Skip to content
SarvaKosh
Back to the archive

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished804 pages

About this granth

Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.

This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.

The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.

Page 416Permalink

३६४ मीमांसादर्शनम् [ सू०
प्रदानानि जपो होमो मातृयज्ञादयस्तथा ।
शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५
कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः ।
प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६
अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया-
प्रमाणं न शास्त्रादृते किंचिदस्ति ।
स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः
प्रमाणमिति (आपस्तम्ब-धर्म-सूत्रम्), वेदाविरुद्धानामाचाराणां सामान्यतः
प्रामाण्यमनुमन्यन्ते । तथाऽनध्यायाधिकार ऊर्ध्वं भोजनादुत्सव इति देशनगरोत्सव-
प्रामाण्याश्रयणम् । वेदेऽपि च महाव्रते प्रेङ्खमारुह्य होता शंसतीत्येतद्वाक्यशेषे
श्रूयते । यदा वै प्रजा मह आविशन्ति, प्रेङ्खं तह्र्यारोहन्तीति । महःशब्द-
वाच्योत्सवप्रसिद्धिरनूदिता ।
यत्तु परिमितशास्त्रप्रमेयत्वादद्धर्माधर्मयोरिह च तदसंभवादित्युक्तम् । तद्वेद-
मूलत्वानुमानात्पूर्ववदेव प्रत्याख्येयम् । न च स्मृतिर्निर्मूला, विस्तरवचनानामपि
प्रपाठकमात्रेणोपसंहारात्, किमुत संक्षेपवचनस्य । शक्यं च स्मृत्यनुरूपमेव वेद-
वचनमनुमातुम् ।
तथा हि—शिष्टैराचर्यमाणानां सतां गोदोहनादिवत् ।
फलसंबन्धमप्राप्तं बोधयच्छास्त्रमर्थवत् ॥ ३३७
न हि तदेवैकं शास्त्रप्रमाणकम्, यस्य स्वरूपमपि तत एवावगन्तव्यम् । अनेका-
कारस्य हि प्रमेयस्य कश्चिदेवाऽऽकारः केनचित्प्रमाणेन् प्रमीयते । तत्र प्रत्य-
क्षाद्यवगतेऽप्याचारस्वरूपे दधिगोदोहनादिवत्फलसंबन्धः शास्त्रेणावगम्यते । यागा-
दिष्वपि च नैवं स्वरूपज्ञानेन शास्त्रमपेक्षितम्, फलसंबन्धमात्रस्यैवातीन्द्रियत्वेन
तदपेक्षितत्वात् । अतो न नामोपलक्षणमन्तरेण शास्त्रं प्रवृत्तमुपलभ्य शिष्टाः
प्रवृत्ताः सर्वकालं तु शिष्टव्यवहार-शास्त्रयोरवियोगाद् व्यवहारादेवोद्धृत्य केचि-
त्स्वर्गादिसाधनत्वेन नियम्यमानः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञा-
यन्ते । तेषां चाऽऽर्यावर्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षणं वेदेनापि सरस्वतीवि-
नशनप्लक्षप्रस्रवणादिवदुपात्तमिति शक्यमनुमातुम् ।
अन्योन्याश्रयत्वशङ्कानिरासौ
ननु शास्त्रार्थकारित्वाच्छिष्टत्वं गम्यते यदा ।
शिष्टत्वेन च शास्त्रोक्तिरित्यन्योन्याश्रयं भवेत् ॥ ३३८
नैव तेषां सदाचारनिमित्ता शिष्टता मता ।
साक्षाद्विहितकारित्वाच्छिष्टत्वे सति तद्वचः ॥ ३३९

Page 417Permalink

७ ] प्रथमाध्याये तृतीयपादः ३६५
प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि
धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव।
तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः।
पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४०
तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः। स्मृति-
रप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः।
यत्तु हेत्वन्तरं दृष्ट्वा वेदमूलनिवारणम्।
प्रत्यक्षवेदमूलेऽपि तद् दृष्टैस्तदकारणम् ॥ ३४१
वेदेऽपि हि बहून्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्त इति, न तावता वेदमू-
लत्वाभावः।
यानि तु म्लेच्छादिसमानानि नियतानियताक्रियान्तराण्यर्थसुखसाधनकृषि-
सेवा-वाणिज्यादीनि मिष्टान्नपान-मृदुशयनासनरमणीयगृहोद्यानालेख्यगीतनृत्यगन्ध-
पुष्पादिकर्माणि प्रसिद्धानि, तेषु नैव कस्यचिद्धर्मत्वाशङ्काऽस्तीति न तत्सा-
मान्पतोदृष्टेनेतरनिराक्रियोपपत्तिः। केषांचिद्वा धर्मत्वाभ्युपगमान्न सर्वेषामेव
तत्प्रसङ्गः।
किं तु—देवब्राह्मणपूजादि यत्तेषामपि किंचन।
तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् ॥ ३४२
लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यते।
कश्चित्तु प्राणिसामान्यप्राप्तस्तैरपि संगतः ॥ ३४३
तत्र यः कार्यरूपेण शिष्टानेवानुवर्तते।
स एव केवलो धर्मो नेतरः प्राणिमात्रगः ॥ ३४४
आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम्
एतेन वैदिकानन्तधर्मधीसंस्कृतात्मनाम्।
आत्मतुष्टेः प्रमाणत्वं प्रसिद्धं धर्मशुद्धये ॥ ३४५
तथैव बहुकालाभ्यस्तवेदतदर्थज्ञानाहितसंस्काराणां वेदनियतमार्गानुसारि-
प्रतिभानां नोन्मार्गेण प्रतिभातं संभवतीत्याश्रित्योच्यते—“यदेव किंचनानूचा-
नोऽभ्यूहत्यार्षं तद्भवतीति”। वैदिकवासनाजनितत्वाद् वेद एव स भवति।
आत्मतुष्टेः प्रामाण्योपसंहारः
तथा हि-यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ।
यज्जायते तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ॥ ३४६

Page 418Permalink

१६६ मीमांसादर्शनम् [ सू०
एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविभिनिरूपितम् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ इति । ३४७
अनेकैर्दृष्टांन्तरैरात्मतुष्टेः प्रामाण्यसमर्थनम्,
बहुदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथंचिद्धर्मकरणरूपात्मतुष्टिरन्यत्र
संभवतीति, धर्मत्वेनाभ्यनुज्ञायते ।
यद्वा शिष्टात्मतुष्टीनां वचनादेव धर्मता ।
पुण्यकृद्ध्यानवत्तस्मादाचारेष्वपि सा तथा ॥ ३४८
तथा वा वरदानादौ देवताराधनोद्भवे ।
तद्वक्ष्यसि स मन्त्रस्ते विषघ्न इति मन्त्रिते ॥ ३४९
लोकः स्मरति तं मन्त्रं विषापहरणादिषु ।
तथा वा सर्पसिद्धान्ते नकुलो यां किलौषधिम् ॥ ३५०
दन्तैर्गृह्णाति तामाहुः समस्तविषहारिणीम् ।
यथा वा यां भुवं कश्चिदध्यावसति पुण्यकृत् ॥ २५१
तत्संपर्कपवित्रत्वात्सेव्यते पुण्यकारणम् ।
तथाऽऽचारात्मतुष्ट्यादिधर्म्मं धर्ममयात्मनाम् ॥३५२
वेदोक्तमिति निश्चित्य ग्राह्यं धर्मबुभुत्सुभिः ॥ ३५३ इति ।
पूर्वपक्षे उदाहृतानां क्रमेण परिहारवर्णनम्
यत्तु प्रजापतिरुषसमभ्यैत्स्वां दुहितरमहल्यायां मैत्रेय्यामिन्द्रो जार आसी-
दित्येवमादिदर्शनादितिहासदर्शनाच्च शिष्टाचारेषु धर्मातिक्रमं पश्यद्भिः शिष्टाचार-
प्रामाण्यं दुरध्यवसानमिति ।
तत्रोच्यते—
श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति ।
मनुष्यप्रतिषेधाद्वा तेजोबलवशेन वा ॥ ३५४
यथा वा न विरुद्धत्वं तथा तद्गमयिष्यति ॥ ३५५
प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्यते । स चारुणोदयवे-
लायामुषमुद्यन्नभ्येत्, सा तदागमादेवोपजायत इति, तद्दुहितृत्वेन व्यपदिश्यते ।
तस्यां चारुणकिरणाख्यबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचारः । एवं समस्ततेजाः
परमेश्वर्यनिमित्तेन्द्रशब्दवाच्यः सवितैवाऽहनि लीयमानतया रात्रेरहल्याशब्द-
वाच्यायाः क्षयात्मकजरणहेतुत्वाज्जीर्यत्यस्मादनेनैवोदितेनेत्यादित्य एवाहल्याजार
इत्युच्यते । न तु परस्त्रीव्यभिचारात् ।

