मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
by महर्षि जैमिनि / शाबर स्वामी
Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)
About this granth
Purva Mimamsa (मीमांसा दर्शन) is the school of Indian philosophy built on Maharshi Jaimini's Mimamsa Sutras, which set out how Vedic injunctions are to be interpreted and how ritual action is to be performed. The oldest surviving commentary on the sutras is the Shabara Bhashya of Shabaraswamin, and Kumarila Bhatta's Tantravartika on it became the foundation of the Bhatta school.
This is no. 16 of the Prachyabharati Series, first published by Tara Printing Works, Varanasi, in 1984. As its title page states, it gathers five commentaries: the Shabara Bhashya, Kumarila's Tantravartika, Someshvara Bhatta's Nyayasudha on it, the Bhashyavivarana of Govindamritamuni, and the Bhavaprakashika of the editor, Dr. Mahaprabhulal Goswami, then head of philosophy at Sampurnanand Sanskrit University. The foreword is by Pattabhirama Shastri.
The discussion proceeds sutra by sutra through the means of knowledge, the definition of dharma, injunction and arthavada, context and other rules of interpretation, with an introduction surveying the commentators. At about 804 pages, it is meant for serious students of Mimamsa.
२१२ मीमांसादर्शनम् [ सू०
सिध्येत् । तेन यावत्प्रयोगभाविप्रमाणालोचनवशात्पूर्वानुमितां श्रुतिं क्वदचिप्यशृ-
ण्वन्पुनरपि स्मृतिमेवोपलभ्य कर्तृसामान्यलिङ्गेनैव श्रुतिमनुमिमानः प्रत्यक्षया
श्रुत्याऽऽक्षिप्तचित्ततया तत्प्रामाण्येनान्यथानुपपद्यमानेन स्मृत्यप्रामाण्यं कल्पयन्पूर्वा-
वधारितमूलव्यत्ययमेव प्रतिपद्यते न पूर्वक्लृप्तमूलस्याप्रामाण्याध्यारोपम् । अपठ्य-
मानतयैवास्य सुलभाज्ञानत्वात् ।
यच्चैतदनवस्थानं त्वया मां प्रति चोद्यते ।
भवतोऽपि तदस्त्येव तेनाचोद्यत्वमेकतः ॥ १४५
यदा ह्यादौ श्रुतिं श्रुत्वा स्मृतेर्न्नान्याऽनुमीयते ।
तदऽन्यमूलतापत्तेरेकान्तेनैव बाध्यते ॥ १४६
कालान्तरेऽपि यो बाधः स्फुटत्वेनावधार्यते ।
यत्तेनाप्यप्रमाणत्वं कृतं तन्न निवर्त्यते ॥ १४७
पूर्वस्मृतिग्राहिणां च स्वयं बाधमचेतयमानानामपि पुरुषान्तरस्य श्रुतिश्रवण-
प्राथम्यबलेन बाधसंतानोऽनुवर्तत एव ।
पुरुषान्तरबाधोऽपि नैवालपं भ्रान्तिकारणम् ।
न हि द्विचन्द्रदिङ्मोहौ न बाध्यते नरान्तरैः ॥ १४८
ननु यवश्रुतेरपि तर्हि प्रमाणत्वेन परिगृह्यमाणायाः पुरुषान्तरबाधस्तदानी-
मस्तीति मिथ्यात्वप्रसङ्गः ।
उच्यते—
पठ्यमानत्वादुन्मज्जननिमज्जने ।
सर्वान्प्रति तयोस्तुल्ये विशेषोऽन्यो न गृह्यते ॥ १४९
स्मृतिस्तु यावतां पुंसां प्रथमं गोचरीभवेत् ।
तावतां सर्वदाऽभावाज्ञाप्रामाण्येन मुच्यते ॥ १५०
अप्रमाण्यपदं चैकमस्त्येवं प्रथमं स्मृतेः ।
तावता लब्धमिथ्यात्वान्न श्रुतिं बाधितुं क्षमा ॥ १५१
अध्यारोप्येत मिथ्यात्वमुज्ज्वलायाः श्रुतेः पुनः ।
लब्धमेव स्मृतौ तच्चेत्किमर्थं कल्प्यते श्रुतेः ॥ १५२
विरुद्धयोर्हि श्रुतिस्मृत्योर्विकल्पप्रसङ्गेनावश्यं कल्पनीयेऽन्यतरत्राप्रमाणत्वे
यावच्छ्रुतौ पटाच्छादनन्यायेन कल्पयितुमारभ्यते, तावत्स्मृतौ स्वरूपाश्रयं क्लृप्तमे-
वोपलभ्य, संशयच्छेदे जाते न कदाचिदप्यभूताप्रामाण्याध्यारोपकल्पनोपपत्तिः ।
ननु श्रुत्यविरुद्धायाः श्रुतिमूलत्वनिश्चयः ।
अनुमानादपि प्राप्स्यन् केनचित्प्रतिबध्यते ॥ १५३
३ ] प्रथमाध्याये तृतीयपादः २९३
तस्मात्कारणवैषम्यान्नोभयत्रैकरूपता ।
सिध्येन्मूलव्यवस्था हि प्रतिपक्षानुसारिणी ॥ १५४
ततश्चार्धवैशसप्रसङ्गन्निवृत्तिः ।
यथा—प्रमाणत्वाप्रमाणत्वे लिङ्गादीनां व्यवस्थिते ।
पूर्वैः सह विरुद्धत्वाविरुद्धत्वनिबन्धने ॥ १५५
तथेहापि व्यवस्थेष्टा न परस्परसङ्करः ।
प्रतिबन्धाभ्यनुज्ञाभ्यां श्रुत्या नास्त्येकरूपता ॥ १५६
यद्यप्यौदुम्बरीसर्ववेष्टनं धर्मशास्त्राध्येतृस्मृतिविलक्षणप्रत्यक्षश्रुत्यर्थोपसंहार-
परसूत्रकारोपनिबद्धम्, तथाऽप्युपरिष्टाद्वक्ष्यमाणाल्पान्तरत्वाभिप्रायेण पुरुषोपदिष्ट-
त्वाविशेषाच्च स्मृतिवदेवोदाहृतम् ।
क्रीतराजकभोज्यान्नत्ववचनं यद्यप्यथर्ववेदेऽस्ति, तथाऽपि तस्याऽऽहवनीय-
संबद्धयज्ञकर्मोपकाराभावात्तदधिकृतत्रयीप्रतिपादिताग्नीषोमीयसंस्थावधिभोजनप्र-
तिषेधविरोधात् “प्रकरणविशेषाद्विकृतौ विरोधि स्यात्” इत्यनेन न्यायेनाविकृता-
नधिकृतबलाबलविशेषाभिप्रायेण स्मृतिपक्षनिक्षेपाद्भाष्यकारेणोदाह्रियते ।
कृष्णकेशत्वं च यद्यप्यनवस्थितवयोवस्थाकालविशेषं जातपुत्रत्वपक्षे संदिग्ध-
समावेशं च, तथाऽपि 'युवैव धर्ममन्विच्छेदि'त्येवमादिस्मरणप्रकाशितार्थं यौवना-
वस्थापरिग्रहादन्ततो वा वयोर्द्धानतिक्रमाश्रयणादष्टाचत्वारिंशद्वर्षब्रह्मचर्यप्रागुप-
नयनसंबद्धकालस्य च वयसः सातिरेकद्विपञ्चाशच्चतुष्पञ्चाशन्मात्रसंवत्सरपरिमि-
तत्वेनापरिहार्यवयोर्द्धानातिक्रमावश्यंभावित्वाद् व्यक्त एव विरोधो दृश्यते ।
ननु च पूर्वकृतसर्ववेष्टनोत्तरकालविहितवेष्टिताया एव स्पर्शनं संभवतीत्य-
विरोधः । कथमविरोधो ? यदा स्पर्शनं नाम त्वगिन्द्रियद्वारं स्पृश्य संवेदनम् । न च
वस्त्रान्तरिताया औदुम्बर्याः स्पर्शो गृह्यते । न च वस्त्रे स्पृश्यमान औदुम्बरी स्पृष्टा
भवति । वस्त्रौदुम्बरीजातिव्यक्तिस्पर्शनामत्यन्तभेदात् ।
अथ संबन्धिसंस्पर्शात्स्पृष्टैवेत्यभिधीयते ।
भूमिस्पर्शेन तत्सिद्धेर्वृथा स्पर्शविधिर्भवेत् ॥ १५७
ननु भूमावौदुम्बरीबुद्ध्यभावाद्द्वस्त्रान्तरितायां च तद्बुद्ध्यव्यतिरेकाद् दृष्टा-
न्तवैषम्यम् ।
तथा हि—वस्त्रान्तरितचाण्डालस्पर्शेऽप्यापतिते क्वचित् ।
साक्षात्स्पृष्टवदेवेष्टा सचेलस्नानशुद्धता ॥ १५८
सत्यं तत्रेष्यते स्नानं तद्वस्त्रस्पर्शकारितम् ।
अशुद्धिकारणं तद्धि चण्डालस्पर्शवन्मतम् ॥ १५९
२९४ मीमांसादर्शनम् [ सू०
तथा च तद्वियुक्तेऽपि वस्त्रे तत्स्पर्शदूषिते ।
स्पृश्यमाने भवेत्येव दोषः संयुक्तवस्त्रवत् ॥ १६०
कथं पुनरयं धर्मशास्त्रेष्वनुपनिबद्धोऽपि चण्डालस्पृष्टवस्त्रस्पर्शननिमित्तो दोषोऽ-
ध्यवसीयते ।
कथं वा नेष्यते दोषः काष्ठलोष्टतृणादिषु ।
तत्स्पृष्टस्पृश्यमानेषु न क्रमन्तेऽत्र युक्तयः ॥ १६१
तदुच्यते--तथा काष्ठतृणादीनां मारुतादेव शुद्धता ।
स्मर्यंते वाससो नैवं तोयप्रक्षालनाद्विना ॥ १६२
नन्वमेध्येन लिप्तस्य सा शुद्धिरभिधीयते ।
न लिप्तग्रहणं तत्र पाठेऽस्ति तु चिरंतने ॥ १६३
अमेध्यस्यैवं यस्मात्पठन्ति । चण्डालस्पृष्टवाससश्चास्त्येवामेध्यता । तस्मादस्ति
सलिलादिशुद्धिः ।
ननु च मनुष्यस्यैव चण्डालस्पर्श निमित्तप्रायश्चित्तविधानादशुद्धिरूपममेध्य-
त्वं गम्यते न द्रव्यान्तरस्य गवाश्वादेः । ततश्च वस्त्रं किं गवाश्वादिवददुष्टमुत पुरुष-
वद् दुष्टमिति सन्देहे गवाश्वादितुल्यमेवावधारयितुं युक्तम् ।
उच्यते—पुरुषस्य सचेलस्य स्नानं यस्माद्विधीयते ।
तस्मात्पुरुषवद्वस्त्रं न गवाश्वादिवन्मतम् ॥ १६४
यदाऽपि हि शुद्धेनैव हस्तादिना चण्डालः स्पृश्यते, गवादीनां तु चण्डाला-
दिस्पृष्टानां स्नानप्रक्षालनविध्यभावाच्छुद्धिर्विज्ञायत इति, न तन्मध्यपातित्वम् ।
अतश्च नानेन प्रकारेणौदुम्बरीसंबद्धवस्त्रस्पर्शनात्तत्स्पर्शनज्ञानोपपत्तिः । यदा तु
तयैवोद्गाता स्पृष्ट उद्गायेदिति विधिरस्तदाऽवश्यमेवौदुम्बरीत्वं चोद्गातृशरीरं
प्राप्तव्यम् । अपाश्रयणाभ्युपगमपक्षोऽपि च स्पृष्ट्वापरित्यागेनैव स्थित इति, न
समस्ताच्छादितायामवकल्पते । पराश्रितमपि च वस्त्रमुद्गातुराश्रयत्वं प्रतिपद्यते ।
तेनैवौदुम्बर्याश्रितेनोद्गायेत् । तस्मादस्ति सर्ववेष्टनस्पर्शनयोर्विरोध इति युक्तं
बाध्यबाधकव्यवस्थापनम् ।
