Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 883 of 1079

Read in context
Page 883

ततश्चान्तर्हसन्तस्ते तूष्णीमासत मन्त्रिणः।
एव नोज्झति मूढोऽर्थान् यावदर्थे स नोज्झितः ॥२१८॥
मित्रयोः कथा
राजभीतौ धृतौ देव मध्ये मित्रद्वयं शृणु।
बभूव चन्द्रापीडाख्यः कान्यकुब्जे महीपतिः ॥२१९॥
तस्याभवच्च धवलमुखाख्यः कोऽपि सेवकः।
बहिर्भुक्त्वा च पीत्वा च सदैव प्राविशद् गृहम् ॥२२०॥
भुक्तपीतः कुतो नित्यमायासीति स भार्यया।
पृष्टः स जातु धवलमुखस्तामवमभ्यधात् ॥२२१॥
सुहृत्सादर्वाहं शश्वद् भुक्त्वा पीत्वा च सुन्दरि।
सदैवायामि येनास्ति लोक मित्रद्वयं मम ॥२२२॥
कल्याणवर्मनामको भोजनाद्युपकारकः।
द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकः ॥२२३॥
एव श्रुतैव धवलमुखोऽसौ भार्यया तया।
ऊचे मित्रद्वयं तन्मे भवता दर्श्यतामिति ॥२२४॥
ततो ययौ स तद्युक्तस्तस्य कल्याणवर्मणः।
गृहं सोऽपि महार्हैस्तमुपचारैरताधरत् ॥२२५॥
अन्येद्युः स ययौ वीरबाहोर्भार्यायुतोऽन्तिकम्।
स च धूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥२२६॥
ततोऽब्रवीत् सा धवलमुखं भार्या सकौतुका।
कल्याणवर्मा महतीं सत्क्रियामकरोत्तव ॥२२७॥
कृतं स्वागतमात्रं तु भवतो वीरबाहुना।
तदार्यपुत्र तं मित्रं मन्यसेऽभ्यधिकं कथम् ॥२२८॥
तच्छ्रुत्वा सोऽब्रवीद् गच्छ मिथ्या तौ ब्रूह्यसौ क्रमात् ।
राजा नः कुपितोऽकस्मात् ततो ज्ञास्यस्यथ स्वयम् ॥२२९॥
इत्युक्त्वा तेन गत्वैव सा तथैति तयैश्च तत्।
कल्याणवर्मणोऽबोधस्त श्रुत्वैव जगाद ताम् ॥२३० ॥
भद्रत्यहं वणिक्पुत्रो ब्रूहि राज्ञः करोमि किम्।
इत्युक्ता तेन सा प्राप्तावीरबाहोरप्यन्तिकम् ॥२३१॥
तस्मै तच्च शशंसद्राजकोपं स्वभर्तरि।
स युक्तैवाययौ धावन् गृहीत्वा खड्गचर्मणी ॥२३२॥