मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
by महाकवि कालिदास / पं. रामचन्द्र मिश्र
About this granth
The Malavikagnimitra (मालविकाग्निमित्रम्) is a five-act play by Kalidasa, generally thought to be his first. Its hero is the Shunga king Agnimitra of Vidisha, who falls in love with Malavika, living as an attendant of Queen Dharini. The rivalry of the dance masters Ganadasa and Haradatta, Malavika's dance, the schemes of the jester Gautama, the ashoka-tree ritual, the jealousy of Queen Iravati and the final discovery that Malavika is a princess make up the plot. The last act's mention of Prince Vasumitra's victory over the Yavanas on the Sindhu and of Pushyamitra's horse sacrifice gives it historical interest too.
The prologue contains Kalidasa's well-known verse that nothing is good merely because it is old, nor bad because it is new; the wise judge for themselves.
This scan is the sixth edition, published by the Nirnaya Sagar Press, Bombay, in 1924. It gives the play with the Sanskrit commentary of Katayavema, written under King Kumaragiri, as edited by Kashinath Pandurang Parab and revised by Wasudev Laxman Shastri Pansikar.
प्रथमोऽङ्कः ९
गणदासः—भद्रे, । कुतो देव्या
तत्पात्रमानीतम् ।
बकुलावलिका—अत्थि देवीए वण्णावरो भादा वीरसेणो णाम
भत्तुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे
जोग्गा इअं दारिअत्ति भणिअ भइणीए देवीए उवाअणं पेसिदा ।
गणदासः—(स्वगतम् ।) आकृतिविशेषप्रत्ययादेनामूनवस्तुकां
संभावयामि । (प्रकाशम् ।) भद्रे, मयापि यशस्विना भवितव्यम् । यतः ।
पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
बकुलावलिका—अह इं । अह कहिं वो सिस्सा ।
गणदासः—इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यता-
मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति ।
१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम भर्त्रा नर्मदातीरेऽन्त-
पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या
देव्या उपायनं प्रेषिता ।
२. अथ किम् । अथ कुत्र वः शिष्या ।
नर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे कलाविद्याधिगम इयं योग्या
दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता ॥ अनूनवस्तुकामूनमनल्पं
विशिष्टं वस्तु वृत्तं यस्याः सा तथोक्ता तां संभावयामि मन्ये । पात्रविशेष
इत्यादि । आधातुरुपदेष्टुः शिल्पं कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं
सत् गुणान्तरं गुणविशेषं व्रजति प्राप्नोति। अत्रोपमामाह-पयोदस्य मेघस्य जलं समु-
द्रशुक्तौ न्यस्तं सत् मुक्ताफलतां मौक्तिकत्वमिव॥ अथ किम्। अथ कुत्र वः शिष्या॥
इदानीमित्यादि। पञ्चाङ्गाभिनयं पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमित्यर्थः।
तस्याभिनयः प्रयोगस्तमिदानीमद्यैवोपदिश्य शिक्षयित्वा। प्रवातं प्रशस्तो वातो यस्मि-
न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुक्तं संगीतरत्नाकरे-‘नृत्तं तथा च कैवारो
मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्॥ त्रिभिस्त्वेवैतत्प्रयोज्यं
स्यात्कैवारं जागरं विना ॥’इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं
नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानातु मामार्यः ।
१० मालविकाग्निमित्रे
बकुलावलिका-तेणं हि पुणो अणुजाणादु मं अज्जो। जाव से
अज्जस्स परितोसणिवेयणेण उस्साहं वड्ढेमि।
गणदासः-दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि।
(इति निष्क्रान्तौ।)
मिश्रविष्कम्भः।
(ततः प्रविशत्येकान्तस्थित परिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा।)
राजा-(अनुवाचितलेखममात्यं विलोक्य।) वाह्तव, किं प्रतिप-
द्यते वैदर्भः।
अमात्यः-देव, आत्मविनाशम्।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभिजनेषु राज्ञा वृत्ति अतोऽत्र मध्यस्थ पूज्यो भवितुमर्हति सो-
दर्या पुनरस्य ग्रहणविप्लवे विनष्टा . तदन्वेषणाय प्रयतिष्ये . अ
थवा, अवश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम-
भिसंधिः ।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् ।
मोक्ता माधवसेनस्ततो मया बन्धनात्सद्यः ॥ ७ ॥
इति ।
राजा-(सरोषम् ।) कथं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२ मालविकाग्निमित्रे
अमात्यः—तथा (इति निष्क्रान्त )
(परिजनो यथाव्यापारं राजानमभितः स्थितः ।)
(प्रविश्य ।)
विदूषकः—आणत्तोम्हि तत्तभवदा रण्णा । गोदम, चिन्तेहि
दाव उवाअं । जहा मे जदिच्छादिट्ठपदिकिदी मालविआ पच्छक्ख-
दंसणा होदित्ति । मए अ तत्तहा किदं । दाव से णिवेदेमि । (इति
परिक्रामति ।)
राजा—(विदूषकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथम अङ्क: हरदत्त-गणदास नाट्य विवाद व मालविका दर्शन
प्रथमोऽङ्कः । ११
राजा—कथमिव
विदूषकः—(कर्णे ।) ऐवमिव ।
राजा—साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम-
सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः ।
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९ ॥
(नेपथ्ये ।)
अलं बहु विकत्थ्य । राज्ञः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४ मालविकाग्निमित्रे
राजा—प्रवेशय ।
कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह प्रविष्टः ।
इत इतो भवन्तौ ।
गणदासः—(राजानं विलोक्य ।) अहो दुरासदो राजमहिमा ।
न च न परिचितो न चाप्यरम्य-
श्चकितमुपैमि तथापि पार्श्वमस्य ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in**राजा—**बाढं जाने । ततः किम् ।
