Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 996 of 1079

Read in context
Page 996

१४२ कथासरित्सागर
स वज्रवेगोऽहङ्कारी विरोधं येन केनचित्।
साकं शौर्यमदान्चक्रे लोके विद्याधरे वसन् ॥५९॥
निषेधतः पितुस्तस्य यदा नागणयद्वचः।
तदा पिता तमशपन्मर्त्यलोके पतति सः॥६०॥
ततो नष्टमदो भ्रष्टविद्यः शापहतो रुदन्।
वज्रवेगः स पितरं शापान्तं तमयाचत ॥६१॥
तत स तत्पिता पद्मवेगो ध्यात्वाऽब्रवीत् क्षमात्।
भुवि विप्रसुतो भूत्वा कृत्वाप्यत्र भव पुनः॥६२॥
पितुः शापात् ततः सिंहो भूत्वा कूपे पतिष्यसि।
महासत्त्वश्च कृपया कश्चित् त्वामुद्धरिष्यति ॥६३॥
तस्य प्रत्युपकारं च विधायापदि मोक्ष्यसे।
शापादस्मादिति पिता शापान्तं तस्य स व्यधात् ॥६४॥
अथेह वज्रवेगोऽसौ विप्रस्याजनि माठरे।
हरधोपाभिधानस्य देवधोपाभिधः सुतः॥६५॥
स तत्राप्यकरोद्वैरं बहुभिः शौर्यगर्वितः।
बहुभिर्मा कृथा वैरमिति तं चावदत् पिता ॥६६॥
अकुर्वाणं वचस्तस्य शप्तवान् स पिता क्रुधा।
शौर्याभिमानी दुर्बुद्धे सिंहस्त्वं भव साम्प्रतम् ॥६७॥
एवं तस्य पितुः शापाद्देवधोपः पुनश्च सः।
विद्याधरावतारः सन् सिंहो जातोऽत्र कानने ॥६८॥
तमिमं विद्धि मां सिंहं सोऽहं दैवाद् भ्रमन्क्षितौ।
कूपेऽद्य पतितोऽमुष्मिन् महासत्त्वोद्धृतस्त्वया ॥६९॥
तद्यामि तावदापन्नं यदा स्यात् क्वापि ते सखा।
मां स्मरेरुपकारं ते कृत्वा मोक्ष्ये स्वशापतः ॥७०॥
इत्युदीर्य गते सिंहे बोधिसत्त्वेन तेन सः।
पृष्टः सुवर्णचूलोऽथ पक्षी स्वोदन्तमभ्यधात् ॥७१॥
स्वर्णचूडपक्षिण आत्म कथा
अस्ति विद्याधराधीशो वज्रदंष्ट्रो हिमाचले।
तस्य दम्भाभजायन्त पञ्च कन्या निरन्तराः ॥७२॥