौर्वापर्यसंगतो वर्ण्यते । 'चत्वारि वाक्परिमिता पदानि' इति
यैर्वाक्यद्यते गम्यते तानि चत्वारि प्रत्यक्षानुमानोपमानार्थापत्त्याख्यानि प्रमाणान्य-
१ क. चोदिताचोदित । २ क. (टिप्पण्यां) शब्दविवेकज्ञानमिति पाठः ।
३. महाभाष्ये पस्पशाह्निके ऋ० सं० (१-१६४-४५) ।
५२६ मीमांसादर्शनम् [ सू०
भिधीयन्ते । तत्र यानि प्रतोकविधिप्राकृतवैकृतवाक्यसारूप्यदृष्टानुपपद्यमानादि-
प्रभवैरनुमानोपमानार्थापत्त्याख्यैस्त्रिभिर्गम्यन्ते, तानि तत्सिद्धत्वादेव नेङ्गयन्ति
नोच्चारयन्ति । यस्तु भागस्तैरशक्यः प्रतिपादयितुम्, तं तुरीयं प्रत्यक्षसमधि-
गम्यमध्येतारो मनुष्या वदन्ति समामनन्तीत्यर्थः । षट्प्रमाणीमध्याच्च प्रमाणद्वयं
वाक्पदत्वादपोद्धृतम् । अभावस्तावदभावविषयत्वादेव वाक्पदं न भवति ।
आगमस्य पुनर्वर्णात्मकत्वात्पद्यमानवागाश्रितस्य पदत्वाश्रयणमनुपपन्नम् । प्रत्यक्ष-
पक्षनिक्षिप्तत्वात्पृथक्त्वेनानिर्देशः ।
चत्वारिशृङ्गा इत्यस्य१ तु विषुवति होतुराज्ये प्रयुक्तस्य योऽर्थः स, मन्त्रा-
धिकरणे व्याख्यातः । न चात्र काचिद् व्याकरणापेक्षा ।
यत्तु चत्वारि पदजातानि शृङ्गाणीत्येवमादिसंख्यासामान्यमात्रेण कर्मविनि-
योगानपेक्षमर्थान्तरं वर्ण्यते, तद्व्याकरणकृतवाक्कौशलमात्रम् । तादृशं च
वैशेषिकादिष्वपि तदभियुक्तैः शक्यं योजयितुमित्यनादरणीयम् ।
'उतत्वः पश्यन्'२ इत्यपि लोक-निरुक्त-कल्पसूत्र-मीमांसाश्रयोत्पन्नपदार्थ-
वाक्यार्थज्ञानप्रशंसार्थ एव मन्त्रो विज्ञायमानो न व्याकरणमाद्रियते ।
एवं 'सक्तुमिव तितउना' इत्येषोऽप्यविप्लुतस्वाध्यायाध्ययननिर्मलवेदाक्षरार्थ-
ज्ञानप्रशंसार्थं पूर्ववदेव वर्णनीयः ।
'आहिताग्निरपशब्दं प्रयुज्य' इति, व्याख्यातमेव तत् ।
यदपि नामकरणे, घोषवदाद्यन्तरन्तस्थं३ द्विचतुरादिवर्णकृदन्तपरिगृहीतद्धित-
वर्जनवचनम्, तत्कृत्तद्धितसंज्ञयोर्व्याकरणेऽपि पूर्वप्रसिद्धयोरेवोपादानाद्वर्णपरि-
माणस्य च प्रत्यक्षपूर्वकस्मृत्यधीनत्वाद् घोषवत्त्वादीनां च शिक्षाप्रातिशाख्येष्व-
नुक्रमणात्सर्वैश्च श्रोत्रियैरक्लेशेन नामकरणान्न व्याकरणं नाम प्रयोगोत्पत्तिशास्त्र-
त्वेनापेक्षणीयम् ।
'सुदेवो असि वरुण' इत्यत्र यद्यपि तावत्सप्तविभक्तय एव सप्त सिन्धव इति
व्याख्यायन्ते, तथाऽपि तासां विभक्तिसंज्ञामात्रं व्याकरणेन क्रियते, प्रसिद्धमेव वा
गृह्यते । यानि तु प्रयोगरूपाणि तानि लोके वेदे च विभागशः प्रत्यक्षाण्येवेति,
न व्याकरणापेक्षयैवमभिधीयन्ते४ । यदा पुनः सप्त सिन्धवो५ नद्य एव ।
यज्ञर्त्विग्यजमानप्रशंसापक्षे वा सप्त होत्रागता वाचः । सप्त सामस्वरगतास्तद्भूक्ति-
गता वा परिगृह्यन्ते, तदैतिहासिकयाज्ञिकगोचरापन्नत्वादविषय एव व्याकरणस्य ।
१. ऋ० सं० (४-५८-३) । २. ऋ० सं० (१०-७१-४) ।
३ क. दाद्यन्तरं तस्य । ४ क. मभिधीयते । ५ क. सिन्धवोजनद्य ।
२४ ] प्रथमाध्याये तृतीयपादः ५२७
व्याकरणेन संस्कारो भवतीति पक्षस्य निरासः
संस्कृतानां च शब्दानां साधुत्वे परिकल्पिते ।
वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥ ७८१
व्याकरणेन शब्देषु संस्क्रियमाणेषु न ज्ञायते किं वस्तु संस्क्रियते, को वा
संस्कार उत्पत्तिप्राप्तिविकारापूर्वसाधनसामर्थ्याधानानां क्रियत इति ।
न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया ।
सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिध्यति ॥ ७८२
शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता ।
वर्णत्वेऽप्येकवर्णानां गाव्यादीनां च तुल्यता ॥ ७८३
एतेन वर्णव्यक्तिसंस्कारः प्रत्युक्तः ।
गवादिषु गकारादिर्यः सकृत्संस्कृतः क्वचित् ।
गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥ ७८४
एवं प्रत्येकसंस्कारे न कस्यचिदसाधुता ।
समुदायस्तु नैवास्ति तेषामयुगपच्छ्रुतेः ॥ ७८५
येषां तावद्वर्णव्यक्तयः प्रध्वंसिन्य एव, तेषां विनष्टानुत्पन्नानां संस्कारा-
योग्यत्वमेव ।
वर्तमानाऽपि संस्कारक्षणं नैवावतिष्ठते ।
तावदेव विनश्येत्सा यावत्संस्कर्तुमिष्यते ॥ ७८६
न च तां संस्कृतां भूयः कश्चन द्रक्ष्यति क्वचित् ।
सक्तूनामिव संस्कारो होमेनैष प्रसज्यते ॥ ७८७
यथैव होमसंस्कृतानां भस्मसाद्भावात्सक्तूनां पुनर्दर्शनविनियोगासंभवाद्
द्वितीयाप्रतिपादितसंस्कार्यत्वपरिग्रहे सक्तवो होमस्तद्भावनाविधिरिति सर्वेषा-
मनर्थकत्वं प्रसज्यत इति संस्कारानाश्रयणम्, तथैव क्षणिकशब्दव्यक्तिसंस्कारपक्षे
सर्वानर्थकत्वप्रसङ्गः ।
लक्षणं प्रवर्त्यमिति भाष्योक्तस्य अर्थस्य निरासः
ततश्च योऽप्ययमनियमोऽभिहितः, यद्येव नित्यः शब्दः, अथापि कार्यः
‘उभयथाऽपि लक्षणं प्रवर्त्यम्’ १ इति स एवमेव न्यायनिरूपणभयमात्राविष्करणार्थः
शिष्यव्यामोहनार्थो वेति न युक्तः परिग्रहीतुम् ।
अदूरविप्रकृष्टे च वस्तुन्यनियमो भवेत् ।
शीतोष्णनियमं ब्रूयात्को नु वह्नेः सचेतनः ॥ ७८८
१ महाभाष्ये पस्पशाह्निके ।
५३८ मीमांसादर्शनम् [ सू०
उत्पाद्यश्चैव संस्कारं कार्यपक्षे भवेदयम् ।
ततश्च सुतरां प्राप्ता प्रयोगोत्पत्त्यशाश्वता ॥ ७८९
