Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 101 of 707

Read in context
Page 101

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७१

पयोधिरिवेत्यापत्पयोधिः तस्मिन् आपत्पयोधौ। रिपुस्तिमिरमिव इति रिपुतिमिरम्।
दिनस्यादिर्दिनादिस्तस्मिन् दिनादौ ॥४६॥

व्याकरणम्—मग्नम् = मसज् + क्तः। उदस्य = उत् + असु + क्त्वा + ल्यप् ।
उदीयमानम् = उदीयतेः शानच् । समभ्येतु = सम् + अभि + इण् + लोट् ॥४६॥

वाच्यान्तरम्—लक्ष्म्या विधिसमयनियोगात् दीप्तिसंहारजिह्मः शिथिलवसुः,
अगाधे आपत्पयोधौ मग्नः, रिपुतिमिरमुदस्य दिनादावुदीयमानस्त्वं दिनकृत् इव,
समभीयस्व ॥४६॥

कोषः—‘विधिर्दैवे विधाने च’ इत्यमरः। ‘वगुर्देवेऽग्नौ रश्मौ च वसु तोये घने
मणौ’ इति वैजयन्ती। ‘अगाधमतलस्पर्शं’ इत्यमरः। स्युः प्रभा रुग्रुचिस्त्विड्भाभा-
श्छविद्युतिदीप्तयः’ इत्यमरः। ‘अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरः तमः’
इत्यमरः ॥४६॥

सारार्थः—यथा सन्ध्यासमये समागते सूर्यो दैवसमयप्रभावेण किरणसंहरणकारणेन
खिन्नः समुद्रे निमग्नः, तेजोविहीनो भवति, यथा च प्रभाते उपस्थितेऽन्धकारं
संहृत्योदयं प्राप्नोति तथैव द्यूतक्रीडावसाने दुर्देवकालानुसारेण संहृतसर्वस्वः, कान्तिहीनः
अपारविपत्समुद्रेऽधुनावधि निमग्नोऽसि। अतः परं सुदिने प्राप्ते झटिति दुर्योधन-
प्रभृतिवैरिगणान् संहृत्य स्वकीयपूर्वजाश्रितां राजलक्ष्मीं लभस्व ॥

भाषार्थः—जैसे विधि और समय के प्रभाव से कान्ति को नाश होने के
कारण खिन्न और किरणहीन, शाम को विपत्तिरूप महासागर में डूबकर, सुबह फिर
अन्धकाररूपी दुश्मन को चौपट कर उदय होते हुए सूर्य को शोभा अपनाती है,
वैसे ही पहले जुआ में दैव और काल की प्रेरणा में अपने विचार और तेज के
अभाव से दुर्दशा को प्राप्त आपदरूप महार्णव में डूबे हुये फिर भी अपने दुश्मनों
को मारकर अभ्युदय की इच्छा रखने वाले आपको राजलक्ष्मी अपनावे ॥४६॥

सुधा—इतिशब्दः सर्गपरिसमाप्तिसूचकः भारविकृतावनेन ग्रन्थकारेण स्वना-
मोल्लेखनं कृतं महाकाव्यमितिशब्देन इदं प्रारभ्यमानं महद्भविष्यति। किरातार्जुनीयः
इति-काव्यवर्णनीययोः पात्रयोः प्रधानतया नामपरिचयः। शेषं सुगमम्। किरातार्जुनावधि-


( १ ) संद्वंश क्षत्रियो वापि धीरोदात्तगुणान्वितः।
शृङ्गारवीरशान्तानामेकोऽङ्गीरस इष्यते क्वचिन्निन्दा खलादीनां सतां च गुणकीर्त्तनम् ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