Page 419Permalink

७ ] प्रथमाध्याये तृतीयपादः ३६७
नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा-
चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा-
वासप्रभावलाभः ख्यात एव ।
वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् ।
तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६
यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु
काम-क्रोध-लोभ-मोह-शोकादिहेतुत्वेनोपलभ्यते, स यथाविधि-प्रतिषेधं वर्तिष्यते ।
ते । विश्वामित्रस्यापि यद्रागद्वेषपूर्वकमपि तपोबलारूढस्य चरितम्, तत् सर्वं बलवतः
पथ्यमित्यनेन न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तरकालं वा
पापविशुद्धिं प्रायश्चित्तैः प्रतिकुर्वाणस्य जीर्यत्यपि । मन्दतपसां गजेरिव महावट-
काष्ठादिभक्षणमात्मविनाशायैव स्यात् ।
द्वैपायनस्यापि, “गुरुनियोगादपतिरपत्यलिप्सुर्देवराद् गुरुप्रेरितादृतुमतीयात्”
इत्येवमागमान्मातृसंबन्धभ्रातृजायापुत्रजननं प्राक्कृत-पश्चात्करिष्यमाणतपोबलेन
नातिदुष्करम् । अन्योऽपि यस्तादृक्कृतपोबलो निर्वहेत् स कुर्यादेव ।
रामभीष्मयोस्तु स्नेहपितृभक्तिवशात् विद्यमानधर्ममात्रार्थदारयोरेवं साक्षाद्-
व्यवहितापत्यकृतपितृऋण्योपयोगसिद्धिः, हिरण्मयसीताकरणं लोकापवादभिया
त्यक्तसीतागतानृशंस्याभावशङ्कानिवृत्त्यर्थम् ।
भीष्मश्च— भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वे तेनैव पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ३५७
इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपितृनॄणत्वः केवलयज्ञार्थपत्नीसंबन्ध आसी-
दित्यर्थापत्त्यानुक्तमपि गम्यते ।
यो वा पिण्डं पितुः पाणौ विज्ञातेऽपि न दत्तवान् ।
शास्त्रातिक्रमाद्भीतो यजेतैकाक्यसौ कथम् ॥ ३५८
धृतराष्ट्रोऽपि व्यासानुग्रहादाश्चर्यपर्वणि पुत्रदर्शनवत्क्रतुकालेऽपि दृष्टवानेव ।
शापानुग्रहसमर्था महर्षयः श्रूयन्ते । तद्यथैव तद्वचनादसावन्धो जातो विज्ञायते,
तथा यज्ञानुष्ठानवचनात्तावति काले दृष्टवानित्यर्थापत्त्या सुज्ञानम् ।
यद्वा, “यजदेवपूजासंगति करणदानेषु” इति दानार्थ एवायं यजिर्भविष्यति ।
ऋतुफलसमानि च दानतपश्चरणादीन्यपि श्रूयन्ते । तत्कारणात्क्रतुक्रियोपचारः ।
या चोक्ता पाण्डुपुत्राणामेकपत्नीविरुद्धता ।
साऽपि द्वैपायनेनैव व्युत्पाद्य प्रतिपादिता ॥ ३५९
योवनस्थैव कृष्णा हि वेदिमध्यात्समुत्थिता ।
सा च श्रीः श्रीश्च भूयोभिर्भुज्यमाना न दुष्यति ॥ ३६०

Page 420Permalink

१९८ मीमांसादर्शनम् [ सू०
अत एव चोक्तम्—
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः ।
महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति ।
न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन
कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं
प्रमाणभूतः सन्नेवं वदेत् ।
अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य एकत्वेनोपचरिता इति व्यव-
हारार्थपत्त्या गम्यते ।
यद्वा नार्जुनस्यैव केवलस्य भविष्यति ।
साधारणा प्रसिद्धिस्तु निश्छिद्रत्वाय दर्शिता ॥ ३६१
यथा युधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव रजस्वलावेषं सुपुत्रकस्य
धृतराष्ट्रस्यायश उत्पादयितुमात्मानं प्रख्यापयितुं द्रौपदी कृतवती, तथैव केवला-
र्जुनभार्याया एव सत्याः श्रीत्वं च जनेनाविदितं परस्परं संघाताविशयं च
भेदप्रयोगानवकाशार्थं दर्शयितुम्, साधारण्यप्रख्यापनमित्येवमादिविकल्पैः सुपरि-
हरत्वाद्रागलोभकृतव्यवहारस्य च शिष्टैरेव धर्मत्वेनापरिग्रहस्योक्तत्वादनुपालम्भः ।
तथा द्रोणवधाऽङ्गभूतानृतवादे ‘प्रायश्चित्तं कामकृतेऽप्येक’ इत्येवमन्तेऽप्यश्व-
मेधः प्रायश्चित्तत्वेन कृत एवेति, न तस्य सदाचारत्वाभ्युपगमः ।
यत्तु वासुदेवार्जुनयोर्मद्यपान-मातुलदुहितृपरिणयनं स्मृतिविरुद्धमुपन्यस्तम्,
तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः ।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत ॥ इति । ३६२
मधु-सीध्वोस्तु क्षत्रियवैश्ययोर्नैव प्रतिषेधः, केवलब्राह्मणविषयत्वात्, मद्यं
ब्राह्मणस्य’ इति वचनात् ।
यदप्येतत्—गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥ इति । ३६३
एतदपि ब्रह्मवादिशब्दस्य तच्छील-तद्धर्म-तत्साधुकारित्वनिमित्तत्वात्प्रवचना-
श्रयणेन ब्रूञ्वदत्योरेकार्थत्वात्प्रब्रूयाद् ब्राह्मणस्त्वेवामिति नियमाद्यस्यैव प्रवचनम्,
स एव तच्छीलः तद्धर्मः तत्साधुकारो वा भवति । तस्माद् ब्राह्मणा एव ब्रह्म-
वादिनः । तथा च मद्यसामान्यप्रतिषेधाऽङ्गनिन्दार्थवादेऽभिहितम् ।
अकार्यमन्यत्कुर्याद्धि ब्राह्मणो मदमोहितः ॥ इति ।

Page 421Permalink

७ ] प्रथमाध्याये तृतीयपादः १६९
सुरानिषेधे उक्तस्यार्थस्य संक्षेपः
तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि-
भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव
स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य-
विरुद्धम् ।
लिङ्गोपन्यासः
तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । 'यन्माल्यमासीत्तत्पश्चात्पर्याहृत,
सुरा वै माल्यम्, ततो राजन्यमसजत, तस्माज्ज्वायाइच स्नुषा च श्वशुरश्च
सुरां पीत्वा विलपन्तश्चाऽऽसते । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न
पिबेत्पाप्मना न संसृज्या इति, तदेतदेतल्लक्षत्क्षत्रियो ब्राह्मणं ब्रूयान्नैनं सुरा पीता
हिनस्ति, य एवं विद्वान्सुरां पिबति' इति । मधुसीधुविवक्षयैतत् ।
मातुलदुहितृपरिणयस्य समाधानम्
यत्तु मातुलदुहितृपरिणयनं तयोस्तन्मातृष्वस्त्रीयादिसम्बन्धव्यवधानेऽपि
भ्रात्रादिव्यवहारादविरुद्धम् । यद्यपि वासुदेवस्वसेति सुभद्रा ख्याता, तथाऽप्युत्पत्तौ
वलदेववासुदेवयोरेकानशायाश्च निजत्वान्वाख्यानान्मातृष्वस्त्रीया सुभद्रा तस्य
मातृपितृष्वस्त्रीया दुहिता वेति परिणयनाभ्यनुज्ञानद्विज्ञायते ।
वासुदेवाङ्गजाया च कौन्तेयस्य विरुध्यते ।
न तु व्यवेतसम्बन्धमभवे तद्विरुद्धता ॥ ३६४
येन ह्यन्यत्रैवमुक्तम्—
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ३६५
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति ।
स कथं सर्वलोकादर्शभूतः सन् विरुद्धमाचारं प्रवर्तयिष्यति । एतेन रुक्मिणी-
परिणयनं व्याख्यातम् ।
आधुनिकानामापरिहारोपपादनम्
यत्त्वद्यतनानामाहिच्छत्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां
मातुलदुहितृविवाहादि स्मृतिविरुद्धमुपन्यस्तम् ।
तत्र केचित्तावदाहुः । स्मृत्याचारयोरितरेतरनिरपेक्षवेदमूलत्वेन तुल्यबल-
त्वाद्द्विहितप्रतिषिद्धविकल्पानुष्ठानाश्रयणाददोष इति । तत्त वक्ष्यमाणबलाबल-
विभागादयुक्तम् ।
२४

Page 422Permalink

३७० : मीमांसादर्शनम् [ सू०
अन्ये त्वेवमाहुः—
सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया ।
आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६
येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।
त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७
तथा मनुनाऽप्युक्तम्—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥ ३६८
येषां तु यः पित्रादिभिरेवार्थो नाऽऽचरितः स्मृत्यन्तरप्रतिषिद्धश्च ते तं परि-
हरन्त्येव । अपरिहन्तो वा स्वजनादिभिः परिह्रियन्ते । ननु गौतमेनाऽऽम्नाय-
विरुद्धानामाचाराणामप्रमाण्यमुक्तम् ।
आह—
यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता ।
स्मृतिराम्नायशब्देन न तु वेदवदुच्यते ॥ ३६९
न त्वेतदपि युक्तं स्मृतिग्रन्थेऽप्याम्नायशब्दप्रयोगात् । स्मार्तधर्माधिकारे हि
शङ्खलिखिताभ्यामुक्तम् 'आम्नायः स्मृतिधारकः' इति । ग्रन्थकारगतायाः स्मृते-
स्तत्कृतग्रन्थाम्नायः स्मृतिग्रन्थाध्यायिनां स्मृतिधारणार्थत्वेनोक्तः । ततश्च
मन्वादिवाक्यप्रतिषिद्धाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं तु
बौधायनेन स्मृतिविरुद्धदुष्टाचारोदाहरणान्येव प्रयच्छता निराकृतम् । दृष्टका-
मादिहेत्वन्तरदर्शनान्न विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वोपपत्तिः ।
आह केन वा ब्राह्मणीनां सुरापानं प्रतिषिद्धम् ?
उच्यते—तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इत्यनेन
पुंलिंगस्य विवक्षा अस्मिन्न वेति विचारः
ननु पुंलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते ।
सुरापानमतो नात्र स्मृत्याचारविरुद्धता ॥ ३७०
उच्यते—हननप्रतिषेधेऽपि भवेत्पुंस्त्वं विवक्षितम् ।
तथा पुंस्त्ववदेकत्वविवक्षाऽपि प्रसज्यते ॥ ३७१
अहत्वा कंचिदेकैकं ततश्च स्यात्कृतार्थता ।
एकेन च सुरापानेऽवर्जिते पूर्ववद्भवेत् ॥ ३७२
आह यत्तावदेकत्वविवक्षागतमुच्यते ।
प्रत्येकव्यक्तिसंबन्धाज्जातेर्वा तन्न दुष्यति ॥ ३७३

