Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 66 of 707

Read in context
Page 66
३६किरातार्जुननीयम्[प्रथमः

क्रियाः ज्ञायन्ते (विघ्नन्ते), हितानुबन्धिना महोदयाः धातुरिहितमिव तस्य चेष्टितम्, फलैः प्रतीयन्ति ॥२०॥

कोषः- 'यथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पर्शः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ' इत्यमरः। 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः' इत्यमरः॥२०॥

**सारार्थः-**सर्वाङ्गसिद्धिशाली दुर्योधनोऽन्येषां कर्त्तव्यं गूढचरैः सर्वं जानाति, दुर्योधनस्य चिकिर्षितं प्राक्कोऽपि न वेत्ति। यदा तत्कृत्यपरिणामः प्रकटीभवति तदैव फलं दृष्ट्वा वृक्षपरिचयवत्तत्कृतं पश्चाज्जानातीति ॥२०॥

**भाषार्थः-**जिस काम को आरम्भ करता है, उसको पूरा करने वाला वह दुर्योधन गूढचरों के द्वारा अन्य राजाओं की कारामात समझता है। लेकिन उसके प्रेमी महानुभाव जन भी, ईश्वर की इच्छा के समान उसकी इच्छा को सिर्फ आखिरी नतीजे से ही समझ पाते हैं।

मित्रबलमाह-
न तेन सज्यं क्वचिदुद्यतं धनु कृतं न वा कोपविजिह्ममाननम्।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥

नेति। तेन राज्ञा क्वचित्कुत्रापि। सह ज्यया मौर्व्या सज्यम्। 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। 'तेन सहेति तुल्ययोग' इति बहुव्रीहिः। धनुर्नोद्यतं नोर्ध्वाकृतम्। आननं च कोपविजिह्मं कोपकुटिलं न कृतम्। यस्य कोप एव नोदेति कुतस्तस्य युद्धप्रसक्तिरिति भावः। कथं तर्ह्याज्ञां कारयति राज्ञं इत्यत्राह— गुणेति गुणेषु दयादाक्षिण्यादिष्वनुरागेण प्रेम्णा। माल्यपक्षे सूत्रानुशङ्गेण। यद्वा, सौरभ्य-गुणलोभेन। नराधिपैरस्य शासनमाज्ञा। मालैव माल्यं तदिव। 'चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् इति क्षीरस्वामी। शिरोभिरुह्यते धार्यते। 'वचिस्वपियजादीनां किति इति यकि सम्प्रसारणम्। अत्रोपमा स्फुटैव ॥२१॥

**अन्वयः-**तेन, क्वचित् सज्यं, धनुः, न, उद्यतम्, वाकोपविनिजिह्यम्, आननम्, न कृतम्, गुणानुरागेण, नराधिपैः, अस्य, शासनम्, माल्यमिव, शिरोभिः, उह्यते।

**सुधा-**तेन = राज्ञां दुर्योधनेन क्वचित् = कुत्रापि सज्यम् = सशिक्षिनीकम् आरोपितमौर्वीकमित्यर्थः। धनुः कोदण्डम्, न, उद्यतम् = नोत्तानितम्, वा = तथा च, कोपविजिह्यम् = क्रोधकुटिलम्, अमर्षवैकृत्यम्, आननम् = मुखम्, न कृतम् = न विहितम्। अर्थात्सर्वे भूपतयोऽस्य शासनानुसारेणैव चलन्ति, न हि