व्याकरणप्रक्रियानुगृहीतेन वैयाकरणेनोत्पाद्यमानेषु साधुशब्देषु नित्यवेद-
मूलत्ववेदाङ्गत्वनिराकरणं स्वयमेवाऽऽपादितम् ।
अथ व्याकरणोत्पन्नैः शब्दैर्वेदोऽपि निर्मितः ।
ततो व्याकरणस्येव वेदस्याप्यप्रमाणता ॥ ७९०
शब्दश्चोत्पाद्यमानत्वे क्षणान्न स्यात्क्षणान्तरे ।
तादृशस्य च संस्कारो न शक्यो नोपयुज्यते ॥ ७९१
तस्मादनियमं मुक्त्वा नित्यः संस्क्रियते यदि ।
विक्रियाख्योऽपि संस्कारस्ततो नैवाऽस्य संभवेत् ॥ ७९२
विना व्याकरणादाप्तिः सिद्धा श्रोत्रसमाश्रया ।
दृष्टार्थेषु शब्देषु अदृष्टार्थनियमस्यासंभवोपपादनम्
अदृष्टार्थस्तु संस्कारो विध्यभावान्न गम्यते ॥ ७९३
दृष्टार्थेषु च शब्देषु नादृष्टेन प्रयोजनम् ।
न हीष्टं भोजनार्थीनां व्रीहीणां प्रोक्षणात्फलम् ॥ ७९४
कर्मप्रकरणाम्नाता न च व्याकरणक्रिया ।
येनाऽपूर्वप्रयुक्तानां शब्दानां संस्कृतिर्भवेत् ॥ ७९५
हन्त्यादिविधिवन्नापि संभवी व्याक्रियाविधिः ।
पौरुषेयं कथं वस्तु विदध्याच्छाश्वतो विधिः ॥ ७९६
तेनानारभ्यवादेऽपि विधिर्नैवास्ति तादृशः ।
अनारभ्य विधित्वे च न कर्मार्थत्वसंभवः ॥ ७९७
ऐकान्तिकं हि संस्कार्यं यत्क्रतौ स्यात्स्रुवादिवत् ।
तद्द्वारेण ऋतुप्राप्तिर्न लोकव्यभिचारिणः ॥ ७९८
लोकवेदगतत्वाच्च शब्दानां व्यभिचारिता ।
अतो न व्याक्रिया गच्छेत्तदुपस्थापितं क्रतुम् ॥ ७९९
आकाशेऽवस्थितः शब्दः संस्कर्तुं शक्यते कथम् ।
नित्यत्वान्मूर्त्यभावाच्च व्योमाश्रितविभुत्ववत् ॥ ८००
वर्णसंस्कारमात्रं च यदि व्याकरणाद्भवेत् ।
प्रत्याहारेण तत्सिद्धेर्नोत्तरेण प्रयोजनम् ॥ ८०१
समुदायस्तवस्तुत्वान्नैव संस्कारमर्हति ।
प्रत्येकं च भवेद्यद्वदग्निधर्मः प्रतीष्टकम् ॥ ८०२
२४ ] प्रथमाध्याये तृतीयपादः ५२९
न च स्थलवदारम्भो वर्णैः शब्दस्य कस्यचित् ।
येन तत्संस्कृतिः सिध्येत्स हि पूर्वं निराकृतः ॥ ८०३
स्फोटगोशब्दताङ्गत्वप्रभृतौ पदकल्पना ।
गकारादिपदव्याख्याद्वारेणैव निराकृता ॥ ८०४
सर्ववर्णसमूहोऽपि न संस्कार्यः कथंचन ।
न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥ ८०५
अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे ।
संख्यामात्रस्य साधुत्वं तच्च स्यादितरेष्वपि ॥ ८०६
संस्क्रियेतानुपूर्वी चेच्छब्दधर्मो न सेष्यते ।
ग्रहणोच्चारणस्थत्वाद् गाव्यादिषु च संभवात् ॥ ८०७
ग्रहणोच्चारणे एव संस्कार्ये यदि मन्यसे ।
कर्मणः कर्मसाध्यत्वमुपरिष्टान्निषेत्स्यते ॥ ८०८
वक्ष्यति हि—कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति ३-१-१० ।
ताल्वादिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत् ।
वैद्योपदिष्टसंस्कारसंस्कार्यत्वावधारणात् ॥ ८०९
मनो वा पुरुषो वाऽथ संस्कारास्पदमीष्यते ।
शब्दानुशासनं शास्त्रमिति व्यर्थं तदा भवेत् ॥ ८१०
शिष्यानुशासनत्वं हि शास्त्राणामुपपद्यते ।
शब्दस्याननुशास्यत्वाद्व्यर्थं तदनुशासनम् ॥ ८११
स्फोटशब्दे च संस्कारः सुतरां नोपपद्यते ।
स्फोटपक्षे संस्कारानुपपत्तिवर्णनम्
असन्तौ तत्र हि स्यातां प्रकृतिप्रत्ययावपि ॥ ८१२
वाक्यस्फोटश्च यैरिष्टः सर्वावयववर्जितः ।
नामाख्यातादि¹ संस्कार्यं तेषां शशविषाणवत् ॥ ८१३
अपोद्धारेण संस्कारो यद्यत्राभ्युपगम्यते ।
शृङ्गं शशादपोद्धृत्य किं न संस्क्रियते मनाक् ॥ ८१४
अन्यावयवसारूप्यादपोद्धारो यदिष्यते ।
खरशृङ्गेण सारूप्याच्छशशृङ्गस्य किं न सः ॥ ८१५
१ क. नामाख्याता हि ।
३४
५३० मीमांसादर्शनम् [ सू०
गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शितम् ।
सत्यावयवसामान्यात्तदिहापीष्यते तथा ॥ ८१६
वाक्याधिकरणे चैतद्विस्तरेण निराकृतम् ।
तेनापोद्धारसंस्कारकल्पनाऽपि न युज्यते ॥ ८१७
अन्वाचक्षीत शास्त्रं चेच्छब्दान्सदपोद्धृतान् ।
एतेनैवाप्रमाणत्वमस्य माहेन्द्रजालवत् ॥ ८१८
अशिष्यत्वादशास्त्रत्वमेवं तावत्पदं प्रति ।
वाक्यानुशासनं नैव कृतं व्याकरणेन च ॥ ८१९
अर्थेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता ।
वाक्यमेवंविधं चेष्टं न पदान्यर्थवर्जनात्१ ॥ ८२०
ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ ८२१
इति बहुप्रपञ्चमुक्तवा केवलस्य चाप्रयोगादर्थप्रयुक्तत्वं निराकृत्य वाक्या-
न्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तमासीत् तदनाश्रयणात्तु सूत्रवार्तिक-
भाष्यकारवदेव पूर्वापरविरुद्धमभिदधानैष्टीकाकारैरपि सुतरां व्याकरणस्याप्रत्य-
यितपुरुषप्रणीतत्वं दर्शितम् ।
अतो विगानभूयिष्ठाद्विरुद्धान्मूलवर्जितात् ।
निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥ ८२२
ततश्च—स्वाध्यायाध्ययनं मुक्त्वा तत्प्रयोगश्च कर्मसु ।
शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥ ८२३
तेन सर्वैभाषितव्यम्, सर्वे साधव इति ।
अत्रानुमानप्रयोगाः—
गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः ।
वृद्धैस्तत्र प्रयुक्तत्वाद् गौरुसेत्येवमादिवत् ॥ ८२४
एवं साधुत्वमेतेषां सर्वेषामर्थसाधनात् ।
श्रौत्रत्वान्नापशब्दत्वं पूर्वदृष्टान्तदर्शनात् ॥ ८२५