अथ किमर्थं नेमौ विधी विकल्प्येते इति । स्मृतेरविधायकत्वात्स्वयमतुल्य-
बलत्वाच्च तदनुमितशाखान्तरपठितविधिपरिग्रहाभिप्रायेणोक्तम् । न नासति
व्यामोहविज्ञान इति ।
पूर्वोक्तेनैव मार्गेण व्यामोहैकान्तकल्पनाम् ।
विकल्पेऽवश्यमापन्नां स्मृतावेव नियच्छति ॥ १६५
व्यामोहविज्ञानं च ज्ञानान्तर्गतव्यामोहत्वावधारणम्, तद्विज्ञानगतव्यामोह-
रूपं वा विवक्ष्यते । तेन षष्ठीसमासः कर्मधारयो वा योज्यः । विकल्पं तु वद-
३ ] प्रथमाध्याये तृतीयपादः २९५
ञ्चिति । कदाचित्स्मृतिमूलश्रुतिविच्छेदाद् भ्रान्त्यादिमूलत्वमापादयति । तादृश्या
च सकृदपि श्रौतं विज्ञानमनुज्ञातमध्यारोप्यमाणव्यामोहाविषयत्वान्न कदाचित्प्रा-
माण्यं त्यजतीत्यपाक्षिकत्वाभिधानम् । एवं केवलाप्रमाणत्वपक्षग्रहः तस्य पुनर्जी-
वनासंभवादपाक्षिकं च सर्ववेष्टनस्मरणमित्याह—पाक्षिकं चेति । विकल्प-
वादिसंमतपाक्षिकत्ववशादेव श्रुतिप्रामाण्यपक्षे स्मार्तश्रुतिकल्पनायामकृताया मूला-
न्तरसंक्रान्तेः सर्वकालाप्रमाणत्वप्रसङ्गः ।
एकदाऽपि च लब्धप्रामाण्यावकाशा श्रुतिर्दुर्बलप्रतिपक्षतया न कदाचिदपि
व्यामोही भविष्यतीति समर्थयमानो ‘यदेव हि तस्यैकस्मिन्पक्षे मूलमि'त्याह ।
नहि प्रमादपाठत्वं शक्यं कल्पयितुं श्रुतेः ।
दुःश्रुतस्वप्नविज्ञानमूलां त्वापद्यते स्मृतिः ॥ १६६
‘तेन नैतत्पक्षे विज्ञानमिति'—प्रमाणविज्ञानमभिप्रेत्योक्तम् । व्यामोहात्प-
क्षान्तरमिति । व्यामोहकल्पनातः प्रमाणाभावपक्षान्तरसंक्रमणं प्रतिषेधति ।
यद्वा स्मार्तज्ञानमेव पूर्वावधारितव्यामोहात्प्रामाण्यपक्षान्तरं न संक्रान्तमिति ।
दुःश्रुतस्वप्नादिमूलत्वेन श्रुतिविरोधं दर्शयति—‘तुल्यकारणत्वादिति' । बलीयः
प्रतिपक्षनिराकृतत्वात्सर्वदैव श्रुत्यनुमानप्रतिबन्धान्न स्मृतेः प्रामाण्यपक्षसंक्रान्तिः ।
अपि चेतरेतराश्रयेऽन्यतः परिच्छेदादिति । उपरिष्टादितरेतरविरोधविवरणाद्वि-
रोधमेवेतरेतराश्रयमाह—
परस्परविरुद्धे हि विरुद्धव्यभिचारिवत् ।
प्रमाणे यत्र दृश्येते तत्रान्येनैव निर्णयः ॥ १६७
प्रमाणशब्दस्य ज्ञानसमानाधिकरणत्वेन भावोत्पन्नल्युडन्तत्वेन वा नपुंसक-
लिङ्गत्वाद्भेदाः प्रमाणम् स्मृतयः प्रमाणमितिवत्प्रमाणं स्मृतौ स्पर्शनं व्यामोह इति
भवितव्यम् । करणविशेषविवक्षायां वाऽभिधेयलिङ्गवचनानुवृत्तौ ल्युडन्ताट्टिड्ढा-
णञिति ङीपि प्राप्ते प्रामाण्यं स्मृताविति प्रयोक्तव्यम् । तमिमममुभयअष्टं भाष्य-
कारप्रयोगं समर्थयमानैरेवमनुगमः कर्तव्यः ।
दुरुक्तं चिन्ताकरणेन वार्तिकलक्षणस्य योजना
प्रमाणमयते याति मूलभूतं श्रुतिं यतः ।
क्विबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते ॥ १६८
तत्र यद्यपि नित्यत्वात्क्विब्लोपः प्रथमं भवेत् ।
यलोपोऽपि भवेदेव वलादिप्रत्ययाश्रयः ॥ १६९
न च वर्णाश्रयत्वेन यलोपो न भविष्यति ।
व्योर्वलीति यलोपो हि वलादिप्रत्ययाश्रयः ॥ १७०
२९६ मीमांसादर्शनम् [ सू०
यद्वा योगविभागेन वेव्यंबस्य च लुप्यते ।
वकारश्च यकारश्चेत्येवं लोपो भविष्यति ॥ १७१
यलोपे च कृतेऽकारो यः शुद्धः परिशिष्यते ।
तदन्तावधिकात्पश्चादतष्टाप्क्रियते स्त्रियाम् ॥ १७२
अकः सवर्णदीर्घत्वं परयोरन्तरङ्गतः ।
सर्वेणापि ततः कृत्वा प्रमाणेत्यनुगम्यते ॥ १७३
तदेतदितराश्रयं भवतीत्युक्तम् ।
यद्वा श्रुत्यप्रमाणत्वात्स्मृतेः प्रामाण्यमिष्यते ।
सिद्धाच्च तत्प्रमाणत्वाच्छ्रुत्यप्रामाण्यकल्पना ॥ १७४
तथा श्रुतिप्रमाणत्वात्स्मृत्यप्रामाण्यकल्पनम् ।
तदप्रामाण्यसिद्ध्या च श्रुतिप्रामाण्यनिश्चयः ॥ १७५
तदिदं विकल्पवादिना उभयत्रेतरेतराश्रयत्वम् । एकान्तवादिनस्त्वन्यतरत्र ।
तत्रान्यतः परिच्छेदाद्ग्राह्यं हेत्वन्तरं स्फुटम् ।
भाष्यकारस्त्विहोक्त्वैवं तयोरेकैकमुक्तवान् ॥ १७६
तत्र स्पर्शनस्य क्लृप्तं मूलं कल्प्यं स्मृतेरिति ।
समाधानम्
नैवात्यन्ताप्रकृतहेत्वन्तराभिप्रायेणान्यतः परिच्छेदोऽभिहितः । प्रकृतयोरपि
चयत्कृतगितरेतराश्रयत्वं तद्व्यतिरिक्तधर्मदर्शनान्निश्चीयमाने भवत्येवान्यतः
परिच्छेदः ।
स्वतः स्थितात्प्रामाणत्वाच्छ्रुतेः स्यात् क्लृप्तमूलता ॥ १७७
स्मृतेः श्रुत्यनुमापकप्रामाण्यात्कल्प्यमूलता । ततश्च प्रत्यक्षश्रुत्यप्रामाण्यकल्प-
नायत्तं स्मृतेः प्रामाण्यम्, तद्वलेन च श्रुत्यप्रामाण्यं कल्पयत इतरेतराश्रयत्वमपरि-
हार्यम् ।
न चाध्यारोप्यमाणाऽपि श्रुतेः स्यादप्रमाणता ।
न च तस्यामसिद्धायां स्मृतिप्रामाण्यसंभवः ॥ १७८
बलवन्तं पराजित्य यः प्रतिष्ठातुमिच्छति ।
हस्तिना पादयोधीव संतिष्ठेताचिरादसौ ॥ १७९
एवं तावत्स्मृतिप्रामाण्यं कल्पयन्नेव यद्वादी पराजीयते । यदा तु श्रुतिप्रा-
माण्यगतमितरेतराश्रयत्वमालोच्यते, तदा तत्रापि प्रतिपक्षभूतस्मृत्यप्रामाण्यापेक्षया
निरपवादप्रामाण्यावधारणसिद्धेः पराधीनत्वात्पूर्वसिद्धस्मृत्यप्रामाण्यलिप्सायाम् ।
सिद्धमेवाप्रमाणत्वं स्वरूपाश्रयमादितः ।
क्षणमात्रमपि प्राप्य श्रुतिः प्रामाण्यमश्नुते ॥ १८०
३ ] प्रथमाध्याये तृतीयपादः २९७
तेन यत्तदाद्ये पदकेऽनुमितावस्थायां श्रुतावापातक्षणमात्रे स्मृतेरप्रामाण्यं
दृश्यते, तावतैव लब्धप्रामाणत्वात् श्रुतिः सर्वदा निरपवादप्रामाण्या भवतीत्यन्तः
परिच्छेदः ।
तेनैंकत्र श्रुतेराद्यात्प्रामाण्यादवसीयते ।
स्मृत्यप्रामाण्यतोऽन्यत्र क्षणमात्रावधारितात् ॥ १८१
कृत्वैकमवधिं तस्मात्सिद्धमाद्ये क्षणे दृढम् ।
आनुपूर्व्या व्रजेत्तावत्सिद्धोऽपरः स्फुटः ॥ १८२
तदेकेन मार्गेण दर्शयति—कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवक्लृप्तमित्यादि
यावत्स्मार्तश्रुतिकल्पनमनुपपन्नं प्रमाणाभावादिति । द्वितीयमार्गेऽपि श्रुतिप्रा-
माण्यदर्शनादारभ्य तावन्नेतव्यं यावत्तदेव निरपवादं सिद्धमिति । व्रीहियवबृहद्रथं-
तरविधीनां त्वनन्यगतिकत्वात्कक्षान्तरितपदका इव स्थानभेदाभावात्तुल्यबलतयाऽ-
नवस्थितविकल्पाश्रयणं प्रागुपदिष्टमेव योज्यम् । अतो नापेक्ष्यं प्रत्यक्षश्रुतिविरुद्ध-
स्मृतिप्रामाण्यमिति ॥ ३ ॥
॥ इति भाष्यमतेन विरोधाधिकरणम् ॥
अथ द्वितीयं विरोधाधिकरणम्
न्या० सू०—सङ्गतिमाह—स्मृतीति । कथमपोद्यत इत्यपेक्षिते, सूत्रारूढं तत्स्वरूप-
माह—विरोधे स्थित्विति । कस्मिन्सतीत्यपेक्षिते विरोधे वेदवाक्येनेत्युक्तम् । विरोधोऽपि
वैपरीत्यपरिच्छेदात्प्रागनुपसञ्जातविरोधित्वाच्छ्रुत्यनुमानसम्भवान्न प्रत्यक्षश्रुतिः प्रागनुमानं
प्रवर्तते मन्थरत्वादित्युक्तम् । तेन चार्थेनाधिष्ठिते इति वेदवाक्येन स्मृत्यर्थे वैपरीत्येना-
परिच्छिन्ने परिच्छेदात्प्रागित्यर्थः । सङ्गतिमुक्त्वा विषयप्रदर्शनपूर्वकं सन्देहमाह—
यावतीति । सम्प्रधार्यंत इत्यनेन यत्र तु श्रुतिविरोधः तत्र कथमिति भाष्यगतः कथं शब्दः
सन्देहप्रदर्शनार्थत्वेन व्याख्यातः । अकथिते च विषये सन्देहस्य वक्तुमशक्यत्वादेतदेव
भाष्यं विषयकथनार्थमपीति वक्ष्यमाणोदाहरणभाष्यानादयोदाहृत्येत्यनेन सूचितम् ।
यावन्तीत्यादिना चानादरकारणमुक्तम् । पर्युदस्यत इत्यनेनापवादत्वं दर्शितम् । निषेधस्य
विकल्पापादकत्वेनापवादत्वायोगात् । प्रश्नपूर्वकं सन्देहहेतुमाह—कुत इति । ननु कथं
प्रतीयमानस्य विरोधस्य परिहारः । कथं वा तस्मिन्सति बाधमन्तरेण गतिरित्याशङ्क्य
सामान्यन्यायप्रदर्शनपूर्वकमुभयमुपपादयति—एकविषये इति । विचाराविषयत्वापत्ते-
विरोधपरिहारेण पूर्वपक्षो न युक्त इति शङ्कितविरोधयोरपीत्युक्तम्—केनचित्प्रकारेणेति ।
वेष्टनस्मृतेर्द्वित्र्यङ्गुलव्यतिरिक्तविषयत्वात्स्पर्शश्रुतेश्च तन्मात्रविषयत्वात्, राजक्रयाग्नि-
षोमीयावद्योश्चापद्विषयत्वात्, अष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतिकृष्णकेशाधानश्रुत्योश्च गाहं-
स्थ्यायोग्ययोग्यविषयत्वादित्यर्थः । विधेयप्रतिषेध्ययोर्वेत्यनेन सत्यप्येकविषयत्वे विरुद्धाथौप-
संहारित्वाभावादपि विरोधपरिहारः—सम्भवतीत्युक्तम् ।