Page 423Permalink

७ ] प्रथमाध्याये तृतीयपादः ३७१
एकैकस्या एव हि ब्राह्मणव्यक्तेर्यथाप्रसक्तवधपानयोः प्रतिषेधात् । विवक्ष्य-
माणमपि तावदनूद्यमानत्वादन्नक्रियाविशेषणं वा संभवति, किमुत यदा जातिगते-
कत्वानुवाद एवायं विज्ञायते । आह । हननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्य-
मानत्वात्सुरापाने च कर्तृत्वेनोपादीयमानत्वात्स्वर्गकामोदुम्बरीसमानार्थयजमान-
वत्तुल्यविवक्षाविवक्षयोरप्रसङ्गादुदाहरणवैषम्यम् ।
तथा हि—यो ब्राह्मण इति ह्यक्ते हननप्रतिषेधतः ।
ब्राह्मणे प्रतिषेधे वा लिङ्गं नान्यद्विधीयते ॥ ३७४
प्रतिषेधविधिपरो हि विधायकः शुद्धवधप्रतिषेधासंभवाद् ब्राह्मणजातिमात्र-
विशिष्टवधप्रतिषेधं विधाय निवृत्तव्यापारो यदि लिङ्गमपरं ब्राह्मणे वधे प्रतिषेधं
वा विदध्यात्, ततः प्रत्ययावृत्तिलक्षणवाक्यभेदप्रसङ्गः ।
विधिप्रतिषेधयोर्नामात्यन्तभेद इति वादिनां मतम्
येषां तु विधिप्रतिषेधौ नामात्यन्तभिन्नौ वेदवाक्यार्थी, तेषां प्रत्ययसम्बन्धानु-
गृहीतशक्तिरभावमात्रामिधानादभ्यधिकलब्धव्यापारो नञ्विध्यर्थमपि द्वेषार्थप्राप्तं
पूर्वोक्तन्यायविवक्षितब्राह्मणविशिष्टहननाविशिष्टं चानूदितं प्रतिषिध्य चरितार्थो न
लिङ्गमपरं ब्राह्मणवधविधिषु शक्नोत्यनावर्तमानः प्रतिषेद्धुमिति, श्रूयमाणमपि
लिङ्गप्रतिषेधं प्रत्यनुपयुज्यमानत्वादविवक्षितं भवति ।
मतभेदेन वाक्यार्थवर्णनम्
एषा ह्यत्र वचनव्यक्तिर्यत्—क्रोधादिवशेन ब्राह्मणं हन्यात्, ब्राह्मणो वा
हन्तव्यस्तन्नेति । विध्येकत्वपक्षे पुनरीदृशी वाक्ययोजना—यद ब्राह्मणहननं तन्न
कुर्यादिति, यो वा ब्राह्मणस्तं न हन्यादिति ब्राह्मणविशिष्टहननप्रतिषेधविधिः
शुद्धोदिदृष्टब्राह्मणविषयवधप्रतिषेधविधिर्वेति ।
सर्वथा ब्राह्मणोद्देशान्नेह मुच्यामहे वयम् ।
न चोद्दिष्टस्य शक्येते लिङ्गसंख्ये विवक्षितुम् ॥ ३७५
ब्राह्मणः सुरां न पिबेत्, न पेया ब्रह्मवादिभिरिति निमित्त-देश-काल-फल-
संस्कार्यार्नुपादेयपञ्चकव्यतिरेकादेकत्राऽऽख्यातप्रत्ययोपात्तगुणीभूतोपादीयमानसँ-
ख्यापरिच्छेद्यत्वयोग्यसाधनांशविशेषणत्वेनोपादानात्, इतरत्र च तृतीयाविभक्ति-
श्रुतिवचनं विवक्षितलिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् ।
अतश्चाप्रतिषिद्धत्वान्नैव स्त्रीणां विरुध्यते ।
सुरापानमहिच्छत्रब्राह्मण्यस्तेन कुर्वते ॥ ३७६

Page 424Permalink

३७२ मीमांसादर्शनम् [ सू०
उद्देश्यविशेषणस्याविवक्षोपपादनम्
नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते ।
ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७
नोपादेयत्वमेवैकं कारणत्वेन संमतम् ।
विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८
अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते ।
तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९,
यदि हि ब्राह्मणः सुरां पिवेदित्ययमवान्तरवाक्यार्थः प्राक्प्रतिषेधसम्बन्धा-
द्विधिबुद्धिमवस्थापयेत् ततो गुणत्वोपादेयत्वविधिसमवायान्न ब्राह्मणपदे किंचिद-
विवक्षितं नाम स्यात् ।
यतस्तु रागमोहादेः सुरापानं प्रसज्यते ।
ब्राह्मणादेरतस्तस्मिन्न कश्चिद्विधिसंभवः ॥ ३८०
प्रतिषेधोपसंहारिमहावाक्यतिरस्कृता ।
नावान्तरविधेः शक्तिः प्रादुरस्ति कथंचन ॥ ३८१
तेनेहापि यत्सुरां ब्राह्मणः पिबेन्नेति वा वचनं व्यज्यते । यो ब्राह्मणः स
न सुरां पिबेदिति वा सुराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्या-
वृत्त्या ब्राह्मणोऽनुगृह्यत इति, नास्य पानं प्रतिषेधं वा प्रतिविधेयत्वोपपत्तिः ।
लोके चैतद्यथाप्राप्तं पानं स्त्रीपुंसकर्तृकम् ।
प्रतिषेधपरे वाक्ये तदवस्थमनूद्यते ॥ ३८२
न च भो ब्राह्मणः पिबेदित्यनूदितम् । स च पुमानिति विधिव्यापाराद्विना
लिङ्गविवक्षाऽत्रकल्पते ।
न चास्य लिङ्गसंबन्धः केवलः संनिधीयते ।
न पानप्रतिषेधाद्धि विधिरन्यत्र गच्छति ॥ ३८३
ततश्चोभयत्राप्यविवक्षितलिङ्गसंख्यत्वं सिद्धम् ।
नन्वेवं सति ब्राह्मणस्त्रीवधेऽपि पुंब्राह्मणवधवद् ब्रह्महत्याऽस्तीति, यदात्रेयीया-
मेव केवलायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते ।
उच्यते—ब्राह्मणस्त्रीवधे को वा ब्रह्महत्यां निषेधति ।
प्रायश्चित्तान्तरे तस्या स्त्रीत्वमात्रनिबन्धनम् ॥ ३८४
न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते, पुंवधेऽपि लघुतर-
प्रायश्चित्तविधिदर्शनेन ब्रह्महत्यादोषाभावप्रसङ्गात्, तस्मान्न वाचनिकप्रायश्चित्ता-

Page 425Permalink

७ ] प्रथमाध्याये तृतीयपादः ३७३
ल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशङ्कितव्यम् । सुरापाने पुनः प्रायश्चित्त-
विशेषोऽपि न कश्चिदाम्नात इति, दूरादपाकृतत्वादस्त्येवास्य स्मृत्या सह
विरोधः । याऽपि चाऽऽपस्तम्बस्मृतिवचनात्तुल्यबलत्वाशङ्का भवेत् साऽपि ।
“तस्माद् ब्राह्मणः सुरां न पिबति” इत्येतेन प्रत्यक्षश्रुतिविधिना निराकृतेति नेवं-
विधाचारप्रामाण्यमाशङ्कितव्यम् ।
इति वार्त्तिकमतेन सदाचारप्रामाण्याधिकरणम्
अथ वा सदाचारप्रमाणत्वप्रतिपादनार्थं सूत्रद्वयेनाप्येतदेकमधिकरणं व्याख्या-
तव्यम् । इह यावन्ति कृष्णमृगसंचारगोपलक्षितार्यावर्त्तनिवासिचतुर्वर्ण्याचरणानि
तान्युदाहृत्य चिन्त्यते--
धर्मबुद्ध्या यदार्याणां चरित्रमुपलभ्यते ।
किं तथैव प्रमाणं तदथ वा निष्प्रमाणकम् ॥ ३८५ इति ।
कुतः संशयः ?
उच्यते—स्मृतिवत्कर्तृसामान्यात्प्रमाणत्वेन गम्यते ।
अनिबन्धनतायास्तु भवेदप्यप्रमाणकम् ॥ ३८६
ननु च स्मृतिकारैरेवैतत्प्रामाण्यमभ्युपगतं “तद्विदां च स्मृतिशीले”
“आचारश्चैव साधूनाम्” “यस्मिन्देशे य आचारः स सदाचार उच्यते” । अतश्च
तत्प्रामाण्यादेव सिद्धम् । न । मूलाभावाहेतुदर्शनातिरेकात् । शाखान्तरगतवेद-
वाक्यदर्शनमूलानि हि स्मरणोपनिबन्धनानि प्रमाणत्वेनाऽधिगतानि ।
ननु सदाचारदर्शनात्तन्मूलमात्रप्रवृत्तस्मरणानां मूलान्तरानुमानसभवः ।
यथैव च वयं तेषां द्रष्टारः केवलं तथा ।
स्मृतिकारास्ततो नैषां गम्यते मूलदर्शनम् ॥ ३८७
यदि हि तैर्मूलान्यश्रोष्यन्त ततो यथैवान्यानि स्मरणानि निबद्धानि, तथैवै-
तान्यपि निबद्धान्येवाभविष्यन्नतस्तु स्वयमुपलब्धानुरूपमनिबध्य परप्रत्ययेनैव
सदाचाराः प्रमाणमित्याहुः । अतो न दृष्टमूलत्वेनाध्यवसातुं शक्यमिति विचा-
र्यते । तत्र पूर्वाधिकरणद्वयबलेन प्रामाण्यं प्रतिज्ञायते, कर्तृसामान्याद्विधिस्मृतिवि-
रोधरहितत्वाच्च ।
न हि केचित्सदाचाराः श्रौतस्मार्तविरोधिनः ।
अतस्तुल्यकारित्वात्प्रामाण्येनावधारिताः ॥ ३८८
स्मृतिकाराभ्यनुज्ञानं महदन्यच्च कारणम् ।
तेषामज्ञातमूलानां न ह्यनुज्ञोपपद्यते ॥ ३८९ इति ।

