Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 881 of 1079

Read in context
Page 881

८१२ कथासरित्सागर
इति कर्मकरी सा तमवोचत् तत्पतिं यथा।
तत्तव प्रतिपेदे तत्सर्वं मूर्खशिरोमणिः ॥२०२॥
वञ्च्यन्ते हृदयैरेव कुस्त्रीभिः सरलाशयाः।
धूतोऽन्यिन्मुग्धचण्डालकन्यका श्रूयतां त्वया ॥२ ३॥
चण्डालकन्यका कथा
अभूद्रूपवती कापि मुग्धा चण्डालकन्यका।
सार्वभौमवरप्राप्तौ सङ्कल्पं हृदि साकरोत् ॥२०४॥
सा मातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम्।
सर्वोत्तमं भर्तृबुद्धेरनुयातुं प्रचक्रमे ॥२०५॥
तावदागात् पथा तेन मुनिस्तस्य प्रणम्य सः।
पादौ गजावरूढः सन् राजा स्वभवनं ययौ ॥२ ६॥
तद्दृष्ट्वा राजतोऽप्येनं विचिन्त्य मुनिमुत्तमम्।
चण्डालकन्या राजानं त्यक्त्वा सा मुनिमन्वगात् ॥२०७॥
मुनिः सोऽपि व्रजन् दृष्ट्वा शून्यमग्रे शिवालयम्।
न्यस्तजानुः क्षितौ तत्र शिवं मत्वा ययौ ततः ॥२०८॥
तद्वीक्ष्य सान्त्यजा मत्वा मुनेरप्युत्तमं शिवम्।
भर्तृबुद्ध्या मुनिं त्यक्त्वा बंव तत्रव स्थियिये ॥२ ९॥
क्षणाच्चात्र प्रविश्य श्वा देवस्याहृत्य पीठिकाम्।
जङ्घामुत्क्षिप्य जातोत्सर्गस्तस्य तद्व्यधात् ॥२१ ॥
तद्विलोक्यान्त्यजा गत्वा देवान्छ्वानं समुत्तमम्।
यान्तं तमेवान्वगात् सा त्यक्त्वा देवं प्रतीच्छ्या ॥२११॥
श्वा चागत्यथ चण्डालगृहं परिचितस्य सः।
चण्डालसूनोः प्रणयाल्लुलोठक्रमयोः पादयोः ॥२१२॥
तवालोक्योत्तमं मत्वा शुनश्चाण्डालपुत्रकम्।
स्वजातितुष्टा वव्रे सा तमेव पतिमन्त्यजा ॥२१३॥
एवं कृतपदा दूरे पतन्ति स्वपदे जडाः।
एव च मूर्खं राजानं सक्षेपमपरं शृणु ॥२१४॥
कृपणस्य राज्ञः कथा
मूर्खः कश्चिद्भूदाजा कृपणः कोपवानपि।
एकदा जगदुस्त्वैव मन्त्रिणस्तं हितैषिणः ॥२१५॥
दानं हरति देहह दुर्गति पारलौकिकीम्।
तद्देहि दानमायूंषि भङ्गुराणि धनानि च ॥२१६॥
सञ्छ्रवा स नृपोऽवादीत् दानं दास्याम्यहं तदा।
दुर्गतिं प्राप्स्यात्मानं मृतो द्रक्ष्यामि चेन्निति ॥२१७॥