२९८ मीमांसादर्शनम् [ सू०
राजक्रयादूर्ध्वं विधेयस्याभोजनसङ्कल्पस्य प्रतिषेध्यस्य च राजक्रयात्प्राग्भोजनस्य
विरोधाभावेनैकस्मिन्नपि दीक्षिताङ्गरूपे विषये समुच्चयसम्भवादित्यर्थः । स्पर्श-
वेष्टनयोः कृष्णकेशाधानाष्टाचत्वारिंशद्वर्षब्रह्मचर्ययोरप्येकविधानेनार्थान्तरप्रतिषेधम-
भिप्रेत्य वेष्टिताया अपि स्पर्शसम्भवात् कृष्णकेशत्वस्य चानवस्थितवयोऽवस्थां कालविशेष-
त्वेनाष्टाचत्वारिंशद्वर्षब्रह्मचर्योत्तरकालमपि कस्मिंश्चित्पुरुषे सम्भवाद्विरोधपरिहारो वक्तुं
शक्यते । सति वा तुल्यमूल इत्येतद्व्याख्यातुम्—एकप्रयोगेत्याद्युक्तम् । विकल्पाश्रयणेऽप्यु-
भयप्रामाण्यमुपपत्स्यत इत्युक्ते विरोधिनोः समावेशायोगात्कथमुभयप्रामाण्यमित्याशङ्क्य—
अत्यन्तविरोधाभावादित्युक्तम् । कथं विरोधाभाव इत्याशङ्क्योभयोः प्रामाण्याङ्गीकरणे-
नेत्युक्तम् । प्रामाण्यशब्देनात्रानुष्ठानलक्षणफलानपहारोऽभिप्रेतः । समुच्चय एव तर्हि कस्मा-
न्नेष्यत इत्याशङ्क्यैकप्रयोगगतत्वासम्भवादित्युक्तम् । कथं तर्हि फलानपहार इत्याशङ्क्य
प्रयोगान्तरे चोभयानुग्रहः स्यादित्युक्तम् । प्रत्यक्षानुमेयश्रुत्योस्तुल्यबलत्वाद्विकल्पासम्भव-
माशङ्क्य—प्रत्येत्याद्युक्तम् ।
समस्तफक्किकायोजनं त्वेवं-यद्याशङ्कितविरोधयोरपि भिन्नविषयत्वेन व्यवस्था सिद्ध-
येद्यदि वैकस्मिन्नपि विषये विधेयप्रतिषेध्ययोर्विरोधाभावेन समुच्चयसम्भवादुभयप्रामाण्य-
मुपपत्स्यते, एकप्रयोगगतत्वासम्भवाद्विकल्पाश्रयणेऽपि, यद्युभयप्रामाण्यमुपपत्स्यते, ततो
विरोधविषयेऽपि स्मृतिप्रामाण्यमादत्तंथमिति सिद्धान्तसम्भवाभिधानार्थं बाधो वा तद्विपर्य-
यादिति, यदुक्तम्—तद्विवृणोति । अथ द्विवेति । महान् बलाबलविशेष इति, महच्छब्देन
प्रत्यक्षश्रुतिविरुद्धया श्रुतेरनुमानमेव नास्तीति सूचितम् । लौकिकप्रत्यक्षानुमानवदिति
दृष्टान्तेन चैतदेव प्रकटितं प्रत्यक्षविरोधे त्वनुमानस्योत्पत्तिरेव प्रतिबद्ध्यते । यथोक्तं मूले
तस्य ह्यनुत्पन्नपूर्वेण विषयो हत इति ।
पूर्वपक्षमारभते—किं तावदिति । अन्यथा ह्यविरोधेऽप्यप्रामाण्यप्रसङ्गे सत्यप्रामाण्येन
विरोधमर्यादातिक्रमात्पूर्वाधिकरणसिद्धान्तः प्रत्युद्धूयेतेत्यर्थः एतदेवोपपादयति—अना-
शङ्कितेति । अतिप्रसक्तिप्रदर्शनार्थं हेतुदर्शनाद्युपन्यासः । आदिशब्देन पूर्वानुभवपारतन्त्र्य-
मभिप्रेतम् । खिलानि-परिशिष्टानि । शाखाश्च खिलानि-प्रकरणानि वा । आदिशब्दोक्तानि
काण्डानि । तेषां ये बहवो भेदाः तैर्मिश्रे त्विति विग्रहः लिङ्गादीत्यादिशब्देन समस्तोपदेश-
प्रामाण्याभिधानम् । नामादीत्यादिशब्देनातिदेशकवचनाभिधानम् । श्रुतिलिङ्गाद्यात्मकश्चो-
पदेशो नामादिद्वाराश्चातिदेशः तदात्मका विचित्राः प्रमाणभागा येषां वेदानामिति विग्रहः ।
ननु विरोधाशङ्कानिराकरणेनाऽन्यत्र प्रामाण्यस्याध्यवसातुं शक्यत्वात्कथं सर्वत्र प्रामा-
ण्यप्रतिघातापत्तिरित्याशङ्कयाह—तथा हीति । ननु त्वत्पक्षे कथं भ्रान्त्यादिमूलत्ववारण-
मत आह -- एकेति ।
एवं तावत् (स्थिततदुपेक्षणे एकमूलव्यवस्थोपेक्षणे अप्रामाण्यनिवृत्त्यर्थं मूलान्तरनिरा-
क्रिया न शक्येत्यन्वयः । सिद्धान्तिमते स्मृत्यधिकरणसिद्धान्तः) । सिद्धान्तहानिभयाद्वि-
रोधेऽपि, वेदमूलत्वं न निराकार्यमित्युक्तम् । इदानीं विरोधो मूलभूतवेदनिरकरणं कर्तु-
३ ] प्रथमाध्याये तृतीयपादः २१९
मपि न शक्नोत्यनैकान्तिकत्वादित्याह—किं चेति । श्लोकं व्याचष्टे—यदा त्विति ।
कल्पितस्यापि वचनस्य शाखान्तरीयत्वेनानादराशङ्का निराकर्त्तुं सर्वशाखाप्रत्ययकर्म-
व्यवहारिणामिति । यदुक्तं यद्व्याचष्टे--न चेति । न च प्रमाणाभावेनाकल्पनामिति यद्
दृढस्मरणोपस्थापितशब्देनोक्तम्, तदुपपादयति—अध्ययनवच्चेति । न शोभत इत्यनेनोभ-
योरपि पञ्चम्योरन्वयः । एतदेवोपसंहरति--तस्मादिति । अर्द्धवैशसापत्तेरपि नेह श्रुति-
मूलत्वं निराकार्यमित्याह—किं चेति । एकस्यां धर्मसंहितायामर्द्धमस्यार्थान्तरेण वैशसं
विरोध इत्यर्थः । अतिक्रियालक्षणश्चास्मिन्पक्षे दोषः स्यादित्याह—मूलान्तरमिति । उचितां
क्रियामतिक्रम्य क्रियाऽतिक्रिया, का पुनरुचिता क्रियेत्यपेक्षायामाह—तेनेति ।
एकस्मिंश्च धर्मशास्त्रे क्वचित्प्रामाण्यसिद्धयर्थं भ्रान्त्यादिमूलानामसम्भवः, क्वचिच्च
बाधसिद्धयर्थं सम्भवोऽङ्गीकार्य इति विरुद्धसम्भवासम्भवापादकत्वादपि स्मृतिबाधो न युक्त
इत्याह—किं चेति । विरोधपक्षे बाधो बाधपक्षः पक्षे चेद् बाधो न युज्यते किन्तर्हि
युज्यते ? अत आह—तेनेति । केनचित्पाशुपतेन सर्वंजरत्या योषितोऽनुपभोग्यत्वात् सर्वंत-
रुण्याश्च वृद्धेऽप्यरुचिप्रसङ्गादर्द्धंजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्द्धजरतीयशब्दे-
नात्रोपमानत्वेनोक्तः ।
अस्तु तर्ह्यैकरूप्याय सर्वासामप्रामाण्यमत आह—विरुद्धत्वं चेति । विशिष्टपुरुष-
प्रणीतत्वं प्रामाण्यकारणत्वेनोक्तम्, विरोधेऽपि निराकर्त्तुमशक्यमित्याशयः । यच्चात्र
हेतुदर्शनं स्मृत्यप्रामाण्यकारणमुच्यते, तदपि स्थितसिद्धान्तहान्यापादकत्वादयुक्तमित्याह—
गृह्यमाणेति । उत्प्रेक्षणीयो हेतुर्यस्य धर्मशास्त्रस्य, तत्तथोक्तो लोभादेः सर्ववेष्टनादिस्मृति-
हेतुत्वं न केनचित्प्रमाणेनावगतं किं तूत्प्रेक्षामात्रेणोच्यते । सा चाष्टकादावपि शक्या
कर्तुमित्याशयः ।
एतदेव प्रपञ्चयति—रागेति । रागः प्रीतिर्द्वेषोऽप्रीतिः । मदो—गर्वः उन्मादो-ग्रहावेशः,
प्रमादालस्ये त्वन्यासक्तधनासक्त्यर्थे व्याख्याते, लुब्धता लिप्सातिशयः । प्रत्युत प्रामाण्य-
हेतुकल्पनमेव सुलभमित्याह—अदुष्टे न हीति । जिज्ञासुचित्तेन मन्वादिष्वदुष्टेन निरा-
शङ्केनेत्यर्थः । यदि चोत्प्रेक्षामात्रकल्पितेन हेतुना, प्रत्यक्षश्रुतिविरोधेन वा प्रामाण्यमपहू-
नूयेत, ततो वेदस्यापि सर्वस्याप्रामाण्यं प्रसज्येतेत्याह—का चेति । न चेयमुत्प्रेक्षास्माभिरेव
श्रूयते किन्त्वन्यैरेव सर्वाप्रामाण्यवादिभिः कृतेत्याह—लोकायतिकैरिति । उत्प्रेक्षाभिनिवेशे
तेषां मूर्खत्वं मुग्धत्वं भ्रान्तत्वाख्यं कारणत्वेनोक्तम् । कर्मव्यवहारः कस्मादन्यदपेक्ष्यते
यावत्किंचिदित्यादिना सार्द्धश्लोकेन तद्दर्शितम् ।
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेयं बृहस्पतिः ॥
इत्यग्निहोत्रादीनां दृष्टार्थत्वं नास्तिकैरुक्तम् । अग्नीषोमीयादिहिंसाविधेश्च न हिंस्या-
त्सर्वभूतानीति निषेधेन विरोधो योजितः । अथश्चैवंस्वभावानां लोकायतिकानामवकाश-
३०० मीमांसादर्शनम् [ सू०
दानमशेषमेव धर्ममार्गं नाशयेदित्याह—तेभ्यश्चेह इति । ईषदर्थे नामशब्दः । एतदेव
दृष्टान्तत्वेनोपपादयति—प्रसरन्निति ।
ननु विरोधहेतुदर्शनकारणकमप्रामाण्यमुच्यमानं तदभावे कथं चार्वाकैरापाद्यते, अत
आह—क्वचिदिति । धाम-स्थानम् । तस्मात्तेभ्योऽवकाशो न क्वचिद्देय इत्याह—
तस्मादिति । लोकायतं नास्तिकशास्त्रम् । तत्र तिष्ठन्तीति लोकायतस्थाश्चार्वाकाः । धर्मो
नाश्यते येन युक्तिजालेन तत्संपन्नाः ।
'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
इति च निषिद्धत्वात्, स्मृतिप्रामाण्ये विचिकित्सा न कार्येत्याह—यच्चादाविति ।
राजाद्याज्ञाया यत्कार्यत्वेन सिद्धम्—निश्चितम्, तद्वेदे विचारितमाज्ञासिद्धमुच्यते । आज्ञा-
सिद्धं प्रमाणत्वं यस्य पुराणादिचतुष्टयस्य, तत्तथोक्तं कथमविचारितसिद्धतेत्यपेक्षायामादौ
न्यायनिरूपणात्प्रागनादिकालमहाजनपरिग्रहदाढ्यंप्रसक्तया श्रद्धया पुराणादिचतुष्टयमाज्ञासिद्ध-
प्रमाणत्वरूपेण सिद्धमित्युक्तम् । न चैतावता न्यायशून्यत्वं शङ्कनीयमिति दर्शयितुं—
पुनर्न्यायेन साधितमित्युक्तम् । विचिकित्सायां को दोषः स्यादित्यपेक्षयामाह—सर्वमिति ।
पराभवभयादपि नान्तरा श्लथयितव्यमित्याह—पक्ष इति । एवं तावदुत्प्रेक्षामात्रकल्पितं
दृष्टार्थत्वं न वेदमूलत्वनिराकरणयालमित्युक्तम् ।