अनादित्वं च सर्वेषामवध्यनवधारणात् ।
वक्तुर्वक्तुः पुरो वृत्तेः शक्यं वक्तुं गवादिवत् ॥ ८२६
१ क. न्यर्थंवज्जनात् ।
२४ ] प्रथमाध्याये तृतीयपादः ५३१
साधुभिर्भाषिमाणानां नादृष्टफलसम्भवः ।
दृष्टार्थत्वाद्यथा धूमादग्निं देशेऽवगच्छताम् ॥ ८२७
अशास्त्रविहितत्वाच्च बुद्धशब्दाभिधानवत् ।
शास्त्रं नावेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥ ८२८
वेदमूलतयाऽप्यस्य प्रमाणत्वं न कल्पते ।
अवेदविषयार्थत्वान्नाटकादिनिबन्धनवत् ॥ ८२९
शास्त्राङ्गमपि नैवैतदातदर्थ्यात्कथादिवत् ।
अतादर्थ्यं विनाऽप्यस्माद्भेदेनार्थावबोधनात् ॥ ८३०
न च शब्दप्रयोगाङ्गं सिद्धे तस्मिन्प्रवर्तनात् ।
यदीदृशमनङ्गं तद् दृष्टं नेत्रानुमानवत् ॥ ८३१
यथा हि चक्षुरादिग्रहणानपेक्षरूपादिविज्ञानसिद्धौ तज्जनितार्थापत्तिप्रभवं
चक्षुराद्यनुमानमुपजातमपि न पूर्वज्ञानस्याङ्गम, एवं लोकवेदसिद्धशब्दप्रयोगोत्तर-
कालप्रणीततया व्याकरणमप्यनङ्गम् ।
तस्मात्पर्यायशब्दत्वाद् गाव्यादेस्तरुवृक्षवत् ।
आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥ ७३२ ॥ २४ ॥
अथाष्टमव्याकरणाधिकरणम् ॥८॥
न्या० सु०—अत्र भाष्यकृता गोगाव्यादिशब्दानुदाहृत्य किमेते सर्वं एव सास्नादिमतोऽ-
र्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम्, उत एक एवेति । सास्नादिमतो वा पदार्थस्य
कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्वं एव, उत एक एवेति सन्देहमुपन्यस्य प्रयोग-
भेदेनाविरोधात्सर्वेषां व्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः, सिद्धान्ताभावेन सन्देहानुप-
पत्तिमाशङ्क्य किमत्रैति भाष्येण शक्त्या विना शब्दस्यार्थप्रत्यायकत्वं सम्भवति, उत नेति
सन्देहकारणमुक्त्वा सर्वं इत्यादिना भाष्येण पूर्वपक्षः कृतः ।
यववराहाधिकरणन्यायवर्णनम्
तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुप-
पत्तिमाशङ्कयाह— एकस्मादिति । व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोग-
बाधमङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितम्, तत् विकल्पदोष-
भयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाद् गौणमुख्यविभागाश्रयणाच्चेति योज्यम् । एतत्कारणत्रयो-
पपादनायैकस्मादित्युक्तम् । यवैर्यजेतेत्येकस्माद्यवपदाद्दीर्घशूकैर्वा यष्टव्यम्, प्रियङ्गुभिर्वेत्य-
नेकार्थप्रतीतेर्विकल्पोऽनेकक्तिकल्पना ह्येकस्य शब्दस्यापद्येत, एकस्मिंश्चार्थे शब्दस्य शक्तौ
कॢप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्तेननिकक्तिकल्पनं युक्तम् । इह तु गोशब्दश्रवणात्ततोऽ-
५३२ मीमांसादर्शनम् [ सू०
र्थप्रतीतिर्गवीशब्दश्रवणे तस्मादिति व्यवस्थोपपत्तेर्न तावच्छ्रोतुर्विकल्पापत्तिः । वक्तुरप्यय-
मेव शब्दः प्रयोज्य इति नियमाभावात्प्रसज्यमानोऽपीच्छया विकल्पेन दोषमावहति । यत्र
च कारणात्कार्यदर्शनं तत्र शक्तेरस्तित्वं सम्प्रतीयत इति न्यायेन शक्तेः कारणाश्रितत्वेन
शब्दसमवेतत्वात्तद्भेदे युक्त एव भेदो । गाव्यादीनां चार्थान्तरे मुख्यगौणाभावात्सास्नादि-
मति गौणत्वायोगात् शब्दसादृश्यमात्रेण शब्दस्य शब्दान्तरार्थप्रत्यायकत्वे चालाशब्दस्यापि
मालाशब्दार्थप्रत्यायकत्वापत्तेर्मुख्यत्वमवश्यं प्रतीयत इति वैषम्यम् । प्रियङ्गुदीर्घशूकयोश्चैक-
पदोक्तयोर्विकल्पे तस्यैव यवपदस्य युगपदेकार्थापेक्षया प्रामाण्यम् अर्थान्तरापेक्षया चाप्रामा-
ण्यमित्यत्यन्तविरोधं वक्तुम् - एकस्मादित्ययुक्तम् । केषांचिद्दीर्घशूकेषु प्रयोगः, अन्येषां
प्रियङ्गुष्वित्यनेकार्थप्रतिभानकारणमुक्तम् ।
यववराहाधिकरणन्यायमुक्त्वा, तद्वैषम्यमत्रैव दर्शयन् पूर्वपक्षयति-यत्र पुनरित्या-
दिना । 'साधुत्वेनावधार्यन्त' इत्यन्तेन तत्र सत्यप्येकविषयानेकशब्दत्वेऽर्थसाधनत्वात्साधुत्वे-
नावधार्यन्त इति वक्ष्यमाणसाध्यालोचनेन शक्तिभेदोपपत्तेरविरोधादिति च पञ्चमीद्वयं
योज्यम् । शब्दाश्रितत्वाच्छक्तेः, तद्भेदे शक्तिभेदौचित्यं समवायिशब्देनोक्तम् । अर्थविशेषा-
वच्छिन्नशब्दाश्रितैकशक्तिकल्पनामात्रेणोभयनियमोपपत्तेरनवच्छिन्नशक्तिकल्पने वा शक्ति-
द्वयकल्पनेऽप्यर्थस्य सर्वशब्दवाच्यत्वापत्तेः, शब्दस्य च सर्वार्थवाचकत्वापत्तेरर्थाश्रितशक्त्य-
भावात् अर्थैक्येऽप्येकस्यानेकशक्तिकल्पनादोषो नास्तीत्याशयः । यवादिविधेश्च शास्त्रस्थ-
प्रयोगेण दीर्घशूकादिविषयत्वावधारणान् तद्विरुद्धलौकिकप्रयोगावगतप्रियङ्गवादिविषयत्ववाचो-
दाहृतगवादिशब्दप्रयोगमात्रेण गाव्यादिशब्दानामप्रयोगत्वावगमात्सर्वपर्यायप्रयोगा नियमा-
च्चाविरोधान्न शास्त्रस्थप्रयोगेण लौकिकप्रयोगबाध इति शास्त्रस्थेत्यस्यार्थः ।
अस्यैव पूर्वपक्षहेतुद्वयस्य यववराहाधिकरणन्यायवैषम्यप्रतिपादनार्थत्वप्रदर्शनार्थं
सत्यपि विरोधे शास्त्रस्य साध्वसाधुत्वप्रतिपादनव्यापाराभावाच्छास्त्रस्थप्रयोगस्य निर्मूल-
त्वेन लौकिकप्रयोगाबाधकत्वादपि सर्वे साधुत्वेनावधार्यन्त इति उत्तरोपपत्तिर्वक्ष्यमाणसाध्य-
व्यवधायकरूपेण पदपूर्वकंत्वाच्चेति स्वोपपादकोपन्यासपूर्वमुपन्यस्ता अनेन व्याकरणस्मृत्य-
