कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 893 of 1079
Read in context८४४ कथासरित्सागर
यदि सोऽपि न जातस्ते तत्तत्सर्वं किं करिष्यसि ।
इत्यवार्यत सा पापादार्यया बुद्धया तया ॥२९३॥
एवं पतन्त्यकार्येपु डाकिनीसङ्गताः स्त्रियः ।
वृद्धोपदेशेन तु ता रक्ष्यन्ते कृतयन्त्रणा ॥२९४॥
मूर्ख सेवक कथा
अयमामलकानेता देवेदानीं निशम्यताम् ।
कस्याप्यभूद् गृहस्थस्य भृत्यः कश्चन मुग्धधीः ॥२९५॥
समादिशद् गृहस्थस्तं भृत्यमामलकप्रियः ।
गन्धारामात् सुमधुराण्यामयामंलकानि मे ॥२९६॥
एकैकं दशनच्छेदेनास्वाद्यानीतवाञ्जडः ।
आस्वाद मधुराण्येता यानीतानीक्षतां प्रभुः ॥२९७॥
सोऽब्रवीत्सोऽपि तान्यक्ष्णोच्छिष्टान्यालोक्य कुत्सया ।
अहो गृहपतिस्तन मूर्खेनाबुद्धिना समम् ॥२९८॥
निष्प्रज्ञो नाशयत्येव प्रभोरर्थमथात्मनः ।
अन्तरा चात्र शृणुत भ्रातृद्वयकथामिमाम् ॥२९९॥
बन्धुद्वयस्य कथा
ब्राह्मणौ भ्रातारावास्तां पुरे पाटलिपुत्रके ।
यशःसोम इति ज्येष्ठ कीर्त्तिसोमोऽस्य चानुजः ॥३००॥
पित्र्यं चाभूद्धनं भूरि तयोर्ब्राह्मणपुत्रयोः ।
कीर्त्तिसोमो निजं भागं व्यवहारादवर्धयत् ॥३०१॥
यशःसोमस्तु भुञ्जानो ददच्चाप्यनयत्क्षयम् ।
तत' स निर्धनीभूतो निजां भार्यामभाषत ॥३०२॥
प्रिये धनाढ्यो भूत्वाहमिदानीं निर्धनः कथम् ।
वसामि मध्ये बन्धूनां सद्धिरेदं तथाऽवहम् ॥३०३॥
पाथेयेन विना कुत्र याव इत्युदिते तया ।
निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ॥३०४॥
अवश्यं यदि गन्तव्यं तद् गत्वा कीर्त्तिसोमतः ।
मृगयस्व धनं किञ्चित् पाथेयमनुजादिति ॥३०५॥
ततो गत्वानुजं यावत् पाथेयं तं स मार्गति ।
तावत्तदनुजः सोऽत्र जगदे भार्यया स्वया ॥३०६॥
स्थापितस्वधनायास्म द्वयं दद्मः कुतः कियत् ।
य एव हि दरिद्रः स्यात् स एवास्मान्भजिष्यति ॥३०७॥