इमिदानीं वास्तवमपि दृष्टार्थत्वम् । विरोधवदनैकान्तिकत्वान्न तन्निराकरणयाल-
मित्याह—वेदश्चेति । श्रूयमाणविरोधी वेतीवार्थे समुद्रो वा महासत्त्वैत्व इति । यद्वाशब्दः ।
अनैकान्तिकत्वं दर्शयति—यद्वा त्विति । ननु पुरुषार्थसाधनत्वलक्षणं दृष्टार्थत्वमिह हेतुः
न चावघातादीनां तदस्ति क्रत्वर्थपुरोडाशनिष्पत्तौ तण्डुलीभावादिसाधनत्वादित्याशङ्क्यो-
दाहरणान्तरमाह—ऋत्विग्भ्य इति । ऋत्विगमभिमतदक्षिणालाभहेतुत्वेन दानस्य पुरुषार्थताप्यि
वक्तुं शक्यतेति सूचयितुम्—ऋत्विग्भ्य इत्युक्तम् । तानूनत्रं परस्परमृत्विजां यजमानस्य
चाव्यभिचारार्थं कर्मारम्भे शपथकर्म ।
अतश्च सिद्धमनैकान्तिकत्वात् दृष्टार्थत्वस्यासाधकत्वमित्याह—यदा चेति । तस्माद्वि-
रोधहेतुदर्शनाभ्यां न वेदमूलत्वं निराकर्तुं शक्यमित्युपसंहरति—तेनेति । वेदमूलत्वा-
निराकरणाच्च न प्रामाण्यं निराकर्तुं शक्यमित्याह—तस्मादिति । पूर्वपक्षमुपसंहरति—
अविशिष्टमिति । ईदृशं मूलश्रुत्यनुमानद्वारमविशिष्टं सामान्यतः सर्वासामं स्मृतीनाम्, यत्पूर्व-
न्यायेन प्रमाणत्वं प्राप्तं तदधुना विरुद्धश्रुत्यन्तरपर्यालोचनकाले सत्यपि विरोधे
युक्तमित्यर्थः ।
साध्याहरं सूत्रं योजयत्सिद्धान्तमारभते--सिद्धान्तः—एवमिति । निर्मूलस्मृत्य-
योगाद्वेदमूलत्वाभावे किमन्यमूलं स्यादित्याशङ्क्याह—या त्विति । स्पष्टग्रहणेनान्यपर-
श्रुतिमूलत्वेऽप्यप्रामाण्योपपत्तेस्तात्पर्यमात्रापवादोऽयमिति दर्शितम् । न च सत्यपि वेदमूलत्वे
३ ] .प्रथमाध्याये तृतीयपादः ३०१
स्वातन्त्र्येण प्रामाण्यं भविष्यत्यत आह-स्वातन्त्र्येणेति । अस्तु तर्हि वेदस्यैवानुमानमत
आह- वेदेति । ननु सत्यपि प्रत्यक्षश्रुतिविरोघे, किमिति नानुमीयेतस्त आह-वेदेति ।
तस्यानुमेयस्य वेदवाक्यस्य योऽर्थं औदुम्बर्यादिः, तद्विषये प्रत्यक्षं वेदवाक्यं यावन्नोपलभ्य-
त इत्यर्थंः । अनुमानस्यासन्निकृष्टार्थविषयत्वात्सन्निकृष्टस्य च ताद्रूप्य-तद्विपर्यंयपरिच्छेद-
योस्तुल्यत्वाद्विपर्ययपरिच्छिन्नस्यानुमेयत्वे ताद्रूप्यपरिच्छिन्नं दृष्टान्तयति- न हीति ।
एतदेव विवृणोति - स्मृतीनामिति । निवारणे कारणमाह- तावदेवेति ।
ननु प्रत्यक्षेणानुमानस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति । स्मार्त्तं तु सर्ववेष्टनादि-
कर्त्तव्यताज्ञानं विरोधेऽप्युत्पद्यमानं कथं बाध्यते । न ह्युत्पन्नस्य ज्ञानस्य मिथ्यात्वलक्षणो
बाधः सम्भवतीत्याशङ्क्याह - श्रुत्तमूला इति । मूलप्रमाणापेक्षत्वात्स्मृतिप्रामाण्यम्,
तदभावे इदं न सम्भवतीत्याशयः । एतदेवोपपादयति--न हीति । यतो वेदाख्यान्मूलात्स्मृति-
प्रामाण्यं स्यात् तद्वेदाख्यं मूलं न विद्यत इत्यर्थः । किमिति न विद्यत इत्यपेक्षिते पूर्वोक्तमेव
प्रत्यक्षशास्त्रेण मूलश्रुत्यनुमानप्रतिबन्धमुपपादयितुं स्मारयति-प्रत्यक्षेति ।
उपपादयति - नैकाकाङ्क्ष्यादिति । अयमाशयः- गृहीतव्याप्तिकस्याप्यजिज्ञासोर्धू-
मादिदर्शनेऽप्यग्नयादिज्ञानानानुपलब्ध्यात्परोक्षार्थविषयज्ञाने जिज्ञासापि सहकारिकारणमवसी-
यते । स्पर्शश्रुत्या चावेष्टितत्वरूपेणौदुम्बर्याः परिच्छिन्नत्वात्कीदृश्यादुम्बर्र्याङ्गमिति जिज्ञासा
नास्तीति, जिज्ञासैवात्राकाङ्क्षाशब्देनोक्ता । कथं नैराकांक्ष्यमित्याशङ्कयाह - प्रमेयमिति ।
यत्पर्वतादिप्रमेयं केनचिदग्निमत्वादिरूपेण परिच्छेद्यं भवेत् तस्य पर्वतादेस्तेन रूपेण
परिच्छेदात्सावकाशप्रमाणता स्यादित्यन्वयः । अवकाशः प्रमाणस्य प्रमेये प्रवर्त्तितुं मार्गो
जिज्ञासोपलक्षणोऽभिप्रेतः । प्रमाणं तस्मिन्प्रमेये सावकाशं स्यादिति समासार्थः ।
नन्वसत्यामपि जिज्ञासायां किमित्यनुमानं न प्रवर्त्तते । व्याप्तिज्ञानं हि व्यापकज्ञाने
कारणम् । यत्तु क्वचिद्व्याप्यज्ञानेऽपि व्यापकाज्ञानम्, तद्व्याप्तिस्मरणादप्युपपत्स्यते ।
द्रव्यत्वस्य चानौष्ण्यव्याप्तिस्मरणेऽपि तेजस्यनौष्ण्यानुमानानुपपत्तिः प्रत्यक्षेणौष्ण्यावगतौ
तेजसो विपक्षत्वे सति तद्वृत्तेर्द्रव्यत्वस्य व्याप्तिमङ्गादुपपत्स्यते । इह तु स्पर्शश्रुत्या
वेष्टनानावावगमेऽपि सर्ववेष्टनस्मरणस्य श्रुतिकल्पकस्य सद्भावाद्विरुद्धश्रुतिदर्शनस्य चाने-
क न्तिकत्वेन सर्ववेष्टनश्रुत्यभावानुमापकत्वायोगात्कथं श्रुत्यनुमानानुपपत्तिरित्याशङ्कयाह -
ताद्रूप्येणेति । प्रत्यक्षावगतेऽग्नौ व्याप्तिस्मरणे सत्यपि धूमज्ञानस्याग्निज्ञानजनकत्वादशंनाद-
जिज्ञासैवै तत्रानुमानानुत्पत्तिकारणमवसीयत इति भावः । नन्वेवमपि स्मृत्या परिच्छिन्ने
श्रुतेरप्रवृत्तिरिति विपरीतं कस्मान्न स्यादित्याशङ्क्याह- भिन्नेति । भिन्नयोः- सन्निकृष्ट-
विप्रकृष्टत्वरूपेण विलक्षणयोः कक्षयोः-प्रकोष्ठयोः स्थिते प्रमाणे तत्रैकस्मिन्प्रमेये
धावत इत्यर्थः । ननु प्रत्यक्षशास्त्रस्यापि पदपदार्थपर्यालोचनादिसापेक्षत्वेनार्थपरिच्छेदवि-
क्षेपात्द्विरोधात्पूर्वं मन्थरस्याप्यारब्धव्यापारत्वात्कथमप्रवृत्तिरित्याशङ्क्याह-तद्धीति ।
एकमपीत्यपिशब्दो यद्यपि शब्दार्थो व्याख्येयः । यद्यपि तन्मन्थरं प्रमाणं दूरमपि प्राप्तं
बहूनपि व्यापारान् कृतवत् एकमेवार्थपरिच्छेदाख्यं पदमगतमर्थपरिच्छेदमात्रं न कृतव-
३०२ मीमांसादर्शनम् [ सू०
दित्येवकाराध्याहारेण व्याख्येयम् । तथापीतरेणादौ गतेनार्थपरिच्छेदं कृतवता जीयत इति ।
तथापि योत्थौ शब्दोऽत्राध्याहार्यः । मन्थरत्वाविशेषात्तर्हिविरोधेऽव्यप्रामाण्यापत्तेर्मर्यादा-
तिक्रमः स्यादित्याशङ्क्योचाह—यत्रेति ।
नन्वेवं सत्यर्द्धवैशसादिदोषपरिहारार्थं विरोधेऽपि प्रामाण्यमिष्यतामित्याशङ्कयार्द्धवैशसं
परिहत्तुंमारभते—न हीति । यस्मादेवमैकरूप्यनियमो नास्ति, तस्माच्छीघ्रप्रमाणभावा-
भावयोर्मन्थरप्रमाणप्रवृत्त्यप्रवृत्तिव्यवस्था न विरुद्धेति हिशब्दयोजना ।
एतदेवोपपादयितुं सामान्यन्यायं तावद्वयुत्पादयति—सर्वमिति । मूलमेव निकृत्यते,
मुखं वा विरुद्ध्यत इति च पूर्वश्लोकोक्तस्य विरोधस्यैव द्वैविध्यमुक्तम् । श्रुत्या हि
लिङ्गादीनां मूलं विनियोगहेतुः श्रुतिरेव छिद्यते-नास्तित्वेन बोध्यते । लिङ्गादिभिस्तु
वाक्यादीनां मुखं विनियोजकश्रुत्यनुमानस्य द्वारं लिङ्गादिप्रतिबध्यते-श्रुत्यननुमापकत्वेन
ज्ञाप्यते । न च रोधारोधव्यवस्थैव न युक्तेति वाच्यमित्याह—न चेति । अवाच्यत्वे
कारणमाह—उत्सर्गश्चेति । कथं तर्ह्युत्सर्गापवादयोर्व्यवस्थेत्याशङ्कयाह—विषया-
विषयाविति । उत्सर्गस्य विषयमपवादस्याविषयं ज्ञात्वा बाधाभावः । अपवादस्य विषय-
मुत्सर्गस्याविषयं ज्ञात्वा बाध इति विवेक इत्यर्थः । व्यवस्थानभ्युपगमे तु व्यवहारविरोधः
स्यादित्याह—यो हीति । यस्तु कश्चिद्वैत्यात्यादेवमपि व्यवहर्तुमारभते, तस्य लोकविरोध-
माह तावदेव हीति । अनुमानस्य च प्रत्यक्षविरोधाविरोधयोर्बाधाबाधव्यवस्था लोक-
प्रसिद्धैवेत्याह—अनुमानमिति ।
सामान्यन्यायमुक्त्वा प्रकृते योजयति—एवमिति न्यायलभ्यव्यवस्थाप्रतिपादनस्यार्द्ध-
वैशसादिदोषपरिहारोपयोगितामाह—अत इति । अर्द्धवैशसग्रहणमतिक्रयार्द्धजरतीयत्वयो-
रप्युपलक्षणार्थम् । कथं न्यायतो व्यवस्थेत्यपेक्षायामुक्तामेव व्यवस्थां सुग्रहणार्थमनुसन्द-
धाति—प्रमाणत्वाप्रमाणत्व इति । अतश्चैकरूप्यमेवायुकमित्याह—तस्मादिति । सिद्धान्त-
मुपसंहरति - तेनेति ।
ननु मृगतृष्णानुमानादेः सिद्धवस्तुविषयत्वेन वैकल्पिकतया विरोधपरिहारासम्भवाद्
बाधो युक्तः । स्मृतेस्तु कार्यविषयतया विकल्पेनोभयानुग्रहसम्भवादत्यन्तबाधो न युक्त
इत्याशङ्कते—विकल्प इति । परिहरति—उच्यत इति । पूर्वार्द्धेनात्यन्तबाधादपि
विकल्पः पापीयानित्युक्तम् उत्तरार्द्धेन त्वङ्गीकृतेऽपि विकल्पे, स्मृतेरत्यन्तबाधोऽपरिहार्य
इत्युक्तमिति विवेकः । विकल्पस्य सुखाम्युपगम्यता वोक्त्यां तुल्यबलयोरगत्या तदङ्गीकरणम् ।
इह तु स्मृतेरत्यन्तबाधेन गत्यन्तरसम्भवाद्विकल्पाङ्गीकरणमत्यन्तमन्वाय्यमिति सूचितं