प्रामाण्येन पूर्वपक्षकरणाद्विचारस्य पादाध्यायसङ्गतिर्दर्शिता । अनन्तराधिकरणसङ्गतिस्त्वी-
दृशसम्भवप्रतिपादनार्थमेव वेत्यत्र होलाकाधिकरणोक्तव्यक्त्याकृत्यादिवाच्युपदासम्भवोप-
जीवनेनात्र पूर्वपक्षोत्थानात् वक्ष्यते व्याकरणशास्त्रव्यापारस्य पदपूर्वकत्वोपपादनार्थं
वाक्यात्मकत्वं विशेषणम् । अनेन च व्याकरणशास्त्रस्य लोकप्रसिद्धपदप्रयोगादुत्पत्तेः ।
साध्वसाधुव्यवस्थायाः शास्त्रविषयत्वायोगादित्येवम्प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवो
व्याख्यातः । लोकप्रसिद्धसाधुशब्दवशात् व्याकरणशास्त्रं प्रवर्त्तते तस्माच्च लौकिकशब्दानां
साध्वसाधुत्वनिर्णयं इतीतरेतराश्रयोपपादनार्थम् - तथा हीत्युक्तम् । शब्दरूपपक्षासावर्थं श्चेत्येवं
वस्तुवचनत्वेनार्थशब्दो व्याख्येयपदार्थज्ञानाय वा शब्दशास्त्रस्य पदरूपशब्दापेक्षाप्रदर्श-
नार्थोऽर्थशब्दः । नन्वेवमप्यर्थप्रतिपादकत्वेन गोगाव्यादिशब्दानां लोके प्रसिद्धत्वात्साधुत्वम्,
भेर्यादिशब्दानां त्वर्थप्रतिपादकत्वाप्रसिद्धेर साधुतेति व्यवस्थोपपत्तेः, शब्देषु न व्यवस्था
२४ ] प्रथमाध्याये तृतीयपादः ५३३
स्यादित्ययुक्तमित्याशङ्क्य-अत इत्युक्तम् । लोकप्रयुक्तेष्वेव गोगाव्यादिषु साध्वसाधुत्व-
व्यवस्थानिरासार्थमेतदित्याशयः ।
नन्वेवं सत्याचारेण स्मृतिबाधः स्यात् स च पूर्वोक्तस्मृतिबलाबलीयस्त्वविरुद्ध
इत्याशङ्क्य-वाक्यार्थेषु होत्युक्तम् । तत्र आचारानपेक्षायाः स्मृतेस्ततो बलीयस्त्वम् । इह
तु स्मृतेराचारापेक्षत्वेन विपरीतबलाबलक्रमत्वाल्लोकादेव साध्वसाधुता निर्णतव्येत्याचारेण
स्मृतिबाधो युक्त एवेत्याशयः । ननु लोकस्य सङ्कीर्णव्यवहारित्वात्साध्वसाधुत्वनिर्णायकत्वं
न युक्तमित्याशङ्क्य-वाचकेत्युक्तम् । अर्थप्रत्यायको यो गोगाव्यादिशब्दः, स साधुः ।
अप्रत्यायको भेर्यादिशब्दश्चासाधुरिति व्यवस्था लोकसिद्धैवेत्यर्थः । ध्वनिमात्राणीत्यनेनैत-
देव विवृतम् । मात्रिका वर्णसमाम्नायः । ननु वेदादिविद्यास्थानप्रयुक्तेष्वेव गवादिशब्देषु
साधुत्वप्रसिद्धेर्गाव्यादिशब्देषु च तत्राप्रयुक्तेष्वसाधुत्वप्रसिद्धेर्लोके चैवंविधव्यवस्थोनु-
पलब्धेः वतंतो निर्णयः संभवतीत्याशङ्का, साध्वसाधुशब्दयोरर्थप्रत्ययसाधनत्वासाधनत्वनि-
मित्तत्वेन रूढित्वाभावाल्लोके च भेर्यादिशब्दानामप्रत्यायकत्वनिश्चयात् । गोगाव्यादिशब्दानां
प्रत्यायकत्वनिश्चयात्सिद्धैव व्यवस्थेति-तेनेत्यादिनोक्तम् । अपशब्दत्वमप्यर्थं प्रत्ययानव-
गमनिमित्तत्वाद्भेर्यादिशब्देष्वेव व्यवस्थितमित्यनर्थकत्वादित्यनेनोक्तम् । नन्वेकेनैवार्थ-
प्रत्ययसिद्धेः कथमेकस्मिन्नर्थे अनेकेषां साधुतेत्याशङ्का गवादिदृष्टान्तेन निरस्ता । एवं
वाचकशक्तिभेदोपपत्तिरविरोधादिति च पञ्चमीद्वयान्वयायैतावद्ग्रन्थतात्पर्यमेकवाक्यतया
व्याख्यातम् ।
यद्वा तत्र वाचके शक्तिभेदोपपत्तिप्रतिरोधत्वं पर्यालोच्य यो निर्णयो भवति ।
सर्वेषां साधुत्वमित्येवंरूपः स्वीकार्यः । न तु शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधं
पर्यालोच्येति ल्पब्लोपे पञ्चमीद्वयमङ्गीकृत्य पूर्वपक्षिकावगतनिर्णय शब्दानुषङ्गेण वैषम्य-
प्रतिपादनार्थत्वेनाविरोधादित्यन्तं ग्रन्थं व्याख्याय, ननु वाचकशक्तिभेदोपपत्तौ शास्त्रस्थ-
प्रयोगाविरोघे च सत्यपि व्याकरणशास्त्रेण गवादिशब्दानामेव साधुत्वान्वाख्यानेनेतरेषाम-
साधुत्वप्रतिपादनाच्च तद्विरुद्धाचारबलेन सर्वेषां साधुत्वं युक्तमित्याशङ्क्यानराकरणार्थं-
तयोत्तरग्रन्थो व्याख्येयः । अत्र भाष्यकृता 'सर्वं इति ब्रूम' इत्यनेन शब्देषु न व्यावस्था
स्यादिति सूत्रावयवं सर्वशब्दानादित्वपूर्वकपक्षप्रतिज्ञानार्थत्वेन व्याख्याय, कुत इत्यादिनाथं
प्रत्ययान्यथानुपत्त्या गाव्यादिशब्दानामपि सास्नादिमतार्थेन सह वाच्यवाचकसम्बन्धं
प्रश्नपूर्वकमुपपाद्य, अशक्तिजत्वेनापभ्रंशत्वशङ्कामबाध्य स्मृत्या निराकृत्य, कर्तृस्मृत्या च
सामायिकत्वाशङ्कां सम्बन्धग्रन्थे निराकृतामुक्त्वा, .तस्मात्सर्वे साधवः इत्युपसंहृत्य सर्वेषा-
मर्थवत्त्वात्सर्वैर्भाषितव्यमिति पूर्वपक्षप्रयोजनमुक्त्वा, तेन सर्वेषां दृष्टार्थसाधनत्वाविशेषेऽप्य-
दृष्टार्थो गवादिशब्दनियमो भविष्यतीत्याशङ्कानिरासार्थत्वेन प्रयोगोत्पत्तेरुच्चारणनियमस्या-
शास्त्रीयत्वादित्येवं प्रयोगोत्पत्त्याशास्त्रत्वादितिसूत्रावयवो व्याख्यातः । तत्र भाष्यातात्पर्य-
विवेकर्थं दृष्टार्थत्वे साधनत्वाद गाव्यादिशब्दानामसाधुत्वासम्भवमुपपादितमुपसंहरति-
५३४ मीमांसादर्शनम् [ सू०
ततश्चेति । न च दृष्टार्थसाधनत्वनिबन्धनत्वात् साधुशब्दस्य, गाव्यादिशब्दानां तदभावात्सा-
ध्वसाधुव्यवस्था भविष्यतीत्याशङ्कते—अदृष्टेति । साध्वसाधुव्यवस्थेत्यर्थः ।
यद्वा श्रेयोरूपादृष्टसाधनत्वनिबन्धना साधुता प्रत्यवायरूपादृष्टसाधनत्वनिबन्धनाऽसा-
साधुतेत्यर्थः । साधूनामेवादृष्टसाधनत्वम् अदृष्टसाधनत्वमेव वा साधुत्वमित्युभयथापि व्यवस्था
वेदाधीना । न च सा वेदवाक्यैर्निदिष्टा । अदृष्टसाधनत्वं वान्यप्रमाणविषय एव न भवतीति
