Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 470 of 707

Read in context
Page 470
२१२किरातार्जुनीयम्

दी, कि बहुना आंसू भी छोड़ दिया, क्योंकि स्त्रीके अभिसारके विषयमें कुपित प्रियको अनुनय करनेके लिए इतनी ही सीमा (हद) है ॥ ५८ ॥

अथासामनुरागदाढर्थं निगमयति—

असकलनेत्रेक्षितानि, लज्जा, गतमलसं, परिपाण्डुता, विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ५९ ॥

मल्लि०— असकलेति। असकलनेत्रेक्षितानि नयनार्धविलोकित्तानि लज्जालसं गतं मन्दगमनं परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्गः। इति एवं प्रकारं विविधं नानाविधेष्टितम् । 'नपुंसकमनपुंसकेने'त्यादिना नपुंसकैकशेषत्वम् । तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि—अनङ्गो मदनो वधूर्म्मण्डयितुं प्रभवति । सर्वास्ववस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥ ५९ ॥

हिन्दी— नेत्रके आधे भागसे देखना, लज्जासे मन्द गति, पीला वर्ण, विषाद (खिन्नता) इस प्रकारसे अनेक प्रकारकी चेष्टाने अप्सराओमें आभूषणके भावको प्राप्त किया ॥ ५९ ॥

इदानीं तासां त्रिभिर्मुर्निविलोभने प्रयासवैकल्यमाह—

अलसपदमनोरमं प्रवृत्त्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्वितेक्षणं वा ॥ ६० ॥
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां युगपदुन्नमितभ्रु वीक्षितं च ॥ ६१ ॥

मल्लि०— अलसेति। वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसवधूनां गतिर्येन तत् । प्रयातं गमनम् । भावे क्तः । तथा उरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादतिगौरवात् । उदितपरिश्रमेणोद्गतश्रमेण जिह्विते घूर्णिते ईक्षणे यस्मिन्, स्थितं वा स्थितिश्च । सर्वत्र 'वा' शब्द समुच्चये ॥ ६० ॥

मल्लि०— भृशेति। तथा भृशेन गाढेन कुसुमशरस्य कामस्य इषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोः, अनवसितार्थैरस्फुतोच्चारणानवधारिताभिधेयैः पदैः सुप्तिङन्तादिभिः क्षुभितशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्च । अधिकं वितते विस्तृते लोचने यस्मिंस्तद्युगपत् । पर्ययेण । उन्नमिते भ्रुवौ । यस्मिंस्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वः । वीक्षितं वीक्षणं च ॥ ६१ ॥