Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 566 of 707

Read in context
Page 566

३१०
किरातार्जुनीयम्

विरुद्धा विमुखा बुद्धिर्येषां ते तथा, असाधवो दुष्टाः सतां सज्जनानां प्रकृत्या स्वभावतः 'द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः' । इत्यमरः ॥ २१ ॥

**हिन्दी—**उन किरातराजको तुमने कैसे मेरे योग्य मित्र कहा ? जो कि तपस्या करनेवाले निरपराध पुरुषसे अपनी ही इच्छासे ईर्ष्या करते हैं। गुणोंके उपार्जनमें उत्कर्षकी विरुद्ध बुद्धिवाले दुर्जन व्यक्ति सज्जनोंके स्वभावसे ही शत्रु होते हैं ॥२१॥

हीनजातिवृत्तित्वात् सख्यानर्हः स इत्याह—

वयं क्व वर्णाश्रमरक्षणोचिताः ? क्व जातिहीना मृगजीवितच्छिदः ? ।
सहापकृष्टैर्महतां न संगतं ? भवन्ति गोमायुसखा न दन्तिनः ॥ २२ ॥

**मल्लि०--**वयमिति । वर्णाश्रमरक्षणोचिता विशुद्धवृत्तयो वयं राजानः क्व ? जातिहीना मृगजीवितच्छिदो हिंसाजीविनो व्याधाः क्व ? फलितमाह—अपकृष्टैस्तै-रीत्या जात्या वृत्त्या चोत्कृष्टानां संगतं सख्यं न । घटत इति शेषः । तथा हि—दन्तिनो गजा गोमायूनां शृगालानां सखायो गोमायुसखा न भवन्ति । स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ।' इत्यमरः । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ २२ ॥

**हिन्दी--**वर्णाश्रमधर्मके रक्षणमें अभ्यस्त हमलोग कहाँ? और जातिहीन तथा पशुओंकी हिंसा करनेवाले व्याध कहाँ ? नीचोंके साथ बड़ोंकी दोस्ती नहीं होती है, क्योंकि हाथी स्यारोंके मित्र नहीं होते हैं ॥ २२ ॥

नीचसख्यं कथमधिक्षिप्यत इति चेत्तत्राह—

परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ २३ ॥

**मल्लि०—**पर इति । अज्ञताजडो मोहान्धः परोऽवजानाति यत्तद् अवज्ञानम्, उन्नतानां महतां धीरतां निर्विकारचित्तत्वं न विहन्ति । न विकारं जनयतीत्यर्थः । क्रोष्ट्रेव सिंहस्येति भावः । किन्तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमा येषां तेषु मध्ये । निर्धारणे सप्तमी । यः कश्चिदित्यर्थः । अतिक्रान्तिमतिक्रमं करोति चेत्, असौ सदृशजनातिक्रमस्तिरस्क्रिया तिरस्कारः । यथा सिंहे सिंहस्येति भावः ॥ २३ ॥

**हिन्दी--**मोहसे जड़ शत्रु जो अवज्ञा करता है वह बड़े लोगोंके धैर्यका नाश नहीं करता है, क्योंकि समान पराक्रम, वंश और पुरुषार्थसे युक्त जनोंमें जो तिरस्कार करता है वही तिरस्कार है ॥ २३ ॥