Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 992 of 1079

Read in context
Page 992

परिकृत्ताङ्घ्रिहस्तोऽयं भर्त्ता मेऽहं पतिव्रता।
भिक्षित्वा जीवयाम्येतं तद्भिक्षां मे प्रयच्छत॥२९॥
इति सा भिक्षमाणा च ग्रामं ग्रामं पुरे पुरे।
राज्यस्थस्यात्मनो भर्तुर्नगरं प्राप तस्य तत्॥३०॥
तथैव भिक्षमाणात्र राज्ञस्तस्य क्रमेण सा।
पतिव्रतेत्यर्च्यमाना पौरैः श्रुतिपथं ययौ॥३१॥
आनाययत्तस राजा च तां पृष्ठारूढरुण्डिकाम्।
का सा पतिव्रतेत्यारात् परिव्राजं च पृष्टवान्॥३२॥
साहं पतिव्रता देवेत्यप्रतिज्ञाय सापि तम्।
भर्तारमब्रवीत् पापा राजधीतेजसा वृतम्॥३३॥
ततः स बोधिसत्त्वांशो हसन् राजा जगाद ताम्।
दृष्टं पतिव्रतात्वं ते फलेनैव मयात्र च॥३४॥
स्वरक्तमांसं दत्त्वापि स्वीकृतुं शकिता न या।
स्वेनाबिलुप्तहस्तेन भर्त्रा मानुषराक्षसी॥३५॥
सा सदा रक्तमांसानि हरन्ती बत मे कषम्।
रुण्डेन विकलेनापि स्वीकृत्य वहनीकृता॥३६॥
किंस्विद्रूढः स भर्त्ता यो नद्यां क्षिप्तस्त्वयानघः।
कर्मणा तेन बहसे रुण्डमेतं बिभर्षि च॥३७॥
इत्युद्घाटितवृत्तं तं प्रतिज्ञाय पतिं ततः।
भयात् सा मूर्च्छितेवाभूल्लिखितेव मृतेव च॥३८॥
किमेतद्ब्रूहि देवेति सोऽथ राजा सकौतुकैः।
पृष्टोऽमात्यैर्यथावृत्तं तेभ्यः सर्वमवर्णयत्॥३९॥
ततो मत्तद्रुहं बुद्ध्वा छित्त्वा तां कर्णनासिकम्।
कृत्वाङ्क मन्त्रिणो देशात् सरुण्डां निरवासयन्॥४०॥
छिन्ननासिकया रुण्डं बोधिसत्त्व नृपधिया।
युक्तं सवृक्षत्तयोगं तथा बिभिरवर्णयत्॥४१॥
एवं दुरवधार्यैव गतिश्चित्तस्य योषिताम्।
देवस्येवाविचारस्य नीचैकाभिमुखस्य च॥४२॥
एवं चात्यन्तधीराणां सत्त्वानां जिततृष्णाम्।
तुष्ट्वेवाचिन्तिता एव स्वयमायान्ति सम्पदः॥४३॥