तत्तावद्वयाचष्टे—तुल्यबलेति । कक्षाभ्यां विलक्षणाभ्यामन्तरितेन विलक्षणीकृतेन श्रुति-
स्मृत्योः प्रामाण्येन विषमत्वेन शिष्टयोरवगतयोः श्रुतिस्मृत्योर्विकल्प इति विग्रहः । किमु-
तेत्यनेनोक्तमतुल्यबलविकल्पस्यात्यन्तान्याय्यत्वमुक्तमुपपादयति—तथा हीति । न च
स्मृतिरपि निरपेक्षा, येन तुल्यबला स्यादित्याह—स्मृतेरिति ।
३ ] प्रथमाध्याये तृतीयपादः ३०३
ननु सापेक्षत्वेऽप्यनुमीयमानायाः श्रुतेः प्रत्यक्षया सह तुल्यबलत्वाद्विकल्पो भविष्यत्यत
आह—पराधीनेति । यदि विरोधेऽपि श्रुतिरनुमीयेत, ततः पराधीनप्रमाणत्वाच्छ्रुत्या
बाधितापि पुनरुज्जीवितुं क्षमा स्यात् न त्वेतदस्तीत्युक्तम्—न प्रमाणपदे स्थितेति ।
श्रुत्याख्यं प्रमाणं पद्यते गम्यतेऽनेनेति श्रुत्यनुमानं प्रमाणपदं-तत्त्वमस्थिता-अननुमितश्रुति-
केत्यर्थः ।
विकल्पस्याष्टदोषत्वमुपपादयितुमारभते—तुल्यकक्ष्येति । तुल्या समाना कक्षा ययोस्ते,
तुल्यकक्षे, तयोर्विकल्प इति विग्रहः । व्रीहियवशास्त्रयोर्नियमार्थत्वेनान्यनिवृत्तिपर्यन्तत्वाद्
व्रीहिशास्त्रप्रामाण्ये यवप्रयोगानुपपत्तेः, यवशास्त्रप्रामाण्ये च व्रीहिप्रयोगानुपपत्तेरितरे-
तराप्रामाण्यकल्पनं विना विकल्पो न युक्त इत्यर्थः । ततः किमिति चेत् अत आह—
प्रमाणस्येति । कीदृशं दोषद्वयमित्यपेक्षायामाह—प्रमाणत्त्वमिति । प्रतीतप्रमाणत्वापह्नवः
प्रतीतिविरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं च द्वितीयो दोष इत्याह—
तथेति । सन्देहविपर्यययोर्दोषजन्यत्वात् वेदे च तदभावात्प्रामाण्याभावरूपमेवाप्रामाण्यं
वाच्यम् । तस्मिंश्च प्रामाण्योपलम्भाभावः । प्रमाणमिति तच्छब्देन दर्शितम् । तस्य प्रमाण-
स्याप्रमाणत्वमित्यर्थः । कथं न प्रामाण्योपलम्भस्याभाव इत्यपेक्षिते—प्रामाण्योपलम्भस्य
भावे सतीत्युक्तम्—यत्परिकल्पत इति । यच्छब्दस्य क्रियाविशेषणत्वात्सोऽप्यप्रमाणत्वकल्प-
नरूपो दोषः स्यादित्यनेनान्वयः । प्रमेयेत्यवचनोऽर्थशब्दः । प्रमाणप्रमेययोः प्रामाण्योपलम्भा-
भावात् प्रमाणतयोः परस्परं विपर्ययाद्विरोधादित्यर्थः । कल्पितप्रामाण्यस्य च शास्त्रान्त-
रस्य प्रामाण्योपजीवनं विना तदर्थानुष्ठानायोगात्तदर्थानुष्ठानकाले तस्मिन्नेव शास्त्रान्तरे परं
दोषद्वयं स्यादित्याह—अङ्गीकृत्यापीति । कीदृशमित्यपेक्षिते कल्पितप्रामाण्यान्यागं ताव-
द्दोषमाह—यदशास्त्रप्रमाणत्त्वमिति । प्रामाण्योपलम्भाभावः प्रमाणं यस्याप्रमाणत्त्वस्य, तत्त-
थोक्तमेतस्याप्रमाणत्वस्येत्यर्थः । निराकृतप्रामाण्योपजीवनं च द्वितीयो दोष इत्याह—
प्रत्यक्षमिति । शास्त्रान्तरवर्जनाश्रयणयोरुपपादितं दोषचतुष्टयमुपसंहरति—एवमिति ।
वाक्यान्तरेऽप्येतद् दोषचतुष्टयं योज्यमित्याह—एत एवेति । द्वितीयेऽपि वाक्ये प्रतीत-
प्रामाण्यापह्नवेऽनुपलब्धे चाप्रामाण्ये कल्पितस्य चाप्रामाण्यस्य त्यागे, निराकृतस्य च प्रामाण्य-
स्योपजीवने प्रकल्पित इत्यर्थः । यद्यष्टदोषो विकल्पः कस्माद् व्रीहियवादिष्वाश्रीयतेऽत
आह—एवमिति । गत्यन्तराभावमेवोपपादयति व्रीहीति । ततः किमिति चेत् अत आह—
द्वाभ्यामिति । अश्वमुखीभ्यां किन्नरीभ्यामिवेत्यर्थः । एकस्मिन् श्रुत्यर्थे बुद्धिमुपसंहर्तुं म-
पश्यन्तं श्रोतारं प्रत्युभयोः श्रुत्योरप्रामाण्यं प्रसज्येतेत्यर्थः । अस्तु तर्ह्युभयाप्रामाण्यमेवात
आह-तत्रेति । किमत्र गत्यन्तरमित्यपेक्षायामाह—एकस्य चेति । एकप्रामाण्यान्मात्रादगति-
सम्भवे न द्वयोरप्रमाणता युक्तेति साध्याहारं योज्यम् । कस्मान्न युक्तेत्याशङ्क्याह—सिद्ध
इति । एकं विनाशयितुं शीलं एषां चानेकन्तेषाममध्ये सर्वनाशे समुत्पन्ने ह्यर्द्धं त्यजति
पण्डित इति अयं लोकप्रवादः प्रसिद्ध इत्यन्वयः । भवति च प्रस्तुतोऽर्थोऽस्य प्रवादस्य
विषय इत्याह—स चायमिति । उभयो श्रुत्योर्यावर्थौ, तयोरपरिग्रहादित्यर्थः । ननु मिश्रे-
३०४ मीमांसादर्शनम् [ सू०
र्यागादुभयोरनुग्रहो भविष्यत्यत आह-मिश्रैर्वेति । अप्यर्थे वाशब्दः । मिश्रैरपि यागं
कुर्वाणस्योभयोः श्रुत्योर्नाश इत्यनुषङ्गः । ननु 'विधिस्त्वेकश्रुतित्वादित्यनेन न्यायेन सर्वा-
ङ्गोपसंहारिणा प्रयोगवचनेन व्रीहियवयोः समुच्चयावगमात्कथं मिश्रविधेरदर्शनमत आह-
नियमार्थं हीति । अप्राप्तविधिगोचरप्रयाजादिविषयोऽसौ न्यायः । व्रीहियवयोरस्तु नियम-
विधिगोचरत्वात्समुच्चयो न युक्त इत्याशयः । ननु समुच्चयेऽपि नियमफलस्य नित्यत्वस्य
सिद्धेरविरोध इत्याशङ्कयाह-प्राप्ते चेति । पुरोडाशाक्षेपादेव प्राप्तेषु व्रीह्यादिषु द्रव्यान्त-
रप्रसक्तिनिमित्तानियतत्वनिवृत्त्यर्थनियतत्वफलस्य नियमस्य समुच्चयानुपपत्तिरित्याशयः ।
ननु श्रुतव्रीहियवातिरिक्तगोधूमादिनिवृत्त्यापि नियमोपपत्तेर्न व्रीहायवयोरितरेतरनिवर्त्त-
कत्वमित्याशङ्क्याह-व्रीहय इति । 'समर्थः पदविधिरिति पदमात्रविधेः सामर्थ्यापेक्ष-
त्वाद् व्रीह्यादिप्रातिपदिकस्य च यवादिसापेक्षत्वेन व्याघातापत्तेर्विभक्त्यन्वयायोगान्निर-
पेक्षाणामेव व्रीहियवानां तृतीयाया करणत्वप्रतीतेमिश्रत्वं न युक्तमिति भावः । किं चाह-
ष्ठार्थत्वे सत्यनिर्ज्ञातोपायपरिमाणत्वेन प्रधानस्यैकाङ्गविधानेन नैराकाङ्क्ष्याप्रतीतेः समु-
च्चयः स्यात् । व्रीह्यादेस्तु प्रदेयप्रकृतित्वेन दृष्टार्थत्वादेकविधानेन नैराकाङ्क्ष्यत्वागतेः समु-
च्चयो न युक्त इत्यभिप्रायेणाह-नैवेति । यथाश्रुतैनिरपेक्षतया प्रदेयप्रकृतित्वेन श्रुतेरि-
त्यर्थः । तस्मादुभयार्थपरिग्रहत्वन्मिश्रयागेऽप्युभयनाशः स्यादित्युपसंहरति-एवमिति ।
अप्रतिपत्तिः-अपरिग्रहः, एकस्य चाप्रमाणत्वमित्यादिना पर्यायेणैकैकाप्रामाण्याश्रयणं
नाम यद्गत्यन्तरमुपपादितम् । तदुपसंहरति-तेनेति । एतच्चैकैकाप्रामाण्यसम्भवात् क्व-
चिदङ्गीक्रियते न तु दोष एव न भवतीति शङ्कनीयमित्याह-सेयमिति । येयमेकैका-
प्रमाणता द्वयोरप्यनवस्थिता, सात्यन्तमन्वाय्येत्यर्थः । कथमन्वाय्येत्यपेक्षायामाह-अव्य-
वस्थेति ।
अयुक्तत्वे हेतुमाह-सर्वत्रैव हीति । एवं तर्ह्यप्रतीयमानमपि गत्यन्तरं किंचित्
व्रीहियववाक्ययोरपि मृग्यताम्, न त्वत्यन्तान्याय्यविकल्पाङ्गीकरणं युक्तमित्याशङ्कयाह-
तदेतदिति । श्रुतिस्मृत्योस्त्वेकरूपत्वे व्यवस्थितं चिह्नमस्तीत्याह-श्रुतीति । किं तदित्य-
पेक्षायामाह-स्वरूपेणेति । ततः स्वरूपादित्यर्थः । अन्यशब्दस्य नित्यसापेक्षत्वात्समासा-
विघातः । कथमनयोर्व्यवस्थाकारणत्वमित्याशङ्कयाह-यो यस्येति । न च श्रुतेः
स्वरूपाश्रयस्य प्रामाण्यरूपस्य धर्मस्य बलवत्कारणान्तरं बाधकमस्तीत्याह-न चेति ।
ततश्च स्मृतेः स्वरूपाश्रयस्याप्रामाण्यरूपस्य धर्मस्य बाधकं मूलश्रुत्यनुमानं प्रत्यक्षश्रुतिविरो-
धान्नास्तीत्यर्थादुक्तं भवति । अन्यापेक्षस्य तु स्मृतेः प्रामाण्यरूपस्य श्रुतिरेव बाधिकास्ती-
त्याह-स्मात्तंस्येति । ततश्च श्रुतेरन्यापेक्षस्यास्याप्रामाण्यरूपस्य धर्मस्य कारणाभाव एव
बाधकोऽस्तीत्येतदप्यर्थादुक्तं भवति । कथं श्रौतप्रत्ययस्य स्मात्तंप्रत्ययाद् बलवत्त्वमित्याश-
ङ्कयाह प्रत्यक्षे चेति । सन्निकृष्टविप्रकृष्टार्थत्वादपि श्रुतिस्मृत्योर्बलाबलव्यवस्था प्रतीयत
इत्याह-श्रुतिलिङ्गेति । ननु श्रौतप्रत्ययस्य समकालमेव स्मात्तंप्रत्ययोदयात्कथं सन्निकर्ष-
विप्रकर्षवित्याशङ्कयाह-स्मृत्येति । प्रतीतिमात्रं स्मृत्वा तदा क्रियते, न श्रुतिवन्ममिति
३ ] प्रथमाध्याये तृतीयपादः ३०५
रित्यर्थः । क्वचिद्विपरीतपाठः । तत्र प्रमीयत इति भावे लकारः । यावत् स्मृत्या श्रुत्यनु-
मानेन प्रमाणीभूयते-मवितुमारभ्यते तावच्छ्रुत्यर्थ एव प्रतीयत इत्यर्थः ।
नन्वर्थपरिच्छेदाय प्रवृत्ता स्मृतिः पश्चादपि तावदर्थपरिच्छेदं करिष्यतीति किमिति
विकल्पो न स्यादित्याशङ्क्य, अपवादसिद्धयर्थं जिज्ञासाविरहेणैकप्रमाणपरिच्छिन्नेऽर्थे
प्रमाणान्तराप्रवृत्तिं पूर्वोक्तामेव विकल्पनिरासार्थं स्मारयति—विरुद्धेति । प्रमेयाकाङ्क्षा-