Page 426Permalink

३७४ मीमांसादर्शनम् [ सू०
तदपाकुर्वन्नाह—
न शास्त्रपरिमाणत्वादधर्माधर्मस्थितेरमी ।
शिष्टाचाराः प्रमाणत्वं लभन्ते शब्दवर्जिताः ॥ ३९०
शास्त्रपरिमेयत्वं तावत्परिमाणशब्दवाच्यं धर्माधर्मयोरवस्थितम्, परिमितानि
च शास्त्राणि वेदोपवेदादीनि । न च तेषां मध्ये सदाचारशास्त्रं किंचिदस्ति । न च
सदाचारः स्वयमेव शास्त्रम् । नापि तद्दर्शनम्, अनुष्ठानं वा, अत्यन्तपरायत्त-
त्वात्प्रमेयत्वाच्च । स्मृतेस्त्वेतद्विषायाया निर्मूलत्वमुक्तमेव ।
किं च मूलं भवेदेकमनेकमिति चिन्तिते ।
नैव द्विविधमित्येतदनुमातुं हि शक्यते ॥ ३९१
न तावद्देशजातिकुलभेदाद्भिन्नानामपरिमितस्वरूपाणामनेक श्रुतिमूलत्वम् ।
न हीदृशी श्रुतिर्यं तान् सर्वाचारान् ग्रहीष्यति ।
शब्दाभिधेययोस्तेषां व्यक्त्याकृत्योरसंभवात् ॥ ३९२
यावदाचारं हि वेदवाक्यानि कल्पयतां वेद एवैकः कल्पयितव्यः । एकस्य
तु वाक्यस्य नैव कस्यचिदपरिमिताचारविधायित्वमवकल्पते । यत आचाराः प्रव-
र्तेरन् । न च धर्मसूत्रकारैस्तदेव दृष्ट्वाऽऽचार-प्रामाण्यमुपनिबद्धम् । शेष-धर्मस्मृति-
वाक्यतुल्यनिबन्धनप्रसङ्गात् न ऽऽचारदर्शनोत्तरकालप्रवृत्ता स्मृतिस्तेषां मूलं
भवति । मूलमूलिबलाबलबिपर्ययप्रसङ्गात् ।
अतः परिमितं शास्त्रमनुमातुं यतोऽर्हति ।
नाऽऽचाराणां च तन्मूलं बहूनामित्यमूलता ॥ ३९३
न च स्मृतिस्वरूपाऽपि श्रुतिरत्रानुमीयते ।
आचाराणामतत्पूर्वप्रसङ्गात्सविपर्ययात् ॥ ३९४
शिष्टाचारः प्रमाणमिति हि श्रुतावनुमीयमानायामाचारः प्रथमं सिद्धो
भवेत्तत्पूर्विका श्रुतिः ।
न त्वाचारस्य सा मूलमिति निर्मूलता पुनः ।
शास्त्रपरिमाणत्वादिति वा परिमिते ह्यर्थे शास्त्रं प्रवर्तेत । अपरिमितत्वा-
दाचाराणामुच्छास्त्रत्वमिति ।
परिमितार्थविषयत्वाद्वा शास्त्रस्य, 'अप्राप्ते शास्त्रमर्थवत्' जै. सू. (६।२।४)
इति ।
दृश्यमानान्यहेतुत्वान्नात्र शास्त्रप्रमाणता ।
तस्मादर्थसुखाङ्गत्वान्नाऽऽचारेष्वस्ति धर्मता ॥ ३९५

Page 427Permalink

७ ] प्रथमाध्याये तृतीयपादः ३७५
वैश्यानां सेवकानां वा वैद्यानां नगरेषु वा ।
चरित्राणां यथा चार्थसुखाङ्गत्वं तथाऽस्त्विह ॥ ३९६
तस्माच्छ्रुतिस्मृती एव प्रमाणे धर्मगोचरे ।
शीलाचारात्मतुष्टीनां गोष्ठीहास्यादितुल्यता ॥ ३९७
इति द्वितीयं वर्णकम्
अथ तृतीयं वर्णकम्
यद्वा सूत्रत्रयेणाप्येतदेवाधिकरणं व्याख्यातव्यम् । इहाऽऽर्यावर्तनिवासि-
शिष्टाचारानेवोदाहृत्य पूर्ववत्प्रामाण्याप्रामाण्यसन्देहे शिष्टाकोपेऽविरुद्धमिति सिद्धा-
न्तस्तावदुपक्रम्यते ।
तथा हि—शिष्टं यावच्छ्रुतिस्मृत्योस्तेन यन्न विरुध्यते ।
तच्छिष्टाचरणं धर्मे प्रमाणत्वेन गम्यते ॥ ३९८
यदि शिष्टस्य कोपः स्याद्विरुध्येत प्रमाणता ।
तदकोपात्तु नाऽऽचारप्रमाणत्वं विरुध्यते ॥ ३९९
( इति वर्णकतादिसहितं शिष्टाकोपाधिकरणम् ॥ ७ ॥ )
न्या० सु०—सूत्रमवधिद्वयेन पूर्वपक्षनिराकरणार्थतयाऽवतारयति—तदुच्यत इति । पूर्वं-
पक्षोक्तविरोधाङ्गीकरणेन प्रमाणबलावलात् प्रमेयबलाबलबलीयस्त्वमात्रेण सिद्धान्ते पूर्वाऽ-
वधिः पूर्वा समाप्तिः विरोधाभावसिद्धान्ते द्वितीयेति व्यवस्थार्थो वाशब्दः ।
ननु भाष्यकृता अस्योत्तरसूत्रावयवत्वेन पठितत्वात्कथमेतत्सूत्रशेषत्वमित्याशङ्कयाह—
अनन्तरेति । विप्रतिपत्तिशब्दोपात्तस्य विरोधस्यैतदवगताया अभावोक्तेर्विरुद्धत्वेनानन्तर-
सूत्रेऽनुपयुज्यमानत्वाद्विरोधाभावसिद्धान्तपक्षे चेह सूत्रे पूर्वपक्षसूत्रोक्तविरोधाभावस्यावश्य-
वचनीयत्वादित्यर्थः । ननूत्तरसूत्रेऽपि यवादिशब्दानां साधारणत्वे प्रियङ्गवादिद्रव्यकार्ये
विकृतावूहितयवादिशब्दप्रयोगाविरोधप्रतिपादनार्थत्वेनोपयोगो भविष्यतीत्याशङ्कयाह—
उपयोगेति । सकृत्पठितस्यापि व्याख्यानवेलायामुच्चारणानुकृतिः = अनुषङ्गः ।
सकृदुच्चरितस्यैवोभयशेषतया व्याख्याने तन्त्रत्वम् । आद्यावधिना विरोधेऽपि प्रमेयबला-
बलबलीयस्त्वेन सिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं व्याचष्टे—अपि चेति ।
प्रयुक्तानि प्रतीयेरन्निति सूत्रावयवस्य शिष्टैरनुष्ठितानाचमनादीनाद्रियेरन्नित्येवं व्याख्या-
नार्थं प्रमाणपदमुत्तरार्द्धेन व्याख्यातम् । विरुद्धताशब्देन बाध्यतोक्ता । श्लोकं व्याचष्टे—
विरोधेति ।
प्रमाणबलाबलबलीयस्त्वाभिप्रायं नन्वित्यादिशङ्काभाष्यं व्याचष्टे—इयत्तेति । प्रमेय-
बलाबलबलीयस्त्वाभिप्रायं नैष दोष इति सिद्धान्तभाष्यं व्याचष्टे—पदार्थेति । पूर्वपक्षा-
भिप्रायं विवृणोति—उच्यत इति । श्लोकं व्याचष्टे—प्रमेयेति ।