**गणदासः—**सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न
पादरजसापि तुल्य इत्यधिक्षिप्तः ।
**हरदत्तः—**देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल
मम च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे
प्रयोगे च विमृशतु । देव एव नौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६ मालविकाग्निमित्रे
धारिणी—जंइवि एवं राजपरिग्गहो से पहाणत्तणं उवहरइ ।
परिव्राजिका—अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु
भवती । पश्य ।
अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादर्कः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥
विदूषकः—अइ, उअट्ठिदा देवी पीठमद्दिं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः । १७
परिव्राजिका—
महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥
धारिणी—१जेदुं अज्जउत्तो ।
राजा—स्वागतं देव्यै । (परिव्राजिकां विलोक्य ।) भगवति, क्रि-
यतामासनपरिग्रहः ।
(सर्वे उपविशन्ति ।)
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८ मालविकाग्निमित्रे
देवी- १णं कलहप्पिओसि ।
विदूषकः- २मा एवं । अण्णोण्णकलहप्पिआणं मत्तहत्थीं
एक्कदरस्सि अणिज्जिदे कुदो उवसमो ।
राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती ।
परिव्राजिका-अथ किम् ।
राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः । १९
देवी—जँदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा
आअरिअस्स दोसो णु ।
राजा—देवि, एवमापठ्यते । विनेतुराद्रव्यपरिग्रहोऽपि बुद्धि-
लाघवं प्रकाशयतीति ।
देवी—(स्वगतम्) कँहं दाणिं (गणदासं विलोक्य प्रकाशम् ।)—
अलं अज्जउत्तस्स ऊसाहकारणं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२० मालविकाग्निमित्रे
देवी—अंइरोवणीदाए सिस्साए उण पडिट्ठिदस्स उवदेसस्स
अण्णाय्यं पआसणं ।
गणदासः—अत एव मे निर्बन्धः ।
देवीः—तेणं हि दुवेवि उवदेसं भववदीए दंसेध ।
परिव्राजिका—देवि, नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण-
याभ्युपगमो दोषाय ।
देवी—(जनान्तिकम् ।) मूढे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रथमोऽङ्कः । २१
विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः ।
यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥
(आसनादुत्थातुमिच्छति ।)
देवी—(स्वगतम् ।) का गई ! (प्रकाशम् ।) पहवदि आअरिओ
सिस्सजणस्स ।
गणदासः—चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ।) अनु-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२२ मालविकाग्निमित्रे
हरदत्तः—तथा। (इत्युत्तिष्ठति।)
(गणदासो धारिणीमवलोकयति।)
देवी—(गणदासं विलोक्य।) विअंई होहि।
(आचार्यौ प्रस्थितौ)
परिव्राजिका—इतस्तावत्।
आचार्यौ—(परिवृत्य।) इमौ स्वः।
परिव्राजिका—निर्णयाधिकारे ब्रवीमि। सर्वाङ्गसौष्ठवाभिव्य-
क्तये विगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inAn exact line-by-line transcription of the Sanskrit text in Devanagari script:
प्रथमोऽङ्कः . २३
राजा—देवि, तस्याः सामाजिका भवामः ।
देवी—(स्वगतम् ।) अहो अविणओ अज्जउत्तस्स ।
(सर्वे उत्तिष्ठन्ति ।)
विदूषकः—(अपवार्य ।) भो, धीरं गच्छह्म । तत्तभोदी धा-
रिणी विसंवादइस्सिदि ।
राजा—
धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् ।
अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव ॥ २२ ॥
(इति निष्क्रान्ताः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४ मालविकाग्निमित्रे
द्वितीयोऽङ्कः।
(ततः प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका
विभवतश्च परिवारः।)
राजा—भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं
द्रक्ष्यामः।
परिव्राजिका—ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गण-
दासः पुरस्कारमर्हति।
राजा—मौद्गल्य,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयोऽङ्कः । २७
विदूषकः—(अपवार्य ।) उवद्विदं णअणमहु संणिहिदमक्खिअं
च । ता अप्पमत्तो दाणिं पेक्ख ।
(ततः प्रविशत्याचार्यावेक्ष्यमाणाङ्गसौष्ठवा मालविका ।)
विदूषकः—(जनान्तिकम् ।) पेक्खदु भवं । ण खु से पडिच्छ-
न्दादो परिहीअदि महुरदा ।
राजा—(अपवार्य ।) वयस्य,
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
संप्रति शिथिलसमाधिं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२६ मालविकाग्निमित्रे
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली
छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ ३ ॥
मालविका—(उपगानं कृत्वा चतुष्पदवस्तु गायति ।)
दुल्लहो पिओ मे तस्सि भव हिअअ णिरासं
अह्मो अपङ्कवो मे परिप्फुरइ किं पि वामो ।
एसो सो चिरदिट्ठो कहँ उण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inद्वितीयोऽङ्कः । २७
विदूषकः-(जनान्तिकम्।) भो, चउप्पदवत्थुअं दुवारीकरिअ
तुइ उवठ्ठाविदो अप्पा तत्तहोदीए ।
राजा-सखे, एवमेव ममापि हृदयम् । अनया खलु
जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् ।
प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा-
दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥
(मालविका गीतान्ते निष्क्रमितुमारब्धा ।)
१. भोः, चतुष्पदवस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८ मालविकाग्निमित्रे
विदूषकः—भोदि१, चिट्ठ किंचि । वो विसुमरिदो कम्म-
भेदो । तं दाव पुच्छिस्सम् ।
गणदासः—भद्रे, उपदेशविशुद्धा यातुमर्हसि ।
(मालविका निवृत्य स्थिता ।)
राजा—(आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं
पुष्यति । तथा हि ।
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in