निराकरणेन प्रमात्रा आकाङ्क्षैव निराकृता ताद्रूप्यपरिच्छिन्नेऽपि मन्थरं न प्रवर्तते, किमुत
वैपरीत्यपरिच्छिन्न इत्याह—न चेति । ननु श्रुत्यर्थपरिच्छेदकाले यद्यपि स्मृत्यार्थो न
परिच्छिद्यते, तथापि श्रुतिस्तावदनुमीयते, ततश्चानुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषा-
त्किमिति विकल्पो न स्यादित्याशङ्क्याह — स्मृत्या चेति । स्मार्त्तार्थपरामर्शमात्रं तदोत्पद्यते
न श्रुत्यनुमानमित्यर्थः । नन्वन्यतः परिच्छिन्नोऽप्यर्थो सत्यामपि जिज्ञासायां स्वसामर्थ्यं
स्मृत्यापि पश्चाच्छेत्स्यतेऽत आह—किं कर्त्तव्यमिति । यदि चैवमभविष्यत्ततः सन्निकर्ष-
विकर्षविशेषाभावाद् बलाबलव्यवस्था नामविष्यदित्याह—युगपदिति ।
यदि च श्रुत्यर्थपरिच्छेदसमकालमेव स्मृत्या स्वमूलं स्मृतिरनुमीयेत, ततोऽर्थ-
विप्रकर्षेऽपि श्रुत्यवष्टम्भात् वलावलव्यवस्था न स्यात् न त्वेतदस्तीत्याह—यद्वेति । तस्मिन्नेव
क्षणे मूलं यदि कल्पयेदिति, यदिशब्दोऽध्याहार्यः, यद्वेति वा यच्छब्द एव यदिब्दार्थे
व्याख्येयः' । यतस्तु स्मृत्या गृहीतेऽप्यर्थे मूलान्तरनिषेधयुक्तिपर्यालोचनापेक्षत्वाच्चिरेण
श्रुतिकल्पनेति तुशब्दाध्याहारेण व्याख्येयः । ननु श्रुत्यनुमानासम्भवेऽपि स्वतन्त्रेव स्मृतिः
प्रतिष्ठास्यतीति विकल्पोऽपरिहार्य इत्याशङ्क्याह—स्मृतिरिति । अतोऽस्ति श्रुतिस्मृत्योरेक-
रूपत्वे व्यवस्थितं चिह्नमित्युपसंहरति—तदपेक्षेति । ततश्चेत्यस्मिन्नर्थे पुनः शब्दः ।
एवं विकल्पस्याष्टदोषत्वान्न तावत्साभ्युपेयतेति पूर्वार्द्धं व्याख्याय, पाक्षिके चाप्रमाणत्वे
स्मृतयः सुनिराकरा इत्युत्तरार्धं व्याख्यास्यन्विवेकार्थं पूर्वोक्तं बाधप्रकारमुपसंहरति—
एष तावदिति । उत्तरार्द्धं व्याचष्टे—द्वितीयेनेति । विकल्पपदवीं गतायाः स्मृतेरत्यन्तबाध
इति द्वितीयः प्रकार इत्यर्थः । कथमित्यपेक्षायामापन्नापाक्षिकं बाधमित्युक्तम् । अत्रैवार्थेऽ-
नारब्धव्याख्यानमपि भाष्यं प्रसङ्गाद्विवेक्तुं योजयति—तद्दर्शयतीति । नासति व्यामोह-
विज्ञाने इत्यादिभाष्येणैको बाधप्रकार उक्तः । विकल्पं त्वियादिना द्वितीय इति विवेकः ।
पाक्षिकबाधापत्तावपि कथमात्यन्तिको बाध त्याशङ्क्याह—तदा चेति । भाष्योक्तः श्रुति-
प्रमाणपक्षस्तदाशब्देन परामृष्टः । किं तु तदानीं स्मृत्यप्रामाण्यकल्पनावॆलायां सा स्मृतिर-
श्रुतिमूलावधार्यते । यतस्तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितमित्यन्वयः । ननु श्रुतिमूलत्वा-
भावेऽपि स्वातन्त्र्येण प्रामाण्यसम्भवात्कथमत्यन्तबाध इत्याशङ्क्याह—श्रुतीति । विप्र-
लम्भादेर्निराकृतत्वात्कथमापत्तिरित्याशङ्क्य निराकृतेत्युक्तम् । स्वातन्त्र्यनिरासायाविगा-
नेत्युक्तम् । नित्यत्वद्वारेत्यनेन नित्यत्वं बिना स्वातन्त्र्यं न सम्भवतीत्युक्तम् ।
नन्वेवमपि प्रमाणान्तरमूलतया प्रामाण्यं भविष्यतीत्यत आह—श्रुतिमिति । स्मृतेर-
तीन्द्रियार्थविषयत्वात्प्रमाणान्तरं मूलं न सम्भवतीत्याशयः । श्रुतेरेवेति पूर्वोपन्यस्तं
२०
१०६ मीमांसादर्शनम् [ सू०
वैधर्म्यदृष्टान्तं विवृणोति—व्रीहीति । अयमाशयः-सन्देहविपर्ययोस्तावद्दोषजन्यत्वाद्दोषे च
तदभावादसम्भवः । विज्ञानानुत्पत्तिलक्षणमप्रामाण्यं संवेदनविरोधादयुक्तम् । न च यथा
सामान्यशास्त्रादेरापाततो विशेषशास्त्राद्यवरुद्धेऽपि विषये प्रवृत्तिप्रतीतावपि, विरोध-
परिहारार्थापत्त्या विशेषशास्त्राद्यनवसृद्धेऽर्थे तात्पर्यावसायात् तात्पर्यवधारणसहकृतेन
सामान्यशास्त्रादिना तत्रैव विषये परिच्छेदफलात्मकविशिष्टज्ञानाख्यं विज्ञानमुत्पाद्यत इति
विशेषशास्त्राद्यवरुद्धेऽर्थे विज्ञानोत्पत्तिलक्षणमप्रामाण्यं जातम् । तथात्रापि यवशास्त्रस्य
यवव्यतिरिक्तद्रव्यमात्रनिवृत्त्यर्थत्वप्रतीतावपि व्रीहिशास्त्रपर्यालोचनया व्रीहिव्यतिरिक्त-
द्रव्यान्तरनिवृत्तौ तात्पर्यावसायात्तदवधारणसहकृतस्य यवशास्त्रस्य तत्रैव विज्ञानोत्पाद-
कत्वाद् व्रीहिनिवृत्त्यंशे विज्ञानानुत्पत्तिलक्षणप्रामाण्यं भविष्यतीति वाच्यम् । तथा सति
मिश्रत्वस्य निराकर्त्तुमशक्यत्वात् । किञ्च व्रीहियवशास्त्रयोर्निरपेक्षव्रीहियवविधानत्वेऽपि
प्रयोगभेदेनोभयोर्निरपेक्षसाधनत्वोपपत्ते विनियोगावस्थायां विरोधाभावात्रैकस्याप्यप्रामाण्यं
कल्प्यम्, प्रयोगावस्थायां त्वेकोपादानेनैव कार्यसिद्धेरितरोपादानानानर्थक्याद्विरोधः स्यात् ।
न चानयोर्विनियोगविध्योः प्रयोगविधानार्थत्वमस्तीति विरोधाभावात्स्तुतो नास्त्येवाप्रामा-
ण्यम् । प्रयोगविधेस्तु समस्ताङ्गप्रधानशास्त्रपर्यालोचनपूर्वकत्वेन व्रीहियवशास्त्रालोचनया
व्रीहयो वा यवा वा प्रयोगभेदेनोपादेया इत्येवं रूपस्यैव कल्प्यत्वान्नाप्रामाण्यशङ्का । तस्माद्
व्रीहियवशास्त्रयोः प्रयोगविधानार्थत्वाभावेऽपि स्वविषयानुष्ठापकत्वस्य सर्वविधिसाधारणस्य
स्वरसतः प्रतीयमानस्य निराकर्त्तुमशक्यत्वान्निरपेक्षव्रीहियवानुष्ठापकत्वस्य चैकस्मिन्प्रयागे
विरोधादवश्यमेकस्यान्वष्ठापकत्वे शास्त्रान्तरस्याननुष्ठापकत्वमङ्गीकार्यम् । दृष्टं चैकस्यापि
विधेः सामर्थ्याद्यपेक्षया देशकालपुरुषविशेषापेक्षमन्वष्ठापकत्वम् अननुष्ठापकत्वं चेति न
कश्चिद्विरोधः । अतश्चानुष्ठापकयोरपि व्रीहियवशास्त्रयोरेकप्रयोगकाले शास्त्रान्तरस्यौदासी-
न्येऽनुष्ठानाख्यफलापहारादारोपितमेव प्रामाण्याभावरूपमप्रामाण्यमिति, प्रयोगान्तरकाले वा
स्तावनोज्जीवितेन तत्प्रामाण्येन वाधो युक्त इति ।
ननु स्मृतिप्रामाण्यस्यापि प्रयोगान्तरवेलायामुज्जीवनसम्भवात्कथमत्यन्तप्रतीघात
इत्याशङ्कयाह—नन्विति । ननु प्रयोगागान्तरकाले तस्याः स्मृतेः श्रुतिमूलत्वं कल्पयिष्यते,
अत आह—न हीति ।
ननु प्रथमप्रयोगकाले स्मृतेर्भ्रान्त्यादिमूलकल्पने माभूतप्रयोगान्तरकाले प्रामाण्योज्जीवनं
प्राग्गृहीतविरुद्धश्रुतिकेन तु श्रुतिमूलत्वकल्पनेन स्मृत्यनुसारात्प्रथमप्रयोगे कृते प्रयोगान्तर-
काले विरुद्धश्रुतिग्रहणेऽप्यनुमितायाः श्रुतेः प्रत्यक्षया सहाविशेषाद्विकल्पो दुर्वार इत्याशङ्कते—
आहेति । एतस्येति । सर्वदा प्रतिघातस्येत्यर्थः । यदि तु सर्वैः श्रुतिरेव प्रथमं गृहीतव्या,
न स्मृतैरिति नियमः स्यात्, तथापि पौर्वापर्यानिवन्धनः सर्वान्प्रति वलाबले विशेषः स्यात्
न त्वेतदस्तीत्याह—न चेति । नन्वस्तु र्तार्ह प्रथमश्रुतिग्राहिपुरुषापेक्षोऽयं स्मृतिप्रमाण्याप-
वाद इत्याशङ्क्य, पौर्वापर्यस्य बलाबलकारणत्वाभावे दृष्टान्तमाह—आद्य इति । तत्प्रथतीति
पाठे येन पुष्पजातेनेति वक्तव्यम्, स्वपरशाखाविहितानां च सत्यपि पौर्वापर्ये कल्पसूत्र-
३] प्रथमाध्याये तृतीयपादः ३०५
कारैरेवं : प्रातरूपोदयं व्युषित, उदिते वेत्यादिवदङ्गविकल्पाङ्गीकरणात्पौर्वापर्यस्य
बलाबलकारणत्वं नास्तीत्याह—स्वशाखेति। जैमिनेरपि ‘न चैकं प्रतिशिष्यते’ इति
सर्वशाखोपसंहाराभिधानात्पौर्वापर्यस्य वलाबलकारणत्वमनभिमतमित्यागमविरोधो भवत्पक्षे
स्यादित्याह—सर्वेति । पौर्वापर्यस्य वलाबलकारणत्वाभावमुपसंहरति—तस्मादिति ।
मातापितृप्रणीतोपदेशवत्पौर्वापर्यश्रवणमनाश्रित्य सर्वान्पूर्वश्राविणः पश्चाच्छ्राविणश्च पुरुषां-
न्प्रति निर्विचिकित्समेव प्रामाण्यम् चैकं प्रतिशिष्यत इत्यनेन न्यायेन जिज्ञासुभिरभ्युपगन्त-
व्यमित्यन्वयः । पौर्वापर्यश्रवणानाश्रयणहेतुत्वेन बलाबलापर्यालोचनात्को वलावलहेतुत्वे हि
सति पौर्वापर्यश्रवणमाद्रियेत तस्य तु नित्यावस्थितासु शाखासु वस्तुतः पौर्वापर्यरहितास्वा-
त्मीयाशक्तिमात्रकारितत्वाद् बलाबल हेतुत्वं नास्तीत्यर्थः । आत्मीयाशक्तिमात्रकारितस्य
पौर्वापर्यस्य वलाबलहेतुत्वाभावे दृष्टान्तत्वेनैकवाक्यगतपूर्वोत्तरवर्णवदित्युक़्ते वर्णानां प्रत्ये-
कमप्रत्ययकत्वेनार्थप्रतीत्यर्थतया तत्पौर्वापर्यस्याशक्तिमात्रकारितत्वाभावेनादृष्टान्तत्वात्पदव-
