Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 671 of 707

Read in context
Page 671

अष्टादशः सर्गः ४१९

न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ ३१ ॥

मल्लि०—न रागीति । देव ! यतस्तव चित्तं रागि रागयुक्तं न । परमयोगित्वादिति भावः । तथापि परमा निरतिशया विलासिता शृङ्गारादिचेष्टाशीलता । भिक्षाटनादिषु विहरणेन तौर्यत्रिकव्यसनितया चेति भावः । किंच, शरीरेऽर्धाङ्गे वधूरस्ति । प्रसिद्धं चैतदिति भावः तथापि मन्मथः कामश्च नास्ति । तस्य भस्मीकरणादिति भावः । किंच, उषसि प्रातःसंध्यायां धातुर्ब्रह्मणो नमस्क्रिया वन्दनम् । स्वयं जगद्वन्द्यस्यापीत्यर्थः । इतोत्थं विरुद्धमिदमुक्तं तवेहितं चेष्टितं निसर्गतो दुर्बोध दुराकलनीयम् । दुर्ग्रहमित्यर्थः । अदृष्टपूर्वत्वादिति भावः । वंशस्थं वृत्तम् ॥ ३१ ॥

**हिन्दी—**हे भगवन् ! आपका चित्त रागद्वेषवाला नहीं है । तो भी आपको अनुपम शृङ्गार आदि चेष्टाशीलता है तथा आपके अर्धाङ्गमें पत्नी (पार्वती) है, तथापि आपमें कामविकार नहीं है; परन्तु प्रातःकालकी सन्ध्यामें आप ब्रह्माजीको नमस्कार करते हैं, आश्चर्य है कि आपकी यह चेष्टा स्वभावतः दुर्बोध है ॥ ३१ ॥

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारसनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥

मल्लि०—तवेति । हे देव ! तव साङ्गजं सलोमकं करिचर्मोत्तरीयं संव्यानम् । दुःस्पर्शमिति भावः । 'संव्यानमुत्तरीयं च' इत्यमरः । ज्वलन्मणिर्ज्वलद्रत्नो महानहिः सारसनं कटिभूषाविशेषः । योऽन्येषां प्राणहर इत्यर्थः । 'क्लीवे सारसनं चाथ पुंसकव्यां शृङ्खलं त्रिषु' इत्यमरः । आस्यपंक्तिः कपालमाला स्रक् माल्यम् । शवभस्म चन्दनम् । उभयत्राप्यस्पृश्यममङ्गलं चेति भावः । किंच, एतानि वस्तूनि हिमांशोः कला च समं तुल्यतया चकासति दीप्यन्ते । स्वदाश्रयवशादरम्यस्यापि रम्यतेति किमाश्चर्यं तवेति भावः ॥ ३२ ॥

**हिन्दी—**हे भगवन् ! रोमसे युक्त गजचर्म आपका उत्तरीय है, चमकती मणिवाला विशाल सर्प आपका कटिभूषण है, नरकपालोंकी पङ्क्ति आपकी माला है, शवभस्म आपका चन्दन है और (आपके शिरमें स्थित) चन्द्रकला भी ये सब पदार्थ आपमें तुल्यरूपसे प्रकाशित हो रहे हैं ॥ ३२ ॥