Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 911 of 1079

Read in context
Page 911

४६२ कथासरित्सागर
सममभ्युदयमाश्चर्यं मत्वा यावन्निरीक्षते ।
विवस्तत्र वणिक्तावत्कोणे चौरं ददर्श तम् ॥८६॥
उपकार्यसि मे तत्त्वां न मृत्यवेऽतिसृजाम्यहम् ।
इत्युक्त्वा सोऽथ चौरं तं रक्षित्वा प्राहिणोद् वणिक् ॥८७॥
एवं रक्ष्योज्प्यमस्माकं चिरजीव्युपकारकः ।
इत्युक्त्वा दीप्तनयनो मन्त्री तूष्णीं बभूव सः ॥८८॥
ततोऽन्यं वक्रनासाख्यं मन्त्रिणं कौशिकेश्वरः ।
स पृच्छति स्म किं कार्यं सम्यग्वक्तुं भवानिति ॥८९॥
वक्रनासस्ततोऽवादीद्वध्योऽप्य परमम्बित् ।
अस्माकमेतयोर्वैरं श्रेयसे स्वामिमन्त्रिणोः ॥९०॥
राक्षसचौर्योः कथा
निदर्शनायैषा दैव श्रूयतामत्र वच्मि ते ।
कश्चित्प्रतिग्रहेण द्वे गावो प्राप द्विजोत्तमः ॥९१॥
तस्य दृष्ट्वाथ चौरस्ते गावो नेतुमचिन्तयत् ।
तत्कालं राक्षसः कोऽपि समैच्छत् खादितुं द्विजम् ॥९२॥
तदद्य निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ ।
मिलित्वाऽन्योन्यमुक्तार्थौ यत्र प्रययतुः समम् ॥९३॥
अहं धेनू हराम्यादौ त्वद्गृहीतो ह्ययं द्विजः ।
सुप्तो यदि प्रबुध्येतद्वेरयं गोयुगं कथम् ॥९४॥
मव हराम्ह पूर्वं विप्रं मोचेद्वृथा मम ।
भवद्गोपुरशब्देन प्रबुद्धेऽस्मिन् परिश्रमः ॥९५॥
इति प्रविश्य तद्विप्रसदनं चौरराक्षसौ ।
यावतौ कलहायेतं तावत्प्राबोधि स द्विजः ॥९६॥
उत्थायात्तकृपाणं च तस्मिन् रक्षोघ्नजापिनि ।
त्रासाणे जग्मतुश्चौरराक्षसौ द्वौ पलाय्य तौ ॥९७॥
एवं तयोर्मिथो भङ्गो हितायाभूद्द्विजन्मनः ।
तथा भेदो हितोऽस्माकं शत्रोश्चिरजीविनोः ॥९८॥
इत्युक्तो वक्रनासेन कौशिकेन्द्रः स्वमन्त्रिणम् ।
तं च प्राकारकर्णाख्यमपृच्छत्सोऽप्यवाच तम् ॥९९॥