दिति दृष्टान्तान्तरमुक्तम् । वेदकाक्यगतपदपौर्वापर्यस्य वेदो वा प्रायदर्शनादित्यत्र बलाबल-
हेतुत्वामिधानाल्लौकिकवाक्यगतपदपौर्वापर्यमत्र दृष्टान्तः । वर्णपौर्वापर्यमपि वलावलहेतुर्न
भवतीत्येतावता दृष्टान्तितम् ।
पौर्वापर्यस्य च वलावलहेतुत्वे तस्यानवस्थितत्वेन वलबलास्थानवस्थितत्वेन प्रामाण्या-
नवस्थानं स्यादित्याह—अन्यथा हीति । पौर्वापर्यस्य च वलाबलकारणत्वाभावे स्वोत्प्रेक्षा-
मात्रेण विकल्पभ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्यमङ्गीक्रियमाणमर्द्धवैशसपरिहारार्थम-
विरोधेडप्यापादयेदित्याह—इत्थं चेति । ऐकरूप्यमेवोत्प्रेक्षितुं युक्तमित्याह—सर्वे चेति ।
प्रथमं स्मृतिय्रहणेऽपि पश्चाद्विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नमूलश्रुत्यनुमानबाधाद्विकल्पे सर्वदा
प्रामाण्यं प्रतिहन्येतेति परिहरति—उच्यत इति । अत्रैव दृष्टान्तमाह—यो हीति ।
द्वात्रिंशत्कृष्णलरजतपरिमाणं कार्षापणः, कूटाकूटविलक्षणविवेकज्ञानेन जनिता व्युत्पत्तिः—
कूटत्वनिश्चयो यस्य स तथोक्तः । ननु श्रुत्यर्थपरिग्रहणकाले मूलश्रुत्यनुमानबाधोऽपि पूर्वं
स्मृत्यर्थपरिग्रहकाले बाधाभावाद्विकल्पो भविष्यत्यत आह—न चास्येति ।
ननु द्वितीयप्रयोगे विरुद्धश्रुतिदर्शनेऽपि पूर्वोत्पन्नस्य मूलश्रुत्यनुमानस्य प्रतिबन्धायोगाद-
नुमितायाश्च श्रुतेरत्यन्तबाधानुत्पत्तेर्दुर्वारो विकल्पः स्यादित्याशङ्कते—ननु चेति । अप्रमित-
स्यार्थस्यानुष्ठातुमशक्यत्वादेकप्रयोगकालोत्पन्नायाश्च प्रमितेः प्रयोगान्तरकाले विनष्टत्वात्
तन्मूलस्य स्मरणस्यानुवृत्तावापि मूलप्रमाणालोचनं विना निश्चायकत्वायोगात्प्रतिप्रयोगमनुष्ठेय-
पदार्थविषयप्रमाणालोचनापेक्षणाद्वेष्टितोदुम्बर्यङ्गमिति प्रथमप्रयोगवेलायां स्मृतिमूलस्मृत्यनु-
मानान्निश्चितोऽपि, पुनः प्रयोगान्तरवेलायां कीदृश्योदुम्बर्यङ्गमित्याकाङ्क्षायां स्मृत्या
श्रुतिमनुमिमानो विरुद्धश्रुतिदर्शनान्निवार्यंत इत्यननुमितमूलायाः स्मृतेरत्यन्तबाधो विकल्पा-
ङ्गीकरणे प्रसज्येतेति परिहति—नैतदेवमिति । एतदेव याज्ञिकाचारेण द्रढयति—
यदि हीति ।
१०८ मीमांसादर्शनम् [ सू०
ननु सङ्कर्षे व्रीहिभिरिष्ट्वा, व्रीहिभिरेव यजेत, यवेभ्यो यवैर्राष्ट्वा यजेतात्रीहिभ्य
इति वाक्यमुदाहृत्य किमनेनाग्रयणाभ्यासो विधीयते दर्शपूर्णमासयोर्वा द्रव्यनियम इति
सन्दिह्याग्रयणप्रकरणे पाठाद्यजेस्तद्विषयत्वप्रतीतेर्वाद्याग्रयणेनेष्ट्वा पुनव्रीह्याग्रयणेन यजेतेत्या-
ग्रयणाभ्यासविधिरयमिति व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत यवेभ्य इत्यन्ताग्रयणाभ्यासः
प्रकरणादित्यनेन सूत्रेण पूर्वपक्षयित्वा अभ्यासविधौ प्राप्ते कर्मण्यभ्यासद्रव्यरूपानेकगुणविधानेन
वाक्यभेदापत्तेः कर्मान्तरविधौ च गौरवापत्तेः । प्रकृताग्रयणप्रकृतित्वेनोपस्थापिते दर्शपूर्णमा-
साख्ये कर्मणि व्रीहियवयोर्विकल्पेन प्राप्तयोर्यवव्रीह्याग्रयणावधिव्यवस्थाविधानार्थमेतद्वाक्य-
मिति दर्शपूर्णमासयोर्वान्तरालसंयोगान्न ह्यान्यत् अन्यक्रमं प्रत्यक्षं विद्यते [जै० ३।१।२५] इति
सूत्रेण सिद्धान्त यिष्यमाणत्वात्कथं — यावज्जीवं तैरेव यजेतेत्युक्तम् उच्यते । अग्निहोत्री वै
नानादयिता तस्याः पयसा जुहुयादित्याग्रयणेष्टेस्थाने अग्निहोत्रस्थाने अग्निहोत्रविशेष-
विधानात्तत्पक्षाश्रयणेनेह उक्तमित्यदोषः । अव्यवस्थितविकल्पोऽपि व्रीहियवयोरकृताग्रयण-
विषयतयैव व्याख्येयः । एतदेवोपसंहरति — नेति । यद्यपि समस्ताङ्गोपेतप्रधानविषयप्रयोग-
शास्त्रालोचनेनानुष्ठानं प्रवर्तते, तथापि तस्य प्रत्येकपदार्थावधारणपूर्वकत्वात् तस्य च विनि-
योगशास्त्राधीनत्वादालोचनमिहोक्तम् । प्रयोगशास्त्रस्य त्वनुष्ठानमात्रफलत्वेनाङ्गाङ्गिभावे
प्रमाणत्वाभावत्तदभिप्रायः प्रमाणशब्दो न युज्यते । यच्चात्यन्ताप्रामाण्यवादिमते पौर्वापर्यान-
वस्थानात्प्रामाण्यानवस्थानमुक्तम् । तदस्मिन्नपि विकल्पवादिमते प्रथमश्रुतिग्रहणेऽत्यन्त-
स्मृत्यप्रामाण्याङ्गीकरणेन पर्य॑नुयोगसाम्याद्विकल्पवादिना वा पौर्वापर्यानादरेऽत्यन्ताप्रामाण्य-
वादिनापि तदनादरेण परिहारसाम्यादवाच्यमित्याह — यच्चेति । पर्य॑नुयोगसाम्यमुपपा-
दयति — यदा हीति । ननु पर्य॑नुयोगसाम्येऽपि प्रथमं स्मृतिग्रहणे विरोधादर्शनेन मूलश्रुतेर-
वश्यकल्प्यत्वात्क्लृप्तायाश्च श्रुतेरत्यन्तबाधायोगात्पौर्वापर्यानादरेऽत्यन्ताप्रामाण्यसिद्धेः परि-
हारसाम्यं नास्तीत्याशङ्कयाह — कालान्तरेऽपीति । क्लृप्ताया अपि श्रुतेर्विरुद्धश्रुतिदर्शने
सत्यामावावधारणस्योक्तत्वादत्यन्ताप्रामाण्यवादिमतेऽपि पौर्वापर्यमकारणं तदनङ्गीकृतमेव
तु पौर्वापर्यस्य वलावलहेतुत्वमापाद्य विकल्पवादिना निरस्तमित्याशयः । किं च प्रथमं
स्मृतिग्रहणेऽपि पुरुषान्तरदृष्टया श्रुत्या तदानीमपि मूलश्रुत्यनुमानबाधाद्विकल्पो न युक्त
इत्याह — पूर्वेति । ननु पुरुषान्तरस्य विरुद्धश्रुतिदर्शनेऽपि स्वयमदर्शनात्कथं बाधोऽत
आह — पुरुषान्तरेति । एव तर्हि व्रीहियवश्रुत्योरपि पुरुषान्तरबाधेनाङ्गीकृतप्रामाण्यमपि
पुरुषं प्रत्यप्रामाण्यापत्तेः । सर्वान्प्रत्यप्रामाण्यं प्रसज्येतेति शङ्कते — यवेति । श्रुतेरनुष्ठा-
पकत्वमात्रमप्रामाण्यम्, न च पुरुषान्तराननुष्ठापकत्वेन पुरुषान्तरं प्रत्यनुष्ठपकत्वं बाध्यते ।
न चैवं पुरुषव्यवस्थया विकल्पानापत्तिः शङ्कनीया । पठ्यमानत्वाविशेषेण प्रमाणीकृतयव-
श्रुतिकमपि पुरुषं प्रति कालान्तरे यवश्रुतेः प्रामाण्याभ्युपगमादिति परिहरति —
उच्यत इति । प्रतियोगित्वेन व्रीहिश्रुतेरपि बुद्धिस्थत्वातयोरिति द्विवचनम् । ननु
स्मृत्यनुमिताया अपि श्रुतेः पुरुषान्तरगतिविरुद्धश्रुतिदर्शनेनानुष्ठापकत्वरूपं निमज्जनमात्रं
करिष्यते । नामावावधारणमित्याशङ्कयाह — स्मृति त्विति । सर्वेषां प्रथमस्मृतिग्रहणे
निष्प्रतिद्वन्दानुमानसिद्धः पश्चाद्विरुद्धश्रुतिदर्शने सति निमज्जनमात्रकल्पनं भवेदाप ।
३ ] प्रथमाध्याये तृतीयपादः ३०५
केषांचित्तु प्रथमश्रुतिग्राहिणां स्मृतिमूलश्रुत्यभावावधारणे सत्येकस्याः श्रुतेः सदसत्त्व-
विरोधात्पुरुषान्तरगतमपि श्रुत्यनुमानं मिथ्येति निश्चीयत इत्याशयः । सर्वदा तावतां
पुंसामभावात् न स्मृतिरप्रामाण्येन मुच्यत इत्याकारप्रश्लेषेणान्वयः । कर्त्तरीयं तृतीया ।
अप्रामाण्यं स्मृतिमात्मनः सकाशान्न मुञ्चतीत्यर्थः । प्रामाण्येनेति तु पाठे यदि सर्वदा
तावतां भावः स्यात्ततो न प्रामाण्येन मुच्यते । न त्वेतदस्ति । प्रथमश्रुतिग्राहिणामपि केषां
चिद्भावादिति व्यवधारणकल्पनया योज्यम् । अभ्युपगमवादमात्रं चैतत् ।
परमार्थतस्तु सर्वेषामपि प्रथमश्रुतिग्रहणे पश्चात्तन विरुद्धश्रुतिदर्शनेन पूर्वोत्पन्नस्मृति-
मूलश्रुत्यनुमानमिथ्यात्वनिश्चयाद्विकल्पो न युक्त इत्याह—अप्रामाण्यपदं चेति । पारतन्त्र्यम्
अप्रामाणपदम् । ननु सत्यपि विरुद्धश्रुतिदर्शने विकल्पेनोभयप्रामाण्यसम्भवात्किमिति
स्मृत्यनुमितायाः श्रुतेरभावोऽङ्गीक्रियत इत्याशङ्क्याह—अध्यारोप्येतेति । गत्यन्तरसम्भवे-
ऽष्टदोषदुष्टविकल्पापादकश्रुत्यनुमानस्यायुक्तत्वात् स्मृत्यप्रामाण्यकल्पनमेव न्याय्य-
मित्याशयः ।
एतदेव विवृणोति—विरुद्धयोर्हीति । एवं च सति श्रुतिविरोधेऽत्यन्तदुष्टविकल्पपरिहा-
रार्थं भ्रान्त्यादिमूलत्वकल्पनया स्मृत्यप्रामाण्याङ्गीकरणस्य न्याय्यत्वेनाद्वैवैशसानापाद-
कत्वान्न तत्परिहार्थमविरोधेऽप्यप्रामाण्यमापादनीयमित्याह – नन्विति । यत्तु सर्वत्रैकरूप्यो-
त्प्रेक्षणं युक्तेत्युक्तम् । तद्विरोधाविरोधाभ्यां सर्वत्र व्यवस्थादर्शनादयुक्तमित्याह—यथेति ।
नास्त्येकरूपतेत्यतः शब्दादध्याहारेणोपसंहारः । अधिकरणार्थं व्याख्याय भाष्यमनुसन्दधान-
स्तत्र यथेत्युदाहरणभाष्यं पूर्वाधिकरणप्रतिपादितश्रुत्यनुमानद्वारस्मृतिप्रामाण्यापवादार्थे-
ऽस्मिन्नधिकरणे प्रत्यक्षश्रुत्यर्थोपसंहारपरकल्पे सूत्रकारवचनस्यानुदाहार्यत्वादयुक्तमित्याशङ्क्य
