कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 909 of 1079
Read in context८६ कथासरित्सागर
ततस्तत्राययौ रात्रौ सानुगः स उलूकराट्।
अवमर्दो न चापश्यत्तत्रैकमपि वायसम्॥७३॥
तावत् स चिरजीव्यत्र मन्द मन्दं विरौत्यधः।
श्रुत्वा चोलूकराजस्तमवतीर्य ददर्श सः॥७४॥
कस्त्वं किमवस्थोऽसीत्यपृच्छत्तं सविस्मयः।
ततः स चिरजीवी तं रुजेवाल्पस्वरोऽवदत्॥७५॥
चिरजीवीत्यहं तस्य सचिवो वायसप्रभोः।
स च दातुमवस्कन्दमच्छते मन्त्रिसम्मतम्॥७६॥
ततस्तन्मन्त्रिणोऽन्यांस्तान्निर्भर्त्स्याहं समब्रवम्।
यदि पृच्छसि मां मन्त्रं यदि चाहं मतस्तव॥७७॥
तन्न कार्यो बलवता कौशिकेन्द्रेण विग्रहः।
कार्यस्त्वनुनयस्तस्य नीतिं चेदनुमन्यसे॥७८॥
श्रुत्वैतच्छत्रुपक्षोऽयमिति क्रोधात्प्रहृत्य मे।
स काकः स्वैः समं मित्रैर्मूर्खोऽवस्थामिमां व्यधात्॥७९॥
क्षिप्त्वा च मां तरुतले क्वापि सानुचरो गतः।
इत्युक्त्वा चिरजीवी स श्वसन्नासीदधोमुखः॥८०॥
उलूकराजश्च ततः स पप्रच्छ स्वमन्त्रिणः।
किमेतस्य विधातव्यमस्माभिश्चिरजीविनः॥८१॥
तच्छ्रुत्वा दीप्तनयनो नाम मन्त्री जगाद तम्।
अवध्यो रक्ष्यते चोरोऽप्युपकारीति सज्जनैः॥८२॥
वृद्धवणिक्चौरस्य च कथा
तथाहि पूर्वं क्वाप्यासीद् वणिक्कोऽपि स कामपि।
वृद्धोऽप्यर्थप्रभावेण परिणिन्ये वणिज्सुताम्॥८३॥
सा तस्य शयने नित्यं जरात्तोऽभूत् पराङ्मुखी।
व्यतीतपुष्पकालेऽत्र भ्रमरीव तरोर्वने॥८४॥
एकदा चाविशच्चोरो निधिं सम्भ्यासयोस्तयोः।
तं दृष्ट्वा सा परावृत्य तमाश्लिष्यत् पतिं भयात्॥८५॥