कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 915 of 1079
Read in context८९४ कथासरित्सागर
एतत्तस्या वचः श्रुत्वा तुष्टात्मा स कृत्रिमम्।
तुष्टः शय्यातलात्सद्यो निर्गतः शिष्यमभ्यधात् ॥११३॥
दृष्टं त्वयाद्य साक्षी त्वं मम भक्तेरमीष्विति।
अमुमवाध्रिता कान्तं सदेतां मूर्ध्न्यहं वहे ॥११४॥
इत्युक्त्वा सहसोत्क्षिप्य खट्वास्थावेव तावुभौ।
सशिष्यं स जडो जायात्तज्जारौ शिरसावहत् ॥११५॥
इत्थं प्रत्यक्षदृष्टेऽपि दोषे कपटसान्त्वतः।
मूर्खस्तुष्यति हास्यत्वं निर्विवेकश्च गच्छति ॥११६॥
तदयं चिरजीवी ते रक्ष्यॊ नारिपरिग्रहः।
उपेक्षितो ह्ययं ह्येव हन्याद्रोग इव द्रुतम् ॥११७॥
इति रक्ताक्षरा श्रुत्वा कौशिकन्द्रोऽब्रवीत्स तम्।
कुर्वन्नस्मद्धितं साधु प्राप्तोऽवस्थामिमामयम् ॥११८॥
तत्कथं स्मादृशः संरक्ष्यं किं कुर्यादेककश्च न।
इति तस्य निराचक्र मन्त्रिवाक्यमुलूकराट् ॥११९॥
आश्वासयामास च सं वायसं चिरजीविनम्।
ततः स चिरजीवी तमुलूकेशं व्यजिज्ञपत् ॥१२०॥
किं ममैतदवस्थस्य जीवनेन प्रयोजनम्।
तन्मे दापय काष्ठानि यावदग्निं विशाम्यहम् ॥१२१॥
उलूकयोनिं च वरं प्रार्थयेऽहं हुताशनम्।
कर्तुं वायसराजस्य तस्य वैरप्रतिक्रियाम् ॥१२२॥
इत्युक्तवन्तं विहसन् रक्ताक्षो निजगाद तम्।
अस्मत्प्रभोः प्रसादात्त्वं स्वस्थ एव किमग्निना ॥१२३॥
न च त्वं कौशिको भावी यावत्काकत्वमस्ति ते।
यादृशो यः कृतो धात्रा भवेत्तादृश एव सः ॥१२४॥
तथा च प्राङ्मुनिः कश्चिच्छ्येनहस्तच्युतं शिशुम्।
मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् ॥१२५॥
वर्धितामाश्रमे तां च स दृष्ट्वा प्राप्तयौवनाम्।
मुनिर्बलवते दातुमिच्छन्नादित्यमाह्वयत् ॥१२६॥
वह्निमे दिक्षितामेतां कन्यां परिणयस्व मे।
इत्युवाच स वधिस्तं ततस्तं सोऽब्रवीद्रविः ॥१२७॥