किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
by महाकवि भारवि
Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)
Page 528 of 707
Read in context२७२ किरातार्जुनीयम्
कल्याणकारक नहीं हैं, क्योंकि दूसरेकी उन्नतिमें द्वेष करनेवाले दुरात्माओंको कुछ भी अकार्य नहीं हैं ॥ ७ ॥
अस्तु जिघांसुरपि क्षुद्रः किं करिष्यतीत्यत्राह —
दनुजः स्विदय क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ ८ ॥
**मल्लि०—**दनुज इति । अयं दनुजः स्वित् दानवो वा क्षपाचरो राक्षसो वा । न तु मृग एवेत्यर्थः । कुतः । वनजे सत्त्वे वन्यप्राणिनि । इति ईदृशं बलं नास्ति । बतेत्याश्चर्ये । बलमेव समर्थयते । तथा हि—मेघनीलोऽयं वराहः सकलं शैलराजमभिभूय आक्रम्य कम्पयतीव । पदविष्टम्भात्तथा प्रतीयत इत्यर्थः । अत्र कम्पयतीवेत्युत्प्रेक्षागर्भोऽयं शैलकम्पनरूपकार्येण तत्कारणबलातिरेकसमर्थनात्मककार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८ ॥
**हिन्दी—**यह दानव वा राक्षस है, क्योंकि वनमें उत्पन्न जानवरमें ऐसा बल नहीं होता है। मेघके समान कृष्ण-वर्ण यह वराह समूचे पर्वतराजको आक्रमण कर कम्पित कर रहा है ॥ ८ ॥
किंच, योऽयं शैले मृगयाकलकल इव श्रूयते सोऽप्येतन्मायापरिकल्पित एवेत्याह—
अयमेव मृगव्यसत्रकामः प्रहरिष्यन्मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भ्रान्तमृगानि काननानि ॥ ९ ॥
मल्लि० -- अयमिति । अयमेव शमस्थे शान्तिनिविष्टे इति रन्ध्रोक्तिः । मयि । अधिकरणविवक्षाया सप्तमी । मायया प्रहरिष्यन् । प्रहर्तुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति चकारात्क्रियार्थायां क्रियायाम् लृट् । 'लृटः सद्वा' इति शत्रादेशः । मृगव्यं, मृगया तस्य सत्रं वनं, तदर्थ वनमित्यर्थः । तत्कामयत इति मृगव्यसत्रकामः मृगयाभूमिपरिग्रहार्थी सन्नित्यर्थः । 'कर्मण्यण्' 'आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' । इति, 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इति चामरः । पृथुभिर्बृहद्भिर्ध्वजिनीरवैः सेनाकलकलैः । स्वमायया कल्पितैरेवेत्यर्थः । काननानि चकितोद्भ्रान्तास्त्रस्तपलायिता मृगा येषु तानि । अकार्षीच्चकार । अयमेव रन्ध्रान्वेषी मत्प्रहारार्थं स्वयमेव मृगयुर्भूत्वा वनावरोधाय सेनाघोषं कल्पयामास । स मृगरूपेणागच्छतीत्यर्थः ॥ ९ ॥
**हिन्दी—**यह ( वराह ) ही शान्तिमें स्थित मुझपर मायासे प्रहार करनेकी