निराकरोति—वेदवाक्यैरिति । न च दृष्टसाधनत्वस्य प्रमाणान्तराविषयत्वेऽपि तद्धेतुभूतयोः
साध्वसाधुत्वयोः प्रमाणान्तरावगतयोर्वेदेनादृष्टसाधनत्वबोधो भविष्यतीत्याशङ्क्याह—
प्रत्यक्षेण तावदिति । उपमानस्य सादृश्यमात्रविषयत्वेनानाशङ्कनीयत्वादर्थप्रत्ययान्यथानु-
पपत्तेश्चार्थापत्त्या सर्वेषां वाचकत्वप्रतीतेर्व्यवस्थापकत्वस्य दूरनिरस्तत्वादनिराकरणम् ।
ननु प्रमाणान्तरासम्भवेऽपि वेदवाक्यं साधुत्वासाधुत्वाग्राहकं भविष्यतीत्याशङ्क्याह—
वेदेति । साध्वसाधुत्वयोः शब्दान्तरजातिरूपत्वे वस्तुस्वरूपान्वाख्यानपरमेते साधवस्त्वन्य
इत्येवं रूपं वाक्यं कल्प्यम् । धर्मान्तरत्वे साधुत्वगुणान्वाख्यानपरम् । असाधुत्वदोषान्वाख्या-
नपरं तस्य च पुरुषार्थानुबन्धित्वाभावेनानर्थक्यापत्तेरध्ययनविधीनां तात्पर्यानवधारणा-
त्प्रामाण्यं न युक्तमित्याशयः । आत्मस्वरूपप्रतिपादकानां तूपासनादिविध्यपेक्षितार्थामिधा
नात्सरस्वतीविनशनादिना वाक्यानां सारस्वतसत्रादिकर्म्मविधेयोपयिकत्वानामानर्थक्या-
पत्तिरिति वैषम्यसूचनार्थम्—विधीत्युक्तम् । अस्तु तर्हि विधिनिषेधरूपमेव वाक्यं साध्व-
साधुत्वप्रतिपादकमित्याशङ्क्याह—न वेति । ननु माभूत्स्वरूपेण विधिनिषेधविषयत्वं
‘साधुभिरभिदध्यादसाधुर्मिन’ इत्यभिधानकरणत्वेन तु भविष्यतीत्याशङ्कते—अभिधेति ।
गोशब्देनाभिदध्यादश्वशब्देनाभिदध्यात्, गावीशब्देनाभिदध्यात्, न गोणीशब्देनाभिदध्यादि-
त्यादिस्वरूपा प्रत्येकं वा विधिनिषेधा कल्प्यन्ते, ‘साधुरभिरभिदध्यादसाधुर्मिर्नेति द्वावेव
वा । तत्रानन्त्यापत्तेराद्यं पक्षं तावद् दूषयति—नेति । कथं कल्पनानुपपत्तिरित्यपेक्षायां
व्याकरणस्मृतिमूलत्वेन कल्प्यत्वादनन्तानां चाध्येतुमशक्यत्वादनुपपत्तिरित्याह—यो हीति ।
यो हि व्याकरणप्रणेता तद्गुणतया य एव पदानां प्रतिपत्तौ प्रतिपदं पाठ इति महाभाष्य-
कारोक्तन्यायेन साधूनां प्रतिपदं पाठान्नाद्यव्यवस्यतीत्यर्थः । स एकैकस्य शब्दस्य गावीगोण्या-
द्यनेकापशब्ददर्शनात्तेषां विशेषमाह—अपशब्दाश्चेति । कलञ्जादिवदिति वैधम्र्यदृष्टान्तं
विवृणोति—व्रीह्यादीनि हीति । कलञ्जादिग्रहणेन तुल्यन्यायतया व्रीह्यादीनां विधेयत्व-
सम्भवसूचनार्थं व्रीह्यादिग्रहणम् । अनन्तरोक्तव्यतिरेकमुखेन द्वितीयपक्षं निराकरोति—
न त्विति । सर्वानुगतैकधर्म्ममात्रोपलक्षणार्थो जातिशब्दः ।
तत्र एकोपलक्षणत्वाभावेनैकविधिनिषेधविषयत्वासम्भवमुपादयति—न तावदिति ।
अयमाशयः—न तावच्छब्दत्वातिरिक्ता सर्वसाधुशब्दानुयायिन्यसाधुभ्यो व्यावृत्ता विलक्षण-
काकारप्रत्ययवेद्यासाधुत्वजातिसाधुत्वजातिर्वा साधुशब्दानुगता साधुभ्यो व्यावृत्तोपलभ्यते,
न वा अन्योऽपि कश्चिद्धर्म्मः साध्वसाधुशब्दाभिधेयः सम्भवति तथा हि न तावच्छब्दव्यति-
२४ ] प्रथमाध्याये तृतीयपादः ५३५
रिक्तस्येन्द्रियलिङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य-
चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्वव्याप्तेः । न च शब्दस्य
शक्त्यार्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषोऽग्निर्मांणवक इत्यादौ गङ्गाग्निशब्दयोस्तीरमाण-
वकादिषु शक्त्यभावेऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तरविषयसाधुत्वाभ्युपगमे
गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः । देवदत्तादिशब्दानां
च संस्कृतेनार्थप्रतिपादनम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्व-
व्याप्तेः । न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसाधुत्वापत्तिः । स्नुषादि-
शब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तेः पुत्रादौ शक्ति-
सद्भावादसाधुत्वापत्तिः । अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानामपि
सास्नादिमदर्थविषयप्रयोगावध्यस्मरणानादित्वावगमात्साधुत्वमशक्यं निराकर्त्तुम्, स्वाभा-
विकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषाद् गवादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यम् । लक्षणानु-
गमोऽपि च सिद्धेऽनयानर्थक्यमाशङ्क्य चम्पतीत्यादिशब्देषु वृद्धप्रयुक्तत्वेनासाधुतयाऽभि-
मतेषु भावान्न साधुत्वलक्षणमिति न कथंचित् साधुत्वं निरूपयितुं शक्यम् अनेनैव
मार्गेणासाधुत्वमपि निराकार्यमिति । एतदेव विवृणोति—अविभक्ता हीति । अतश्चैको-
पलक्षणाभावात्सामान्यरूपेण साध्वसाधूनां विधिनिषेधविषयत्वानुपपत्तेः । व्यक्तिरूपेण
विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधानन्त्यप्राप्तमित्युपसंहरति — तेनेति ।
ननूपलक्षणान्तरासम्भवेऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपल-
क्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्क्याह — न चेति । अर्थप्रत्यायनोद्देशेन
सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायादर्थप्रत्यायनार्थत्वलक्षणस्य वाचकत्वस्या-
व्यावर्तकत्वाद्विपर्ययलक्षणस्य वा वाचकत्वस्यासत्त्वान्नोपलक्षणत्वं सम्भवतीत्याशयः ।