Page 428Permalink

३७६ मीमांसादर्शनम् [ सू०
नन्वापाततः प्रतीयमानमपि प्रमेयबलाबलं प्रमाणाधीनत्वात्प्रमेयसिद्धेः पश्चादालोच्य-
मानेन प्रमाणबलाबलेन वाधिष्यत इत्याशङ्क्याह—येषामिति । ननु श्रुतिविरोधिन्याः
स्मृतेर्भ्रान्त्यादिमूलत्वेनाप्रामाण्यादाचमनादेस्तत्प्रमेयत्वानुपपत्तेः कथं बलीयस्त्वमित्या-
शङ्क्याह—नित्यमेवेति । विरोधेऽपि श्रुत्यनुमानप्रतिबन्धाभावेन भ्रान्त्यादिमूलत्वायोगाद्
बलवद्विरोधापेक्षमुपक्रमविरुद्धोपसंहारवत्, तदनुरोधवृत्तित्वेनाश्रुतत्वमात्रं स्मृतेर-
प्रामाण्यम्, न चाचमनादिस्मृतेर्बलवद्विरोधोऽस्ति, वलवत्प्रमेयावष्टम्भेन स्मृतेर्दोर्बल्याभावा-
दित्याशयः ।
इममेवाभिप्रायं विवृणोति -- न चेति । हिशब्दार्थे चशब्दः । ननु श्रुतिप्रमेयक्रमादि-
वाधे श्रुतिबाधापत्तेः तस्याश्चाप्रमादपाठत्वेन बाधायोगाद्गत्या स्मृतिरेव बाधनीया स्यादि-
त्याशङ्क्याह—न चेति । अबाधे कारणमाह—तानवेति । न हि प्रमेयबलीयस्त्वमात्रेण
स्मृतिः श्रुतिं बाधितुं शक्नोति, श्रुतिकल्पनव्याक्षेपेषु गततेजस्त्वादित्यर्थः । प्रमेयबलीय-
स्त्वस्य तर्हि क उपयोग इत्यपेक्षायामाह—एतदेवेति । प्रमेयबलीयस्त्वेन स्मृतेरबाध्यत्वमात्रं
भवति, न तु श्रुतिबाधकत्वमित्यर्थः ।
द्वितीयावधिना विरोधाभावसिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं तात्पर्यतस्ताव-
द्वयाचष्टे—युगपदिति । नन्वयुगपत्प्राप्तानामपि श्रुतिलिङ्गादिविनियोज्यानां पदार्थानां
विरोधप्रदर्शनान्न युगपत्प्राप्तिरेव विरोधे हेतुरित्याशङ्क्य, तुल्यकार्ययोरित्युक्तम् । इह तु
करणोपकारसाधनपदार्थप्रयोगावच्छेदकत्वेन क्रमादीनां पदार्थगुणत्वाभिधानेनैव तुल्यकार्यत्वं
निरस्तम् । युगपत्प्राप्तिरप्यत एव न सम्भवतीति, द्वयमपि—नास्तीत्युक्तम् । ननु वैदिक-
पदार्थप्राप्त्युत्तरकालीनानामपि क्रमादीनामाचमनादिभिः स्मार्तैः पदार्थैः सह यौगपद्या-
द्विरोधो भविष्यतीत्याशङ्क्याह—कालेति । प्रयोगावस्थायां क्रमाद्यपेक्षा, स च सकलपदार्थ-
प्राप्त्युत्तरकालभावीत्याशयः ।
इदानीमवयवशो भाष्यं व्यचिख्यासुः क्रमविरोधनिरासभाष्यं तावद् व्याचष्टे—प्राप्तेषु
हीति । इयत्तावधारणस्याविहितत्वेनोपायान्तरेणाविस्मरणसिद्धावनादरणीयत्वात्तद्बाधे वेद-
विरोधशङ्का मन्दत्वाद्भाष्यकृतोपेक्षितेति, स्वयंशब्देन सूचयन्स्वयमियत्ताविरोधं परिहरति-
परिमाणमिति । इयत्तायाः क्रमवत्पदार्थाश्रितत्वसूचनार्थंस्तदनन्तरं विरोधपरिहारः ।
कालस्य तु स्वतन्त्रत्वात्पदार्थप्रयोगावच्छेदकत्वमात्रेण पदार्थधर्मत्वाभिधानं श्लोकं
व्याचष्टे—न केनचिदिति । यदि शब्देन ध्यानाद्युपायान्तरसम्भवः सूचितः । तथेति काल-
विरोधपरिहारभाष्यं व्याचष्टे—कालोऽपि चेति ।
ननु यद्यपि प्रधानसाहित्यं शैघ्र्यं च स्मार्तैः सह यादृशं सम्भवति, तादृशाङ्गीकर-
णादविरोधस्तथापि पूर्वाह्नादिकालातिक्रमो भूयिष्ठाङ्गानुष्ठाने दुर्वार एवेत्याशङ्क्याह—
कालो हीति । प्रधानस्यैव साक्षाद्विहितः कालः । स च प्रयोगाङ्गत्वात्प्रयोगस्य च साङ्ग-
प्रधानविषयत्वात् प्रधानद्वाराङ्गेषु प्राप्नोतीति प्रधानस्य स्वकालसम्पादनमादृत्याङ्गेषु

Page 429Permalink

७ ] प्रथमाध्याये तृतीयपादः ३७७
यथासम्भवं सम्पाद्यमानो न विरुद्ध्यत इत्याशयः । साहित्यसम्पत्तिं विवृणोति—अङ्गैरिति।
आशुत्वमपि सर्वाङ्गसहितस्यैवेति तुल्यन्यायत्वादुक्तं भवति । उपसंहरति—तस्मादिति ।
विरोधनिऱासे, तेष्विति सूत्रावयवं द्वेधा योजयति—इतीति । क्रमादीनामाचमनाद्यन-
पेक्षत्वेऽप्याचमनादेः, स्वतन्त्रपदार्थत्वाभावे नाभ्यवधायकत्वाद्विरोधाभावप्रतिपादनार्थमपि
चेति भाष्यं व्याचष्टे - अपि चेति । आचान्तेन कर्त्तव्यमित्यादिकर्त्तव्यमात्रोद्देशने विधाना-
त्सर्वस्याचमनादेरङ्गप्रधानार्थतेत्याशयः । न चाङ्गस्य व्यवधायकत्वमस्त्यतुल्यकक्षत्वा-
दित्याह—अतदङ्गेन हीति । अव्यवधानमेव दर्शयति—वेदमिति । कृत्वेत्यनेन ।
'क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।
कर्मस्थ एषु नाचामेदक्षिणं श्रवणं स्पृशेत् ॥ इति
स्मृतिपर्यालोचनया पदार्थमध्येऽनाचमनं सूचितम् । कथमाचमने कृते वेदिः कृता
भवतीत्याशङ्क्याह—वेदिरैवेति । नन्वङ्गप्रधानार्थस्याप्याचमनस्य हस्तावनेजनादिवत्सर्वादौ
सकृत्कृतस्य सर्वोपकारकत्वात्कथमन्तरा नाचमने वैगुण्यमित्याशङ्क्यानरासार्थत्वेन भाष्य-
गतं शौचशब्दं व्याख्यातुं शुद्धयेत्युक्तम् । शुचिना कर्त्तव्यमिति शुद्धेरपि कर्माङ्गत्वेन
विधानात् क्षुताद्यापादिताशुद्धिनिवृत्तौ वैगुण्यं स्यादिति भावः । नन्वल्यकालत्वेनाप्य-
व्यवधायकत्वोपपत्तेः प्रधानार्थत्वमात्रेण निराकाङ्क्षस्याङ्गार्थतापि किमित्यङ्गीकृतेत्या-
शङ्क्य नाल्पकालत्वमात्रेणाव्यवधायकत्वं भवतीत्यभिप्रायेण परिहरति—इममेवेति ।
तस्मादित्यपसंहारभाष्यमविरोधसिद्धान्ताभिप्रायेण व्याचष्टे—तस्मादिति ।
एवं यथाभाष्यमधिकरणं व्याख्याय, उदाहरणानि प्रत्यक्षश्रुतिदर्शनेन दूषयति —
नन्विहेति । आदिशब्दो दर्शपूर्णमासविकृतिष्वस्य विधेरतिदेशतः प्राप्त्यर्थः । नन्वस्यो-
त्तरीयवासो विन्यासविशेषविधानार्थत्वात् त्रिसूत्रनवतन्तुकत्रिवृद्ग्रन्थियज्ञोपवीतविधायकत्वं
नास्तीशङ्क्य, वाक्यान्तरं दर्शयति—तथेति । सर्वकर्मार्थतायाऽनारभ्यविधित्वोपन्यासः ।
आचमनविधिं दर्शयति—तथेति । नन्वस्य ब्रह्मयज्ञप्रकरणपाठाद्दर्शपूर्णमासादिष्वा-
चमनविधायकत्वं न सम्भवतीत्याशङ्क्याह यद्यपीति । ब्रह्मयज्ञे पूर्वंगृहीतस्वाध्यायाध्यय-
नस्य कल्पसूत्राधिकरणे कर्माभ्यासानुसन्धानं विध्यर्थश्चानुगम्यत इत्यत्र प्रयोगप्रांशुभावो-
पयोगिकर्मानुसन्धानप्रयोजनकत्वस्य वक्ष्यमाणत्वेन तदनुसन्धानस्य च लोकावगतशक्त्यनु-
सारेणाध्ययनसंस्कृतैरक्षरैः क्रियमाणस्यादृष्टार्थाचमनाद्यनपेक्षत्वादाचमनस्य नापूर्व लक्षणार्थं
प्रकरणापेक्षास्तीति प्रकरणानादरेण वाक्यात्स्वाध्यायाध्ययनमात्राङ्गत्वप्रतीतेः । सर्वयज्ञेषु
च मन्त्ररूपस्वाध्यायाध्ययनसद्भावात्तद्द्वारेणाचमनस्य सर्वयज्ञाङ्गत्वमवसीयते । अध्यय-
नस्य त्वदृष्टार्थत्वेऽपि तत्संस्कार्याणामक्षराणां क्रत्वपेक्षितनियमाद् दृष्टोपयोगिवेदसम्पत्त्यर्थं-
क्रमस्वरविशेषवदाचमनाद्यपेक्षा न विरुध्यते । यथैव प्रत्यक्षस्यापि यूपादेरदृष्टोपयोगिरूपं
प्रमाणान्तरागोचरत्वात्तदर्थं विहितक्षणादिसकलसंस्कारसमुदायजन्यत्वेनावसीयमानमेकसंस्कार-
वैकल्येऽपि नोत्पद्यते, तथा वेदस्याप्यदृष्टोपयोगिरूपम् ।

