Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 926 of 1079

Read in context
Page 926

८७८ कथासरित्सागर
घर्मस्वाद्रेषु नश्यन्ति वस्त्राणीति मयोदितम्।
वस्त्राणामेव रक्षार्थमुक्तं वो न तु चर्मणाम्॥२०१॥
इत्युक्त्वा पान्यकरन्यस्तभारा वणिग्ततः।
स गत्वा स्वगृहं भृत्यान् सर्वस्वं तानदण्डयत्॥२०२॥
एवमज्ञातहृदया मूर्खा कृत्वा विपर्ययम्।
घ्नन्ति स्वार्थं परार्थं च तावुभावपि चोत्तरम्॥२०३॥
अपूपमुग्धकथा
अथ चापूपिकामुग्धः सङ्क्षेपेण निशम्यताम्।
क्रीणाति स्माप्यगः कश्चित्पणनाष्टावपूपकान्॥२०४॥
तेषां च यावत् षड्भुक्तं तावत्तेन न तृप्तवान्।
सप्तमेनाथ भुक्तेन तृप्तिस्तस्योदपद्यत॥२०५॥
ततश्चक्रन्द स जडो मुषितोऽस्मि न किं मया।
एष एवादितो भुक्तोऽपूपो येनास्मि तर्पितः॥२०६॥
नाशिताः किं वृथैवान्ये मया हस्तेन किं कृताः।
इति शोचन् क्रमात्तृप्तिमजानञ्जहसे जनैः॥२०७॥
।
॥२०८॥
कस्यापि मूर्खसेवकस्य कथा
कश्चिद्दासो हि वणिजा मूर्खः केनाप्यभाष्यत।
रक्षेस्त्वं विपणीद्वारं क्षणं गेहं विशाम्यहम्॥२०९॥
इत्युक्तवति यातेऽस्मिन्वणिजि द्वारपट्टकम्।
विपणीतो गृहीत्वांसे नाटो द्रष्टमगात्नटम्॥२१०॥
आगच्छंश्च ततो दृष्ट्वा वणिजा तेन भर्त्सितः।
त्वदुक्तं रक्षितं द्वारं मयेदमिति सोऽब्रवीत्॥२११॥
अत्यनर्थाय सम्भवत्यरोक्तात्पर्यविजृम्भणम्।
एष च महिषीमुग्धमपूर्वं शृणुताधुना ॥२१२॥
१ मूलपुस्तके श्लोकोऽयं लुप्तः।