ननु गाव्यादिशब्दाव्यावर्त्तकत्वेऽपि प्रसिद्धावाचकत्वाद्भैर्यादिशब्दव्यावर्त्तकत्वाद्ववाच-
कत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्यभैर्यादिशब्दोपलक्षणतोपपत्तेस्तन्नि-
बन्धनौ विधिनिषेधौ भविष्यत इत्याशङ्क्याह—वाचकैरिति । प्राप्ताप्राप्ततया विधिनिषेध-
विषयत्वाभावे दृष्टान्तमाह—न हीति । द्रवद्रव्यमात्रोपलक्षणार्थमुदकग्रहणम् ।
ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रेण साध्वसाधुविवेकसिद्धे विधि-
निषेधनिराकरणमनर्थकं मूलश्रुत्यपेक्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य
साधुविधिमात्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्क्याह—अवश्यं चेति ।
निर्मूलत्वे अन्धपरम्परा न्यायापत्तेर्न साध्वसाधुविवेकसिद्धिरित्याशयः । साधुविधानेन,
असाधुवर्जनसिद्धेर साधुनिषेधेन वा साधुप्रयोगसिद्धेरुभयानर्थक्यमाशङ्क्य--संयोगेत्युक्तम् ।
विधेयेष्टसंयोगो विधेः फलम्, निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उपलक्षणमूलत्वे
निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्क्याह—त्रिष्वपि चेति । साधूनामसाधुभ्योऽल्प-
त्वाद्व्यवस्थितत्वाच्च सौकर्यम् । एतदेव विवृणोति—यदीति । यथा पञ्चनखानाम्मध्ये
पञ्चैव शशादयो भक्ष्या इति नियमे कृते, ततोऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते । तथा
५३६ मीमांसादर्शनम् [ सू०
गवादय एव साधव इति नियमे कृते अन्येषामसाधुत्वावगतिरित्यर्थः । एतदेवोपसंहरति—
स एष इति । प्रासङ्गिकं व्याकरणस्य त्रिविधश्रुतिमूलत्वेऽपि साध्वनुशासनमात्रात्मकत्वस-
म्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति—नन्विति । मूलासम्भवमेव
द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वाधिकरणोक्तमत्रापि योजयन्नाह—इदङ्गीति ।
एवमेकोपलक्षणासम्भवेन विधिनिषेधासम्भवमुक्त्वा, विधिविषयासम्भवादपि विध्य-
सम्भवमाह—अथ प्राप्तश्चेति । अनेन च शब्दप्रयोगस्य लोकव्यवहारार्थत्वेनैवोत्पत्तेः
सिद्धेरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः ।
नन्वत्र महावार्त्तिककारेण सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण
धर्म्मन्नियमो यथा लौकिकवैदिकेष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे
आक्षिप्ते धर्म्मार्थं शास्त्रेण साधुनियमः क्रियते । यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे
भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदिति नियम इति वदता समाधान-
मुक्तमित्याशङ्कते--अथेति । धर्म्मजिज्ञासाप्रकृतत्वेन धर्म्मस्य नियम इति । षष्ठीविग्रहेऽपि
सम्बन्धमात्रोत्पन्नायाः षष्ठ्यास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शनार्थं धर्मयेति चतुर्थ्यानिर्देशः ।
साधूनां नियमविषयत्वासम्भवेनैतन्निराकरोति—तदिति । नित्यप्राप्तस्य नियम-
विषयत्वासम्भवे हेतुमाह—यस्य हीति । ननु गाव्यादिभ्योऽप्यर्थप्रत्ययसिद्धेस्तत्प्रसक्तौ
गवादिशब्दस्य पाक्षिकत्वापत्तेर्गव्यादिनिवृत्त्यर्थो नियमो भविष्यतीत्याशङ्क्याह—
यस्यापीति । गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वयेऽपि व्यावत्र्यत्वायोगादित्यशयः ।
एतदेवोपपादयितुं विकल्पयति कीदृशश्चेति । उभयत्र दोषमाह—यदीति । न च
साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याशङ्कयाह—यदि हीति । शब्दव्यापारसाध्यमर्थ-
प्रतिपादनं भाषणम् । नार्थप्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षाद्व्यापारो
गौणलाक्षणिकयोस्त्वभिधेयसाहचर्याविनाभावद्वारा । गाव्यादीनां तु कथञ्चिद्व्यापाराल्लाभान्न
शब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतुतास्तीत्याशयः ।
ननु साधूच्चारणायैव प्रवृत्तस्य प्रमादेन अशक्त्या वा प्रसज्यमानस्यासाधोर्निवृत्त्यर्थो
नियमो भविष्यतीत्याशङ्कते—अथेति । प्रमादाशक्तिजानां दोषाणां परिहर्त्तुमशक्यत्वात्तन्नि-
वारणमनर्थकमिति परिहरति—तदसदेति । नन्वव्यग्राणां शक्तानामपि च गाव्यादिशब्द-
प्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते—दृष्ट इति । मत्पक्षे गाव्यादिशब्दानामप्यर्थ-
प्रतिपादने व्यापारसद्भावायुक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथंचिद्व्यापाराभावान्न
तावच्छब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे प्रसक्तिः । यथा कथंचिदर्थप्रतिपादने
तु प्रसक्तस्य गाव्यादेर्निवृत्त्यर्थं नियमाभ्युपगमे अक्षिनिकोचादेरपि प्रसक्तेः, तन्निवृत्त्यर्थो
नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति—
उच्यत इति । निवृत्त्यर्थत्वे च नियमत्वं व्याहन्येतेत्याह—न चेति । साध्वसाध्वोश्च
द्वयोर्नित्यप्राप्त्यभावात्परिसंख्या युक्तेत्याह—नियमेति । 'किं चादृष्टार्थस्य यागादीष्टसिद्धयर्थं
२४ ] प्रथमाध्याये तृतीयपादः ५३७
पुरोडाशादिद्रव्यनियमः, तत्प्रकृतित्वादिनियमः । तदपेक्षितावघाताद्युपायनियमश्च युक्तः ।