Page 430Permalink

३७८ मीमांसादर्शनम् [ सू०
'तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥'
इत्यादिवाक्यपर्यालोचनया तदर्थविहितसकलधर्मसम्पाद्यमवसीयते अतोऽलौकिकरूपा-
नभ्युपगमे च वेदवाक्यानामपि लौकिकत्वानपायाल्लौकिकवैदिकव्यपदेशभेदो निरालम्बनः
स्यात् । तस्मादाचमनस्य वेदत्वसम्पादनार्थत्वाद्वाक्येन प्रकरणं बाधित्वा सर्वस्मिन्वेदकार्ये
प्राप्तिरिति श्रौतत्वान्न स्मार्तोदाहरणत्वमिति भावः । तावच्छब्देन च दर्शपूर्णमासप्रकरणे
पठितः 'स वै व्रतमुपैष्यन्नन्तराहवनीयं च गार्हपत्यं चोपविश्याप आचामतीत्याचमनविधिः
ऋत्वङ्गाचमनविधानार्थः सूचितः । नन्वस्तु नामेदं सर्वयज्ञाङ्गमाद्यमाचमनम्, प्रयोगान्तः-
पाति तु नैमित्तिकमिह क्रमविरोधित्वेनोदाहर्त्तव्यम् । तच्च प्रत्यक्षश्रुतिविहितं नास्तीत्या-
शङ्क्य प्रयोगान्तःपातिनैमित्तिकाचमनप्रापकं लिङ्गं दर्शयति—तथा चेति ।
दक्षिणाचारत्वप्रापकस्यापि वैदिकस्य लिङ्गस्य दर्शनात्तदपि नेहोदाहर्त्तव्यमित्याह—
दक्षिणेति । साक्षाद्विधिना यत्र विषये सव्यस्याञ्जलेर्वा चोदना, तस्मादेव विषयाद्दक्षिणा-
चारत्वं निवर्त्तेत अन्यत्र तु विषये तद्दक्षिणाचारत्वस्य निवर्त्तनं नाशक्यतेऽपीत्यर्थः ।
किमिति नाशक्यते इत्यपेक्षिते मनसि कृतं लिङ्गमुद्भावयति—यथा वा इति । प्रागु-
दक्प्रवणं देवयजनम्, प्रत्यक् दक्षिणाप्रवणं श्मशानकरणं यथा वै दक्षिणतः पाणिरेव देव-
यजनम्, यथा वै सव्यस्तथा श्मशानकरणमिति देवयजनस्य यज्ञभूमेः प्रागुदक्प्रवणत्वं विहि-
तमौचित्येन स्तोतुं दक्षिणः पाणिरुपमानं कृतम् । तदेव यजनवद्दक्षिणस्य पाणेर्यज्ञाङ्गत्वे
सत्यवकल्पते, नान्यथेत्यर्थः ।
नन्वनारभ्य विहितस्यापि यज्ञोपवीतस्यायज्ञरूपेषु दविहोमादिषु प्राप्तेस्तेष्वपि वा
कथञ्चिदङ्गत्वेन मन्त्रोच्चारणवत्त्वेन वा प्राप्तिसम्भवेऽप्यानुषङ्गिकप्रयोगप्राशुभावोपयोगि-
कर्मानुसन्धानप्रयोजनत्वेऽपि ब्रह्मयज्ञस्याहरहःस्वाध्यायमधीयीतेति नित्यत्वश्रुतेरकरणे
च प्रायश्चित्तस्मरणाददृष्टार्थत्वावधारणेनादृष्टार्थोपायापेक्षितवात्तत्प्रकरणपठितस्याचमनस्यात्य-
न्ताप्राप्तौ वाक्येन कथञ्चित्प्राप्तावपि प्रयोगारम्भे कृतस्य तत्प्रयोगान्तर्वर्त्तिसमस्तमन्त्रोच्चार-
णोपकारकत्वेन प्रतिमन्त्रमनावृत्तेरन्तराले प्राप्यभावेन क्रमादिविरोधित्वान्न सोमेनोच्छिष्टा
भवन्तीत्यस्य च स्मृतिप्राप्ताचमनप्रतिषेधार्थत्वेनाप्युपपत्तेर्यथा वै दक्षिणः पाणिरित्यस्य च
यज्ञाङ्गभूतदक्षिणहस्तविध्याक्षेपकत्वे यथासव्यस्तथश्मशानकरणमित्यस्यापि प्रेतकर्माङ्ग-
भूतसव्यहस्तविध्याक्षेपकत्वापत्तेराचारविरोधप्रसङ्गात्स्मृत्याचारप्राप्तदक्षिणहस्तोपमार्थत्वोप-
पत्तेर्विध्याक्षेपकत्वाभावात् क्रमादिविरोधे प्रत्यक्षाचमनादिविध्यभावाञ्चोदाहरणदूषणं युक्त-
मित्याशङ्क्याह—तेनेति । क्रमादेः प्रयोगाङ्गत्वात्प्रयोगस्य चाचारपर्यन्तप्रमाणप्रापित-
पदार्थविषयत्वात्सकलपदार्थप्राप्त्युत्तरकालभावित्वेन विरोधपूर्वकपक्षयोगात्स्मृतेश्च यथाश्रुत-
मूलनिश्चये प्रामाण्याभावेनाचमनादेस्तत्प्रमेयत्वायोगान्निश्चये वा प्रमाणदौर्बल्यानुपपत्तेः
प्रमेयबलाबलेन प्रमाणबलाबलबाधसिद्धान्तायोगादनुदाहरणतेत्याशयः ।

Page 431Permalink

७ ⁑ प्रथमाध्याये तृतीयपादः ३७९
नन्वेवं तह्यग्रवन्ति प्रागग्राण्युदगग्राणि वापवर्गवन्ति, प्रागपवर्गाण्युदगपवर्गाणि वेत्या-
द्युदाहरणं अविषयतीत्याशङ्क्य तत्राप्युक्तदोषसाम्याद् द्विविधस्यापि विचारस्यानुपपत्तेर-
धिकरणान्तरमेवेदं न भवतीत्याह — तस्मादिति ।
का तर्हि सूत्राणां गतिरित्यपेक्षायामाह — सूत्राणि त्विति । बाह्यस्मृतिविषयस्य
विरोधाधिकरणस्याक्षेपपरिहार्थं सूत्रद्वयम्, तृतीयन्तु स्मृत्यधिकरणोक्ताचारप्रामाण्याक्षेपपरि-
हारार्थमिति विवेकः । आद्यं सूत्रं विरोधाधिकरणाक्षेपे योजयति यत्तर्हीति । द्वितीयं
परिहारे पठित्वा योजयति — परिमितान्येव हीति ।
पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश ॥ या. स्मृ. आ-श्लो-३
इति स्मृत्यैव चतुर्द्दशानां धर्म्मप्रमाणत्वम् उपपादितं च स्मृत्यधिकरणे ।
अथ आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव तु ॥
इति स्मृत्या पूर्वैः सह संख्यानेनायुर्वेदादीनामपि क्रत्वर्थाज्यावेक्षणादिसिद्ध्यर्थं-
चिकित्सादिग्विजयर्थं शास्त्रविद्यागानौपयिकषड्गादिद्रव्यार्जनोपयोगिनीति द्वारेण धर्म्म-
प्रमाणत्वं तथापि बौद्धादिग्रन्थानां तन्मध्यपाताभावान्न धर्म्मप्रामाण्यमित्यर्थः । आयुर्वेद-
धनुर्वेदगन्धर्व्ववेदास्त्रय उपवेदाः । मीमांसान्यायविस्तरौ द्वे तूपाङ्गे । साधारणीविशेषविषया
च द्विविधा शिक्षा । तत्र साधारण्याद्वेदाङ्गत्वेन धर्म्मप्रामाण्येऽपि, कात्यायनादिप्रणीतायाः
विशेषविषयायाः प्रतिवाक्यं प्रतिपदं चोच्चारणम् नियच्छक्त्या धर्मप्रमाणत्वाभावशङ्का-
निराकरणार्थं पृथगुपादानेऽपि शिक्षात्वेनैवान्नातिरेकापत्तिः । दण्डनीतिः =
अर्थशास्त्रम् ।
ननु परिमिते विद्यास्थानबाह्यत्वेऽपि तत्संवादिनां बौद्धादिग्रन्थानां कस्मान्न धर्म्म-
प्रामाण्यमित्याशङ्कयाध्ययनविधिवशाद्वेदादेवावगम्यानुष्ठितं कर्म्म श्रेयः साधयतीति नियम-
प्रतीतेर्बौद्धादिग्रन्थादवगम्यानुष्ठितस्यापि वेदार्थस्य श्रेयःसाधनत्वाभावा द्वेदादिपूर्व्वशास्त्रार्थस्य
गोचरस्य बुद्धादिकृतस्य वाक्यस्य धर्मे प्रामाण्यं नास्तीत्याह — प्रतीति । एतदेव व्यवहारेण
द्रढयति — तथा चेति ।
नन्वेवं सति मन्वादिग्रन्थानामप्यप्रामाण्यं स्यादित्याशङ्क्याह — वेदेनैवेति । मन्वादीनां
धर्मप्रवक्तृत्वस्य वेदानुज्ञां दर्शयति — तथा चेति । नन्वनादेर्वेदस्यादिमन्मन्वादिपुरुष-
विशेषाभिधायित्वायोगाच्छ्रुतिसामान्यमात्रेण मन्यते ज्ञायते तेनेति व्युत्पत्त्या मनुशब्देन
वेदाभिधानान्नानेन वाक्यशेषेण मनोः प्रवक्तृताऽनुज्ञायत इत्याशङ्कयाह — न चेतिदिति ।
ननु मनोः प्रवाहनित्यत्वेऽपि तत्स्मृतेरनित्यत्वान्न वेदेन प्रामाण्यानुज्ञानं सम्भवतीत्या-
शङ्कयाह — प्रतीति ।

