Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 901 of 1079

Read in context
Page 901

८५२ कथासरित्सागर
तच्छ्रुत्वा काकराजं तं चिरजीवी जगाद सः।
वाग्दोषोज्झ्य श्रुता किं न गर्दभाख्यायिका त्वया ॥११८॥
केनापि रजकनस्य गर्दभः पुष्टये कृशः।
परसस्येषु मुक्तोऽभूदाच्छाद्य द्वीपिचर्मणा ॥११९॥
स तानि खादन् द्वीपीति जनैस्त्रासान्न वारितः।
एकेन ददृशे जातु कार्षिकेण धनुष्मता ॥१२०॥
स तं द्वीपीति मन्वानः कुब्जीभूय भयान्नतः।
कम्बलावेटिततनुर्गन्तुं प्रवृभूते सत्वरम् ॥१२१॥
तं च दृष्ट्वा पलायान्तं खरोऽयमिति चिन्तयन्।
खरस्तं स्वरस्तनोच्चैर्व्याहरत् सस्यपोषितः ॥१२२॥
तच्छ्रुत्वा गर्दभं मत्वा तमुपेत्य स कार्षिकः।
अवधीच्छरघातेन कृतवैरं स्वया गिरा ॥१२३॥
एवं वाग्दोषतोऽस्माकमुल्लूकैः सह वैरिना।
पूर्वं ह्यराजका आसन् कदाचिदपि पक्षिणः ॥१२४॥
ते सम्भूयारभन्ते स्म पक्षिराजाभिषेचनम्।
सर्वे कर्तुमूलूकस्य ढौकितच्छत्रचामरम् ॥१२५॥
तावच्च गगनायातस्तद्दृष्ट्वा वायसोऽब्रवीत्।
रे मूढाः सन्ति नो हंसकोकिलाद्या न किं खगाः ॥१२६॥
येन क्रूरबुधं पापमिममप्रियदर्शनम्।
अभिपिञ्चिथ राज्येऽस्मिन् धिगुलूकमङ्गलम् ॥१२७॥
राजा प्रभाववान् कार्यो यस्य नामैव सिद्धिकृत्।
तथा च शृणुतातैकां कथां वो वर्णयाम्यहम् ॥१२८॥
चतुर्दन्तगजस्य शशकानां च कथा
अस्ति चन्द्रसरो नाम महद् भूरिजलं सरः।
शिलीमुखाख्यस्तत्तीरेऽप्युवास शशकेश्वरः ॥१२९॥
तत्रावग्रहशुष्केऽन्यनिपाने गजयूथपः।
चतुर्दन्ताभिधानोऽम्भः पातुमागात् कदाचन ॥१३०॥
१ पञ्चतन्त्रे कथेयम्—'महतां व्यपदेशेन सिद्धिः सम्भाव्यते परा।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम्॥'—इत्येवं प्रारब्धा।