शब्दप्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वाच्च तत्साधनसाधुनियमो युक्त इत्याह-न चेति ।
नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति
शब्दप्रयोगस्य स्वर्गसाधनत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्या-
शङ्कयाह-परार्थत्वाच्चेति ।
ननु यथा दृष्टार्थस्यापि भोजनादेः 'आयुष्यं प्राङ्मुखो भुङ्क्त इत्यदृष्टार्थः' प्राङ्मुखत्व
नियमः तथा दृष्टार्थस्यापि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्कयाह-
न चेदमिति । शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्य इत्यर्थः । शब्दस्य तावन्नियम-
जन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति-शब्दस्येति । कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः
कर्म्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम्-
अत्यन्तग्रहणम् । यत्पुनः परार्थस्याप्याहवनीयोद्देशसम्मार्गादिजन्यापूर्वाश्रयत्वप्रदर्शनात्-
दृष्टार्थग्रहणम् । नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्कयाह-सत्यपि
चेति । क्रत्वङ्गभूतानामप्यर्थानामर्थाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवलदृष्टार्थत्वान्नापूर्वेणो-
पयोगः इत्याशयः ।
ननु श्रोतुरुनुष्ठेयादृष्टार्थक्रियाफलभोक्तृत्वयोग्यताधानायाऽपूर्वपेक्षणात्तदाश्रयत्वं भविष्य-
तीत्याशङ्कयाह-श्रोतुः पुनरिति । शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वा-
श्रयत्वशङ्केत्याह-बुद्ध्योश्चेति । वक्तुरपि बुद्धिवद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह-वक्त्रेति ।
ननु कामधुक्शब्देन शब्दप्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्त्वात्प्राधान्यं
भविष्यतीत्याशङ्कयाह-नेति । स्वर्गकामादिशब्दात्काम्योपयिकत्वावगतेस्तदनुरोधेन क्रिया-
फलभाक्त्वावगतिः । इह तु साधुशब्दप्रयोगस्य फलसाधनत्वमात्रं प्रतीयते । तच्चार्थवाद-
मात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगिति
षष्ठी स्यात्, ततः सप्तदशवैश्यस्येत्यादिवत् षष्ठ्युक्तसम्बन्धसामान्यस्यापेक्षावशात्स्व-
स्वामिलक्षणविशेषरूपत्वप्रतीतेः प्राधान्यं स्यात् त्वसावस्तीत्याह-न चेति । ननु यथा
कमिपादाद्यभावेऽपि प्राङ्मुखोऽन्नानि भुञ्जीतेत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य
दिङ्नियमपूर्वाश्रयत्वम्, तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः साधुनियमपूर्वा-
श्रयत्वं भविष्यतीत्याशङ्कयाह-यत्त्विति । कमिपादाद्यभावेऽपि भोजनं प्रति भोक्तुर्लोकादेव
प्राधान्यावगतेरपूर्वाश्रयत्वं युक्तमिति भावः ।
अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्क्यमेवेत्याह-स्वरूपेण पुनरिति । अतो विषयाभावाद
व्यवस्थाभावाददृष्टार्थत्वाभावाच्च नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वा-
योगाच्छास्त्रेण धर्म्मनियम इति यन्महावार्त्तिककारेणोक्तम् तद्युक्तमित्युपसंहरति-एवं
चेति । अनेन च साधुशब्दप्रयोगाणामुत्पत्तिरस्मादिति व्युत्पत्त्या व्याकरणं प्रयोगोत्पत्ति-
शब्देनाभिप्रेत्य तस्याः शास्त्रमूलत्वाच्छन्दव्यवस्थानियमो न प्रयोजनमिति सूत्रं योजितम् ।
ननु स्वयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्कयाह-न चेति । अत्रापि प्रयोगोत्पत्ते-
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
व्याकरणस्य शास्त्रत्वाभावादिति योज्यम्, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणे
इत्याह—तदुक्तमिति । एतदेव विवृणोति—न हीति ।
यद्वा पौरुषेयत्वात् व्याकरणस्य वक्त्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोग-
नियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह—सर्वत्र हीति । स्मृतिशास्त्रान्तर-
सम्वादाभावादिति सप्तमीं योजनामाह—न चेति । एतदेव विवृणोति—प्रायेणेति । अस्तु
तावत्स्मृत्यन्तरेणासम्वादः ।
परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह—परस्परेण चेति ।
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
कीदृशं विगानमित्यपेक्षायां निःप्रयोजनं व्याकरणं सूत्रकृतोऽभिप्रेतम् । साधुशब्दप्रयोगद्वारेण
धर्मप्रयोजनत्वं वार्तिककृता साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह—न
तावदिति । तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यत इति भावः । ननु विस्मृत्याप्य-
नुक्त्युपपत्तेः, कथं प्रयोजनाभावाभिप्रायो लक्ष्यत इत्याशङ्क्याह—कथं चेति । एतावत्त्वेन
बह्वायासात्वमभिप्रेतम् ।
एतदेव विवृणोति—येष्विति । मोक्षाणामिति निर्धारणे षष्ठी । न चानादरेणानुक्त्युप-
पत्तिरित्याह—न चेति । सुज्ञानत्वेनापि नोपपत्तिरित्याह—सुज्ञानत्वं पुनरिति । यद्यपि
वार्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योक्तम् । तद्ब्याकरणे
धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह—धर्म्मश्चेति । ननु न साक्षाद् धर्म्मप्रयोजनत्वं
व्याकरणस्याभिप्रेतम्, किं तु तदनुगतशब्दप्रयोगद्वारेण, ज्ञानद्वारेण वेत्याशङ्क्याह-धर्म्मत्व-