Page 432Permalink

३८० मीमांसादर्शनम् [ सू०
ननु कल्पान्तरे मनूनामभावात्तद्वाक्यप्रामाण्यपरत्वे वेदस्यानित्यत्वं स्यादित्या-
शङ्क्याह—स्थिताश्चेति । दृष्टान्तं विवृणोति—प्रतिद्युशमिति । मन्वादेः प्रवाहनित्यता
कथमवगम्यत इत्यपेक्षिते मनुवचनमुदाहरति—उक्तं चेति । दृष्टान्तान्तरमाह—इतिहासेति ।
उपसंहरति—तेनेति ।
कथं पुनर्वेदातिरिक्तानामपि तन्मूलानां ग्रन्थानां धर्मप्रमाङ्गत्वमतन्मूलानां च तत्सं-
वादिनामप्यनङ्गत्वमित्यवगम्यत इत्यपेक्षायामुभयद्योतकं लिङ्गं दर्शयति—तथा चेति ।
वेदमूलानां धर्मप्रमाङ्गत्वद्योतकत्वमस्योपपादयति—अन्यथा हीति । बाह्यानां धर्मप्रमाङ्ग-
त्वद्योतकमपपादति—यदि चेति । वेदमूलग्रन्थनिबन्धनानां धर्मप्रामाण्यम्, न बाह्यानामिति
यदि नाश्रीयेते तथा सति बाह्यानां विज्ञातप्रत्यक्षातिमूलत्वान्नवाविज्ञातमूलं किंचिदित्यर्थः ।
अतः साक्षात्परम्परया वा वेदादवगम्यानुष्ठितोऽर्थः श्रेयःसाधनमिति शास्त्रार्थविवारणाद्भे-
दार्थस्यापि बाह्यस्मृत्यवगतस्य श्रेयःसाधनत्वं नास्तीत्यप्रामाण्याभिधानाभिप्रायं प्रकटयति—
तस्मादिति ।
एतदेव दृष्टान्तद्वारेण विवृणोति — यथैवेति । अतिक्रान्तं वेदोक्तं तथा मर्यादया तया
व्यवहारिणामिति विग्रहः धर्मविप्लावकत्वाच्च शाक्यादीनामश्रद्धेयवचनत्वमित्याह—
स्मर्यन्ते चेति । ननु विसंवादिशाक्यादिवाक्यानामग्राह्यत्वेऽपि संवादिनामहिंसादिवाक्यानां
ग्राह्यत्वं भविष्यतीत्याशङ्कयाह—यथेति । परपीडात्मकात्कर्मणस्तदनुरूपमात्मनः पीडात्मकं
फलम्भवतीति कर्मानुरूप्योपमानं वैदिक्यपि हिंसा लौकिकीवदधर्म इति सामान्यतो
दृष्टदुःखोपभोगस्य पापफलत्वाज्ञानादुःखोपभोगात्पापक्षयो भवतीत्यर्थापत्तिः तद्बलाच्छा-
क्याद्यभिप्राय कल्पितानां धर्माभासानां मध्ये पतितमित्यर्थः । संवादोत्तरकाले तर्हि ग्रहीष्यत
इत्याशङ्कयाह—यदेति । सिद्धान्तमुपसंहरति—तस्मादिति । तृतीयं सूत्रं स्मृत्याधिकरणो-
क्ताचारप्रामाण्याक्षेपपरिहारे योजयितुमुपक्रमते — यत्त्वेतदिति । धर्मजिज्ञासाधिकारेऽप्यर्थ-
कामाचाराणामपि दृष्टप्रमाणमूलत्वेन प्रसङ्गात्प्रामाण्यसिद्धिमभिप्रेत्य, त्रिवर्गग्रहणम् । स्मृति-
न्यायसिद्धस्याचारप्रामाण्यस्याक्षेपानुपपत्तिमाशङ्क्य तत्समर्थनार्थं सन्देहहेतुप्रदर्शनपूर्वकं
पूर्वपक्षमाह—तद्विपरीतेति । त्रिवर्गविपरीतैरधर्मानर्थदुःखासाधनैरात्महननादिभिराचारैः
सङ्कीर्णो व्यवहारो येषामिति विग्रहः वैद्यश्चासावातुरश्चेति कर्मधारयं कृत्वा पूर्वपदेन
कर्मधारयः कार्यः । अत्यन्तविलक्षणानन्ताचारमूलभूतैकश्रुतियोगात्प्रत्याचारं च मूलकल्पने-
ऽनन्तश्रुतिकल्पनापत्तेर्नाचारमूलश्रुतिकल्पनं सम्भवतीति वक्ष्यमाणप्रकारेणाचाराणां श्रुति-
कल्पकत्वासम्भवमभिप्रेत्याशब्दत्वोक्तिः । विरोधं दर्शयति—सदाचारेषु हीति । लोभाद्य-
भिभवात्सन्निहितानर्थदर्शनेनाधर्माचरणं धर्मव्यतिक्रमः । दृष्टस्याप्यनर्थस्य बलदर्पेणानादरा
दधर्माचरणं साहसं वहता ।
प्रायो धर्मव्यतिक्रमवर्णनम्
व्यतिक्रमं साहसं च यथासम्भवं दर्शयति—प्रजापतेस्तावदिति । इन्द्रस्यापि गौतम-
भार्यागमनेनागम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रम इत्यनुषङ्गेण योज्यम् । इन्द्रे ब्रह्म-

Page 433Permalink

७ ] प्रथमाध्याये तृतीयपादः १८१
हत्यामयादपक्रान्ते, नहुषः स्ववीर्येणेन्द्रपदमधिष्ठाय तद्भार्यां शचीमभिगन्तुं चकार । वसिष्ठ-
पुत्रे शक्तौ राक्षसैर्भक्षिते तच्छोकान्मर्तुकामो जलं प्रवेष्टुमारेभे । विश्वामित्रः क्षत्रियमपि
त्रिशङ्कुं ब्राह्मणकन्याहरणकुपितस्य पितुः शापाच्चाण्डालत्वमापन्नं याजयामास । उर्वशो-
वियोगशोकातुरुरवा मर्तुमियेष । विचित्रवीर्येऽनपत्य एव मृतं तद्भार्यायामम्बिकायां
धृतराष्ट्रमम्बालिकायां पाण्डुमम्बिकाप्रेषितायां दास्यां विदुरं कृष्णद्वैपायनो जनयामास ।
विधवानियोगोऽपि ब्रह्मचारिणोऽनुचित इति गृहीतेत्यनेन सूचितम् । नियोगविधेरेक्येका-
पत्यविषयत्वादनेकोत्पादनानौचित्यं प्रसङ्गशब्देन सूचितम् । भीष्मस्यानाश्रमित्वमपत्नीकस्य
च स एष भीष्मः कुरुवंशकेतुर्यनाहुतास्त्रिंशतो वाजिमेधाः क्रतुप्रयोग इति धर्मव्यति-
क्रमद्वयम्, रामवदित्यनेन तस्यापि पत्नीत्यागेनैकाकिनः क्रतुप्रयोगाद्धर्मव्यतिक्रमः सूचितः ।
धृतराष्ट्रस्यान्धत्वेनानधिकृतस्य यागकरणाद्धर्मव्यतिक्रमः । अन्धस्य निरंशत्वेन धना-
भावाद्यागासम्भवमाशङ्क्य ।
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥
इति दर्शनात्पाण्डुवर्जितधनैरित्युक्तम् ।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयदिति च पाण्डुना धृतराष्ट्रादिभ्यः स्वार्जितधन-
समर्पणान्नापहारः शङ्कनीयः । पाण्डुवर्जितधनोपजीवनं ज्येष्ठस्य धृतराष्ट्रस्यानुचितमिति,
व्यतिक्रमान्तरं चानेनोक्तम् ।
इदं सज्जं धनुः कृत्वा सज्जेनानेन सायकैः ।
अतीत्य लक्ष्यं यो वेद्धा स लभेत सुतामिमाम् ॥
इति द्रुपवेनोद्घोषिते तथाकृतवतेऽर्जुनाय द्रौपदी निवेदिता तथा च "विद्ध्येत य
इमं लक्ष्यं तं वृणीष्व वरानने" इति भ्रातृवचनाल्लक्ष्यवेधानन्तरमेवार्जुनो वृत इत्यपरि-
णयनेऽपि वरणे च जायात्वप्रक्रमादन्यस्य विशेषतो भ्रातुःकनीयसश्च जायायाः परिणय-
नादेको युधिष्ठिरस्य धर्मव्यतिक्रमः, तथा द्रोणो ब्राह्मणो युधिष्ठिरादीनां धनुर्वेदाचार्यो
त्यक्तशास्त्रो न हन्तुं शक्यः । अश्वत्थाम्नि च पुत्रे हते शस्त्रं त्यक्ष्यतीति मत्वा वध्यत्वाय
शस्त्रं त्याजयितुमश्वत्थामा हत इत्यनृतं युधिष्ठिरेणोक्तमित्यपरः ।
वासुदेवेन मातुलदुहिता रुक्मिणी परिणीता । अर्जुनेन सुभद्रेत्येकस्तयोर्द्धर्म-
व्यतिक्रमः ।
उभौ मध्वासवक्षीबौ दृष्टौ मे केशवाजुनाविति च सुरापानादपरः ।
अद्यतनानां धर्मव्यतिक्रमवर्णनम्
अद्यतनानां व्यतिक्रमं दर्शयति—अश्वत्वेऽपीति । अश्वाश्वतरखरोष्ट्रानां 'न केसरिणो
ददाति' निषेधविषयत्वार्थं केसरित्वविशेषणं नोभयदतः प्रतिगृह्णातीति निषेधविषयत्वा-

