Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 913 of 1079

Read in context
Page 913

८६४ कथासरित्सागर
चिरजीव्यनुकम्प्योऽयमापन्नः शरणागतः।
शरणागतहन्तो प्राक्स्वमामिषमदाच्छिखि ॥१००॥
प्राकारकर्णञ्चैवन्तत्सजिवं क्रूरलोचनम्।
उलूकराजः पप्रच्छ सोऽपि शुद्धदमापत ॥१०१॥
ततो रक्ताक्षनामानं सचिवं कौशिकेश्वरः।
तमेव परिपप्रच्छ सोऽपि प्राज्ञोऽब्रवीदिदम् ॥१०२॥
राजन्नपनयेनैतैर्मन्त्रिभिर्नाधितो भवान्।
प्रतीयन्त न नीतिज्ञाः कृतावज्ञस्य वैरिणः ॥१०३॥
मूर्खो दृष्टव्यलीकोऽपि व्याजसान्त्वेन तुष्यति।
रथकारस्य तद्भार्यायाश्च कथा¹
तथा हि तक्षा कोऽप्यासीद् भार्याभूतस्य तु प्रिया ॥१०४॥
तां चान्यपुरुषासक्तां तक्षा बुद्धवायसोक्तः।
तत्त्वं जिज्ञासमानस्तां भार्यामबददेकदा ॥१०५॥
प्रिये राजाज्ञया दूरं स्वव्यापाराय याम्यहम्।
तत्त्वया मम सक्तवादि पाथेयं दीयतामिति ॥१०६॥
तथेति दत्तपाथेयस्तया निर्गत्य गेहतः।
सशिष्यो गुप्तमागत्य तत्रैव प्रविवेश स ॥१०७॥
तद्दृष्टस्तु भद्वायास्तस्मौ शिष्ययुतस्तले।
माप्यथानाययत स्वं तद्भार्या परपूरुषम् ॥१०८॥
तेन साकं च खट्वायां रममाणा पतिं पदा।
स्पृष्ट्वा बध्यञ्चित पापा मेने तत्रस्थमेव तम् ॥१०९॥
क्षणाम्भोपपतिस्तत्र व्याकुलः पृच्छति स्म ताम्।
ब्रूहि प्रिये किमधिकं प्रियोऽहं तव किं पतिः ॥११०॥
तच्छ्रुत्वा कूटकुशला तं जारं निजगाद सा।
प्रिया मम पतिस्तस्य कृते प्राणांस्त्यजाम्यहम् ॥१११॥
इदं तु चापलं स्त्रीणां महजं क्रियतेऽत्र किम्।
अभक्ष्यमपि भक्ष्यं स्यान्नासां स्युर्यन्ति नासिका ॥११२॥
१ पञ्चतन्त्रे इयमेव कथा—प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वा प्रसाद्यते। रथकारः
स्वहां भार्यां सजार्रा शिरसा वहन्। —इत्यनेन श्लोकेन समुल्लिखिता।