मिति । एतदेव विवृणोति—शास्त्रार्थो हीति । किं पुनः शब्दस्य ज्ञाने धर्मः, आहो-
स्वित्प्रयोग इति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्मं इति चेत्तथाधर्म्म इत्यनेन साध्वसाधु-
विवेककारिणो व्याकरणवत्साधुत्वज्ञानेऽर्थान्तरोपलक्षणरहितानामसाधुत्वाज्ञानापत्तेः, तस्य
च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वाधर्म्मसाधनत्वावसायाद-
धर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे र्तहि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभि-
ज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानानर्थक्यमिति, प्रयोगे सर्वलोकस्येत्य-
नेनोक्त्वा दोषद्वयमयाच्छास्त्रपूर्वकं प्रयोगेऽभ्युदयः, तस्य च वेदशब्देनेत्यनेन व्याकरण-
जनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनम्, यथा वेदशब्दपूर्वोऽग्निष्टोमादिजनित-
ज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनम् । यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्म्मसाधन-
मित्युकतं भाष्यकृता । तत्सर्वं व्याख्याया, अथ वा 'पुनरस्तु ज्ञाने धर्मं' इत्युक्तम् । न
चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः ।
ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मत्वं
भविष्यतीत्याशङ्क्याह-सम्बद्धयोश्चेति । एकवाक्योपपत्तयोरप्याख्याते नामाथंयोः समुच्चयः,
प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्याधिकरणं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्येतदित्यर्थः
प्रतिपदाधिकरणे निराकरिष्यत इत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति—
२४ ] प्रथमाध्याये तृतीयपादः ५३९
तद्विहेति । एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगोऽप्यनुषङ्गान्निष्पद्यत
इत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्याख्येयः । प्रयोग-
पक्षे तु ज्ञातमात्रोऽपि साधुशब्दः स्वर्गं साधयति, किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन
सम्यग्ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्मत्वे, प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव
ज्ञानानुनिष्पादितत्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न
भवदभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तम् । प्रयोगस्य तु धर्मत्वे यदेकस्मादपूर्वं
तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इति-
वत्सम्यग्ज्ञान इत्यनेनाप्यन्वये कल्प्यमानेऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्-
द्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्द-
प्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमी योजनामाह किं चेति । व्याकरणपूर्वकज्ञान-
प्रयोगयोरित्यर्थः । एतदेव विवृणोति - यन्नामेति । मन्त्रार्थवादगतस्यानित्यसंयोगस्य
परिहारो यो न्यायो अनित्यसंयोगविरोधरूपः तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं
शङ्कनीयमित्याह - न चेति । ननु व्याकरणस्य कूटस्थनित्यत्वाभावेऽपि, प्रवाहनित्य-
त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह - अथापीति । उक्तमौत्पत्तिकसूत्रेऽध्येतॄणाम-
स्मरणादिभिश्चशब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य
प्राथम्यान्न पौरुषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेद-
विषयत्वं भविष्यतीत्यत आह - न चेति ।
ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः,
व्याकरणाच्छब्दान्प्रतिपद्यामह इति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं 'नापि
शब्दस्य' व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वा-
भावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्या-
दिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण
व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वयेऽपि दूषिते भाष्यकारेण
शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन, करणाधि-
करणयोरेव ल्युट्प्रत्ययनियमाभावाद्, व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या
ल्युडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः
शब्दसूत्रयोः समुदायिनोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरणस्य कृत्रिमत्वेऽपि
शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते-अथेति । लक्षणनिरपेक्षाणां शब्दा-
नामानानन्त्याद्विधिविषयत्वानुपपत्तिं तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा
विधिप्रतिषेधौ उपपद्येते इत्यादिनोक्तेन परिहरति - तदिति ।
ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या
कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावेऽपि प्रवाहनित्यत्वमुक्तम्, तथात्रापि
'तस्मादेषा व्याकृता वागुद्यत' इति व्याकरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्या-