Page 434Permalink

३८२ : मीमांसादर्शनम् [ सू०
योभयदत्तं विक्रयस्तु व्रीहियवाजात्यश्वभूमिधेन्वनडुहश्चैके (गौ० ध० सू०) इत्यश्वस्य
गौतमेन निषिद्धः ।
बौधायनेन उभयतो दद्भिनं व्यवहार इति सर्वेषां न केवलं श्रुतिस्मृतिविरोधेनैवं
जातीयकानामानाचाराणामनपेक्षणीयत्वं किं तु परस्परविगानलक्षणाद्विरोधाद्धेतुदर्शनाच्चेत्याह-
सर्वत्रेति । इतरेतराश्रयापत्तेरपि नाचाराणां धर्मप्रामाण्यमित्याह-किं चेति ।
ननु मन्वादिस्मृतिप्रामाण्यस्य साधितत्वात्, तैश्च वेदोऽखिलो धर्ममूलं स्मृतिशीले
च तद्विदामाचारश्चैव साधूनामिति श्रुतिस्मृतिवदाचारप्रामाण्यस्यापि स्मृतत्वात्तन्निरा-
करणमयुक्तमित्याशङ्कते-नन्विति । अतिप्रसङ्गापादनेनैतद् दूषयति-आत्मतुष्टिरिति ।
नन्वसावप्यस्तु प्रमाणमित्याशङ्कयाह-धर्म इति । यद्यसौ धर्म एव व्यवस्थितः स्यात्
भवेत्प्रमाणम्, नन्वेतदस्तीत्याशयः । अनवस्थितत्वमुपपादयति-यथाभ्यासं हीति । वैचित्र्यं
प्रपञ्चयति-तथा हीति । अत्यन्तकारुण्याच्छाक्यानां पशुहिंसादर्शने पीडा भवति । ननु
साध्वात्मतुष्टेः प्रामाण्यस्मरणाच्छाक्यादीनां चासाधुत्वान्न तदीयान्यतुष्ट्यन्यथात्वेन किंचिद्
दुष्यतीत्याशङ्क्य साधुत्वसम्मतानां वेदवादिनामप्यात्मतुष्टेर्वैचित्र्यमाह-तथेति । स
पापेन मनसापि तन्मातुलसुताप्रापणं न कुर्वत इत्यपिशब्दाध्याहारेण व्याख्येयम् ।
का तर्ह्युभयप्रामाण्यस्मृतेर्गतिरित्याशङ्क्याह-ततश्चेति । श्रुतिस्मृतिसम्बाधाचारात्मतुष्टि-
विषया स्मृतिरित्याशयः । किं चाचारमूलभूता श्रुतिर्मन्वादिभिर्दृष्टा न वा तत्र तैरदर्श-
नैरर्वाचीनानां दर्शनस्यासम्भवनीयत्वाच्छिन्नमूलत्वापत्तेराचारप्रामाण्यस्मृतेरन्यपरतैवाङ्गी-
कार्येत्याह-स्वयमिति । श्रुत्यभावे च स्मृतिपारतन्त्र्याच्छिष्टानां तदाचारप्रामाण्यमभिधानं
स्मृतिकाराणां न शोभत इत्याह-स्मृतीति । आचारमूलश्रुतिदर्शनं तु मन्वादेर्न कल्पयितुं
शक्यम्, तदर्थानिबन्धनादित्याह-न चेति । यदि ह्याचारमूलभूता श्रुतिर्मन्वादिभिर्दृष्टा स्यात्
ततः परोक्षापि स्वरूपेणासमर्पिताप्युपनयनादिश्रुतिवदर्थं स्मर्येत तदर्थो निनिबध्येतेत्यर्थः ।
पूर्वपक्षमुपसंहरति-तस्मादिति ।
सिद्धान्तः
सिद्धान्ते सूत्रं पठित्वा योजयति-इति प्राप्त इति । दृष्टं फलमनुष्ठानकारणत्वेना-
चरितुर्भिनिश्चितं येषु कर्मसु तानि दृष्टकारणहीनानि धर्मबुद्ध्या यानि क्रियन्ते इत्यर्थः ।
विशेषणस्य व्यावत्त्यंमाह-शरीरेति । अस्मिन्सूत्रे हेत्वनभिधानात्स्मृत्यधिकरणसिद्धान्त-
सूत्रोक्तं हेतुं योजयितुमाह-धर्मत्वेनेति । तान्युदाहरति-प्रदानानीति । शक्रध्वजमहः
शक्रध्वजोत्सवः महे इति पाठे शक्रध्वजे महायात्रेति सप्तमीसमासः । देवतायतनेष्वित्यत्र
महायात्रेत्यनुषङ्गः । सर्ववर्णसाधारण्यार्थे-सर्वासामित्युक्तम् । उदाहरणान्तराण्यपि दर्शयन्
कारणाग्रहणमुपपादयति-प्रदीपेति । प्रदीपानां कार्त्तिकशुक्लप्रतिपदि दानम् । मोदका-
दिश्रुतिभिर्द्रव्यैः तत्साध्यानि दानभक्षणादीनि लक्ष्यन्ते । माघसप्तमीपौर्णमासीभ्यां तत्काला-
नुष्ठेयं कर्म लक्ष्यते । फाल्गुनीपौर्णमास्यनन्तरार्यां प्रतिपदि वसन्तनिमित्त उत्सवः ।

पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति ।

Page 435Permalink

७ ] प्रथमाध्याये तृतीयपादः १८१
स्मृतितोऽपि सदाचारप्रामाण्यमवसीयेत इत्यतिप्रसङ्गदोषाभावं वक्ष्यमाणमभिप्रेत्याह-
स्मृतिकाराश्चेति । सर्वाचारसाधारण्यप्रदर्शनार्थः सामान्यशब्दः । उत्सवात्मकस्याचारस्य
द्योतकं स्मृत्यन्तरमुदाहरति-तथेति । वैदिकमप्युत्सवलिङ्गमुदाहरति-वेदेऽपि ।
सिद्धान्तमुपपाद्य धर्मस्य शब्दमूलत्वादिति पूर्वपक्षहेतुं साभिप्रायविवरणमनुभाष्य
निराकरोति-यत्त्विति । इहाचारेष्वनन्तेषु परिमितशास्त्रमूलत्वासम्भवादशब्दत्वेनान-
पेक्षत्वं यदुक्तम् ।
तद्—
भ्रान्तेरनुभवाच्चापि पुंवाक्याद्विप्रलम्भनात् ।
दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥
इति पूर्वोक्तेन प्रकारेण वेदमूलत्वानुमानात्प्रत्याख्येयमित्यर्थः । आचारप्रामाण्यप्रति-
पादिकायाश्च स्मृतेर्निर्मूलत्वयोगादाचारमूलश्रुतिकल्पनमवश्यंभावीत्याह-न चेति ।
नन्वनन्ताचारमूलभूतानां श्रुतीनामानन्त्यात्पठितुमशक्तेरपठितानां च मूलत्वायोगान्नि-
र्मूलत्वमपरिहार्यमित्याशङ्कयाह-विस्तरेति । कथमनन्तानां संक्षेपवचनमूलत्वमित्या-
शङ्कयाह-शङ्क्यं चेति ।
ननु स्मृत्यनुरूपाश्रुतिः कल्प्या कल्प्यमाना साध्वाचरणेनैवोपलक्षितानां धर्मत्वप्रति-
पादिका कल्प्येत । तत्र शास्त्रव्यापारात्प्रागाचरणसिद्धौ शास्त्रानर्थक्यम्, असिद्धौ वा
शास्त्रादाचरणं तदुपलक्षणेनैव च शास्त्रप्रवृत्तिरितीतरेतराश्रयं स्यादित्याशङ्कयाह - तथा
हीति । श्लोकं विवृणोति-न हीति । ननु व्यापाररूपत्वात्प्रदानादीनां यागादिवत्
स्वरूपेणापि शास्त्रगम्येन भवितव्यमित्याशङ्कयाह-यागादिष्वपि चेति । पूर्वसिद्धत्वादेव
च नेतरेतराश्रयमित्याह-अत इति ।
ननु यदि शास्त्रप्रवृत्तिमनुपलभ्यैव शिष्टप्रवृत्तिः ततः स्वयमेवानुष्ठितप्रदानादेर्भोजनादि-
वत्फलसाधनत्वसिद्धेः शास्त्रानर्थक्यमपरिहृतं स्यादित्याशङ्कानिराकरणार्थम्-क्वाचित्क-
त्वेत्युक्तम् । शिष्टप्रवृत्त्युत्तरकालं तर्हि शास्त्रस्य प्रवृत्तेरादिमत्त्वं स्यादित्याशङ्क्य-
सर्वकालं त्वित्युक्तम् । ननु शिष्टाचारस्यापि मातुलदुहित्युद्वाहादिषु विगानदर्शनात्कथमुप-
लक्षणत्वमित्याशङ्कयाह-तेषां चेति ।
यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥
इति मनुना सदाचारशब्दार्थस्य निर्णीतत्वादिति भावः ।
स्मृतिबलाच्च श्रुतिरपि विशिष्टविषयैव कल्प्येत्याह-वेदेनापीति । सरस्वत्या विनशनं
तिरोभावः सारस्वतसत्रारम्भदेशस्योपलक्षणम् । तस्या एव प्लक्षात्प्रस्रवणं सारस्वतसत्रो-
त्थानदेशस्योपलक्षणम् । सदाचारस्वरूपावधारणे यत्पूर्वमितरेतराश्रयत्वमुक्तम् । तदेव