समर्थयते—यद्यपीति । कल्पसूत्राधिकरणे स्वातन्त्र्यस्य निषेत्स्यमानत्वात्पौरुषेयत्वेन च
वस्तुतोऽप्यनुपपत्तेः कल्पसूत्रमूलभूतानामपि श्रुतीनां शाखान्तराधीतानामनुमेयत्वाविशेषा-
त्प्रत्यक्षश्रुत्यर्थोपसंहारपरत्वलक्षणस्य वैलक्षण्यात्मकस्यान्तरस्याव्यापकत्वेनाल्पत्वादयुक्तमु-
दाहरणत्वमित्याशयः । सर्ववेष्टनस्मृतेर्जैमिनिदृष्टशाट्यायनिब्राह्मणगतश्रुतिमूलत्वेऽप्यस्मदादीनां
मूलादर्शनादस्तूदाहरणत्वम् ।
क्रीतराजकभोज्यान्नतवस्मृतिमूलस्य तु तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य
भोज्यं भवतीत्यथर्ववेदे पठ्यमानस्यास्मदादिप्रत्यक्षत्वेन निराकर्त्तुमशक्यत्वात् क्रीतराजको
भोज्यान्न इत्युदाहरणभाष्यमयुक्तमाशङ्क्य समर्थयते—क्रीतेति । बाध्यत्वासम्भवशङ्कानिरा-
ससाम्याद्व्युत्क्रमो न दोषः । तथापि स्मृतिपक्षे बाध्यत्वे निक्षेपादुदाह्रियत इत्यन्वयः ।
अग्निषोमीयसंस्थावधिभोजनप्रतिषेधविरोधादिति बोध्यत्वे हेतुः । विरोधेऽपि कथं बाध
इत्याशङ्क्य—अधिकृतानधिकृतेत्युक्तम् । अधिकृतानधिकृतविवेकार्थं तस्येत्याद्युक्तम् ।
कथमधिकृतानधिकृतयोर्बलावलविशेष इत्याशङ्क्य प्रकरणविशेषादिति प्रकरणाधीतसामि-
धेनीपाञ्चदश्याना रभ्याधीतसप्तदश्यबलन्यायायोदाहरणं दीक्षितान्नभोजनस्यायज्ञाङ्गत्वेन
यज्ञाङ्गगोचरन्यायाविषयत्वात्स्वा संमतिसूचनाथम्—भाष्यकारेणेत्युक्तम् । भाष्यकृतश्चै-
३१० : मीमांसादर्शनम् [ सू०
षोऽभिप्रायः त्रयीप्रतिपादतस्य दीक्षितान्नभोजनप्रतिषेधस्यावव्यपेक्षायामथर्ववेदप्रतिपादि-
तस्यावधेर्दू॑रस्थत्वेन विलम्बितत्वात्थर्ववेदप्रतिपादितस्य तु तस्माद्दीक्षितस्याविज्ञातस्या-
क्रीतराजकस्याभोज्यं भवतीति प्रतिषेधस्य निर्ज्ञातावधित्वेनावध्यनपेक्षत्वाद्वौर्बल्यमिति ।
अष्टाचत्वारिंशद्वर्षब्रह्मचर्योदाहरणमयुक्तम् । कृष्णकेशत्वस्यानवस्थितवयोवस्थाविशेष-
त्वेनावस्थितवर्षसंख्यारूपकालविशेषत्वेन चोत्तरकालमपि सम्भवात् । न च जातपुत्रोऽग्नी
नादधीतेत्युत्तरकालं पुत्रजन्मप्रतीक्षणाद् बहुकालातिक्रमे सति कृष्णकेशत्वापनयः शङ्कनीयः ।
जातपुत्रस्य पक्षान्तरत्वसम्भवेन समुच्चयस्य संदिग्धत्वादित्याशङ्क्य समर्थयते—कृष्ण-
केशत्वं चेति । तथापि व्यक्त एव विरोधो दृश्यत इत्यन्वयः । कथमित्यपेक्षिते स्मरण-
प्रकाशितस्यार्थस्य यौवनावस्थारूपस्य जातपुत्रत्वकृष्णकेशत्वाभ्यां बाल्यवार्द्धक्यव्यवच्छेदेन
परिग्रहादुपलक्षणादित्युकम् । कृष्णकेशत्वजातपुत्रत्वयोः प्रत्येकमाधानाधिकारिविशेषणत्वेऽष्ट-
दोषविकल्पापत्तेर्विशेषणविशेष्यभावाप्रतीतेश्च समुच्चयायोगाद्दारपरिग्रहोत्तरकाले च कृष्ण-
केशस्य नियमेनाधानप्राप्तेः पलितकेशव्यावृत्त्यर्थतया कृष्णकेशत्वविशेषणत्वविशेषणस्य
परिसंख्यार्थत्वापत्तेरजातपुत्रस्यापि च हरिश्चन्द्रादेः पुत्रार्थयागोपाख्यानेनाहिताग्नित्व-
दर्शनेनाजातपुत्रत्वस्य स्वरूपेण विशेषणत्वानुपपत्तेः । स्मृत्यनुसाराच्चोभयोर्यौवनावस्थोप-
लक्षणाथंत्वमवसीयत इति । ननु यौवनावस्थायाः किंचिच्छेदेऽपि स्मृत्यनुसारोपपत्तेर्विरोधः
स्यादित्याशङ्क्य - अकृतो वेत्युक्तम् । 'शतायुर्वे पुरुष' इति श्रुतेः पञ्चाशद्वर्षंस्याद्धं वयो
भवति तावता यौवनावस्थासमाप्तिरित्याशयः । तथापि कथं विरोध इत्याशङ्क्य-
अष्टाचत्वारिंशद्वर्षेत्याद्युक्तम् । पञ्चवर्षोपनयनपक्षे सातिरेकाणि द्विपञ्चाशद्वर्षाणि गर्भाष्टम-
पक्षे सातिरेकाणि चतुःपञ्चाशदिति । तत्प्रमाणमशक्यत्वादिति पूर्वपक्षसिद्धान्तभाष्ये
स्पष्टत्वान्न व्याख्याते ।
वस्त्रान्तरितोदुम्बरीस्पर्शोऽप्यौदुम्बरीं स्पृष्ट्वेति बुद्धयनपायात् स्पर्शानासर्ववेष्टनयोरविरोध
इति कथमशक्यतेत्यविरोधाशङ्काभाष्याभिप्रायं व्याचष्टे—ननु चेति । नौपचारिकशब्द-
प्रयोगमात्रेणानुपलब्धिविरोधात् वस्त्रान्तरितोदुम्बरोस्पर्शनानुभवकल्पना युक्तेति स्पर्शन-
विधानादित्यादिपरिहारभाष्याभिप्रायं व्याचष्टे—कथमिति । ननु व्यक्तिद्वारेणेव जातेर्वं-
स्त्रद्वारेणौदुम्बर्याः स्पर्शो मविष्यतीत्याशङ्कां निराकर्तुमाह—न चेति । जात्योर्व्यक्त्योः
स्पर्शयोश्चेति विग्रहः । औपचारिकस्पर्शाङ्गीकरणे तु विधानार्थक्यमित्याह—अथेति ।
अविरोधवादी स्वाभिप्रायं विवृणोति — नन्विति । बुद्ध्यवैलक्षण्यमेव व्यवहारेण द्रढयति -
तथा हीति । परिहर्त्ता व्यवहारमन्यथोपपादयति — सत्यमिति । किं तु चण्डालस्पृष्टवस्त्र-
स्पर्शकारितमित्यर्थः । तद्वस्त्रं स्पृश्यमानमित्यध्याहारः । कथं तस्याशुद्धिकारणत्वमित्या-
शङ्कयाह—तथा चेति ।
नन्वशुचिस्पर्शो निषिद्धत्वादशुद्धिकारणं वस्त्रस्य च चाण्डालादिवत् स्वतोऽशुचित्वा-
भावान्मनुष्यवच्च निषेधाधिकाराभावेन निषिद्धाचरणनिमित्ताशुचित्वाभावात्-
३ ] प्रथमाध्याये तृतीयपादः ३११
स्यसंशयाशुद्धिकारणत्वानुपपत्तेः पतितचण्डालसूतिकोदक्याशवस्पृष्टिवत्तत्स्पृष्टाशने सचेलो
जलमाविशेदित्यस्य च मनुष्यमात्रविषयत्वोपपत्तेर्न चण्डालस्पृष्टवस्त्रस्पर्शे दोषकल्पनं
युक्तमित्याशङ्कते—कथं पुनरिति । ननु सूत्यादिवदनिषिद्धोऽपि वस्त्रस्याशुचिस्पर्शो
शुचित्वमापादयिष्यतीत्याशङ्क्यानिष्टापादनेन प्रत्याचष्टे—कथं वेति । तत्स्पृष्टेषु स्पृश्य-
मानेष्विति विग्रहः । अनिष्टापत्तिं तावत्परिहरति—तदुच्यत इति । काष्ठादीनां चण्डालादि-
स्पर्शापादितस्याप्यशुचित्वस्य ।
अष्टाङ्गुलं भवेत्काष्ठं तृणमुष्टिर्यदा भवेत् ।
मारुतेनैव शुद्धिः स्यादूर्ध्वं स्पृष्टिनं दूष्यति ॥
इति स्मृतेः आदिशब्दोक्तानां च रथ्याकर्दमादीनाम्—
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिति ॥
स्मृतेर्वायुस्पर्शेनापनयात् स्पर्शस्य च दोषकारणत्वं न जातमशुचित्वानापादना-
दित्याशयः । ननु निर्वातस्थस्य काष्ठादेश्चण्डालादिस्पृष्टस्यापि शुद्ध्यन्तरास्मरणेन मारुत-
शुद्धिस्मृतेरशुचित्वानापत्तिप्रतिपानपरत्वावसायान्न तावत्तत्साम्येन वस्त्रस्याशुचित्वापत्तिर्वक्तुं
शक्यते । न च प्रक्षालनशुद्धिस्मृतेर्वस्त्रस्याशुचित्वापत्तिर्वक्तुं शक्यते । "तस्याः" गन्धलेपाप-
कर्षणे शौचममेध्यस्ये'ति लेपापकर्षणोपदेशाल्लिप्तविषयत्वप्रतीतेरित्याशङ्कते—नन्विति ।
प्राक्तनलेपापकर्षणविषयत्वेनापि विध्युपपत्तेनश्रुतलिप्तविषयत्वकल्पनं युक्तमिति परि-
हरति-नेति । तुशब्दः शङ्कानिवृत्त्यर्थः । यद्यपि केनचिदमेध्येन लिप्तस्येति लिप्तपदं प्रक्षिप्य
पठ्यते, तथाप्यभियुक्तबहुजनापठितत्वान्नासावार्षः पाठ इति चिरन्तनग्रहणेन सूचितम् ।
तवं तर्हि वस्त्रस्यामेध्यत्वाभावान्नानेन शुद्धिरुक्ता स्यादित्याशङ्क्याह-चण्डालेति । आशङ्का-
वादी स्वाभिप्रायं प्रकटयति — ननु चेति । गवाश्वादितुल्यत्वावधारणहेतुः स्वाभाविका-
शुचित्वनिषेधाधिकाराभावरक्षणः प्रागेवास्माभिरुक्तः । स्वाभाविकाशुचित्वनिषेधाधिकार-
योरभावेऽपि प्रक्षालनविधिसामर्थ्याच्चण्डालादिस्पर्शेन वस्त्रस्याशुचित्वापत्तिरवसीयत इति
परिहारवादी स्वाभिप्रायं प्रकटयति — उच्यत इति । चण्डालस्पृष्टवस्त्रस्पर्शनिमित्त-
दोषप्रतिपादनस्य प्रकृतोदुम्बरीस्पृष्टवस्त्रस्पर्शनिमित्तो दुम्बरीस्पर्शबुद्ध्यभावोपयोगितामाह-
अतश्चेति । शाखान्तरे चौदुम्बर्योद्गाता स्पृष्टव्य इति विधानात्तस्याश्चाचेतनत्वेन स्पर्श-
संवेदनलक्षणस्पर्शयोगात्प्राप्तिमात्रवचनत्वेन स्पर्शश्रुतेः प्राप्तेश्च व्यवधानेऽनुपपत्तेरविरोधा-
शङ्कव नास्तीत्याह—यदा त्विति ।
ननु कस्यांचिच्छाखायामोदुम्बर्याश्रयत्वमात्रविधानाद्वस्त्रान्तरिताया अपि चौदुम्बर्याः
पतनप्रतिबन्धकत्वेनाश्रयत्वोपपत्तेरविरोधो भविष्यतीत्याशङ्कयाह-अपाश्रयणेति । अस्पृष्टायाः
संयोगाभावेनाश्रयत्वायोगादपाश्रयणहस्तसंयोगाद्यनेकोपायसाध्ये च स्पर्शेऽपाश्रयणनियमार्थ-
त्वेनापाश्रयणविधेरपाश्रयणेनैवौदुम्बरीं स्पृष्ट्वेत्येकवाक्यत्वावसायादस्त्येव विरोध इत्याशयः ।